ग्रंथ पाठ
सर्वतथागततत्त्वसंग्रह · अध्याय 154
154.1
पर्यङ्कस्थं मणिं पूर्व वज्रधातोः पुरो लिखेत् ।
मणिमालां मणीं पद्मे मणिं मणिपरीवृत्तं ॥
तत्रासां मुद्रा भवन्ति ।
ओं त्रः ॥
ओं मणिसमये हूं ॥
ओं मणिरत्नाभिषेकमाले हूं ॥
ओं मणिरत्नपद्मि हूं ॥
ओं मणिरत्नवृष्टिसमये हूं ॥
वज्रवेगेन निष्क्रम्य सर्वसिद्धेस्तु मण्डले ।
वज्ररत्नस्य मध्ये तु महारत्नमणिं लिखेत्
154.2
तस्य पार्श्वषु सर्वेषु स्वमुद्रामणिसंयुता ।
यथावदनुपूर्वेण रत्नाचार्यः समालिखेत्
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0