सर्वतथागततत्त्वसंग्रह · अध्याय 138
इनितिअतिओन् इन्तो थे मन्दल
अथात्र महामण्डले आकर्षणादिविधिविस्तरङ्कृत्वा, यथावत् प्रवेश्यैवं ब्रूयात् "न त्वयेदं कस्यचिद् वक्तव्यं; मा ते महादुःखं [भवेद्, अकाल]मरणं विषमक्रियये" ति ।
ज्नन
ततो ज्ञानान्युत्पादयेत् ।
पद्मं हस्तेन वै गृह्य समाजिघ्रन् प्रयत्नतः ।
तेन गन्धेन संयोज्य बुद्धानां तु प्रसिध्य[ति]
बुद्धबिम्बं जटामध्ये प्रतिष्ठाप्य समाहितः ।
सर्वलोकं वशंकुर्याद् दर्शयन् गर्वया व्रजन्
पद्मपद्ममहाबिम्बं कारयित्वा समाधिना ।
उपविश्य यथापायं मनसा स तु मारयेत्
चतुर्मुखं तु वै पद्मं कारयित्वा करेण तु ।
संगृह्यावेशनादिनि भ्रामयन् प्रकरोति सः
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0