सर्वतथागततत्त्वसंग्रह · अध्याय 135
तत्रासां हृदयानि भवन्ति ।
ओं ओंकार महापद्म ॥
ओं भूक्कार समयपद्म ॥
ओं हेक्कार धर्मपद्म ॥
ओं धेक्कार कर्मपद्म ॥
ततः सिद्धिज्ञानं शिक्षयेत् ।
लोकेश्वरमहामुद्रां बध्वा तु सुसमा[हितः ।
ह्री ह्री ह्री ह्री-]ति वर्तेत सिद्धिन् लोकेश्वरी भवेत्
बध्वा वै समयाग्रीन्तु लोकेश्वरसमाधिना ।
श्री श्री श्री श्री-ति सन्धाय प्राप्नुयात्सिद्धिमुत्तमां
लोकेश्वरसमापत्तिं भावयन् सुसमाहितः ।
धिक् धिक् धिक् धिगिति प्रोक्ते पद्मक्रोधस्तु सिध्यति
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0