भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 121

121.1

तत्रैषां हृदयानि भवन्ति ।
ओं विश्वेश्वर महापद्म होः ॥
ओं समयपद्म होः ॥
ओं योगपद्म होः ॥
ओं कर्मपद्म होः ॥
अथाभिचारज्ञानं भवति ।
विश्वेश्वरमहामुद्रां भावयन् आत्मना ।
च्छिन्देद्यस्य पुरःपद्मं तस्य मृत्युः क्षणाद्भवेत्

121.2

पद्मं गृह्य दृढं सम्यक् समयाग्र्या तयैव हि ।
स्फोटयेत् तन्तु सुदृढं यस्य नाम्ना स नश्यति

121.3

समाधिमुद्रां सन्धाय पद्मं गुह्य यथा तथा ।
यस्य नाम्ना तु पद्मं वै च्छिन्देत्स तु विनश्यति

121.4

कर्ममुद्राप्रयोगेण पद्मं गृह्य यथाविधि ।
स्फोटयेद्यस्य संक्रुद्धः स्फुटेत्तस्य तु जीवितम् ॥ इति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc