सर्वतथागततत्त्वसंग्रह · अध्याय 130
तत्रैषां हृदयानि भवन्ति ॥
ओं महापद्म होः ॥
ओं समयपद्म होः ॥
ओं ज्ञानपद्म होः ॥
ओं कर्मपद्म होः ॥
मुद्र
ततो ज्ञानमण्डलमहामुद्राज्ञानं शिक्षयेत् ।
धर्ममण्डलयोगेन महामुद्रास्तु साधयेत् ।
अतः परं संप्रवक्ष्यामि समयाग्र्यः प्रसाधयेत् ॥
धर्ममण्डलयोगेन पद्मपद्मं तु संस्थपेत् ।
धर्ममुष्टि द्विधीकृत्य कर्ममुद्रा द्विधीकृता ॥ इति ॥
सर्वतथागतधर्मसमयान्महाकल्पराजाज्ज्ञानमण्डलविधिविस्तरः परिसमाप्तः ॥
छप्तेर् 18अ कर्म-मन्दल-विधि-विस्तर
अथ भगवान् पुनरपि सर्वतथागतधर्मकर्मसमयसंभवाधिष्ठानपद्मं नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ओं सर्वतथागतकर्माग्र हूं ॥
अथ वज्रपाणिरिमां स्वकुलकर्मसंभवां स्वविद्योत्तमामभाषत् ओं हूं धीः ॥
अथ वज्रगर्भो बोधिसत्व इमां स्वविद्योत्तमामभाषत् ओं रत्नकर्मसमये हूं ॥
अथ वज्रनेत्रो बोधिसत्व इमां स्वविद्योत्तमामभाषत् ओं पद्मकर्मि हूं ॥
अथ वज्रविश्वो बोधिसत्व इमां स्वविद्योत्तमामभाषत् ओं विश्वकर्मि हूं ॥
अथार्यावलोकितेश्वरो बोधिसत्वो महासत्व इदं स्वकर्ममण्डलमभाषत् ।
अथातः संप्रवक्ष्यामि कर्ममण्डलमुत्तमं ।
वज्रधातुप्रतीकाशं पद्मकर्ममिति [स्मृतं]
महामण्डलयोगेन सूत्रयेत्सर्वमण्डलं ।
बुद्धस्य सर्वतः सर्वाः पद्मचिन्हधरा लिखेद् ॥ इति
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0