सर्वतथागततत्त्वसंग्रह · अध्याय 149
तत्रैषां हृदयानि भवन्ति ।
ओं निधिज्ञानाविश ॥
ओं रत्नसमय मुञ्च निधि बन्धान् ॥
ओं धर्मरत्न ब्रूहि निधानं ॥
ओं सर्वकर्माणि स्फोटय दर्शय निधि बन्धोत्क्षिप ॥
महामुद्रां तु सन्धाय निधानं परिमार्गयेत् ।
यत्रस्थस्य समावेशो भवेत्तत्र विनिर्दिशेत्
बध्वा समयाग्रीन् वै निधिं तु परिमार्गयेत् ।
यत्रस्थो दृढतां यायान्निधिन्तत्र विनिर्दिशेत्
समाधिमुद्रां सन्धाय निधानं परिमार्गयेत् ।
यत्रस्थो ज्ञानवान् भूयान्निधिन्तत्र विनिर्दिशेत्
बध्वा कर्ममयीं मुद्रां निधिं तु परिमार्गयेत् ।
यत्रस्थः कर्ममुद्रां तु भ्रामयेत् तत्र निर्दिशेत्
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0