सर्वतथागततत्त्वसंग्रह · अध्याय 137
अथासां] हृदयानि भवन्ति ।
ओं सर्वबुद्धपूजाप्रवर्तन पद्म ॥
ओं प्रीतिकर पद्म होः ॥
ओं रतिप्रवर्तन पद्म ॥
ओं महासुख पद्म दृढ हन् ॥
[ततः कर्ममहामुद्रां] यथावच्छिक्षयेत् । ततः सुकुड्मलाञ्जलिं समयमुद्रां वज्रकार्यं मण्डलयोगेन सर्वस्थानेषु स्थापयेत् ।
ततः पद्मकुल[कर्ममुद्रा त्र इति] वक्तव्याः ।
कर्मसमयां द्विधीकृत्य कर्ममुद्राः स साधयेदिति ॥
सर्वतथागतधर्मसमयान् महाकल्पराजात् कर्ममण्डल[विधिविस्तरः समाप्तः] ॥
छप्तेर् 18ब् एपिलोगुए ओf थे सर्व-तथगत-धर्म-समय नम मह-कल्प-रज
अथ भगवान् पुनरपि वज्रधर्मसमयमुद्राधिष्ठानं नाम समाधिं समापद्येमां स्वमुद्राहृदय[मभाषत् ओं वज्र]धर्मपद्म हूं ॥
अथवज्रपाणिरियं स्वमुद्राहृदयमभाषत् अथ वज्र जीः ॥
अथ वज्रगर्भो बोधिसत्व इमां स्व[मुद्रामभाषत् ओं वज्ररत्न]मुकुटे हूं ॥
अथ वज्रनेत्रो बोधिसत्व इमां स्वमुद्रामभाषत् ओं धर्मपद्मि धीः ॥
अथ वज्रविश्वो बोधि[सत्व इमां स्वमुद्रामभाषत् ओं सर्व]मुखि हूं ॥
देलिनेअतिओन् ओf थे मन्दल
अथार्यावलोकितेश्वरो बोधिसत्वो महासत्व इदं चतुर्मुद्रामण्डलमभाषत् । [अथातः संप्रवक्ष्यामि] चतुर्मुद्राग्रमण्डलं ।
वज्रधातुप्रतीकाशं महामण्डलसन्निभं
मुद्रामण्डलमध्ये तु बुद्धबिम्बं निवेशयेत् ।
तस्य पार्श्वेषु सर्वेषु [वज्रपद्मादिं वै लिखे]त्
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0