भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 145

145.1

तत्रैषां हृदयानि भवन्ति ॥
ओं रत्नपद्म हूं ॥
ओं [त्यागसमाधिज्ञान]गर्भ हूं ॥
ओं रत्नकोशाग्र्य हूं ॥
ओं मणिचक्र प्रवर्तय हूं ॥
ओं रत्नभाष हूं ॥
वज्रवेगेन चाक्रम्य रत्नवृष्टेस्तु मण्डलं ।
तत्र लेख्यं महासत्वं र[त्नवृष्टिं प्रवर्ष]यन्

145.2

तस्य पार्श्वेषु सर्वेषु महासत्वान् यथाविधि ।
रत्नचिन्हसमोपेतान् मुद्राहस्तान् समासतः

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc