सर्वतथागततत्त्वसंग्रह · अध्याय 134
तत्रैषां हृदयानि भवन्ति ।
ओं पाप क्षपय पद्म ॥
ओं आवरण क्षपय पद्म ॥
ओं नीवरण क्षपय पद्म ॥
ओं कर्म क्षपय पद्म ॥
ततः सर्वतथागतपूजाज्ञानं शिक्षयेत् ।
लोकेश्वरमहामुद्रां बध्वा तु सुसमाहितः ।
ओं ओं ओं ओमिति ब्रुयात्सर्वपूजाप्रवर्तनन्
बध्वा वै समयाग्रन्तु लोकेश्वरसमाधिना ।
भूर्भूर्भूर्भूरिति प्रोक्तो सर्वबुद्धान् स पूजयेत्
लोकेश्वरसमापत्त्या धर्मपद्मं तु भावयेत् ।
हे हे हे हे-ति सन्धाय सर्वबुद्धान् स पूजयेत्
पद्मकर्ममयीम्मुद्रां बध्वा गाढं समाहितः ।
धे धे धे धे-ति प्रोच्यन् सर्वबुद्धान् स पूजयेद् ॥ इति
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0