भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 144

144.1

तत्रैषां हृदयानि भवन्ति ।
ओं रत्नदृष्टि त्रः ॥
ओं सर्वतथागताभिषेकरत्नमाल हूं ॥
ओं मणिसूर्य हूं ॥
ओं चिन्तामणिध्वज सर्वाशाप्रपूरकाकाशगर्भ हूं ॥
ओं रत्नाट्टहास हस ह ह हूं ॥
वज्रवेगेन चाक्रम्य रत्नपद्मस्य मण्डलं ।
तत्रस्थं तु समालेख्यं रत्नपद्मधरं विभुं

144.2

तस्य पार्श्वेषु सर्वेषु महासत्वान् समालिखेत् ।
मणिचिन्हान् समासेन यथावदनुपूर्वशः

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc