भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 148

148.1

तत्रैषां हृदयानि भवन्ति ॥
ओं महारत्नकाय दर्शय रत्नं ॥
ओं आकाशगर्भ मणिरत्न स्फुट स्फुट यत्र निधिः ॥
ओं मणिरत्नज्ञान स्वयं ब्रूहि ॥
ओं पुनः समय बन्ध दर्शयस्व ॥
बध्वा तु वै महामुद्रां यत्राशङ्का भवेत्तथा ।
तत्र ज्ञानेन विज्ञेयं निधानं रत्नसंभवं

148.2

यत्र शङ्का भवेत्तत्र समयाग्रीन्तु बन्धयेत् ।
यदा मोक्षं स्वयं यायान्निधिन्तत्र विनिर्दिशेत्

148.3

समाधिमुद्रां बध्वा वै शङ्का यत्र भवेद्ध्रुवा ।
ज्ञानमुत्पाद्य विज्ञेयं निधिस्तत्रास्ति शाश्वतः

148.4

यत्र भूयो भवेच्छङ्का कर्ममुद्रां तु तत्र वै ।
बध्नीयाद् विधिवत्तां तु स्फुटेज्ज्ञेयो निधिः पुनः

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc