भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 160

160.1

अथासां हृदयानि भवन्ति ।
ओं वज्ररत्नहृदयाभिषिञ्च होः ॥
ओं वज्ररत्नाभिषेक त्रः ॥
ओं वज्ररत्नज्ञानाभिषिञ्च वं ॥
ओं वज्ररत्नोष्णीषाधीतिष्ठस्व मां ॥
पटादिषु समालिख्य वज्ररत्नं स्वमात्मना ।
भावयंस्तु महामुद्रां महाराजा भवेत्स तु

160.2

पटादिषु समालिख्य [वज्ररत्न] मनुत्तरं ।
भावयेत्सत्ववज्रां तु समयानां भवेत्पतिः

160.3

पटादिषु समालिख्य वज्ररत्नं स्वमात्मना ।
भावयं ध्यानमुद्रां तु भवे[द्धर्मपतिर्ध्रुवं]

160.4

पटादिषु समालिख्य वज्ररत्नमनुत्तरं ।
भावयेत्कर्ममुद्रां तु भवेत्कर्माधिपः स्वयम् ॥ इति ॥

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc