सर्वतथागततत्त्वसंग्रह · अध्याय 120
तत्रैषां हृदयानि भवन्ति ।
ओं पद्महिरण्यप्रद हुं ज्जः ॥
ओं पद्मसुवर्णप्रद हुं ज्जः ॥
ओं पद्ममुक्ताप्रद हुं ज्जः ॥
ओं पद्मसर्वरत्नप्रद हुं ज्जः ॥
अथानुरागणज्ञानं भवति ।
विश्वेश्वरमहामुद्रां भावयन् स्वयमात्मना ।
पद्मं गृह्य पुरः स्थाति यस्य सो ऽस्यानुरज्यति
रक्तपद्मं दृढं गृह्य महासमयमुद्रया ।
भावयन् स्वयमात्मानं रागयेत्सर्वयोषितः
भावयेत्स्वयमात्मानं पद्मं गुह्य यथा तथा ।
निरीक्षेद् वज्रदृष्ट्या वै सर्वलोकं स रागयेत्
कर्ममुद्राप्रयोगेण पद्मं गृह्य यथाविधि ।
कराभ्यां भ्रामयन् तन्तु रागयेत् सर्वयोषित ॥ इति
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0