भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 159

159.1

तत्रैषां हृदयानि भवन्ति ।
महावज्ररत्नाभिषिञ्च मां ॥
समयरत्नाभिषिञ्च मां ॥
धर्मरत्नाभिषिञ्च मां ॥
कर्मरत्नाभिषिञ्च माम् ॥
वज्ररत्नं तु हृदये महामुद्रां तु भावयेत् ।
भावयन्नभिषेकं तु प्राप्नोति परमाद्भुतं

159.2

वज्ररत्नं ललाटे तु भावयं सुसमाहितः ।
बध्वा वै रत्नवज्रान्तु भवेद्राजा तु सर्वतः

159.3

वज्ररत्नं तु जिव्हायां वज्ररत्नसमाधिना ।
भावयन्नभिषेकं प्राप्नुयाद्धर्मराज्यतां

159.4

वज्ररत्नं स्वमुष्णीषे भावयं सुसमाहितः ।
बध्वा वै कर्ममुद्रां तु भवेद्राजा सुकर्मकृद् ॥ इति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc