सर्वतथागततत्त्वसंग्रह · अध्याय 136
कर्ममुद्रां समाधाय महापद्ममयीं [शुभां ।
सिः] सिः सिः सी-ति सन्धाय पद्मसिद्धिमवाप्नुते- ॥ ति ॥
अथासां हृदयानि भवन्ति ।
ओं ह्रिः सिध्य ॥
ओं श्रीः सिध्य ॥
ओं धिक् सिध्य ॥
ओं [सिः सिध्य ॥]
मुद्र
ततः कर्मरहस्यमुद्राज्ञानं भवति ।
लोकेश्वरसमापत्त्या रमयन् सर्वयोषितः ।
अहो सुख इति प्रोक्ते सर्वबुद्धान् स पूजयेत्
लोकेश्वरसमापत्त्या रमयन्सर्वयोषितः ।
प्रिये प्रिये-ति वै प्रोके बुद्धानां भवति प्रियः
लोकेश्वरसमापत्त्या रमयन् सर्वयोषितः ।
[अहो रति-ति वै प्रोक्ते नित्यं रतिं स प्राप्नुते
लोकेश्वरसमापत्त्या रमयन् सर्वयोषितः ।
सुख सुख इति प्रोक्ते तस्य सुखं न नश्यत ॥ इति
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0