ग्रंथ पाठ
सर्वतथागततत्त्वसंग्रह · अध्याय 143
143.1
अथैषां हृदयानि भवन्ति ।
ओं सर्वार्थसिद्धिप्रद हूं ॥
ओं वज्रमणिचिन्हाकाशगर्भ भगवन् सिध्य सिध्य हूं ॥
ओं रत्नाङ्कुशाकर्षय सर्वार्थानानय शीघ्रं सर्वतथागतसत्यमनुस्मर हूं ॥
ओं मणिराग वशीकुरु सर्वार्थनानयाकाशगर्भ हूं ॥
ओं रत्नतुष्टि हूं ॥
वज्रवेगेन चाक्रम्य रत्नामालस्य मण्डलं ।
तत्र मध्ये लिखेत् सम्यग्रत्नमालाधरं परं
143.2
तस्य पार्श्वेषु सर्वेषु यथावदनुपूर्वशः ।
महासत्वाः समालेख्या मणिचिन्हाग्रपाणयः
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0