सर्वतथागततत्त्वसंग्रह · अध्याय 107
तत्रैषां हृदयानि भवन्ति ।
त्रीः ॥
ओं पद्मनट्टेश्वर नट्ट नट्ट पूजय सर्वतथागतान् वज्रकर्मसमयाकर्षय प्रवेशय बन्धयावेशय सर्वकर्मसिद्धिं मे प्रयच्छावलोकितेश्वर हूं ॥
ओं अभयंददावलोकितेश्वर रक्ष बन्ध पद्मकवचं समय हं ॥
ओं महाप्रचण्ड विश्वरूप विकटपद्मदंष्ट्राकराल भीषणवक्त्र त्रासय सर्वान् पद्मयक्ष खाद खाद धिक् धिक् धिक् धिक् ॥
ओं पद्ममुष्टि समय[स्त्व] बन्ध हूं फट् ॥
वज्रवेगेन चाक्रम्य सर्वकोणेषु संलिखेत् ।
वज्रलास्यादियोगेन पद्मलास्यादिदेवताः ॥
तत्रैता मुद्रा भवन्ति ।
ओं पद्मलास्ये रागय महादेवि रागपूजासमये हूं ॥
ओं पद्ममाले ऽभिषिञ्चाभिषेकपूजासमये हूं ॥
ओं पद्मगीते गाद गीतपूजासमये हूं ॥
ओं पद्मनृत्ये नृत्य सर्वपूजाप्रवर्तनसमये हूं ॥
वज्रवेगेन निःक्रम्य बाह्यमण्डलसन्निधौ ।
चतस्रः पद्मधूपाद्याः पूजादेव्यः समालिखेत् ॥
तत्रैताः पूजामुद्रा भवन्ति ।
ओं पद्मधूपपूजासमये प्रल्हादय पद्मकूलदयिते महागणि पद्मरति हूं ॥
ओं पद्मपुष्पपूजासमये पद्मवासिनि महाश्रिये पद्मकुलप्रतीहारि सर्वार्थान् साधय हूं ॥
ओं पद्मदीपूजासमये पद्मकुलसुन्दरि महादूत्यालोक संजनय पद्मसरस्वति हूं ॥
ओं पद्मगन्धपूजासमये महापद्मकुलचेटि कुरु सर्वकर्माणि मे पद्मसिद्धि हूं ॥
ततो गणादयः सर्वे पद्मद्वारचतुष्टये ।
समालेख्या यथावत्तु तेषां च हृदयार्थत ॥ इति ॥
तत्रेषां हृदयानि भवन्ति ।
ओं हयग्रीव महापद्माङ्कुशाकर्षय शीघ्रं सर्वपद्मकुलसमयान् पद्माङ्कुशधर हूं ज्जः ॥
ओं अमोघपद्मपाश क्रोधाकर्षय प्रवेशय महापशुपतियमवरूणकुबेरब्रह्मवेषधर पद्मकुल समयान् हूं हूं ॥
ओं पद्मस्फोट बन्ध सर्वपद्मकुलसमयान् शीघ्रं हूं वं ॥
ओं षड्मुख सनत्कुमारवेषधर पद्मघण्टयावेशय सर्वपद्मकुलसमयान् सर्वमुद्रां बन्धय सर्वसिद्धयो मे प्रयच्छ पद्मावेश अः अः अः अः अः ॥
इनितिअतिओन् इन्तो थे मन्दल
अथात्र सर्वजगद्विनयपद्ममण्डलविधिविस्तरो भवति । तत्रादित एव पद्माचार्यो वज्रपद्मसमयमुद्रां बध्वा यथावत्प्रविश्य, वज्रधातुमहामण्डलयोगेन कर्म कुर्यादिमैर्हृदयैः ओं पद्मस्फोटाधितिष्ठ अः ॥
ततस्तथैवाज्ञामाज्य, तथैव समयमुद्रया स्वयमभिषिच्य, पद्मविग्रहं गृह्य, स्वपद्मनामोच्चार्य, पद्माङ्कुशादिभिश्च कर्म कृत्वा, ततस्ताभिरेव धर्ममुद्राभिर्महासत्वां साधयेत् । ततस्तथैव सिद्धिरिति ॥
ततः पद्मशिष्यान् प्रवेशयेत् । तत्रादितः पद्मशिष्याय शपथहृदयं दद्यात् । "पद्मसत्वः स्वयन्ते ऽद्य इति कर्तव्यम्" ।
ततो [आज्ञाप]यात् । "न कस्यचित्त्वयेदं गुह्यविधिविस्तरमाख्येयं; मा ते नरकपतनं भवेत्, विषमापरिहारेण च कालक्रिये" ति ॥
ततः समय[मुद्रां बन्धये]द् अनेन हृदयेन ओं वज्रपद्मसमयस्त्वं ॥
ततः श्वेतवस्त्रोत्तरीयः श्वेतरक्तकेन मुखं वध्वा प्रवेशयेदनेन हृदयेन ओं पद्मसमय हूं ॥
ततो यथावत्कर्म कृत्वा, पद्मविग्रहं पाणौ दातव्यं ओं पद्महस्त वज्रधर्मतां पालय ॥ तेन वक्तव्यं "कीदृशीमा वज्रधर्मते-" ति । ततो वक्तव्यं ।
यथा रक्तमिदं पद्मं गोत्रदोषैर्न लिप्यते ।
भावयेत् सर्वशुद्धिं तु तथा पापैर्न लिप्यते ॥
इयमत्र धर्मता ॥
मुद्र
ततः पद्मकुलमुद्राज्ञानं शिक्षयेत् ।
पद्मं तु हृदये लिख्ये पद्मभावनया हृदि ।
पद्मश्रियं वशीकुर्यात् किं पुनः स्त्रीजनो ऽवरः
बुद्धबिम्बं ललाटे तु लिख्याभीक्ष्णं तु भावयेत् ।
तया भावनया शीघ्रमभिषेकमवाप्नुते
बुद्धबिम्बं मुखे विध्वाजिव्हायां तु प्रभावयेत् ।
स्वयं सरस्वती देवी मुखे तिष्ठत्यभीक्ष्णशः
पद्ममुष्णीषमध्ये तु स्थापयित्वा समाहितः ।
भावयन् पद्ममुष्णीषे खेगामी स वशन्नयेद् ॥ इति
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0