भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 158

158.1

अथासां मुद्रा भवन्ति ।
ओं रत्नवृष्टि साधय महामणि हूं ॥
ओं महापूजासमये नृत्य अः ॥
ओं मणिरत्नसमयरक्षे हं ॥
ओं वज्रमणिरत्न द्रंष्ट्राकराले हर हर हूं ॥
ओं मणिसमयमुष्टि हूं ॥
इनितिअतिओन् इन्तो थे मन्दल
अथात्र मणिगुह्यमण्डले यथावत्कर्म कृत्वा, शिष्यां प्रवेय, ब्रूयात् । "न त्वया कस्यचिदयं नयो वक्तव्यः । मा ते महादारि द्यमकालक्रिया नरकपतनं स्याद्" , इत्युक्त्वा स्वमणिसमयज्ञानान्युत्पादयेत् ।
मुद्र
वज्ररत्नं नभे लिख्य वज्ररत्नसमाधिना ।
आत्मनस्तु ललाटे वै स्थाप्य राजा भवेद्ध्रुवं

158.2

वज्ररत्नं समालिख्य समयाग्रीन्तु बन्धयेत् ।
स्थाप्याभिषेकस्थानेषु राज्यत्वं भवते ध्रुवं

158.3

वज्ररत्नं समालिख्य वज्ररत्नसमाधिना ।
तज्ज्ञानरत्नं संस्थाप्य भवेद्राजा स्वयंकृतः

158.4

वज्ररत्नं नभे लिख्य कर्ममुद्रां तु बन्धयेत् ।
स्वस्थाने तत्प्रतिष्ठाप्य भवेद्राजा स्वयं कृत ॥ इति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc