सर्वतथागततत्त्वसंग्रह · अध्याय 119
इति ॥
अथैषां हृदयानि भवन्ति ।
ओं पद्मसत्वो ऽहं सिध्य होः ॥
ओं बुद्धाभिषेको ऽहं सिध्य मां ॥
ओं धर्मसमाधिरहं सिध्य होः ॥
ओं अमोघेश्वरो ऽहं सिध्य मां ॥
ततो ऽर्थनिष्पत्तिज्ञानं भवति ।
हिरण्यं तु मुखे विध्वा भावयेत्स्वयमात्मना ।
विश्वेश्वरमहामुद्रामेकं भूयात्सहस्रशः
सुवर्णतोलकं गृह्य समयाग्र्या महादृढं ।
भाव[यन् स्व]यमात्मानमेको भूयात्सहस्रशः
मुक्ताफलं मुखे विध्वा भावयेत्स्वयमात्मना ।
लोकेश्वरं स्वमात्मानमेको भूयात्सहस्रशः
सर्वरत्नानि संगृह्य पाणिभ्यां कर्ममुद्रया ।
भावयन् स्वयमात्मानमेको भूयात्सहस्रश ॥ इति
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0