सर्वतथागततत्त्वसंग्रह · अध्याय 118
तत्रासां मुद्रा भवन्ति ।
स्त्रीः ॥
ओं पद्मनर्तेश्वरि पूजय सर्वतथागतान् नट्ट नट्ट हूं ।
ओं अभये पद्मकवचबन्धे रक्ष मां हूं हं ॥
ओं महाप्रचण्डि पद्मयक्षिणि विश्वरूपधारिणि भीषापय सर्वदुष्टान् खाद खाद् हुं फट् ॥
ओं पद्ममुष्टि अः मुः ॥
वज्रवेगेन चाक्रम्य बुद्धपूजाः समालिखेत् ।
पद्माङ्कुश्यादयो मुद्राः पद्मचिन्हः समासतः ॥ इति ॥
अथासां मुद्रा भवन्ति ।
ओं पद्मरतिपूजे होः ॥
ओं पद्माभिषेकपूजे रट् ॥
ओं पद्मगीतपूजे गीः ॥
ओं पद्मनृत्यपूजे कृट् ॥
ओं धूपपद्मिनि हुं ॥
ओं पद्मपुष्पि हूं ॥
ओं पद्मकुलसुन्दरि धर्मालोके पूजय हूं ॥
ओं पद्मगन्धे हूं ॥
पूजादेव्यः ।
ओं पद्माङ्कुश्याकर्षय महापद्मकुलान् हयग्रीवसमये हुं जः ॥
ओं अमोघपाशक्रोधसमये प्रविश प्रवेशय सर्वसमयान् हूं ॥
ओं पद्मशङ्कले वं ॥
ओं पद्मघण्टाधारि शीघ्रमावेशय समयान् षण्मुखि अः ॥
अथात्र मुद्रामण्डले आकर्षणादिविधिविस्तरं कृत्वा, पद्मशिष्यान् यथावत् [प्रवेश्य,] एवंवदेन् "न त्वया कस्यचिद् वक्तव्यं यदत्र गुह्यं, मा ते नरकपतनं भवेत्, दुःखानि चात्रजन्मनि-" ति ।
ततः समावेश्यैवं वदेत् । "[ते चक्षुःपथे] कीदृशो ऽवभासः? तद्यथा वदति तथा सिद्धिर्" इति । "तद्यदि श्वेतालोकं पश्येत् तस्योत्तमसिद्धिज्ञानं शिक्षयेत् । अथ पीतं पश्येत् तस्यार्थोत्पत्तिज्ञानं शिक्षयेत् । अथ रक्तं पश्येत् ततो ऽनुरागणज्ञानं शिक्षयेत् । अथ कृष्णं पश्येत् ततो ऽभिचारकज्ञानं शिक्षयेत् । अथ विचित्रं पश्येत् ततः सर्वसिद्धिज्ञानं शिक्षयेद्" इति ज्ञात्वा, यथावन्मुखबन्धं मुक्त्वा, यथाभाजनतया ज्ञानान्युत्पादयेत् । मुद्राज्ञानं च शिक्षयेत् ।
एवं वज्रधात्वादिष्वपि सर्वमण्डलेषु यथाभाजनतया मुद्राज्ञानानि शिक्षयेदिंयं परीक्षा ॥
fओउर् ज्नन
अथोत्तमसिद्धिनिष्पत्तिज्ञानं भवति ।
लोकेश्वरमहासत्वं विश्वरूपं स्वमात्मना ।
भावयंस्तु महामुद्रामग्र्यां सिद्धिमवाप्नुयात्
बुद्धाभिषेकसमयां दृढीकृत्वा समाहितः ।
भावयंस्तु स्वमात्मानमग्र्यां सिद्धिमवाप्नुते
पद्मपद्ममहासत्वं भावयेत् स्वयमात्मना ।
आत्मानमुत्तमां सिद्धिं प्राप्नोति सुसमाहितः
अमोघेश्वरमयीङ्कर्ममुद्रां स्वयम्भुवः ।
साधयन् विधिवच्छीघ्रमग्र्यां सिद्धिमवाप्नुयाद्
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0