सर्वतथागततत्त्वसंग्रह · अध्याय 146
तत्रैषां हृदयानि भवन्ति ।
ओं रत्नवृष्टि वर्षय सर्वार्थसंपदो भगवन् मणिहस्त हूं ॥
ओं मणिपूजा समय हूं ॥
ओं मणिबन्ध कवच हूं ॥
ओं मणिदंष्ट्राकराल महायक्ष हर हर सर्वार्थान् भीषापय हूं ॥
ओं मणिरत्न बन्ध समय हूं ॥
वज्रवेगेन चाक्रम्य कोणभागेषु सर्वतः ।
रत्नलास्यादयो लेख्या यथावदनुपूर्वशः ॥
तत्रासां मुद्रा भवन्ति ।
ओं रत्नरति हूं ॥
ओं रत्नमाले हूं ॥
ओं रत्नगीते हूं ॥
ओं रत्ननृत्ये हूं ॥
वज्रवेगेन निःक्रम्य बाह्यमण्डलमुत्तमं ।
बाह्यमण्डलकोणेषु धूपपूजादयो लिखेत् ॥
तत्रासां मुद्रा भवन्ति ।
ओं धूपरत्ने ॥
ओं पुष्पमणि ॥
ओं रत्नालोके ॥
ओं मणिगन्धे ॥
द्वारपालास्तु कर्तव्या द्वारमध्यचतुष्टये ।
अतः परं प्रवक्ष्यामि मण्डले विधिविस्तरं ॥
अथात्र हृदयानि भवन्ति ।
ओं सर्वरत्नाकर्ष आर्यारुण महासत्व भगवन्तं आकाशगर्भ चोदयाकर्षय शीघ्रं होः जः ॥
ओं सर्वरत्नप्रवेशसमय प्रवेशय समयान् महामणिराजकुलं रत्नपाश हूं ॥
ओं मणिबन्ध हूं वं ॥
ओं मणिरत्नावेश अः ॥
इनितिअतिओन् इन्तो थे मन्दल
अथात्र महामण्डले स्वयं मणिरत्नाचार्यो यथावत् प्रविश्य, विधिविस्तरमात्मनः कृत्वा, ततो रत्नाधिष्ठितकलशोदकेन मणिशिष्यानभिषिच्य, वज्रमणिसमयमुद्रां बन्धयेदनेन हृदयेन ओं वज्रमणि समय वं ॥
ततो यथावर्णप्राप्तितया वस्त्रमुत्तरासङ्गं कृत्वा, तादृशेनैवाक्षिणी बध्वा, प्रवेशयेदनेन हृदयेन ओं हूं मणिराजकुलं ॥
ततः प्रवेश्य वक्तव्यं "न त्वयेदं कस्यचिद् वक्तव्यं; माते सर्वजन्मसु दारिद्र्यदुःखान्मोक्षे न भवेन्, नरकवासश्च दृढो भवेद्" इत्युक्त्वा, समयं स्फोटयेत्; महायानाभिसमयं चोच्चारयेत् ।
ततः समाविष्टस्य वज्रवाचा परिपृच्छेत् । "कुत्र महानिधिरस्ति? । कथं वा प्राप्यते ।"
ततो भगवानाकाशगर्भो बोधिसत्वः सर्वं जल्पापयतीत्य; उक्तमात्रे मुखबन्धं मुक्त्वा, महामण्डलं दर्शयेत्, सर्वतथागताभिषेकसमयं चोदाहरेत्, यावद् भगवांस्तथागतस्तु गत इति । ततो यथाविभवतः पूजान् कृत्वा, सर्वकार्याणि साधयेदिति ।
मुद्र
अथात्र ज्ञानमुद्रा भवन्ति ।
वज्रगर्भमहामुद्रां बध्वा तु सुसमाहितः ।
निधानं खनते यत्र निधानं तत्र पश्यति
बध्वा तु समयाग्रीम् वै निधानं यत्र विद्यते ।
पीडयेत् तत्र तां मुद्रां स्वयमुत्तिष्ठते तदा
वज्रगर्भसमाधिन्तु भावयन् सुसमाहितः ।
मनसा चैव जानाति निधानं यत्र तिष्ठति
बध्वा कर्ममयीं मुद्रां वज्रगर्भसमाधिना ।
तां मुद्रमाविशेद्यत्र निधानं तत्र लक्षयेत्
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0