सर्वतथागततत्त्वसंग्रह · अध्याय 126
इनितिअतिओन् इन्तो थे मन्दल
अथात्र पद्मधर्ममण्डले आकर्षणादिविधिविस्तरंकृत्वा, यथावत् प्रवेश्यैवं वदेत् "न त्वयान्यस्य वक्तव्यं; मा ते नरकं पतनं भवेत्, दुःखानि वे-" ति ।
ज्नन
ततो ऽस्य ज्ञानान्युत्पादयेत् ।
लोकेश्वरसमापत्त्या हृदि पद्मं तु भावयेत् ।
प्राप्तपद्मसमाधिस्तु शीघ्रमुत्पतति क्षणात्
लोकेश्वरसमापत्त्या ललाटे पद्मभावनात् ।
अभ्यसन् सुदृढीभूतः खेगामी भवते क्षणात्
जिव्हायां भावयन् पद्मं लोकेश्वरसमाधिना ।
संसिद्धो भवते शीघ्रमाकाशेन स गच्छति
भावयेत्पद्ममुष्णीषे लोकेश्वरसमाधिना ।
संसिद्धो भवते शीघ्रमूर्ध्वमुत्पतति क्षणात्
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0