सर्वतथागततत्त्वसंग्रह · अध्याय 147
तत्रैषां हृदयानि भवन्ति ।
ओं महामणिरत्नाविश हूं ॥
ओं मणिपीड दर्शय ॥
ओं रत्नसमाधि ब्रूहि ॥
ओं रत्नावेश दर्शय ॥
महामुद्रां समाधाय यत्र कायं तु वेष्टयेत् ।
तत्र रत्ननिधानं तु ज्ञातव्यं समयात्मभिः
बध्वा तु समयाग्रीम् वै यत्राविश्य परिस्फुटेत् ।
निधानन्तत्र विज्ञेयं महारत्नमयं भवेएत्
समाधिमुद्रां बध्वा वै यद्याविश्य स्वयं पुनः ।
ब्रूयाद्यत्र निधानं तु महारत्नमयं भवेत्
कर्ममुद्रां तु बध्वा वै यदाविश्य परम्परं ।
हस्तौ बन्धे तु समयान्निधिन्तत्र विनिर्देशेद् ॥ इति
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0