भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 129

129.1

तत्रैषां हृदयानि भवन्ति ।
ओं पद्मधर विश्वरूपप्रवर्तकाविश ॥
ओं विश्वपद्म प्रवर्तय मां ॥
ओं समाधिविश्वपद्माविश ॥
ओं विश्वपद्मासनोत्क्षिपाकाशं विश्वरूपमधितिष्ठ मां ॥
बध्वा चैकवरां सम्यक् महामुद्रां समाधितः ।
पद्मं गुह्य प्रदातव्यं वशी[करो ऽवश्यं भवेत्]

129.2

बध्वा चैकवरां सम्यग्[मुद्रां] समयसंज्ञितां ॥
तया गृह्य तु वै पद्मं दद्याद् वश्यकरो भवेत्

129.3

बध्वा चकतमां मुद्रां समाधिविहितां शुभां ।
ज्ञानपद्मं ददेद्यस्य सो ऽस्य शीघं वशीभवेत्

129.4

बध्वा चैकतमां मुद्रां कर्माख्यां समयान्वितः ।
यस्य दद्यात् [स सुवशीः] पद्मदानात्क्षणाद् भवेद् ॥इति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc