भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 127

127.1

तत्रैषां हृदयानि भवन्ति ।
ओं पद्मज्ञानहृदयाविश ॥
ओं पद्मज्ञानाभिषेकाविश ॥
ओं पद्मज्ञानविद्योत्तमाविश ॥
ओं पद्मज्ञानोष्णीषाविश ॥
आकाशे वान्यदेशे व पद्मबिम्बं तु भावयेत् ।
अनेन विधिना सिद्धो अदृश्यो भवति क्षणात्

127.2

आकाशे वान्यदेशे वा पद्मबिम्बं तु भावयेत् ।
तत्रारूढः स्वमात्मानं भावयन्नदृश्यो भवेत्

127.3

आकाशे वान्यदेशे वा पद्मबिम्बं तु भावयेत् ।
यदा पश्येत्तदा गृह्णाच्छीघ्रम् [अदृश्यो भवति]

127.4

आकाशे वान्यदेशे वा पद्मबिम्बं तु भावयेत् ।
दृष्ट्वा तु भुक्ष्वा तत्पद्ममदृश्यो भवति क्षणाद् ॥ इति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc