सर्वतथागततत्त्वसंग्रह · अध्याय 128
तत्रैषां हृदयानि भवन्ति ।
ओं पद्माकाश ॥
ओं पद्मरथ ॥
ओं पद्मज्ञान गृह्ण ॥
ओं पद्मरसायन ॥
विचित्रवर्णसंस्थानं पद्मबिम्बं तु पाणिना ।
गृह्य बध्वा महामुद्रां सर्वरूपधरो भवेत्
विचित्रवर्णसंस्थानं पद्मबिम्बं तु लेखयेत् ।
तत्र भावयमानस्तु बहुरूपधरो भवेत्
विचित्रवर्णसंस्थानं पद्मबिम्बं [तु भा]वयेत् ।
आकाशे वान्यदेशे वा च्छब्दरूपी भविष्यति
विचित्रवर्णसंस्थानं पद्मबिम्बं घटापयेत् ।
तत्रारूढस्तु खेगामी कामरूपी भवेद्ध्रुवम् ॥ इति
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0