भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 150

150.1

तत्रैषां हृदयानि भवन्ति ।
ओं महारत्न परीक्षाविश ॥
ओं रत्नसमय दृढ दर्शय ॥
ओं रत्नपरीक्षा ज्ञानाविश ॥
ओं मणिकर्म भ्रामय ॥
ततो मणिरहस्यमुद्राज्ञानं शिक्षयेत् ॥
द्वयेन्द्रियसमापत्त्या निधानं परिमार्गयेत् ।
भावयंस्तु महामुद्रां समावेशान्निधिं लभेत्

150.2

बध्वा तु समयाग्रीन् वै रामयंस्तु स्त्रियन्तथा ।
यत्र मुद्रा दृढीभूयान्निधिन्तत्र विनिर्दिशेत्

150.3

द्वयेन्द्रियसमापत्त्या निधानं परिमार्गयेत् ।
भावयन् ज्ञानमुद्रां तु निधिज्ञानं प्रवर्तते

150.4

बध्वा तु कर्ममुद्रां वै द्वयेन्द्रियसमाधितः ।
स्फुटेद्यत्र तु सा मुद्रा निधिन्तत्र विनिर्दिशेद् ॥ इति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc