सर्वज्ञानोत्तरम् · अध्याय 1
श्रीगुरुभ्यो नमः
सर्वज्ञानोत्तरम् । योगपादम् ॥
नमः शिवायशक्त्यै च विन्दवे शाश्वताय च ।
गुरवे च गणेशाय कार्तिकेयाय धीमते
अतः परं प्रवक्ष्यामि योगमन्त्रकितस्तुतम् ।
शान्तस्य * * * * * * * * * * *
*
युक्ताहार विहारस्य युक्तचेष्टस्य कर्मसु ।
उक्त स्वप्नावबोधस्य तत्त्वतः शृणु षण्मुख
योध्यातायश्च तद्ध्यानं तद्वैर्यान्न प्रयोजनम् ।
सर्वाण्येतानि यो वेत्ति स योगं योक्तु मर्हति
आत्माध्याता मतोध्यानं ध्येयः सूक्ष्मो महेश्वरः ।
यत्परा परमैश्वर्यमेतद्ध्यान प्रयोजनम्
मानामानौ समौ कृत्वा सुखदुःखे समे तथा ।
हर्षं भयं विषादं च सत्यजन् योगमभ्यसेत्
शून्यागारे मठे रम्ये देवतायतने शुभे ।
नदीतीरे विविक्तेन्त गृहे घोरवनेपि वा
प्रच्छन्ने च विविक्ते च निश्शब्दे जनवर्जिते ।
योगदोष विनिमुक्ते निर्विकल्पे निरातपे
स्नात्वा शुचि रूपस्पृश्य प्रणम्य शिरसा शिवम् ।
योगाचार्यान्नमस्कृत्य योगं युञ्जीत * * *
पद्मकं स्वास्तिकं नापि उपस्थाप्यां जलिं तथा ।?
पीठार्धतर्धचन्द्रं वा कर्मतो? भद्रमेव वा
प्. २)
आसनं रुचिरं वद्ध्वोर्ध्वकायः समं शिरः ।
सर्वसंगान् परित्यज्यात्मसस्थं मनोगुह
न दन्तैः संस्पृशेद् दन्तान् सृक्विण्या च न जिह्वया ।
किञ्चित् कुञ्चित नेत्रस्तु शिवं सम्यक्तदोच्चरेत्
? य स यति तत्वानि तन्मात्राद्यानि देहिनाम् ।
पुनर्विनंशिकश्चैवास्त्र युक्तष्षडानन
न पृथक् हृदयं तस्य न शिरो न शिखागुह ।
वर्मास्त्र नेत्रसहितं तस्मादेव प्रवर्तते
प्राणापानौ समौ कृत्वा सुषुम्नान्तर चारिणौ ।
तयोर्वृत्तिर्निरुध्यात्मा शिवं ध्यायेद् विचक्षणः
अविनाभावसंयुक्तो ज्योतीरूपं सुनिर्मलम् ।
सुसूक्ष्मं व्यापकं नित्यं निर्विकल्पं सदा बुधः
उत्तमा मध्यमा मन्दास्संसर्गास्त्रिविधाः स्मृताः ।
प्राणायामांश्च तान् कुर्यात् पूरकुम्भक रेचकान्
प्राणायामैर्दहेद्दोषान् धारणाभिदिस्तुतम् ।
प्राणायामो भवादेय पूरको देहपूरकः
पिधाय सर्वद्वाराणि निश्वासोच्छ्वासवर्जितः ।
संपूर्ण कुम्भवत् तिष्ठेत् प्राणायामस्सकुम्भकः
ततोर्ध्वं रेचयेद् वायुं मृतु निच्छ्वास संयुतम् ।
रेचकस्त्वेष विख्यातः प्राणसंशयकारकः
प्. ३)
प्रसार्यचाग्रहस्तं तु जानुं कृत्वा प्रदक्षिणम् ।
च्छोटिका ततो दद्यान्मनन्नैष्टा त्वभिधीयते
मात्रा द्वादश विज्ञेयाः प्रमाणं तालसंज्ञकम् ।
तालद्वादशकं ज्ञेयं प्राणायामस्तु आन्यसम्
मध्यमश्चतर्विंश ज्येष्ठ * * द्विगुणो भवेत् ।
एकैकां वर्धमात्रां प्रत्यहं योगवित्तमः
नत्वरेण विलम्बेन क्रमेणैव विवर्धयेत् ।
प्राणायामोत्तमोयत्त द्विगुणा धारणा मता
धारणाद्विगुणो योगो योगोपि द्विगुणी कृतः ।
योगसिद्धिरिति ज्ञेया शिवेन परमात्मना
तदानु पश्यते सूक्ष्मं गन्धतन्मात्रमात्मनि ।
रसं तेजस्परिशंति च शब्दतन्मात्रमेव च
पश्यते कर्मयोगेन वर्णभावैः पृथग्विधैः ।
अहंकार मनोबुद्धिं गुणमव्यक्त पौरुषम्
अभिव्यक्तानि जानीयात् स्वधर्मगुण लक्षणात् ।
विद्यां कलां ततः कालं मायां विद्यां ततः पराम्
दृष्ट्वानु क्रमशः सर्वान् पुनरस्त्रेण भेदयेत् ।
विद्येश्वरं ततस्तत्वं तथा सादाशिवं परम्
भित्वा तु क्षुरिकास्त्रेण ततः सूक्ष्मं शिवं विशेत् ।
अमृतात्मा शिवः साक्षात् तस्मिन्निष्टस्तु योगवित्
प्. ४)
सर्वज्ञस्सर्वगस्सूक्ष्मस्सर्वेशस्सर्वकृद् भवेत् ।
सर्वेष्वेव स शास्त्रेषु ज्ञेयं वस्तु चतुष्टयम्
पशुः पाशः पतिश्चैव शिवश्चेति यथाक्रमम् ।
ज्ञात्वा तु तत्व सद्भावं तन्त्रसारं तु दुर्लभम्
सर्वथा वर्तमानोपि गृह्णाति न पुनस्तनुम्
॥ इति योगपादः समाप्तः ॥
पशुपाशविधानं हि श्रोतुमिच्छामि तत्वतः ।
संयोगं च तथा तेषां कथयस्व महेश्वर
आद्याः पाशास्ततस्तेषां जीव आद्यस्तु किन्तु वै ।
का पाशाः कोमलाः प्रोक्ताः कस्माद्वन्धः पुमानिति
पतिश्च किं विधो ज्ञेयस्साधिकार पदे स्थितः ।
शिवश्च कीदृशः प्रोक्तो योधिकार विवर्जितः
ईश्वरः
पशुरात्मा स्वतन्त्रश्च चिन्मात्रो मनदूषितः ।
सममूढो नित्यसंसारी किञ्चिद् ज्ञानीश्वरो क्रितः
ताम्रस्यैव तु हेमत्वमन्तर्लूनं यथा स्थितम् ।
अन्तर्लूनं तथा ज्ञेयं शिवत्वं पुद्गलस्य तु
रससिद्धं यथा ताम्रं हेमत्वं प्रतिपद्यते ।
तथात्मा ज्ञानसम्बन्धश्शिवत्वं प्रतिपद्यते
यथा ज्ञात्वा विभागेन पयसि संस्थितम् ।
तथात्मा पाशसंश्लिष्ट अविभागेन संस्थितः
प्. ५)
विषापहारं कुरुते * * ध्यानबलैर्यथा ।
कुरुते पाशविश्लेषं तथाचार्यः शिवाध्वरैः
मन्त्रौषधबलैर्यद्वत्सन्निरोधो विषस्य तु ।
तथा हि सर्वपाशानां सन्निरोधस्तु दीक्षया
दह्यते याम्यमानानां धातूनां तु यथामलम् ।
तथाचार्यो दहेत्पुंसां वायुभूतो मलावुभौ
गुणभूताः स्मृताः पाशाः धर्माधर्मौ मलौ स्मृतौ ।
सहजौ साधकज्ञानां ताम्रकालिकवात्स्थितौ
त्रिविधास्ते स्मृताः पाशाः सहजागन्तुकास्तधा ।
सांसर्गिकास्तथा भूयः शृणु तेषु विनिर्णयम्
तन्मात्राद्यास्तु ये तत्वास्ससूक्ष्मास्सर्वगा गुह ।
ते तु पाशाः पराः प्रोक्तास्सहजास्सर्वजन्तुषु
इन्द्रियाणि च भूतानि यद्वीजं तेषु सम्भवम् ।
आगन्तुकाः स्मृताः ह्येते तस्मात् सांसर्गिकाः पुनः
संसर्गाद् यद् भवेत् कर्म शुभं वा यदि वा शुभम् ।
ते तु सांसर्गिकाः पाशाः सुखदुःखफलः प्रदा
कर्मणा तु शरीराणि भावात् कर्मोदयो भवेत् ।
पूर्वोपार्जित कर्माणां भावः संयोग कारकः
ईश्वरो व्यञ्जकस्तेषां भवेत् कर्मानुरूपतः ।
कर्मोदयाद् भवेत् सृष्टिरसास्तैः प्रलयं विदुः
प्. ६)
विषयासङ्गदोषेण गुणसंगो शिखिध्वज ।
वन्धमाप्नोति पुरुषो ह्यकर्तो सर्वगोपि सन्
पिता पुत्रापराधेन यथैकस्थो निबध्यते ।
अकर्तापीह पुरुषस्तथा बन्धमवाप्नुयात्
यथैव साधुसंयोगात् उदासीनोपि मानवः ।
तथाबन्धमवाप्नोति तथा ज्ञेयस्तु पुद्गलः
अनादि निधनाः पाशा जीवो नाद्यस्तु कीर्तितः ।
तच्छेदकस्तथानादिः पशुपाशपतिस्तुसः
पतिस्सदा शिवो ज्ञेयो मन्त्रात्मा मन्त्रविग्रहः ।
सर्वमन्त्राधिपश्चासौ सृष्टिसंहारकारकः
पदवर्णादिभिर्युक्तैः पूज्यते सर्वदा तु सः ।
अशेष भवनाधारो योगपीठासनस्थितः
पतिरेवं समाख्यातस्सर्वकामफलप्रदः ।
स्थूलसूक्ष्मोपि मिश्रश्चैवं रूपं तु संस्कृतः
शिववस्तु परं तस्मान्मन्त्रातीतो निरञ्जनः ।
निरामयो निराधारो वर्णरूप विवर्जितः
सर्वज्ञः सर्वगश्शान्तः सर्वात्मा सर्वतो मुखः ।
अतीन्द्रियो निरालम्बः सुसूक्ष्मः शाश्वतो ध्रुवः
स एव भगवान् व्यापिन् अप्रमेयो ह्यनौपमः ।
बहिरन्तर्विभागेन तिलेतैलमिव स्थितः
प्. ७)
स्वात्मसाक्षात्कारप्रकरणम् ॥
अथान्यं संप्रवक्ष्यामि उपायं तत्वतो गुह ।
अग्राह्यस्यापि सूक्ष्मस्य सर्वगस्य तु निष्कलम्
येन विज्ञायते सम्यक् यं ज्ञात्वा शिवो भवेत् ।
न कस्य विजायाख्यातं तद्विज्ञानं शृणुष्व मे
गुरुपारम्परायातमदृष्टं सर्वादिभिः ।
भवबन्धविमोक्षार्थं परमं सर्वतोमुखम्
यो सौ सर्वगतो देवो सर्वात्मा सर्वतोमुखः ।
सर्वतत्वमयो चिन्त्यस्सर्वस्योपरि संस्थितः
सर्वतत्वव्यतीतश्च वाङ्मनो नामवर्जितः ।
सोहमेवमुपासीत निर्विकल्पेन चेतसा
यदेव निष्कलं ज्ञानं शाश्वतं ध्रुवमव्ययम् ।
निर्विकल्पमनोद् देश्यं हेतु दृष्टान्तवर्जितम्
अलिङ्गमक्षरं शान्तं विषयातीतगोचरम् ।
अविभाष्यमसन्देहं तदहं नात्रसंशयः
अहमेव परो देवः सर्वमन्त्रमयः शिवः ।
सर्वमन्त्रव्यतीतश्च सृष्टिसंहारवर्जितः
मया व्याप्तमिदं सर्वं दृश्या दृश्यं चराचरम् ।
अहमेव जगन्नाथो मत्तः सर्वं प्रकाशते
अनेकाकारसंभिन्नं विश्वं भुवनसञ्चयम् ।
शिवाद्यवनि पर्यन्तं तत्सर्वं मयि संस्थितम्
प्. ८)
यच्च किञ्चिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा ।
बहिरन्तर्विभागेन तत्सर्वं व्यापितं मया
अहमात्मा शिवो ह्यन्यः परमात्मेति यः स्मृतः ।
एवमुपासयेन्मोहान्न शिवत्वमवाप्नुयात्
शिवोऽन्यस्त्वहमेवान्यः पृथग्भावं विवर्जयेत् ।
यः शिवः सोहमेवेति अद्वैतं भावयेत् सदा
अद्वैतभावनायुक्तः सर्वत्रात्मनि संस्थितः ।
सर्वगं सर्वदेहस्थं पश्यते नात्रसंशयः
एवमेकात्मभावेन संस्थितस्य तु योगिनः ।
सर्वज्ञत्वं प्रवर्तेत विकल्परहितस्य च
योऽसौ सर्वेषु शास्त्रेषु पठ्यते ह्यज ईश्वरः ।
अकायो निर्गुणो ह्यात्मा सोऽहमस्मिन्न संशयः
अविज्ञातः पशुः सो हि सृष्टिधर्म समाश्रितः ।
विज्ञातशाश्वतश्शुद्धस्स शिवो नात्र संशयः
तस्मादात्मा सदावेद्यः सुविचार्यः विचक्षणैः ।
परापरविभागेन स्थूल सूक्ष्मविभागशः
परः परमनिर्वाण अपसृष्टिभेदतः ।
स्थूलो मन्त्रमयः प्रोक्तः सूक्ष्मो ध्यानैक संस्थितः
अथवा बहुशोनेन किमुक्तेन षडानन ।
वाग्विकल्प विशेषेण मनः संमोहकारिणी
प्. ९)
सर्वेधर्मानस्सन्ति यमेव परिकल्पयेत् ।
तत्तद्भवत्यसंदेहात् सदा तद्भाव भावतः
इत्येवमात्मविज्ञानं कथितं तु समासतः ।
ज्ञात्वैवात्ममयं सर्वमात्मानं पर्युपासते
न तत्र देवा वेदा वा यज्ञा वा बहुदक्षिणाः ।
आत्मविज्ञानमाश्रित्य विमलं सर्वतो मुखम्
संसारार्णवमग्नानां भूतानां शरणार्थिनाम् ।
नान्यः शरणदः कश्चिदात्मज्ञानादृतेः क्वचित्
आत्मानं परमो भूत्वा यो विजानाति तत्वतः ।
स मुच्यते त्वयत्नेन सर्वावस्थां गतोपि सन्
आत्मलाभात्परोलाभः क्वचिदन्यो न विद्यते ।
तथात्मानमुपासीत योयमात्मापरस्तु सः
न प्राण्यो नैव चापानो विशिष्टकरणस्तथा ।
सर्वज्ञं तु तमात्मानं परिपूर्णं सदा स्मरेत्
न चैवाभ्यन्तरे बाह्ये नाति दूरे समीपतः ।
स निष्कले परे स्थाने तत्र चित्तं निवेशयेत्
तिर्यगूर्ध्वमधंश्चैव बहिरन्तश्च नित्यशः ।
सर्वशून्यं तमाभास समात्मानं भावयेत्थ
नैव शून्यं च चाशून्यमशून्यं शून्यमेव च ।
पक्षपात विनिर्मुक्तमात्मानं पर्युपासयेत्
निरामय निराधारं वर्णरूप विवर्जितम् ।
प्. १०)
निरञ्जनं गुणातीतमात्मानं पर्युपासयेत्
निरामय निरालम्बमप्रमेय मनोपमम् ।
स्वभावविमलं नित्यमात्मानं पर्युपासयेत्
सन्यस्य सर्वकर्माणि निःस्पृहः सङ्गवर्जितः ।
भावयेदात्मनात्मानं मात्मन्येवात्मनि स्थितम्
स देश जाति संबन्धान् वर्णाश्रम समन्वितान् ।
भावानेतान् परित्यज्य स्वरूपं भावयेद् बुधः
मन्त्रोऽयं देवता ह्येषा इदं ध्यानमिदं तपः ।
सर्वभावान् परित्यज्यात्माभावं तु भावयेत्
अभावे भावमाश्रित्य भावं कुर्यान्निराश्रयम् ।
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत्
नैव चिन्त्यं न चाचिन्त्यमचित्तं चित्तमेव च ।
पक्षपात विनिर्मुक्तमात्मानं पर्युपासयेत्
अचिन्त्यं चिन्तयेन् नित्यं कृत्वा चित्तं निराश्रयम् ।
निस्तत्वे निष्कली भूते विन्दत्यात्मनि यत्सुखम्
निर्विकल्पमचिन्त्यं च हेतु दृष्टान्त वर्जितम् ।
तत्सुखं परमं प्रोक्तमात्यन्तिकमनौपमम्
निरस्य विषयासङ्गं मनोवृत्तिं विवर्जयेत् ।
यदा यात्युन्मनी भावं तदा तत्परमं सुखम्
सर्वदिग्देशकालेषु योगाभ्यासोप्यधीयते ।
सर्ववर्णाश्रमाणां च ज्ञानभेदो न विद्यते
प्. ११)
गवामनेकवर्णानां क्षीरस्याप्येक वर्णताः ।
क्षीरवत् पश्यते ज्ञानमङ्गिनस्तु गवांसमाः
यस्मात् सर्वगतं ब्रह्म व्यापकं सर्वतो मुखम् ।
तस्माद्ब्रह्मणि संस्थाने दिग्देशान्न विचारयेत्
नैव तस्य कृतोर्थेन कार्य न विधिस्मृतः ।
न लिङ्गं नाश्रमाचारः परमात्मनि संस्थितः
गच्छन् तिष्ठन् स्वपन् जाग्रन् भुञ्जानोपि पिवन्नपि ।
सर्वदा सर्वकालेषु वातशीतातपेषु च
भयदारिद्र्यरोगेषु मन्द्यविज्वरकादिषु ।
आत्मन्येष स्थितः शान्तः आत्मतृप्तस्तु निष्कलः
ना गतोऽहं गतो वापि ना गमिष्ये न गच्छता ।
न भूतो न भविष्यामि प्रकृत्य स्थिर धर्मणि
प्रकृतानि तु कर्माणि प्रकृतिः कर्मसंभवा ।
नाहं किञ्चित् करोमीति युक्तमन्येत तत्ववित्
नैवः प्रकृतिबन्धोस्ति मुक्ति इत्यभिधीयते ।
न चैव प्राकृतैर्दोषैर्लिप्ये * * कदाचन
निर्दश्य तमोरूप दीपो यद्वत् प्रकाशते ।
आभात्येवं परोह्यात्मात्स्यैक्वैवा(?) ज्ञानजंतपः
स्नेहक्षमाद्यमादीपो वलान्निर्वाणमिच्छति ।
तथात्मा भावनायुक्त स्वात्मन्ये वा वलिष्ठते
प्. १२)
घट संवृतमाकाशं नीयमाने यथा घटे ।
घटो नियतिनाकाशमाकाशत्वं प्रपद्यते
विभिन्ने प्राकृते देहे तथात्मापरमात्मनि ।
इत्येवमधिकारेण सर्वज्ञेनाधिकारिणा
सर्वबन्धाद्विनिर्मुक्तस्सर्वज्ञः सर्वगो भवेत्
तदा गमान् परिहृत्य सर्वान् शुद्धं गृहीत्वात्मसमाधियोगम् ।
अस्मात्परं नान्यदिहास्ति किञ्चिद् ज्ञात्वैव संत्यज्य मनोविकल्पम्
विज्ञानमेवं समुपास्य विद्वान् विशत्यकायं सततं नियुक्तः ।
सर्वत्रगामी भरतीह मुक्तस्तद्धर्मधर्मी बहिरन्तसंस्थः
सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः ।
अनन्तशक्तिश्च निरामयात्मा विशुद्धदेहस्स शिवत्वमेति
न जपो नार्चनं स्नानं न होमो नैव साधनम् ।
धर्माधर्मफलं नास्ति न पिण्डो नोदक क्रिया
नियमानि न तस्यास्ति नोपवासो विधीयते ।
प्रवृत्तिं न निवृत्तिश्च ब्रह्मचर्यव्रतानि च
अग्निः प्रवेशनं नास्ति पतनं भृगुनोदके ।
शिवज्ञानामृतं पीत्वा विचरस्व यथासुखम्
शिववच्छाश्वतः शुद्धः सृष्टिधर्म विवर्जितः ।
सत्यं सत्यं पुनः सत्यं त्रिसत्यं समयः कृतः
अतः परतरं नास्ति विज्ञेयं कुत्र चिद्गुह ।
प्. १३)
विमलयति सर्वभावान् विमलात्मा विमलबुद्धिरतशुधीः
सर्वं विमलं पश्यति विमलो विमलेन भावेन ।
जाग्रजाग्रजाग्रस्वप्नं तथा जाग्रसुषुप्तिकम्
जाग्रतुर्यं कालपरमतीतं परदर्शनम् ।
विश्वाग्रस्वोपशान्तश्च शिवदर्शनमेव च
सायुज्यमिति भेदेन चोर्ध्वमेकादश स्मृतः
विमतीकरणम्
परंभूयः प्रवक्ष्यामि विमतीकरणोत्तमम् ।
यथात्मा जीवसंज्ञितः * * * * * * * *
मन्त्रात्मा परमाख्याश्च तस्मात् परतरं न हि ।
पृथिव्यापस्तथा तेजो वायुराकाशमेव च
संयोगः सर्वभूतानां भूतात्मा संप्रकीर्तितः ।
पुरुषाधिष्ठितैर्वीजैस्तन्मात्रैर्वीजसंयुतैः
संभवन्ति महाभूता मलया तु समन्विताः ।
सर्वेन्द्रिय समायुक्तं शरीरमिति चोच्यते
विनाशोत्पत्तिरेवास्य तच्चाहारमयं विदुः ।
आहारस्य परीणामाद्रसोत्पत्तिर्भविष्यति ॥
रसाच्छोणितम् । शोणितान्मांसं मांसान्मेदो मेदस्वेऽस्थीनि अस्थिभ्यो
मज्जामज्जातश्शुक्लंशुक्लशोणितसंयोगे वायुसंयोगाद्गर्भः
संभूयते । यथाग्नीषोपीतं? शोभि?
प्. १४)
तत्र शरीर मध्ये नाभिः । नाभिस्थाने मलः । मलस्थाने यथा तिष्ठति
वातपित्तश्लेष्माण इति त्रयो मलसंग्रहात् । ऋतुकाल संयोगात् पुंसोरेत
आधिक्यादथ पुरुषो भवति । मातृरक्ताधिक्यात् स्त्री प्रजायते ।
उभयोस्साम्येनपुंसकम् । अथ काकञ्जकुब्जवामना जायते । परस्परा
कुलत्वादन्योन्य वायुपीडिता तं स्त्रीपुंसां संयोगवैषम्याच्छुक्लं
तद्विधं भवति । तेन युग्मं प्रजायते । एकरात्रोषितं कललं पञ्चरात्रेण
बुद्वुदम् । सप्तरात्रेण मांसपेशी संभवति । द्विसप्तरात्रेण
मांसपिण्डाकृतिर्भवति । मासादभ्यन्तरे बाहुरंसो जायते । मासद्वयेन
हस्तपादाङ्गुष्ठादयो जायन्ते । त्रिभिर्मासैर्जरायु स्नायुत्वक् चर्मा भवन्ति
। चतुर्भिर्मासैर्वंशपृष्ठे उरं कटिश्च भवति । पञ्चभिर्मासैश्शिरो
ललाट कर्णनासा भवन्ति । षड्भिर्मासैः च्छिद्राणि भवन्ति ।
सप्तभिर्मासैश्शरीरस्य व्यक्तिर्भवति । अष्टभिर्मासैः पूर्णाकृतिर्भवति ।
नवभिर्मासैस्समायुक्त चेतनो भवति । पूर्वजातिं स्मरति । सोऽहमित्यहं
चिन्तयति । चेष्टयति । घटात्घट इवाम्बुनोपलभ्यते । सूक्ष्मत्वादाकाशनीलो
यथा । तस्मात् पञ्चात्मक समायुक्तं चेतनं । बुद्धिरहंकारो मनः
प्रकृतिश्च प्रकृतेः पुरुश्च मनसा संकल्पं करोति ।
ह्य एव मनसायुक्त इन्द्रियैः सह युज्यते । इन्द्रियज्जी? ततोर्थेषु नित्यमेव
प्रवर्तते ॥
प्. १५)
इत्येवं प्रकृति स्वभावं शरीरं प्रत्ययैश्चेष्टितव्यम् । असत्वात्
सत्वरजस्तम इति पुरुषस्य स्वभावभेदं कुर्वन्ति
सत्वप्रकाशकं भावं रजो राजात्मकं गुह
तमो मोहात्मकं भावमुत्पादयति देहिनाम् ।
सत्वात्संजायते ज्ञानं रजसो लोपमेव च
तमसो सत्यमज्ञानं प्रमादालस्यमेव च ।
सत्यात्सत्यं दया धैर्यं विनयस्थैर्यमेव च
रजसः क्रोधसंभावो निर्दयत्वं च जायते ।
ऊर्ध्वं गच्छन्ति सत्वस्था मध्ये तिष्ठन्ति राजसाः
जघन्यगुणप्रत्तिस्था अतो गच्छन्ति तामसाः ।
रजस्तमश्चाभि भूयसत्वं वर्धति षण्मुख
रजस्सत्वं तमश्चैव तमस्सत्वं रजस्तथा ।
यमेव स्वेते पुरुषो अतिसंगात्सदा गुणम्
सोस्याप्याधिको भूत्वा स्वधर्मे विनियोजयेत् ।
एवमेक कपालस्य षोडश पार्श्वपटलानि भवन्ति
त्रीण्यस्ति शतानि नवस्नायु शतानि नवद्वाराणि ।
मज्जापंचप्रस्तामेदः प्रस्थद्वयं त्रिस्तोर्ध्वं रोमकोट्यः
एकादशोत्तरर्मशित द्रवस्य पलानि अष्टौ सन्धिरस्या एकद्वयम् द्वादश
पलार्मित(?) जिह्वा ।
वृक्षणं सार्धपलपञ्चकम् । शुक्लस्य कुडलत्रयम् । पित्तस्यादकम् ।
सप्तसिवाशतानि च ।
प्. १६)
अनियत मूत्रपुरीष माहारस्यानित भावाद्विज्ञेयम् ।
एवं विधोयं भूतात्मा पुरुष इति चोच्यते ।
योत्तरे वर्तते शब्दस्तस्य वाचा प्रवर्तकः
प्राणापान समायोगात् सोन्तरात्मा प्रकीर्तितः ।
तस्माच्च सर्वशास्त्राणि संस्कृत प्राकृतानि च
देशभाषादिभिर्नित्यं विधिवत्संप्रवर्तते ।
पश्वश्च मृगाश्चैव पक्षिणश्च सरीसृपाः
यावन्तः केचनस्सत्वा उच्चरन्ति सदा दुतम् ।
सूक्ष्मा वै पञ्चतन्मात्रा मनोऽहंकार एव च
बुद्धिरष्टगुणा ज्ञेया गुणाव्यक्तं च पौरुषम् ।
कलाकालस्तथा माया विद्याविद्येश्वरं च यत्
सदाशिवं तथा तत्वं वेदं वंशान्तमेव च ।
एतेषां चैव संयोगात् तत्वात्मा पुरुषः स्मृतः
ततम्मेतैर्जगत्कृत्स्नं पाशाश्चेते मलात्मकः ॥
सुसूक्ष्माः सर्वगानित्यस्सहजा सर्व ऋतुषु
प्रकृतिश्चैव बोद्धव्या प्रक्रिया च निगद्यते ।
न परं प्रक्रिया ज्ञानात् न शिलाद्व्यापकं परम्
न योगात्परतरः सिद्धिर्नशमात् परमं सुखम् ।
उदयो यक्ष्य तत्वस्य देहे भवति षण्मुख
तदशात्मकं सदादेही विकार मनुवर्तते ।
प्. १७)
यस्मिंश्चरति भूतात्मा तत्तत्वं वृषसर्पते
आभूय सर्वतत्वानि स च तन्मयतां व्रजेत् ।
मुहुर्मुहु सा देही सर्वतत्वैरनुक्रमात्
सञ्चरन्त्यविभत्त्या तु व्यापकत्वं च सर्वदा ।
तच्च तस्य सदा स्कन्द तत्वभावैः पृथग्विधैः
लक्ष्यते व्यापकस्यापि उदयास्तमनस्थितिम् ।
तथा तत्वाधिपान् भावान् प्रगृह्णाति षडानन
सर्वधर्म मयो ह्यात्मा यथा कामं प्रकल्पयेत् ।
यस्मिं स्थिते रतिं याति तमेव परिसेवते
तस्मिंस्तत्वे स्थितिं विद्यात् तत्तत्कर्म समाचरेत्
तस्मादेवं विदित्वा तु शिवतत्वे निरामये ।
निर्विकारे निराधारे रतिं कुर्याद् विचक्षणः ॥
न पुनर्मोह मायाति तस्मिंश्चैव षडानन
स्थित्वास्मिन्नन्त कालेपि वरं निर्माणमाप्नुयात् ।
देही सर्वगतः सूक्ष्मः पुराणः शाश्वतो ध्रुवः
व्यापकस्सर्व तत्वानां मजोवक्तः सनातनः ।
अस्वतन्त्रो निबद्धश्च चिन्मात्रो मलदूषितेः
संमूढो नित्यसंसारी किञ्चिज्ज्ञो निश्चलो क्रियः ।
पशुधर्मोस्य संज्ञेयः शिवधर्मस्तनोऽन्यथा
पशुधर्मोदयः पुंसो ह्यनेकाकार रूप धृक् ।
प्. १८)
आत्मा जन्तुः पुमान् देही पुरुषः पुद्गली तथा
जीवः कपाली क्षेत्रज्ञः पर्गाया एव मादयः ।
सर्वे धर्मात्मनः सन्ति संयुक्तः सर्वकर्मभिः
सर्वान् देहान वाप्नोति याति सर्वासु योनिषु ।
यावन्नोत्पद्यते ज्ञानं तावद्भमति कर्मणा
अज्ञाना वृतदेहस्तु दुःखशोक परिप्लुतः ।
ज्ञानी लब्ध्वा परं शान्तं मचिरेणाधि गच्छति
तदास्तु सर्वदुःखानां हानिरस्योपजायते ॥
इति भूतात्मादिप्रकरणं समासम् ॥
अतः परं प्रवक्ष्यामि पुरुषं मन्त्रविग्रहम् ।
सर्वशोकहरंदीप्तं सर्वपापहरंपरम्
सर्वदेवासुरयक्षाणां किन्नरासुररक्षसाम् ।
पितृमातृगणानाञ्च सिद्धविद्याधरादिषु
नागगन्धर्वतिर्यक्क्ष पिशाचां च मानुषाम् ।
शिवादि सर्वतत्वानां मन्त्राविद्यन्ति शाश्वताः
नास्ति मन्त्रैर्विना किञ्चित् सर्वस्थावरजंगमम् ।
यावन्तः केचनस्सत्वा मन्त्राधिष्ठित विग्रहाः
यस्य यस्य हि तत्वस्यादिमं तु यदक्षरम् ।
षष्ठं त्रयोदशान्तं च तस्मिन् तस्मिन् नियोजयेत्
तं तु मन्त्रं विजानीया सर्वतत्वात्मकंवरम् ।
बिन्दुनालंकृतं मूर्ध्न सर्वकामफलप्रदम्
प्. १९)
तेषामङ्गानि युञ्जीत न ब्रह्मास्तेषु कीर्तितः ।
दीर्घभिन्ना स्मृता ह्यङ्गा नेत्रानुस्वारसंयुतः
स विसर्गस्मृतो ह्यस्त्रस्सोनुस्वारविवर्जितः ।
इति तेषां तु बीजानां मूर्ध्नि बिन्दुं प्रदापयेत्
ओंकार दीपितां मन्त्रां नमस्कारान्तयोजिताः ।
अर्चने च प्रयोक्तव्या होमे स्वाहान्त योजिताः
आवाहनास्य पात्रेषु स्थापनाचमनेषु च ।
स्नपने मन्त्रविन्यासे धारणाध्यानकर्मसु
पूजाबलिविधानेषु जपहोम क्रियासु च ।
शिवस्य यो विधिः प्रोक्तः सर्वकर्मक्रमेषु च
सर्वेषांमेव तत्वानां तं विधिं परिकल्पयेत् ।
अनुक्तं यद् भवेत् किञ्चित् तत्सर्वं हृदयेन तु
एवं विधिं विधानज्ञो बुध्या कर्मसमारभेत् ।
परमीकरणं प्रोक्तं सर्वतत्वेषु मन्त्रवित्
यो यथैव भवेन् मन्त्रो वाच्यवाचकभेदतः ।
स्थूल सूक्ष्म परस्सोहि मन्त्रात्म पुरुषः स्मृतः
स्थूलस्तु वाचकं सिद्धं सूक्ष्मे योगं च गच्छति ।
परः परम निर्वाणं यं प्राप्य न निर्वर्तते
यथा प्रदीपः प्रतिबुध्यमानो भवत्यनेकः पुनरेक एव ।
तथाहि मन्त्रः परिकल्प्यमानो भवत्यनेकः पुनरेक एव
प्. २०)
यथाम्भसोनेकविधस्य लोके जात्यन्तरं ह्येकमनेकरूपम् ।
तथैव मन्त्रस्य च वेदितव्यं जात्यन्तरं ह्येकमेनक रूपम्
यमेव साधयेन्मन्त्रं ममात्मानं प्रकल्पयेत् ।
तदात्मक स्मृता ह्यङ्गा बहिराहित द्विभागहाः
यस्य यादृग्विधं रूपं वृतं तस्यैव तादृशम् ।
तादृशोप्युपचारस्तु मन्त्रदेवानुरूपतः
शास्त्रोपदिष्टमार्गेण यथारूपं प्रकल्पयेत् ।
तथा रूपो भवेन्मन्त्रस्ततः कर्मप्रसाधयेत्
श्रोतुर्भाव विभेदास्तु वर्णरूपं पृथग्विधम् ।
सर्वोपाश्रय सम्पन्नं स्फटिको कोपलवद्यथा
इति मात्रात्मकः पुरुषः प्रोक्तस्सर्वार्थसाधकः ।
सर्वज्ञः सर्वगश्चैव सर्वरूप मयो हि सः
परात्परतरं वक्ष्ये मन्त्रातीतं निरंजनम् ।
निरामयं निराधारं वर्णरूप विवर्जितम्
सर्वज्ञः सर्वगः शान्तस्सर्वात्मा सर्वतो मुखः ।
अतीन्द्रियो निरालम्बः सुसूक्ष्मः शाश्वतो व्यथः
सुनिष्कलो निशालम्बो नाख्येयो व्यापको ध्रुवः ।
निरौपौम्यौ प्रमेयश्च परात्मा प्रकीर्तितः
यादृशेन तु भावेन पुरुषोपास्यते यदा ।
एकधा बहुधा चैव तथैव प्रतिपद्यते
प्. २१)
यमेव चिन्तयेद् रूपं सर्वमात्मनि विद्यते ।
सर्वकामप्रदो ह्यात्मा प्रोक्तष्षड्भेद विस्तरः
भूतात्मा ह्यन्तरात्मा च तत्वात्मा जीवसंज्ञितः ।
मन्त्रात्मा परमाख्याश्च एकोपि बहुधा स्थितः
भूतात्मा भूतसंयोगात् तत्वात्मा तत्वसंस्थितः ।
मन्त्रात्मा मन्त्रं यो ज्ञेयो ह्यन्तरात्मागिरान्वितः
भोक्ता तु सुखदुःखाना प्रकृतिस्थो गुणान्वितः ।
जित्वा स्वभुवनं तेषामेभिर्मुक्तः परस्तुः
सर्वरूपं यथैश्वर्यं नित्ययुक्तो ह्यवाप्नुयात् ।
प्राप्तोपि स द्विधा भावि पुनर्भावमवाप्नुयात्
प्राग्यत्येन परीक्षेण क्षीयात्पापस्य कर्मणः ।
तत्वविश्लेष काले चाद्वैतं प्रतिपद्यते
एक एव परो ह्यात्मा चित्तभेदात्त्वनेकधा ।
एकस्य बहुनामानि पृथग्भूतान्य कोटिभिः
अनामकस्व कीयंते भ्रान्ति ज्ञानविमोहितैः ।
यथाभिव्यज्यते ज्ञानं विमलं सर्वतोमुखम्
तदात्मीयं परं धर्मविंदते शाश्वतं ध्रुवम् ।
अहमेव परोह्यात्मा पुरुषः कारणः स्मृतः
अहमेव परंब्रह्म अहं ज्ञेय मतपरम् ।
सर्वे विनाशकाभावां मन एव पृथग्विधाः
प्. २२)
भावाभावविनिर्मुक्त अहमेव शिवोऽव्ययः ।
योगसंन्यस्त कर्मायो ज्ञानसंभिन्न संशयः
निर्विकल्पस्तदा नित्यमात्मानं पर्युपासयेत् ।
निरस्य वासनास्सर्वा आत्मतृप्तो निरामयः ॥
अद्वैतभावनायुक्तस्सदात्मा समुपासयेत् ।
अपाकृतेन नित्येन निर्मलेनाविकारिणा ॥
व्यापकेनाति सूक्ष्मेण परेण योगचक्षुषा ।
विशुद्धं शाश्वतं नित्यं प्रमेयं नौपमम् ॥
निर्विकल्पमचिन्त्यं च हेतुं दृष्टान्तवर्जितम् ।
दुत्रप्तं निर्गुणं शान्तं तत्वातीतं निरञ्जनम् ॥
अविभाव्यमसन्देहं पश्यमीशानमात्म * ।
सर्वगं सर्वदेहस्थं व्यापकं सर्वतोमुखम् ।
निरामयं निराधारमात्मानं पश्यते शिवम् ।
विभिन्नं प्रक्रिया मार्गं मन्त्र तन्त्र परावरम् ।
मूर्तामूर्तं जगत्कृत्स्नं पश्यतात्मन्युपस्थितम् ॥
सर्वज्ञः सर्वदर्शी च परिपूर्णः सुनिर्मलः ।
विमुक्तः केवलीभूतस्सुखमक्षयमाप्नुयात् ॥
इति सर्वज्ञानोत्तरे ज्ञानपादः समाप्तः ॥
वृक्षाणां सारभूतं पुष्पं पुष्पं समुद्राणां क्षीरसागरम् ।
तथा च सर्वशास्त्राणां सारभूतं शिवागमम् ॥
प्. २३)
पदार्थानेक सम्पूर्ण सर्ववाङ्मय साधनम्
अल्पग्रन्थमहार्थं च तच्छ्रुणुष्व यथाक्रमम् ।
योऽसावतीन्द्रियो ग्राह्यस्तत्वातीतो निरंजनः
सर्वज्ञः सर्वगश्शान्तस्सर्वात्मा सर्वतो मुखः ।
तस्माच्छास्त्रं विनिष्क्रान्तं नादरूपं निरामयम्
अत्यन्तगगनं सूक्ष्मं परमं सार्वकामिकम् ।
प्रविश्य वैन्दवं तत्वं बोधयित्वा च तंविलं ॥
पुनः सदा शिवात्प्राप्तं ममेदं सूक्ष्मलक्षणम् ।
ततः स्वराश्च वर्णाश्च हंसवर्ण समुद्भवा ॥
पुनर्मन्त्राश्च शास्त्राणि छन्दो लक्षणसंयुता ।
वभूव परमोनादो नादाच्छब्दः प्रजायते ॥
शब्दमात्रा स्मृता मन्त्रा मन्त्रे मन्त्राधिदेवताः ।
सर्वान् कामान् प्रयच्छन्ति विधिना राधिता यदा ॥
स्वरवर्णसमायोगात् दृश्यादृश्यं चराचरम् ।
तस्मादिपासयेद्वर्णान् स्वरसंयोगपूर्वकम् ॥
इति श्रीसर्वज्ञानोत्तरे मन्त्रतन्त्रोत्पत्तिप्रकरणम् ॥
वर्णयागविधानं तु स्वरं संयोग पूर्वकम् ।
परमीकरणं चैव ब्रूहि तत्वेन शङ्कर
शृणुष्वैकमना भूत्वा वर्णयागविधिक्रमम् ।
ककारादि क्षकारान्तं स्वरसंयोगपूर्वकम्
प्. २४)
एकैकमक्षरं भिन्नं स्वरै द्वादशभिस्तथा ।
ह्रस्वै ब्रह्मसमाख्याता दीर्घैरङ्गानि निर्दिशेत्
सानुस्वारसमायोगात् त्रयोनेत्राः प्रकीर्तिताः ।
स विसर्गा स्मृता ह्यस्त्रा अनुस्वारविवर्जिताः
हृद्वीजा अपञ्चमे बीजो षष्ठं बीजं नियोजयेत् ।
मात्रात्रयसमायुक्तं मूर्ध्नि बिन्दु प्र * पयेत्
शिवमेवं विधिं विद्यात् सर्ववर्णेष्वनुक्रमात् ।
ह्रस्वदीर्घप्लुतानन्तान्य या कामं प्रकल्पयेत्
ह्रस्वस्याद्यंत युत्तेन फट्कारेण तु मारयेत् ।
यधि क्रोधेनसंयुक्तो जपेत् संरक्तलोचनः
ह्रिंकारान्तसंयुक्ता दीर्घस्त्रिच्चाटयेद्ध्रुवम् ।
महांस्तु साधको भूत्वा साध्यनूनं प्रकल्पयेत्
निर्गुत्योदितमार्गेण प्रविशेत् तस्य तेन च ।
तत्रस्य एवाद्वयो भूत्वा तेनेव कर्षयेत् पुनः
अङ्गान्यङ्गेषु बन्धाय चिन्त चेतसि निक्षिपेत् ।
पद्मकोशस्थितं तं तु संहरेद्धृदयेन तु
यदेव कुरुते कर्म न देवोपवदं स्मृतम् ।
जपेत् तद् भावना युक्तो नामं मन्त्रपि दर्हितम्
बिन्दुयुक्ताः स्मृता मन्त्रा प्रणवादि नियोजिताः ।
नमस्कारान्तसंयुक्तानार्चने संप्रयोजयेत्
प्. २५)
होमे स्वाहान्तसंयुक्ता शान्तिकाकर्ष पौष्टिके ।
वश्ये च संप्रयोक्तव्या स्वाहाकारान्तसंयुताम्
किं वा मन्त्रविधानेनाति विस्तारवेनते ।
सर्वसाधारणं वत्स शृणु संक्षेपविस्तरम्
यो विधिर्मन्त्रराजस्य प्रोच्यमानो भविष्यते ।
तमेव सर्वमात्राणां सततं परिकल्पयेत्
तथैव सर्वदेवानां यजने संप्रयोजयेत् ।
इति श्रीसर्वज्ञानोत्तरे क्रियापादे स्थूलवर्णमन्त्रोद्धारप्रकरणम् ॥
मन्त्रोद्धारं प्रवक्ष्यामि तत्वतः शृणु षण्मुख ।
अतिगुह्यं परं सूक्ष्मं सर्वमन्त्रमयस्य तु
मात्रकादौ स्थिता स्थिता या तु सर्पवद्वध कुण्डला ।
सा शक्तिः परमासूक्ष्मा विश्वास ददात्मिका
पसरत्यूर्ध्वसंनाना प्रेरितानांतविग्रहा ।
करिणीय करं यद्वत् संवेष्योरसि संस्थिता
सुदीर्घा क्रियते यातु संतानेन महौजसा ।
संप्रदायेन सातूर्णमात्मानं मुञ्चते शुभा
प्रगुक्ता भवतीया तु करणीय करंयया ।
प्रकाशयति चात्मानं मोक्षद्वारं परापरम्
तत्वङ्ग्या सह गन्तव्यं मध्यदेशं विपश्चिता ।
मध्यदेशमनुप्राप्य त्यजेत् तां चञ्चलां स्त्रियम्
मूलमत्रां विदित्वा तु शक्तेर्मध्यं सुदुर्जयम् ।
प्. २६)
तन्मूलं जायते येन भोधकस्सोभिधीयते
संभूतिः सर्वबीजानामुच्चारवशवर्तिनी ।
दीर्घोसु नाशिको नादो ह्यप्रमेयो ह्यनौपमः
स्निग्धप्रसन्नगभीरशक्त्युच्चारस्तु संस्मृतः ।
प्रासादष्षष्ठसंयुक्तः पुनः षष्ठान्त योजितः
अर्धेन्दुबिन्दुसंयुक्तो मात्रात्रयविभूषितः ।
स शिवः शाश्वतः प्रोक्तः सर्वज्ञानोत्तरोत्तरः
अष्ठौ संविद्य मन्त्रज्ञैः तस्योच्चारः प्रकीर्तितः ।
ह्रस्वस्वरसमायोगा पञ्चब्रह्माणि निर्दिशेत्
दीर्घैः भिन्न स्मृतो ह्यंगः कारणात्मा महाद्युतिः ।
मूर्ध्नि बिन्दु सुषुम्नास्यां गायत्रीं तां विनिर्दिशेत्
स्वरादौ त्रीणि दिर्घाणि त्रितत्वं परिकीर्तितम् ।
नेत्रत्रयं तु तज्ज्ञेयं क्रमशः संप्रयोजयेत्
दक्षिणे ह्यात्मतत्वं तु विद्या तत्वमयोत्तरे ।
ललाटे शिवतत्वं तु त्रीणि पञ्चसु विन्यसेत्
मुखेषु नेत्रवित्प्राज्ञो नेत्रं नेत्र क्रमेण तु ।
विन्यसेदात्मनः पूर्वं शिवस्य च तथा पुनः
त्रयोदशान्तसंभिन्नं विद्येशानां प्रकल्पयेत् ।
गणेशानां तु गायत्रीं तस्मिन् सान्निध्यमागताः
हृदयं लोकपालानां विज्ञेयं सार्वकामिकम् ।
अस्त्रपाशुपतं दीप्तस्त्र मन्त्रं प्रकल्पयेत्
प्. २७)
सर्वे बिन्दुसमायुक्ता शुद्धकुन्देन्दु संप्रभाम् ।
विश्वकीद्विश्ववेत्तारो विश्वकृद्विश्व मूर्तयः
ओंकारदीपिता मन्त्रा नमस्कारान्तयोजिताः ।
अर्च्चते संप्रयोक्तव्या होमे स्वाहान्तसंयुताः
न बिन्दुर्न शिखामात्राप्यस्त्रवशस्य षण्मुख ।
स विसर्गास्तथा दीप्ता घोरकर्मकरा स्मृताः
एकत्रिंशान्तिकं वर्णं सप्तमस्वरयोजितम् ।
ककारार्धयुतं कृत्वा क्षरिकास्त्रं प्रकीर्तितम्
एते मन्त्राश्शिखास्सूक्ष्माः परमाः सर्वकामिकाः ।
सर्वैरेभिः सदा कुर्याच्छिवीकरणमात्मनः
यदा यदा समाचामे मन्त्रन्यासं यदा तदा ।
कुपितकरकायेषु मन्त्रिमन्त्रार्य सिद्धये
इति श्रीसर्वज्ञानोत्तरे क्रियापादे प्रासादमन्त्रोद्धारप्रकरणम् ॥
अथातः संप्रवक्ष्यामि शिवीकरणमुत्तमम् ।
यत्कृत्वा तु नरः सम्यक् शिवो भवति नान्यथा
देहं संशोधयेत् पूर्वं धारणाभिस्तु पञ्चभिः ।
शुद्धदेहस्ततो भूत्वा शिवमन्त्रान् नियोजयेत्
सुषिम्नान्तर्वहिः शक्ति विन्यसेद् व्योमरूपिणीम् ।
तस्य मध्ये तु हुंकारं ज्वलन्तं पावकप्रभम्
प्राणापानसमायुक्ते तस्मिन् चित्तं निवेशयेत् ।
प्. २८)
उत्छ्र?टान्तेस्त्र मोक्षस्तु हुंकारेण समन्वितः
ग्रन्थिभेदं कुरुष्वेवं पुनः साधानमारभेत् ।
सन्निरुद्धे कृते सम्यक् गूर्ध्वं वायुः प्रवर्तते
योद्घात इति विख्यातः स्वेच्छया तु कनीयः * ।
पूरकेणोपसंहृत्य हृदयेन तु मन्त्रवित्
सान्तबीजमयं जीवं न्यसेधूंकारमूर्धनि ।
हुंकारस्य शिखान्तस्य पुरुषं बीजविग्रहम्
ध्यात्वा त्वेकाकिनं सूक्ष्मं बिन्दुभूतं निरामयम् ।
ततः संयोजयेद् योगी शिवे परमकारणे
शिवातीते सदाशान्ते शुद्धस्फटिक निर्मले ।
एकेनोद्घात मात्रेण एकलक्षस्सुमन्त्रितः
एकीभावसमायुक्तः प्रविशेच्छिवमव्ययम् ।
बीजवृत्याशिखेलून तत्व वृत्या तु तत्ववित्
म्यदीनि विजानीयादनिलानि विशोधयेत् ।
हृदा तु पार्थिवं बीजं वारुणं शिरसा सह
नियुक्तं शिखयाग्नेयं वायव्यं कवचान्वितम् ।
होकार मन्त्रसंयुक्तं मण्डलेषु प्रयोजयेत्
एतास्तु धारणा ज्ञेय ऐंद्राद्या देशिकोत्तमैः ।
वैन्दवास्तु कलास्ताश्च निवृत्याद्याः प्रकीर्तिताः
प्रधंदारण भेदेन प्रणवेत्वेकधा स्थिताः ।
प्. २९)
ज्ञानत्वैतास्तु कलासम्यक् स्थूल सूक्ष्मविमिश्रकाः
ततो ध्यानं प्रकुर्वीत देह संशोधनाय च ।
चतुरश्रं समंपीतं वज्रांग वज्राङ्गं कठिनं गुरुम्
लकारासनमारूढं हृद्बीजमध्यतः स्थितम् ।
उद्घातैः पञ्चभिर्युक्तं वायुभूत विशोधयेत्
अर्धचन्द्रं द्रवं सौम्यं शुद्धकुन्देन्दु समप्रभम् ।
वारुणं मंडं ध्यायेत् मध्ये कमलभूषितम् ॥
वकारासन मध्यस्थं शिरोबीजमधोमुखम् ।
युक्तं चतुर्भिरुद्घातैः वह्निभूतं विशोधयेत्
विषानल महावेग कालपाशविनाशनम् ।
वर्षन्तं तमभिध्यायेत् नादमानं सुशीतलम्
डाडिमी कुसुम प्रख्य मध्यशृंगाटकाङ्कितम् ।
त्र्ययश्रमर्चस्सुसम्पन्नमाग्नेयं मण्डलं स्मरेत्
रकारासनमारूढं शिखाख्यं बीजमुत्तमम् ।
उद्घातै स्त्रिभिः संयुक्तं जलभूतं विशोधयेत्
शोधयन्तं स्वकंदेहं निर्दहन्तमकल्मषम् ।
सकृष्णं बिन्दुभूतं * * * * * * * *
वायव्यमण्डलं ध्यायेत् पादादारभ्य चञ्चलम् ।
यकारासन् संविष्टं कवचं वायुविग्रहम्
शोधयेत् पार्थिवं भूतं उद्घात दवय योजितम् ।
ततः सञ्चिन्तयेद् व्योमं समलं सर्वतोमुखम्
प्. ३०)
नित्यं सर्वगतं शान्तं बिन्दुशक्तिविभूषितम् ।
ओंकारासंविष्टं हकारं नाहसंविलम्
कोनोघातमात्रेण शून्यभूतं विशोधयेत् ।
मण्डलं बीजसंयुक्तं ध्यानेन विविधेन च
प्राणायामैर्मतं सम्यक् धारणेत्यभिधीयते ।
यायेव धारणाधार्य जगत्सर्वं हि तन्मयम्
यदात्मकं च योगीन्द्रास्तत्तत्कर्मजलं ययुः ।
एवं संशुद्ध देहस्त्वमृतीभूतो विधानवित्
ततो निरुक्षयेन् मार्गं का नाडी वहते मम ।
यस्मिन् चरति पुद्गलः * * * * * * * *
तत्रान्तर्देह विनासमन्तर्य जनमेव च ।
देहस्तस्य विदेहस्य जाक्षिभूतस्य कर्मसु
नित्योदितस्य कुर्वीत सदासन्निहितस्य तु ।
वामनासा पुटे या तु इडासा परिकीर्तिता
दक्षिणे पिङ्गला ज्ञेया सुषुम्ना मध्यत स्थिता ।
यस्मिन्नभ्यधिको वायुस्सानाडी सर्वकामदा
इडानाड्यां वहन्त्यां च म दिवस्थान प्रकल्पयेत् ।
पिङ्गला नाडि पद्मं तु सुषुम्ना मूर्ध्नि योगवित्
हृदयेच्चा विधानं तु नाभौ भौमं प्रकल्पयेत् ।
मूर्ध्नान्ते शिवं ध्यायेत् वरदं सर्वतोमुखम्
प्. ३१)
रात्रौ संपूजयेद् देवं दिवाहोमं च कारयेत् ।
सन्ध्यासु च ततो ध्यानं दिवा रात्रौ जप स्मृतम्
दिवा तु तामसं कुर्याज्जपो रात्रौ तु राजसम् ।
सन्ध्यायां सात्विकः प्रोक्तो जपः सर्वार्थसाधकः
विस्पष्टस्तामसः प्रोक्तो राजसोपांशुरुच्यते ।
मनसा सात्विकं विघात् जपं जप्यविदां विदुः
तामसं क्रूरकर्माणां वश्यादिषु च राजसम् ।
सात्विकं दिव्यसिद्धीनां जपं युज्याद्विचक्षणः
प्राणपत्ति निरोधेन यो जपः क्रियते सदा ।
स जपः सात्विकः प्रोक्तो भोग मोक्ष फलप्रदः
नं तु द्विविधं कुर्यात् स्थूला सूक्ष्मं सदाबुधः ।
ध्यानेन हि परां सिद्धिं प्राप्नुवन्ति हि योगिनः
स्थूल मन्त्रमयं प्रोक्तं सर्वावयवसंयुतम् ।
द्विमार्गावस्थितं ध्यायेत् पूजाग्नौ होमवित्तमः
केवलं शिवबीजं तु सर्वावयववर्जितम् ।
न जातिरूपं परं शुद्धं तत्सूक्ष्मं परिकीर्तितम्
दक्षिणायनमित्युक्तं निशा सोमात्मिका गुह ।
अहस्तु विमलं प्रोक्तं सौरमेयोत्तरायणम् ।
सन्ध्या तु विषुवं प्रोक्तं वुत्तरेण * * * * ?
उत्तरेण वहन्तस्य दक्षिणायनमादिशेत् ।
प्. ३२)
दक्षिणेनोत्तरं विद्यां मध्ये तु विषुवं भवेत्
समीभूते यदा वायुःश्चरते संपुटद्वये ।
विषुवं तु विजानीयात् पुण्यमन्त्रो भयात्मकम्
विषुवं चन्द्रमाहेन्द्रांद्या दक्षिणायनमाश्रिताः ।
इडाख्यान्तर्गतां ध्यायेत् पितृयाने शिखिद्ध्वज
ब्रह्मावह्नी रविर्वायुरुत्तरायणमाश्रिताः ।
पिंगलान्तर्गतं ध्यायेद् देवयानं तदुच्यते
अनन्तेशश्चरुद्रश्च सदाशिव शिवौ तथा ।
सुषुम्नान्तर्गतं ध्यायेद् विषुवे च विचक्षणः
धर्मज्ञानं च वैराग्यमैश्वर्यञ्च चतुष्टयम् ।
योगपीठं च पद्मं च प्रणवेन तु विन्यसेत्
तत्वं विन्यसेत् पूर्वं कर्णिकायां विचक्षणः ।
व्यापयन्ति मधश्चोर्ध्वं पुनः शक्ति नियोजयेत्
ततश्चाकर्षयेज्जीवं शिवीभूतं निरामयम् ।
पूरकेण शिखान्तस्थं शिवबीजमयंपरम्
स्थापयेत शिखामध्ये ज्योतीरूपं सुनिर्मलम् ।
अमृते वा प्लाव्यमानमुपरिष्टात् समं ततः
ततोऽस्य मन्त्रविन्यास सूक्ष्मदेहस्य षण्मुख ।
यथा भवति तत्वेन तच्छृणुष्व यथाक्रमम्
शान्तौ करतलौ कृत्वा करशाखासु पञ्चसु ।
प्. ३३)
ईशानादीनि ब्रह्माणि कनिष्ठादिषु योजयेत्
ततोङ्गानि नियुंजीत हृदयादि ततो पुनः ।
प्रासादं विन्यसेत् पञ्चद्व्यापिनं सर्वतोमुखम्
ततश्चालभनं कुर्यात् पादादारभ्य मूर्ध * ? ।
ईशानं पञ्चधा मूर्ध्नि वक्त्रंवक्त्र चतुष्टये
दीप्ततेजस्सितोक्तानां पञ्चमं प्रणवेन तु ।
हृदाद्यंगैरघोरं तु गुह्यवामं प्रकल्पयेत्
पादादारभ्य सर्वाङ्गैः सद्योजातं तु विन्यसेत् ।
हृदि श्रीवातदानौ च नाभ्यां च जठरे तथा
पृष्ठे ह्युरसि मन्त्रज्ञो विन्यसेद् बहुरूपिणम् ।
गुह्ये चैव तथालिङ्गे ऊर्वोर्वैजानुनोस्तथा
जंघयोश्च स्फिचोत्कट्यां पार्श्वे वामकला न्यसेत् ।
पादयोर्हस्तयोश्चैव नासायां शिरसा तथा
बाह्येश्चैव च मन्त्रज्ञ सद्योजात कलान्यसेत् ।
नेत्रं नेत्रेषु विन्यस्य पुनरंगानि योजयेत्
हृदयं हृदयेद् विन्यस्य शिरः शिरसि विन्यसेत् ।
शिखायां तु शिखाद्या तु कवचं स्तनमध्यतः
अस्त्रं हस्तप्रदेशे तु ततोध्यानं समाश्रयेत् ।
शिवस्य यादृशं रूपं तादृशं चिन्तयात्मनि
शिवमन्त्रन्यासमिदमात्मानं तु सदा कुरु ।
प्. ३४)
प्राकृतं भावमुत्सृज्य शिवोऽहमिति भावयेत् ।
यथान्तर्देह विन्यासस्तथा बाह्येपि षण्मुख
बाह्ययागं यथा वक्ष्ये सूक्ष्मदेहान्तरे तथा ।
तथा वै शिष्य देहे तु अग्नौ होमे तथैव च
इति श्रीसर्वज्ञानोत्तरे क्रियापादे परमीकरणप्रकरणम् ॥
अतः परं प्रवक्ष्यामि बाह्ययाग विधिक्रमम् ।
सर्वकामप्रदं गुह्यं सर्वपापहरं परम्
अलंकृत्य स्वकंदेहं शिवमन्त्रैः यथाक्रमम् ।
शिवीभूतः सुपूतात्मा शिवस्यार्चनमारभेत्
उत्तराभिमुखो भूत्वाऽस्त्रमावर्तयेच्छुचिः ।
विघ्नानुच्चाटयेत् स्थूलात् तालशब्द त्रयेण तु
तर्जन्या तर्जयेत् तांस्तु हंसमंत्रान् विन्यसेत् ।
पुनरावेष्टयेन्मन्त्री तत्स्थानं कवचेन तु
ततो ह्यस्त्राणि विन्यस्ये दिशासु विदिशासु च ।
वज्रं शक्तिं च दण्डं च खड्गं पाशं तथांकुशम्
गदात्रिशूलं चक्रं च पद्मं चेति यथाक्रमम् ।
ऐन्द्री दिशं समारभ्य यावदीशानगोचरम्
अधश्चक्रं तु विन्यस्य पद्ममूर्ध्वं नियोजयेत् ।
गन्धैः पुष्पैस्तथा धूपैः पुनरस्त्राणि पूजयेत्
ततश्शक्तिमनहृत्य सूक्ष्मामृतरूपिणीम् ।
प्. ३५)
व्यापयन्ति ह्यधश्चोर्ध्वमप्रमेयां मनौपमाम्
अर्घ्यपात्रं ततोग्राह्यं हुंफट्कारेण क्षालयेत् ।
स बाह्याभ्यन्तरं पश्चात् कवचेनावकुण्ठयेत्
बिन्दुस्थानं समाश्रित्य मध्ये पद्मं विचिन्तयेत् ।
त्रितत्वं विन्यसेत् तस्मिन् पुनः शक्तिं नियोजयेत्
आपूर्य पञ्चभिर्ब्रह्मैः शिवाङ्गैश्च शिवेन च ।
गन्धपुष्पसमायुक्तं तज्जलं मन्त्रसंस्कृतम्
आवाहयेत् परं देवं प्रासादं परमामृतम् ।
अङ्गैरङ्गीकृतं वत्स शुद्धस्फटिकनिर्मलम्
द्रव्याणि प्रोक्षयेत् तेन यज्ञार्थं कल्पितानि तु ।
अप्रोक्षितं न ता दिव्यं भविष्यत्वं च वै शिवे
स्वमन्त्रैरर्चनं कुर्याद् देवता नयथोदितम् ।
धर्मादि चास्त्रपर्यन्तं शिववर्ज षडानन
शिवस्य शिवमन्त्रैस्तु होमकाले विधीयते ।
संपूर्णाहुति दाने च सर्वकर्म समर्पणे
धर्मज्ञानं च वैराग्यमैश्वर्यं च चतुष्टयम् ।
आग्नेयं दिशमाश्रित्य विदिक्षु प्रणवेन तु
ब्रह्मस्थाने पुराशक्तिं कल्पयित्वा तु विन्यसेत् ।
योगपीठं ततः पश्चाच्छक्तिनालं च पङ्कजम्
अष्टपत्रं भवेत् तत् तु चतुर्भागान्तकर्णिकम् ।
प्. ३६)
त्रिभागकेपराकीर्णं शक्तिजालवितानितम्
वामाज्येष्ठा च रौद्री च कालि कला बला तथा ।
बलप्रमथनी सर्वभूतदमनी मनोन्मनी
आर्वपत्रात् समारभ्य यावत् पत्रं तु शांकरम् ।
हृदयेन तु विन्यस्य केसरेषु दलेषु च
मनोन्मनीं न्यसेन्मध्ये शक्तिं वै कारणात्मिकाम् ।
ईशानं कर्णिकायां तु शिवव्योम प्रकल्पयेत्
शिवस्य पुनरीशान्यां मूर्तिमन्त्रं प्रकल्पयेत् ।
सितवर्णनिभं ध्यात्वा पूर्ववक्त्रे तु पुद्गलम्
याम्येत्वघोरनामानं वाममुत्तरतो न्यसेत् ।
सद्यः पश्चिम भागे तु ततोह्यावाहनं भवेत्
आवाह्य सद्यमन्त्रेण वामदेवेन स्थापयेत् ।
अघोरेण तु सान्निध्यमर्घ्यं तत्पुरुषेण तु
ततस्तु सकलं कुर्यादव्यक्तं व्यक्तलक्षणम् ।
वर्णरूपक संयुक्तं पुनः पूजां प्रकल्पयेत्
ईशानं पञ्चधा मूर्ध्नि वक्तं वक्त्रचतुष्टये ।
दीप्ततेजस्सितोक्तानां पञ्चमं प्रणवेन तु
हृदयांगैरघोरं तु गुह्यवामं नियोजयेत् ।
पादादारभ्य सर्वाङ्गैः सद्योजातं तु विन्यसेत्
हृदि ग्रीवा तथांसौ च नाभौ च जठरं तथा ।
प्. ३७)
पृष्ठे ह्युरसि मन्त्रज्ञो विन्यसेद् बहुरूपकम्
गुह्ये चैव तथालिङ्गे ऊरुभ्यां जानुनोस्तथा ।
जंघयोश्च स्फिचौ कट्यां पार्श्वे वामकला न्यसेत्
पादौ हस्तौ च नासा च शिरश्चैव लजा प्रभौ ।
सद्योजात कलाह्येवं ततस्सर्वत्र मूर्तिषु
नेत्रं नेत्रेषु विन्यस्य ततोङ्गानि नियोजयेत् ।
हृदयं हृदये न्यस्य शिरं शिरसि विन्यसेत्
शिखायां तु शिखां विद्यात् कवचं स्तनमध्यतः ।
अस्त्रं हस्तप्रदेशे तु पुनरङ्गानि नियोजयेत्
आग्नेर्यां हृदये न्यस्य ईशान्यां तु शिरो न्यसेत् ।
नैर्-ऋत्यां तु शिखां दद्यात् वायव्यां कवचं न्यसेत्
अस्त्रं दिशासु सर्वासु द्वितीया वरणे स्थितः ।
पूर्वादारभ्यमन्त्रज्ञो गायत्रीं विदिशासु च
विद्येश्वरांस्तृतीये तु पूर्वादारभ्य विन्यसेत् ।
अनन्तेशं च सूक्ष्मं च शिवं च पुनरुत्तमम्
एकनेत्रैकरुद्रौ च त्रिमूर्तिं चामृतद्युतिम् ।
श्रीकण्ठं च शिखण्डीशं युगान्तादित्यसन्निभाः
इच्छारूपधरास्सर्वे इक्षु मूर्ति फलप्रदाः ।
गणेश्वरांश्चतुर्थे तु कौबेर्याशादिशः क्रमात्
दिवं चैव तु चण्डेशं महाकालं च नन्दिनम् ।
प्. ३८)
गणाध्यक्षं च भृङ्गीशं वृषभं स्कन्दमेव च
ध्यायेत् सान्निध्यमनुद्विग्नपद्मराग समप्रभात् ।
पञ्चमे लोकपालास्तु क्रमादावरणे बुधः
विन्यसेदस्त्रमार्गेण ध्मातचामीकरप्रभान् ।
इन्द्रं च पावकं चैव यमं निर्-ऋतिमेव च
जलं वायु कुबेरेशान् विष्णु ब्रह्माणमेव च ।
विद्येश्वर गणेशानामाननं प्रणवं विदुः
बिन्दुं च लोकपालानां विसर्गं चास्त्रयोनिषु ।
विन्यस्यैवं विधानेन ततः संपूजयेच्छिवम्
शुद्धस्फटिकसंकाशं वरदाभयपाणिनम् ।
संश्लिष्ट रत्नपादान्तं शङ्खचक्राम्बुजाङ्कितम्
समजंघोरुचरणं गूढग्रन्थि सिरोच्छ्रयम् ।
विस्तीर्ण कट्युरसकं पीनवक्षस्थलांसकम्
सुरक्तपाणिशाखान्तं दीर्घबाहुं नखोज्वलम् ।
स्थूलबाहु शिरोस्कन्धं निम्ननाभिं कृशोदरम्
कम्बुग्रीवं विभक्ताङ्गं संपूर्णवदनोज्वलम् ।
सुभ्रूललाटबिम्बोष्ठ कर्णनासं सुमूर्धजम्
विमलं पञ्चवक्त्रं च पञ्चमूर्ध्व विभूषितम् ।
त्र्यक्षं दशभुजं शान्तं जटामकुटमण्डितम्
शशांकार्धधरं देवः पद्मपत्रायतेक्षणम् ।
प्. ३९)
बद्धपद्मासनं सौम्यं किञ्चित् कुञ्चितलोचनम्
मन्त्रसिंहासनारूढं बीज्यमानं वराङ्गनैः ।
दिव्यगन्धानुलिप्ताङ्गं दिव्याम्बरमनोहरम्
सर्वलक्षणसंपूर्णं सर्वाभरणभूषितम् ।
ध्यात्वात्वेवं विधं मन्त्री सर्वकामफलप्रदम्
ततः स्नानादिकं कर्मं मन्त्रयुक्तं समाचरेत् ।
स्नापयेत् सद्य बीजेन कवचेन विलेपयेत्
वस्त्राणि मेखलां चैव वामदेवेन * * * ? ।
ईशानेन तु पुष्पाणि मकुटं कुण्डलानि च
केयूरमुपवीतञ्च कटकं हारमेव च ।
अघोरेण प्रदातव्यं धूपं तत्पुरुषेण तु
नेत्रेण दापयेद् दीपं पुनराव(र)णैः क्रमात् ।
गन्धपुष्पाणि धूपञ्च दीपं चात्र प्रदापयेत्
ततस्त्वर्घ्यं प्रयुञ्जीत पाद्याचमनपूर्वकम् ।
निवेद्यार्घ्यं तु देवस्य ततो मुद्रां प्रदर्शयेत्
नमस्कार ध्वजश्चैव कालकर्णि च सिष्टुरा ।
चोटिका मुद्राः ततः पद्मः लिङ्गञ्च द्रव्यरूपिणि
सिद्धिताः परमाह्येताश्शिवीसान्निध्यकारकाः ।
गन्धदिग्धौ करौ कृत्वा मुद्रां सम्यक् प्रपूजयेत्
प्. ४०)
पद्भ्यां पाद्यं पुरादद्यादागतस्य शिवस्य च ।
मुखेष्वाचमनीयञ्च शिरस्स्वर्घ्यं निधोजयेत्
प्रथमा वाहनेत्वर्घ्यं पूजान्ते च तथापुरम् ।
विसर्जने तृतीयन्तु देवस्यार्घ्यं प्रकल्पयेत्
पूर्वमूर्धसमारभ्य दक्षिणोत्तर पश्चिमे ।
मध्ये चैव तु मन्त्रज्ञः पञ्चस्वर्घ्यं नियोजयेत्
सव्यं चैवापसव्यञ्चार्घ्यं दद्यात् पुनः पुनः ।
ऊर्ध्ववक्त्रे तु दातव्यं समुखं च पराङ्मुखम्
संस्थितस्य च देवस्य समुखं परिकल्पयेत् ।
विसर्जने तु गाङ्गेयं देयमर्घ्यं पराङ्मुखम्
एवमर्घ्यविधानं तु ततो द्रव्यं निबोध मे ।
भक्ष्या भोज्यान्न पानादि लेह्यशोष्यान्यनेकशः
सर्वं हृदयमन्त्रेण य * * * धि चोदितम् ।
पुनरावणैर्दत्त्यात् नैवेद्यं मन्त्रसंस्कृतम्
अग्निः कार्यं ततः पश्चात् सुसमिद्धे हुताशने ।
शास्त्रदृष्टेन विधिना कृत्वा भूतबलिं हरेत्
तोयभक्तसमायुक्तं पुष्पधूपसमन्वितम् ।
दद्याद्भूतबलिं मन्त्री सर्वपाकविमिश्रितम्
पाणिपादौ ततः क्षाल्या चान्तः पुनराचमेत् ।
प्रविश्यायतनं पश्चात् जपं कुर्याद् विचक्षणः
प्रणिपद्य प्रसाद्येशं ध्यानमाश्रित्य मन्त्रवित् ।
प्राणायामैः शिखांस्थयेकंचित्तः सदा जपेत्
प्. ४१)
बद्धपद्मासनोमौनी अक्षमाला करस्थितः ।
स्वस्तिकं वासनं बद्ध्वा समकायशिरः स्थितः
अनन्यमानसो योगी मन्त्री तन्मयतांगतः ।
अचिरात्सिद्धिमाप्नोति अदैतदैतमाश्रितः
इति श्रीसर्वमन्त्रानोत्तरे क्रियापादे अर्चनाप्रकरणम् ॥
अतः परं प्रवक्ष्यामि अग्निकार्यविधिक्रमम् ।
आश्रयं सर्वसिद्धीनामिहामुत्रफलप्रदम्
प्रोक्षित्वा पुराप्राज्ञः कुण्डमस्त्रोदकेन तु ।
ततस्त्वावेष्टयेत् पश्चात् कवचेन यथाक्रमम्
पुनरुल्लेखनं कुर्यादस्त्रबीजेन षण्मुख ।
पुनरच्युक्षणं पश्चात् कवचेन विधानवित्
विष्टरं कुण्डमध्ये तु प्रणवेण पुनर्न्यसेत् ।
ततः शक्तिं न्यसेत् तस्मिन् तटित्सहस्रसन्निभाम्
ऋतुमतीं विशालाक्षीं सततं योनिमुद्रया ।
चतुद्ध्वः स्वरसंभिन्नो वह्निबीजोर्ध्वदीपितः
षोडशान्तहतो हंसश्शक्तिरेषानिगद्यते ।
गन्धपुष्पार्चितां कृत्वा अर्घ्यधित्व विधानवित्
शिवसन्तर्पणार्थाय ततो वह्निं प्रकल्पयेत् ।
चतुर्थेन विनिर्मुक्तो ह्यधष्षष्ठं नियोजितः
स एव हंस संज्ञस्तु वह्नि सर्वार्थसाधकः ।
प्. ४२)
ताम्रपात्रेशरावे वा वधित्वा हुताशनम्
अस्त्रेण प्रोक्षयेत् तं तु पुनर्बूज नियोजयेत् ।
ततस्त्वा वेष्टयेत् पश्चात् कवचेन विधानवित्
पूजयित्वा त्रिधा कुण्डे योनिमार्गेण निक्षिपेत् ।
सद्योजातेन मन्त्रेण हृदयं तु पुनर्जपेत्
गङ्गास्तानं भवेदेवं जातवेदसि षण्मुख ।
शिरसाभ्यर्चयित्वा तु वामदेवं ततो जपेत्
कृतं पुंसवनं एवं सीमन्तोन्नयनं शृणु ।
अघोरेणार्चयेद् देवं शिखाबीजं ततो जपेत्
सीमन्तकरणं वह्नेः कृतं भवति शैवकम् ।
कवचेन समभ्यर्च्य जपेत् तत्पुरुषं विभुम्
जातकर्म कृतं ह्येवं ततो नाम विनिर्दिशेत् ।
ईशानेनार्चयित्वास्त्रं च परिवर्तयेत्
ततोस्या श्रावयेन्नाम शिवाग्निस्त्वं हुताशनः ।
जनने पद्ममुद्रास्य लिङ्गमुद्राग्नियोजने
निरोधे निष्ठुरा प्रोक्ता बीजाभ्या सर्वकर्मसु ।
एवमग्निं सुसंस्कृत्वा मुद्राः मन्त्रैः यथाक्रमम्
ततो होमं प्रकुर्वीत शास्त्रदृष्टेन कर्मणा ।
हृद्वीजेनास्तरेद्दर्भान् परिधयश्च निधापयेत्
प्रागग्रानुत्तराग्रां च पुनर्देवान् प्रपूजयेत् ।
प्. ४३)
ब्रह्माणं शंखरंविष्णुमनन्तेश समन्वितम्
पूर्वादारभ्य गायत्र्या विष्टरस्तान् तथाक्रमम् ।
आग्नेधिंदिशमाश्रित्याज्य भाण्ड्ं तु स्थापयेत्
अधिश्रयं पुरा कृत्वा पश्चादीन् प्लवनादिकम् ।
प्रादेशमात्रकान् दर्भान् प्रश्चिन्ना नखेन तु
अंगुष्ठानामिकैर्गृह्य घृतस्याप्लवनं कुरु ।
ततः संप्लवनं मन्त्री संमुखं घृतमुत्पलवत्
स्रुवं स्रुचं प्रताप्याग्नौ परिमृज्य समन्ततः ।
संस्पृशे तु कृशौस्सर्वमग्र मध्यावसानकम्
स्थापयेद् दक्षिणे भागेर्श्व कृज्यादीनि तथोत्तरे ।
हृदयेन विधानज्ञः सर्वकर्म समाचरेत्
ततोभिधारयेद् वक्त्रान् ब्रह्मभिस्त्वनुपूर्वशः ।
पुनरद्घाटनं कुर्यादस्त्रबीजेन षण्मुख
निष्कृतिं तु शिवास्त्रेण दत्वा सर्पिन्निरूपयेत् ।
शिवे सोमे तथा व्यघ्नौतस्त्रिधा परिकल्पयेत्
तर्पयित्वा ततो वह्निं दत्वा पूर्णाहुतिं क्रमात् ।
तत त्रासन विन्यासं प्राशुत्तं परिकल्पयेत्
पूर्वोक्तेन विधानेन गन्धपुष्पैरनुक्रमात् ।
पूजयित्वा शिवं सम्यक् ततो होमं समारभेत्
बहुभव्येन्धने शुद्धे सुसमिद्धे हुताशने ।
प्. ४४)
विद्रुमे लेलिहाने च हुनते यस्ससिध्यते
अर्चिष्मान् पण्डित शिखस्सुगंद्धिल्लघुविक्रमः ।
स्निंध प्रदक्षिणावर्तो जातवेदस्तु सिध्वितः
विष्णुलिंगी लिखेद् भूमिं शुक्लः कृष्णः प्रक्षिणैः ।
दुर्गन्धश्चैव रूक्षश्च तत्र सिद्धिर्न विद्यते
तत्रैव होमयेत् तावच्छुद्धो हुताशनः ।
विशुद्धे पावके शुद्धेरन्यथा विफलो भवेत्
तस्मादेवं विदित्वा तु विशुद्धो होमयेत् सदा ।
शिवादि सर्वमन्त्राणामाहुत्या परिसंख्यया
दशशतं सहस्रं वा अयुतं लक्षमेव वा ।
होमं दशगुणं प्रद्ध्या शिवस्य परिकल्पयेत्
ब्रह्मशक्ति शिवाङ्गानां विद्येश्वरगणेश्वरान् ।
लोकपालास्त्रमुख्यानां तस्मादेक गुणः स्मृतः
संपूर्णाहुतिदानं तु प्रकुर्वाद्धारणान्वितम् ।
अमृतं यत्परं वत्स स्रवन्तं मनुस्मरेत्
पदमुच्छारयेन्मन्त्रं मन्त्री पूर्णाहुतिप्रतिम् ।
इदमस्त्वमृतं भूयो वौषडन्तमनुस्मरेत्
मन्त्रार्पित मनो भूत्वा मन्त्रालंकृतविग्रहः ।
होमयेदेक चित्तस्तु मन्त्रतन्मयतांगतः
* व जुहुयान्मन्त्री जपेद् वापि समाहितः ।
प्. ४५)
शब्दे तत्वे परे तेनस्स सिद्धिफलभाग्भवेत्
प्रणम्य भक्त्या देवेशं स्तुत्वाचान्ते क्षमापयेत् ।
संहृत्यैव ततो मन्त्री जपः प्रजान्निवेदयेत्
यत्कृतं यच्च कुर्याः तत्सर्वं सुकृतं तव ।
त्वं गतिर्विश्ववेत्ता च नान्योनाथो हि मे शिवः
विसर्जयेत् ततो देवं पुनः पूज्या विधानतः ।
पश्चादग्निं विसर्जेत कृतं कर्म समाहितः
विसर्जितस्य देवस्य गन्धपुष्पन्निवेदनम् ।
निर्माल्यं तद्विजानीयात् वर्ज्यं वस्त्रविभूषणम्
अर्चयित्वा कुतं यश्चण्डेशाय निवेदयेत् ।
निर्माल्यं भक्षणं दानं लंघनं च विवर्जयेत्
आचम्योद्धूल्य पूतात्मा भोजनं तु समारभेत् ।
अथ पात्र विधानेन क्षालयित्वा तु भोजनम्
तथैवावेष्टनं कृत्वा ततस्तस्मिन्निवेशयेत् ।
शिवेन शिवगायत्र्या हृदा चैव विधानवित्
हृदयेनाहुतिः पञ्च शेषं कुर्याच्छिवार्पणम् ।
आचम्य तु शुचिर्भूत्वा शिवं ध्यायेत् पुनर्जपेत्
वासिसूज्य जपस्यान्ते सत्यं प्रियहितः कुरु ।
किञ्चित् संव्यवहारार्थं प्राशुतं पुनराचमेत्
अग्निकार्यं जपो यागे योगो दीक्षाः षडानन ।
प्. ४६)
गुह्ये मनोरमे स्थाने सुविशुद्धे महीतले
इति सर्वज्ञानोत्तरे क्रियापादे अग्निकार्यप्रकरणम् ॥
अतः परं प्रवक्ष्यामि महीतल विशोधनम् ।
तस्याः परीक्ष्य विज्ञानं परिग्रहमेव च
सुगन्धास्वादुसंयुक्ता श्वेता रक्ता च पिञ्जरा ।
पांसुनाप्ययुनाधन्या भ्रमिस्सर्वार्थसाधिका
प्रागुदक् प्लवनां स्निग्धां कृष्णां वा शुभदर्शनाम् ।
जलतीरसमीपस्थां शुद्धां भूमिं परीक्षयेत्
यस्य वर्णास्य यो गन्धः शोभनः स तु विद्यते ।
केशास्थि कंटकैर्हीनां गर्तोषरविवर्जिताम्
त्रिहस्तोद्घात भूशर्ययां सर्वदोषविवर्जिताम्
सेचयेद्गन्धतोयेन पञ्चगव्यशिवाम्भसा ।
धौतवस्त्रैः शुचिस्स्नातैस्ततः संचालयेत् पुनः
अकालमूलकलशे वस्त्रपूतेन वारिणा ।
ततः कुटवपधीतै तु पलाशाश्वत्थ मुद्गरैः
दर्पणोदरसंकाशां कृत्वा भूमिं परिग्रहेत् ।
पक्वेष्टकामयं वापि शुद्धदारुमयं तथा
मृण्मयं वा पुनाकृत्वा विशुद्धं यागमण्टपम् ।
दीर्घं द्विगुणं कृत्वा विस्तारादेकभागिकम्
प्. ४७)
द्वारास्त्रिदीयके भागे सार्धहस्तप्रमाणतः ।
मण्डलस्य तु द्वौ भागौ भागं कुण्डस्य कल्पयेत्
विदिक्षु क्रूरकर्माणि कुर्यात् कुर्यात् दिक्षु शुभानि च ।
चतुरश्रं प्रकुर्वीत सुघनं यागमण्टपम्
विचित्रं चित्रकर्माढ्यं प्राकारपरिवेष्टनम् ।
चतुरश्रं ततः. कुण्डं कुर्याद् वर्तुलमेव च
मेखलोपरिमध्यस्थं योनिश्चैव प्रकल्पयेत् ।
मेखलां तु समां कुर्यात् ततः शास्त्रवित्तमम्
चतुरङ्गुलमुत्सेधां विज्ञाब्जलांछनं दृढम् ।
हस्तप्रमाणेन अथो मध्य तथोपर
त्रिमेखलासमायुक्तं सुसमं चारुदर्शनम् ।
गजोष्ठवत् प्रकुर्वीत सूचि पुष्करमेव च
मेखलोपरिमध्यस्तमाज्ज्याधारं मनोहरम् ।
तस्योपरि पुनश्चोर्ध्वमुझ वा सदारुभिर्दृढम्
वितानसहितं कुर्याददिश्रं जालकान्वितम् ।
शोभनं तद्विजानीयात् सर्वकाम फलप्रदम्
कृत्वा सुनिर्मलं भूमिं परिगृह्य पुनर्यजेत् ।
वर्धन्यमुंदी पूर्णायामघोरास्त्राभि मन्त्रिताम्
कृत्वेद किं दधेद्धीरा मत्युच्चिन्नां प्रदक्षिणाम् ।
तस्या मार्गेण कलशमाचार्येणोद्धतं शनैः
प्. ४८)
सर्वकास्मयेति भ्रूमयित्वा निधापयेत् ।
ऐशान्यमण्डलां ते तु विघ्नौघशमनं परम्
पूर्वपङ्कजविन्यस्तं सप्तधान्योपरिस्थितम् ।
क्षालितं चास्त्रबीजेन कवचेनाव कंठितम्
स्त्रितत्वोपरि विन्यस्त चन्दनागरुधूपितम् ।
वस्त्रपूताम्बुसंपूर्णं पञ्चरत्न समन्वितम्
सर्वौषधि समायुक्तं सर्वगन्धोपशोभितम् ।
हेम्ना कण्ठे तथा बद्धं सूत्रकण्ठमथापि वा
चूतपल्लवसंयुक्तं सितवस्त्रावकुंठितम् ।
एवं विधं शिवं रम्यं शिवेनाधिष्ठितं गुह
यागस्यादौ तु संपूज्य यागान्ते स्नानमाचरेत् ।
परिग्रहे वास्तु यागं पुनर्यागं गणाधिपे
कृत्वा शिवासनं कुर्यात् शिवस्य परमात्मनः ।
संहृत्य होमद्रव्याणि नैवेद्यां निधानि च
ततोधिवासयेत् तानि ततः शिष्याननुक्रमात् ।
पञ्चगव्यं चरुं तेषां दन्तकाष्ठं च मन्त्रितम्
क्षरिका सप्तवाराणि हृदयेन समर्पयेत् ।
तदा न विद्यते सिद्धिः विधिक्षपन तेन च
अतोन्यथा शुभा विद्यात् दन्तकाष्ठं षडानन ।
ईशान्यादिष्टकाष्ठासु मुखमस्य यदा भवेत्
प्. ४९)
धातु सर्वकर्माणि साधयेत् साधकोत्तमः ।
शोभनंन् तद्विजानीयात् सर्वकाम फलप्रदम्
इति सर्वज्ञानोत्तरे क्रियापादे भूपरिग्रहप्रकरणम् ॥
अतः परं प्रवक्ष्यामि साधकानां हिताय वैः ।
पञ्चगव्यविधानं तु तत्वतः शृणु षण्मुख
चरुस्थाल्यां चरोश्चैव प्रवक्ष्याम्यनुपूर्वशः ।
गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम्
पञ्चगव्यमिति प्रोक्तं महापातकनाशनम् ।
ईशानेन यजेत् सर्पिः क्षीरं तत्पुरुषेण तु
अघोरेण दधि प्रोक्तं सद्योजातेन गोमयम् ।
गोमूत्रं वामदेवेन गायत्र्या तु कुशोदकम्
आलोढ्य हृदिना सर्वं ताम्रभाजनसंस्थितम् ।
परिकल्प्य त्रयो भागान् देवस्याग्रे तथात्मनः
उद्धृत्य शिष्यवत्स्याशि शिवजप्तं स्वयं पिबेत् ।
प्रक्षाल्य पूर्ववत्स्थालीं तथैवावेष्ट्य विन्यसेत्
सूत्रेण वर्मजप्तेन पुनकण्ठो षडानन ।
विन्यस्य पञ्चब्रह्माणि पुनः क्षीरेण पूरयेत्
शिवाग्निनापचेतं तु वर्मणा घटयेच्छनैः ।
व्रीहि श्यामाकनीवारानथ वा शालिब्रक्षली
तण्डुलान् प्रक्षाल्य निक्षिपेत् पश्चात् हृदयेन तु चालयेत् ।
हृदयं च शिरश्चैव शिवां गायत्रमेव च
प्. ५०)
जपंस्तत्साधयेन्मन्त्री चरुकं घृतसंयुतम् ।
यथास्सन्तं भवेदन्नं तदर्थमयारयेत्
अवतार्य जपे शुद्धं यावन्निर्वाणमिच्छति ।
भागत्रयं ततः कुर्यात् यथा पूर्वमुदाहृतम्
आत्मीयं शिष्यसंयुक्तं कृतकर्मा तु भक्षयेत् ।
दन्तैरस्पृत्य मानं तु पञ्चाङ्गुल्यात्मसंस्थितम्
दर्भशर्ययां समारूढः सह शिष्यैर्जितेन्द्रियः ।
जनपद्ध्यानरतो मौनी प्राकारास्त्रे सुगोपितः
बन्धपाशास्थुते शिष्या दृष्ट्वा स्वप्नांति शाक्षये ।
कथयन्ति गुरोस्सर्वे शुचिर्भूता समाहितः
शुभैरभीप्सितां सिद्धिं (अ)शुभैर्दुःखमाप्नुयात् ।
तस्माद् दुःखप्रदां दृष्ट्वा न सिद्धा संप्रयोजयेत्
दुःस्वप्नदर्शने मन्त्री हेम्मष्ठक सहस्रकम् ।
कृत्वा दीक्षां प्रकुर्वीतैहिकी सिद्धिवर्जिताम्
शुभ्रं नदं नदीं वापि समुदं पङ्कमेव वा ।
अतिषोर महादुर्गं तरतेयस्ससिद्धति
व्याधि मृत्युभयं वापि बन्धनं वासनक्षयम् ।
विदेशगमनं वापि भवेत् तेषां विलोमतः
गवाश्वभ्रमिनाशं वा वस्त्रालंकार कुञ्जरात् ।
पश्येद्यश्शयितः स्वप्ने तस्य सिद्धिर्न विद्यते
प्. ५१)
एतेषां तु पुरा लाभा दिष्टान् कामान् वाप्नुयात् ।
दृष्ट्वा न स्वपते यस्तु यावदभ्युदितो रविः
शुक्लपक्षं चितिं वापि कण्टकाकीर्णमेव वा ।
या शिरोहत स्वप्नान्ते तस्य सिद्धिर्न विद्यते
तत्रस्थस्तु विबुध्येत तस्य सिद्धिर्विधीयते ।
प्रासादं वृषभं नावं पर्यङ्गं कुञ्जरं नगम्
योधि रोहति स्वप्नान्ते तस्य सिद्धिर्विधीयते ।
येषामेक तमाद्वापि प्यवनं मृतुलक्षणम्
अर्थनाशो मनस्तापो ह्यपि वा बन्धनं भवेत् ।
आसनं शयनं वेश्म वस्त्रं प्रावरणं तथा
ज्वलन्तं पश्यते स्वप्ने तस्य सिद्धिर्विधीयते ।
सुर्चार्नानि च भग्नानि ज्वलनास्थमनानि च
दृष्ट्वा न सिध्यते स्वप्ने हस्ताध्वस्तफलानि च ।
चिद्रवासोथ कृत्यञ्च स्वकं प्राकरणं तथा
ज्वलन्तं पाटिकां मलदिग्धं च दृष्ट्वा स्वप्नेन सिध्यते ।
सुशुक्यानि च वस्त्राणिनिचिद्राणि नवानि च
सिद्ययाच्चयितः स्वप्ने तस्य सिद्धिर्विधीयते ।
अग्निप्रवेशं कुरुते स्वप्नांते ऋतुमानवः
स्मृतिलोपो भवेद् वापि तस्य सिद्धिर्न विद्यते ।
शुक्लं विलेपनं माल्यमातपत्रासनध्वजम्
प्. ५२)
शंखपद्मनिधिं चैव लब्ध्वा स्वप्ने श्रिदं लभेत् ।
विपरीतानि चैतानि नाममात्राणि चैव हि
पश्येद्यः शयितः स्वप्ने तस्यसिद्धिर्न विद्यते ।
शुक्लोदनं दधी वापि अर्धमांस फलानि च
यस्तु भुंक्तेस्तु स्वप्नान्ते तस्य सिद्धिर्न विद्यते ।
शाकं तैलं फलं कृष्णमद्याद्याशैतोनिशि
न स सिद्धिं समाप्नोति न सुखं न च सम्पदः ।
अप्रजं म मद्या वा समुद्रयगां पयस्विनीम्
स्वप्नान्ते च * चेद्योवै तयस सिद्धिर्विधीयते ।
सर्वाण्येतानि शुष्काणि नाममात्राणि चैव हि
यस्तु पश्यतु स्वप्नान्ते तस्य सिद्धिर्न विद्यते ।
आकाशगमने स्वप्ने अगम्यागमनं तथा
विष्टानुलेपनं चैव दृष्ट्वा सिद्धिमवाप्नुयात् ।
तैलाभ्यङ्गमयोद्वाहं पुत्रलाभः प्रवर्तते
गेयं लास्यं च नृत्तं च दृष्ट्वा स्वप्ने न सिध्यते ।
क्षपणं चान्त्यजातिं वा व्याधितं रक्तवाससम्
उन्मत्तं भिन्ननासं वा दृष्ट्वा स्वप्नेनु सिध्यते ।
ऋक्षोष्ट्रं वानरं वापि खरमश्वतरं प्रकिम्
योऽधि रोहति स्वप्नान्ते तस्य सिद्धिर्न विद्यते ।
तैलाभ्यङ्ग मथोद्वाहं पुत्रलाभ प्रवर्तते
प्. ५३)
गेयं वाद्यं च नृत्तं च दृष्ट्वा स्वप्ने न सिध्यते ।
क्षपणं चान्त्यजातिं वा व्याधितं रक्तवाससम्
उन्मत्तं छिन्ननासं वा दृष्ट्वा स्वप्ने न सिध्यते ।
एकाङ्ग विकलस्वप्ने * पिकारां मलान्वितः
यस्याग्रतस्तुतं निष्ठे तस्य सिद्धिर्न विद्यते ।
क्षुधार्तः तृषितः स्वप्ने स्थानमुच्याट्यते स्वकान्
ताट्यते वानरैर्घोरैर्नससिमवाप्नुयात् ।
वंम्मे मूत्रपुरीषं वा स्वर्णं रजतं तथा
दन्तपङ्क्तिः पतेद् वाथ जपेद् वाहुनतेवपि रांदत्रितयेपि वा ।
हन्ति वाथ जयेद् वापि स्वप्ने सिद्धिमवाप्नुयात्
स्वप्ने सोपि न सिध्यति * * * * * * * * ।
क्व प्रस्थितोसि मूढात्मा नास्ति ते त्वभिवांछितः ।
एवमुक्तो नरः स्वप्ने प्रत्यक्षं वा न सिध्यति
वेश्या कन्याथ वा रात्रि ब्रह्मणि चानुमोदते ।
राजा विप्रो था दिव्य तस्य सिद्धिर्विधीयते
राजानमर्थसम्पन्नं ब्राह्मणा वेदपारगाः ।
स्त्रियञ्च लक्षणोपेतां दृष्ट्वा स्वप्नः प्रसिध्यति
शुक्लांवरधरो भूत्वा शुक्लमाल्यानुलेपना ।
यं विग्रहंति स्वप्नान्ते तस्य सिद्धिर्न विद्यते
रक्ताम्बरधरां नारीं रक्तमाल्यानुलेपनाम् ।
यं विग्रहति स्वप्नान्ते सुप्तेष्वपि न सिध्यति
प्. ५४)
कुचेला वा मलग्रस्था व्याधिता विकृतानना ।
ताभिर्ये गृहीतः स्वप्ने सुप्नेष्वपि न सिध्यति
एवं स्वप्ना मयाख्याता विधिस्यस्य षडानन ।
कथयन्ति तथात्यन्तध्यं भविष्यं युक्त कर्मणः
सूत्रयित्वा पुराभूमिं मण्डपेन्य प्रमाणतः ।
यागं यथोदितं कृत्वा रजन्यरज्य मण्डलम्
शुक्लाम्बरधरो भूत्वा शुक्लमाल्यानुलेपनः ।
शुक्लयज्ञोपवीती च सूत्रपातं समारभेत्
पूर्वापरौदिशौ साद्ध्ये वै शंखोर्धेन भानुना ।
पुष्यधेयेन वा मंत्र चित्रास्वात्यन्तरेण वा
एवं पूर्वापरं कृत्वा तत्र सूत्रं प्रकारयेत् ।
विकल्य मध्यदेशं तु तत्र शंकुं निधापयेत्
शंकोरुभयतः सूत्रं सविकृत्वा प्रसारयेत् ।
बिन्दुद्वयं समालिख्य मत्स्यमुर्थापयेत् ततः
शंकुविर्थं तु तत्सूत्रं मध्ये मत्स्य द्वयस्य तु ।
खटकाकर्षितं कृत्वा दक्षिणोत्तरतां नयेत्
आत्रालयेतस्सूत्रं येवमुत्तरता दक्षिणे ।
विदिशासु तथा नीत्वा अन्तरेषु तथा नयेत्
मध्ये बिन्दु स्थितं सूत्रं भ्रामयेच्चतुरंगुलम् ।
आलिख्य कर्णिकां तत्र द्वितीये केसरान् लिखेत्
प्. ५५)
तृतीये दलसदूनि दलाग्राणि चतुर्थके ।
प्रतिवारण रेखां तु दद्यात् पद्मस्य बाह्यतः
रेखा रेखोतर ज्ञात्वा दलाग्राणि तु संग्रहेत् ।
कोणेन वायुधेत् कोणं तमसूत्रेण षण्मुख
द्वात्रिंशत् षोडशाष्टौ वा पत्राण्यालिख्य विन्यसेत् ।
तेभ्यश्चतुर्गुणानेव केसरान् परिकल्पयेत्
अष्टपत्रे न्यसेच्छक्तिं यथा पूर्वमुदाहृतः ।
बहिरंगुलमुत्सृत्य पद्मसूत्रं प्रसारयेत्
तस्मात् तु षोडशाष्टौ वा गायत्रीं तत्र वर्जयेत् ।
अथवा वाहनारूढनस्त्र हस्ता षडानन
पृथग्बाह्यास्त्र वर्गस्य यजेत् कृत्वार्थ वा कृतिम् ।
यवेनान्तरित रेखाशतं स्त्रांगुल सममिताः
दद्यांवरणे रम्यो श्वेतपीतरुणासिताः ।
कर्णिकां पीतवर्णेन चतुरंगु(ल)मुच्छ्रिताम्
किंचिद्धारिकं वर्णं दद्यात् केसरसन्धिषु ।
केसरां मूलसश्शुक्लान् कुर्यान् मध्ये रुणेन तु
अग्रं चैव तु शुक्लेन दलान् शुक्लेन छादयेत् ।
चतुर्विधां ततो रेखामभ्युधिं नाम संहताः
विचित्रैर्मिश्रितैर्वर्णै रचनाः परिकल्पयेत् ।
वाहयेत् पश्चिमद्वारमितराणि निरोधयेत्
प्. ५६)
पद्ममानं विवेद्वारं विधीनां विस्तरं तथा ।
शोभाश्चोप शोभाश्च कपोलाश्च कपाटकाः
तुल्यमाना स्मृता ह्येता पद्मार्धेन तु कारयेत् ।
पद्मार्धे नाथ वा कुर्याद् द्वारं वीथिं षडानन
तदर्तेनतरान् भूयः पृथक्प्रक्रमणेन तु ।
एवं तं रचितं कृत्वा परमं शिवमण्डलम्
इष्ट्वा च विधिवद् दैवं ततो ध्यानं विशोधयेत् ।
इति सर्वज्ञानोत्तरे क्रियापादे पञ्चगव्यादि दीक्षाङ्गप्रकरणम् ॥
अथाध्यासं प्रवक्ष्यामि संक्षेपान्नतु विस्तरात् ।
उर्वीतत्वादितः कृत्वा यावत् तत्वं निरामयम्
उर्वीतत्वं तु सौवर्णं सूर्यायुत समप्रभः ।
कुक्कुटाण्डसमाकारं ब्रह्माण्डमेतमुच्यते
भुवनान्यष्ट षट् चैव तस्यैघाभ्यन्तरे स्थिताः ।
शतयोजनकोट्यंस्तु प्रमाणं तस्य कित्ततः
तस्यैवाथ स्थले रुद्रा रुद्रकोटिभिरावृतः ।
कालाग्निरीति विख्यातो रक्तकृष्णोग्ररूपधृत्
नोर्ध्वं निरीक्षते देवो माभूद्भस्म विदं जगत् ।
स एव रुद्रो विज्ञेयस्स शिवस्य च कालधृत्
तस्योर्ध्वं महानरकाः घोररूपाः सुदारुणाः ।
जीवैस्तु नारकैः सार्धं छत्यारिंशत्गतं क्रमात्
प्. ५७)
रौरवो महारौरवः कुम्भीपाकस्तथैव च ।
एते महद्धिकाश्शोधनीधाः प्रयत्नतः
सर्वे शुद्धा इमैः शुद्धैःर्नरकानात्रसंशयः ।
कूश्माण्डस्तु पतिस्तेषां न च रुद्रः प्रकीर्तितः
तस्योर्ध्वं सप्तपातालं क्रमशः संख्यवस्थिताः ।
स्वरूपैस्त्रिभिः संकीर्णस्थीलुहाटेश्वरः प्रभुः
तलं च नितलं चैव वितलं च तथा परम् ।
सुतलं तलातलं चैव पातालं च रसातलम्
नागाश्च गरुडाश्चैव किं पुरुषादनुजास्तथा ।
अग्निर्वायु कुबेराश्च पतयस्तु पृथग्विधाः
भूलोकं च तथा विद्यात् सप्तद्वीपार्णवैः सह ।
सचैलमस्वनोद्यान नदीनदसमाकुलम्
जम्बूशाककुशक्रौंच शालमलीद्वीप एव च ।
गोमेद पुष्करं चैव सप्तद्वीपाः प्रकीर्तिताः
पुष्करद्वीप मध्यस्थं पर्यन्तो मानसो तमाः ।
लोकपालाः स्थितास्तस्मिन् पृथिवीं पालं नि * ते
क्षारक्षीर दधिस्सर्पि तथा इक्षुरसोपि च ।
मदिरोदश्च स्वादूदः समुद्राः सप्तकीर्तिताः
गर्भोदस्त्वष्टमो ज्ञेयःस्तस्योर्वी द्वीपमुच्यते ।
आवृतं तेन सर्वं तु सोपि चोर्व्या समावृतः
प्. ५८)
समुद्रैरावृता द्वीपा द्वीपैस्तेपि समावृताः ।
एवं द्विगुणते वृद्ध्या सोन्यमावृत्यसंस्थिताः
जम्बूद्वीपं ततो मध्ये समन्ताल्लक्षमायतं ।
नानाजनसमाकीर्णं नानासत्वसमाकुलम्
अनेकोषधि सम्पन्नं नानाधातु समन्वितम् ।
सर्वधर्माश्रय पुण्यमपुण्यमकृतात्मनाम्
तस्य मध्ये महामेरुः स्थितोस्सौ परिमण्डलम् ।
प्रविष्ट षोडशाधस्ताच्चतुरश्शीतित्रश्शितः
स तु सर्वत्र सौवर्णः कांचनद्रुमसंकुलः ।
सिद्धविद्याधराकीर्णः किन्नरासुरसेवितः
वि * * * * * * भ शैलाश्चत्वारः स्थितस्य
चतुर्दिशम् ।
ष्ठ * * * * * ब्धाः मेधिनीतैस्तु तेषां मूर्ध्नि समो
पराः
* * * * * रस्तस्य पूर्वेण दक्षिणे गन्धमादनः
।
* * * * * * * श्चि मे नैव सुपार्श्वश्च
तथोत्तरे
* * * * ति फलो जंबु * * * * स्थो
पद एव च ।
* मूर्ध्नि महप्रक्षाश्चतुर्णां चानु पूर्वशः
रक्तोदमानसं चैव सितोधेश्च महाह्रदः ।
तथावान समीपस्था विज्ञेया मंदरादिषु
सदा पुष्पफलोपेतं पूर्वं चैत्र रथं वनम् ।
नानासुरभि गन्धाढ्यं नन्दनं गन्धमादने
प्. ५९)
विविधामोद बबुलं वैभ्राजं वैपुले स्थितम् ।
निर्मितांस्तपुरादेवैः सरांसि च सरोरुहाः
सर्वगन्ध वहं रम्यं सुपार्श्वे विवनं ततः ।
तेषु वृक्षं लता गुल्म रूपाद्याये सुगन्धिनः
निर्मितास्ते पुरादेवैः सरांसि च सरोरुहाः ।
सदा सन्निहिता तेषु वसन्तकुसुमायुधम्
कोकिलारावमधुरैष्षट् पदोद्गीतकिन्नरैः ।
नित्यज्योत्स्नाकरं चन्द्र उच्वातपतिभास्करः
वर्षन्ति स्वेच्छया मेघा मारुतीश्च या ।
तेषु देवाः सगन्धर्वकिन्नराप्सरसोगणाः
सिद्धविद्याधराश्चैव सदा क्रीडंनिभाविताः ।
चतुर्दशसहस्राणि योजनानि षडानन
मेरोर्मूर्ध्नि अधोभागे लोकपालाष्टकं पुनः ।
इन्द्रपावकधर्मेशनीरुतीवरुणानिलाः
कुबेरश्च तथेशानो लोकपालाष्टकं पुनः ।
पूर्वेणैन्द्रामरावत्यां तेजोपत्यां हुताशनः
वैवस्वत्यां यमो राजा कृष्णवत्यां निशाचरः ।
शरवत्यां जलाध्यक्षो गन्धवत्यां तु मारुतः
यशोवत्यां निधानेश ईशानस्तु महोदयः ।
अष्टपुष्यास्तु देवानां भोगस्थानानि षण्मुख
प्. ६०)
प्रज्यं तेषु म * महाभागानधिकारं च बाह्यशः ।
मेरोर्मूर्ध्नि सभा दिव्या ब्रह्मणश्च तथात्मनः
मनोवतीति विख्याता महामहामुंन्निसेवीतर ।
तत्र गङ्गानदी पुण्या कृत्वा तस्याः प्रदक्षिणम्
पतिता हि चतुर्दिक्षु विष्कं गिरि * * मूर्ध्नि ।
सावंभो निधिसोमोऽमृतात्मा ज्योतिषांपतिः
तस्मादिहागता दिव्याऽनुग्रहार्थं सरिद्वरा ।
तस्यैशान्यां महाश्रोतं ज्योतिष्कं नाम विश्रुतम्
तस्य मूर्ध्नि सभादिव्या महादेवस्य धीमतः ।
रुद्रकन्येस्सलावण्येर्देवदानवदुर्लभैः
आवृता सा सभा दिव्या रुद्रैश्यामित विक्रमैः ।
भुवर्लोकस्तु तस्योर्ध्वं स्वर्लोकस्तस्य मूर्धनि
उहजनस्तपस्सत्यमुपर्युपरि संस्थिताः ।
ब्राह्माण्डभित्तिमासृत्य सत्यलोकस्य मूर्धनि
ब्रह्मा विष्णुश्च रुद्रश्च स्थिता लोकाः क्रमेण तु ।
ऐश्वर्यामृतसंप्राप्ता एकद्वित्रिगुण क्रमात्
आत्मतुल्य गुणोपेतैः वृता कन्यैश्च तत्समैः ।
बाह्यतश्चत रुद्रास्तु स्थिता देश दिशास्वपि
ब्रह्माण्डस्य महासेन धारकास्तेत्वनिन्दिताः ।
दिव्यज्ञानबलोपेत स्वच्छन्दगतिगोचराम्
प्. ६१)
शशाङ्कांकित मूर्धानो जटामकुटमण्डिताः ।
* * * समप्रखैः दिव्ययौवनशोभितैः
आवृतास्ते समन्तात् तु रुद्रैश्च बलदर्पितैः ।
एते प्रमांडा दधो भागे पूवादिदिगसृके
अनन्तः पालको वीरो विषाग्निर्विषलोचनः ।
वृषो वृषधरो वीरो ग्रसनो बंद्धवांमुखः
कपालीशो ह्यजो बुद्धो वज्ञदेह प्रमर्दनः ।
विभूति रघयश्शास्तापिनाकी त्रिदशाधिपः
अग्निरुद्रो हुताशी च पिङ्गलः * दको हरः ।
ज्वलनो दहनो बभ्रु भस्मान्तक क्षयान्तकः
याम्यो मृत्युहरोधाता विधाता कर्त एव च ।
कालो रौद्रश्च विख्यातो धर्माधर्म पतिस्तथा
नैर्-ऋतो मारणोहन्त क्रूरद्रष्टा भयानकः ।
ऊर्ध्वशेफो विरूपाक्षो धूम्रलोहित दंष्ट्रवान्
लोह्यती बल * शैवपाशहस्तो महाबलः ।
श्वेतोथ जयभद्रश्च दीर्घबाहुर्बलान्तकः
बंदवामुखोथ भीमश्च वरुणो लयवासकाः ।
कपर्दी मेघसञ्चारी सर्वगः सर्वगन्धवान्
वायुः सूक्ष्मश्च तीक्ष्णश्च वेगकान् शोणितद्युतिः ।
श्शिखः जटामकुटधारी च नानारत्नविभूषितः
प्. ६२)
निधीशो रूपवान् धन्यस्सौ देहस्तथैव च ।
प्रगैक्षणेकाशश्चा प्रकाशश्चललक्ष्मिवान्
कामधृक्ल सर्ववद्याधिपस्सर्वज्ञस्सर्वगेश्शिवः ।
प्रभुः पिङ्गे क्षणे शानौ भूतबालो बलि * धः
शंभुर्विभुर्गणाध्यक्षस्त्रक्षः त्रिदशवन्दितः ।
संवाहश्च विवाहश्च बिन्दुभ्यो मेक्षणश्शुचिः
लोकेशबलमाक्रम्य प्रभुश्शक्ति समन्विताः ।
विचरन्ति महादेवा लोकपालैः प्रपूजिताः
एते रुद्रासामाख्याताः सूर्यकोटि समप्रभाः ।
कपालमालाभरणाः लोकपालस्त्रधारिणः
एषामूर्ध्वं भवेदापो दशधा वृत्य संस्थिताः ।
खराखमुखरमावर्तोर्मिसमाकुलः
तत्रास्ते भगवान् देवो वरुणो मृतसंभवः ।
शुद्धस्फटिकसंकाशी आदि गुह्याष्टकावृतः
ओंकारस्तस्य पूर्वेण आग्नेययाः शशिभूषणः ।
देवदेवस्तु याम्यायां भोजगन्धस्तु नैर्-ऋते
आषाढमेश्च वारुण्याः वायव्यां डिंडिरेव च ।
भारभूमिस्तु सौम्यायामैशान्यां लाकुलं विदुः
अत ऊर्ध्वं भवेदन्यद् वाग्नेर्यावरणं विदुः ।
सुभाताय सुसंकाश मेघस्तनित निस्वनः
प्. ६३)
तत्रास्ते भगवानग्निरिति मह्याष्टका प्रतिः ।
पद्मराग प्रतीकाशो ज्वलन्तस्तेन तेजसा
हरश्च त्रिपुरघ्नश्च त्रिशूलिः सूक्ष्म एव च ।
महाकालश्च सर्वाश्च ईशानो भरवस्तथा
अत ऊर्ध्वं भवेदन्यद्वायव्यावरणं पुनः ।
नीलजीमूतसंकाशो भिन्नाञ्जन समप्रभः
तत्रास्ते भगवान् वायुः कृष्णवर्णाञ्जनोपमः ।
सुभगः कामरूपी च गुह्याद्गुह्याष्टकावृतः
पितामहं पितुः स्थानं स्वयंभूरुग्र एव च ।
विश्वेशश्च महानादो महद्भीमस्तथाष्टमः
अतश्चोर्ध्वं भवेद् व्योम भूतस्त्वे संप्रदवितः ।
अप्रमेयमनिर्देश्य मोक्षस्तानमिवापरः
तत्रास्ते भगवान् देवो व्योमरूपी महेश्वरः ।
सूक्ष्ममूर्ति महाश्चासौ पवित्रेरष्टभिर्वितः
भावश्चैव महायोगी त्रिमूर्ती रुद्र एव च ।
महाबल शिवश्चैव सहस्राक्षः स्थाणुरेव च
अतो ह्यूर्ध्वं भवेत् तत्त्वं हंकारस्य षण्मुख ।
दीप्तपावकवर्णाभं भीमनादं दुरासदम्
त्रिविधस्तस्त्र्य विज्ञेयोहंकारो घोररूपधृत् ।
प्रलयाम्बुधनिर्घोष स्थाण्वष्टक समावृतः
प्. ६४)
कपर्द ऊर्ध्वरेभाश्च महानुत्कट एव च ।
श्रीकण्ठो नीलकण्ठश्च महातेजास्तथैव च
महालिंगेश्च स्थूलेशः कारणाज्ञानुवर्तिनः ।
आदिगुह्याष्टका रुद्रा अतिगुह्याष्टकास्तथा
गुह्याद्गुह्याष्टकाश्चैव पवित्राष्टक एव च ।
स्थाण्वष्टकाश्च पश्यैते नियोगाद्भामिवासिनः
अनुग्रहायमोकानां लिंगभूताः प्रदष्ठिताः ।
तेषामेव समीपस्थः यद्यत्तोयं षडानन
तत्तीर्थं पुनरं पुण्यं तत्र स्नात्वा शिवं व्रजेत् ।
रुद्राहेते सदा शुद्धाः कामरूपाः बलोत्कटाः
कोट्यायुत परीवाराः सुखदुःख फलप्रदाः ।
प्रमदाभिरनिन्द्याभिर्दिव्य यौवनशालिभिः
* तास्ते समन्तात् तु कामविभ्रमकारिभिः ।
शुद्धस्फटिकसंकाशैः डाडिमीकुसुमप्रभैः
नीलांजन समप्रभैः श्यामवर्णैरनौपमैः ।
* ङ्ग रागसंकाशैः कामरूपैर्मनोहरैः
(दीप्य)न्ते नित्यमेतैस्ते पञ्चतत्वाधिपाः शिवाः ।
* र्ध्वं तु भवेदन्यत् बुद्यावरण संज्ञकम्
आदित्योदयसंकाशं सन्ध्यारागसमप्रभम् ।
तस्य मध्ये स्थिता बुद्धिः व्यापिनी विश्वरूपिणी
प्. ६५)
अणिमाद्यष्टसंयुक्ता तुषि शक्ति समन्विता ।
सखीभिस्समतुल्याभिद्विरष्टवयशालिभिः
आतासा महाभागा तत्प्रबुद्धैश्च योगिभिः ।
देवयोन्यष्टकं तत्र परितः सुव्यवस्थितः
अप्रबुद्धं च शुद्धं च तथा सृष्टि प्रवर्तिकः ।
पैशाचं राक्षसं याक्षं गन्धर्वं चन्द्रमेव च
सौम्यं चैवाथ प्राजेशं ब्राह्मं चैवाष्टमः स्मृतः ।
अत्तोर्ध्वं तु भवेदन्यद् गुणावरणसंज्ञकः
इन्द्रनील महारत्न शुद्धस्फटिकरूपकः ।
तद्वर्णो भुवनान्तस्था ब्रह्माविष्णुमहेश्वरः
तमोरजस्तथा सत्व गुणाविष्ठितविग्रहाः ।
तथा च वनितास्सर्व पुरुषास्तं निवासिनः
अन्योन्यबलमाक्रम्य गुणेश्शासंप्रवर्तकः ।
अष्टौ योगीश्वरांदस्ति तस्मिन्निरामयाः
निर्गुणानिरहंकारा नित्यं योगपरायणाः ।
अक्तं च कृतश्चैव भैरवं ब्राह्ममेव च
अतश्चोर्ध्वं भवेदन्यदव्यक्तं तत्वमुत्तमम् ।
अप्रतक्लमविज्ञेयं निर्वाणपदपस्थितः
अप्रमेयमनिर्देश्यं निर्गुणं गुणमालि च ।
उत्पत्ति सर्वतत्वानां भूतानां च षडानन
प्. ६६)
स्थित्वा तु पुरुषः सूक्ष्मो व्यक्ताव्यक्तः सनातनः ।
उत्पादयति सत्वानि भवभूतानि चैव हि
तत्रैव संस्थिता रुद्रा अष्टावेव महाबलाः ।
तत्तत्व धर्मिणः सर्वे सर्वे चानन्दविग्रहाः
क्रोधेश्चांडसंवर्तो ज्योतिपिंगसुरगाः ।
पञ्चान्तकैकवीरौ च शिवेदसहितैश्वराः
नितम्बकटिनिस्तारै पीनोनतपयोधरैः ।
आक्षाम्मद्ध्यदेशान्ते संपूर्णवदनोज्वलैः
सर्वलक्षणसम्पन्नैः सर्वाभरणभूषितैः ।
सेव्यन्तो नित्यमेते तु स्मरबाणनिपीडितैः
शिखे तेन सहिता एते क्रोधेशादय ईश्वरः ।
अतोर्ध्वं तु भवेदन्यत् रागावरणसंज्ञकम्
कुंकुमोदकसंकाशं कुसुंभरजसन्निभम् ।
तत्रास्ते भगवान् रागो जपाकुसुमसन्निभः
* क सर्वतत्वानां अप्रमेय सुदुर्जयः ।
मी पुरुषसंकाशै बन्धूक कुसुम प्रभाः
* नमदसद्भावैः सदामदनविह्वलैः ।
* * दि गणांकार विस्रस्त मृगलोचनैः
सेव्यते स भगवान् रागश्चानन्द रूपधृत् ।
तत्रैव पुरुषो ज्ञेयस्तद्धर्मगुणरंजितः
प्. ६७)
अमृत्तौ व्यापकोचिद्व्यौ ब्रह्माण्डो मूर्तमानसौ ।
तत्रैव संस्थिता रुद्रा अष्टौ च शिवतुल्यगाः
ज्ञानविज्ञानसम्पन्ना वीतरागा निरञ्जनाः ।
वामदेवो भवश्चैवोद्भवश्च तथा पुनः
एकपिङ्गे क्षणे शानौ भुवनेशा पुरस्सराः ।
अंगुष्ठमात्रसहिता महादेवाष्टकाश्शिवाः
निरामय महौजस्कास्तेनुरागनिरोधकाः ।
अतस्त्रध्वं भवेदन्यद् विद्यावरणसंज्ञकः
इन्द्रकोपसंकाशं क्वविच्चामीकरप्रभः ।
तस्य मद्ध्य स्थिता विद्या व्यापिनी विश्वरूपिणी
विश्वगा विश्ववेत्री सा रहस्य पदगामिनी ।
मण्डलाधारचित्रांगी ध्यानलोलायतेक्षणा
शास्त्रशः भावनिश्वास वोषधीकेशसंचया ।
भावाभावाविलासाध्यैर्नित्यं प्रमुदितेन्द्रियैः
संरम्भजनितारम्भैः खिनमष्ट पद क्रमैः ।
उत्क * * * निश्वासैः पयो पयो हरालसैः
आकीर्णं हि पुरं दिव्यं विद्याविभवरंकितैः ।
तत्रैव संस्थिता रुद्रास्त्रयोदश * * * *
वरेभ्यो परता शुद्धा विद्या विधि प्रकाशिकाः ।
वामदेवश्च भीमश्च उग्रश्चैव भवस्तथा
प्. ६८)
सर्वेशा * नेश्वरौ चैवैकवीराप्रचण्डधृक् ।
ईश्वरोथ उमाकान्तस्त्वजेशोनन्त एव च
तत एक शिवश्चैव सर्वेषामुपरि स्थितः ।
अतोर्ध्वं तु भवेदन्यत् कलावरणसंज्ञकम्
श्वेता पीतारूणं कृष्णं क्वचिच्चामीकुंसुमा * ।
तस्य मध्ये कलाज्ञेया चित्रवर्णानुलेपिनी
चित्राभरण रत्नाढ्या चित्रमाल्याभरप्रिया ।
विज्ञानगमसंपन्नै रूपयौवनगर्वितैः
सहार्यविकटाक्षेपा तत्कालकरणोचितैः ।
मनोहारि सुरम्याङ्गै मदलालसजृंभितैः
मण्डितं तत्पुरं रम्यं कलाभावानुरंजितैः ।
तत्र रुद्रो विभुर्व्यापी सर्वज्ञो ज्ञानभासकः
नीललोहितवर्णोसौ शीतेन्दु सदृशः क्वचित् ।
कलाब्रह्माङ्गसंभूतैर्मन्त्रविग्रहधारिभिः
आवृतोसौस्मंता तु नेककोट्ययुतैः पुनः ।
याम्यज्येष्ठश्च रुद्रश्च कालकालविकारणः
बलविकरणो देवो बलप्रमथनस्तथा ।
दमनः सर्वभूतानां मनोन्मन एव च
दशैते सृष्टिसंहार स्थित्यनुग्रहकारकाः ।
अत ऊर्ध्वं भवेदन्यत् कालस्यावरणंगुह
प्. ६९)
नीलनील समाकारं नीलाञ्जन समप्रभम् ।
तस्य मध्ये स्थितः कालो रौद्र सर्वांजनान्तकृत्
दंष्ट्रा विकटघोरस्य पिङ्गलभ्रूश्मसुतारकः ।
अतसी पुष्पसंकाशैः कान्तिमत्प्रियदर्शिभिः
अशोकपल्लवाकार पाणिपादाम्बुजांकिभिः ।
अत्यर्थरूपसम्पद्भिः प्रवालालशोभिभिः
संसेव्यते सभगवान् कालः कामानुरागिभिः ।
उच्चुष्माश्शापरश्शंडा मातङ्गा घोररूपिणः
याम्यो हालाहलश्चैव क्रोधनो बंधवा मुखः ।
ततस्सूलगणानि * * * षद्रास्तथा परे
हुलहुलास्तस्तथा चान्ये कालस्य विषये स्थिताः ।
अतोर्ध्वं तु भवेदन्यन्मायातत्वं सुदुस्तरम्
मण्डवकोशवच्छिद्रं हरिताल समप्रभः ।
तस्य मध्ये स्थिता देवी माया तु बहुरूपिणी
यथा तु मोहितं कृत्स्नं जगत्स्थावरजंगमम् ।
इन्द्रनीलसमप्रख्य रश्मिजालावकुंठितम्
चलद्विन्दु सहस्रैस्तु कोटिभिस्तुमसावृता ।
वामचारास्त्रयस्तत्र वामगावामलोचनाम्
वामकावामकृत्यं चोत्पाद्यन्ते षडानन ।
डंगविभ्रमकारिण्यो डंगस्नेहानुरंजिताः
प्. ७०)
डंभहासूत्रपातिन्यो डंभवाक्य मनोहराः ।
तथा च पुरुषा स्कन्द ज्ञेया माया शुक्लसंभवाः
बहुप्रलापिनो मिथ्या मायाचार परायणा ।
अथवा सर्वतत्वानां निर्गमं सामुदाविकः
त्रिमलं व्यापकं क्षिप्रं प्रोच्यमानं निबोध मे ।
यस्य तत्वस्य यत्तत्वं जन्मन्यभिधिकं भवेत्
तत्स्वभावी भवेत् सोपि प्रलयेपि तथा गुह ।
एवं हि सर्वतत्वानां तत्वभाव प्रधश्चिधा
कथितास्ते समासेन रुद्रास्तस्मिन्निबोधमे ।
गगनेशो ह्यसाध्यश्च तथा हरिहरावुभौ
दशोनो महावीर्यस्त्रिगलो गोपतिस्तथा ।
अथ संपुटस्संस्थास्ते मायातत्वस्य षण्मुखा
ऊर्द्दोपि संस्थिता ये तु तां प्रवक्ष्याम्यतो शृणु ।
क्षमुशो ब्रह्मणोहन्त विद्येशानस्तथापरः
विद्येशश्च शिवश्चैव अनन्तष्षष्ठ उच्यते ।
अमाधिनः स्मृतास्सर्वे मोहराग विवर्जिताः
मायाबन्धविमोक्तारः पाशजाल विभेदकाः ।
अथोर्ध्वं तु भवेदन्यत् विद्यातत्वं षडानन
डाडिमी पुष्पसंकाशं किञ्चित् पीतं सुनिर्मलम् ।
तत्र विद्याधिपा ज्ञेयाः पद्मराग समप्रभाः
प्. ७१)
सुदीप्ता निर्मलास्सूक्ष्मा व्यापिनी सर्वतोमुखी ।
तस्माद्विनिःसृता मन्त्रा पञ्चाङ्गं कृतलक्षणाः
विद्याश्चै तथा ज्ञेया विद्यामन्त्राश्चमिश्रकाः ।
अचिन्त्या इपिणस्सर्वे सर्वे चानन्दविक्रमाः
सर्वत्रगमिनः सर्वे सर्वे सर्वार्थसाधकाः ।
चतुर्विधामृतास्सर्वे पार्थिवाप्यानलानिला
सर्वे समानधर्माणो श्रोतृभेदा पृथक्फलाः ।
पाणिनाचिन्तभेदात्तु मन्त्रभेदैः परः शिवाः
संस्थितोऽनुग्रहार्थाय साक्षिभूतस्तु कर्मणाः ।
स्थानं कर्म च भावञ्च देवता व्याप्तिमेव च
वर्तते वीक्ष्य विश्वात्मा फलक्षेत्र विभक्तिषु ।
एवं हि मन्त्रभेदस्तु मन्त्रीतीतस्य षण्मुख
अधुनाभेदभेदन्तु प्रोच्यमानं निबोध मे ।
यावन्तः केचनसत्वाः सर्वतत्वेषु संस्थिताः
तावन्तस्तु स्मृता भेद देहस्यस्य विदेहिनः ।
यादृग्रूपं भवेत् तेषां नामगोत्रञ्च षण्मुख
तादृग्रूपं शिवविद्या तेषु देहे व्यवस्थितः ।
छायारूपमिव स्थूलैः सूक्ष्मैः सूक्ष्मतरं तु तः
निष्कले निष्कलात्यन्त रूपं स्निमु रूपकम् ।
प्राणी धर्मादि निर्मुक्तस्सुख दुःखफलं गुह
प्. ७२)
दादात्युपाह्यरूपेण तत्तद्धर्मानुरूपतः ।
एवं विद्या विचारेऽस्मिन् मन्त्रभेद शिवस्य तु
देहभेदांश्च विख्यातस्तत्वभेदस्तथा विदुः ।
विद्योर्ध्वं तु भवेदन्यद् विद्येशावरणं पुनः
दीप्तपावकवर्णाभं किञ्चित् द्रक्तं सुनिर्मलम् ।
अष्टौ विद्येश्वराः स्कन्द स्थितास्तस्मिन् विभूतितः
विष्णुर्लिङ्गाग्निसंकाशो विद्यूमकिरणोज्वलाः ।
तत्र मध्य महासेन चक्रवत् परिसंस्थिताः
तेऽधिकारं क्रमात् कुर्युः शक्तिचक्रसमन्विताः ।
स रहस्य सकल्पानि मन्त्र तन्त्राणि षण्मुख
निगमन्ति महात्मानो रुद्राणाममितौजसाः ।
प्रासादासनपर्यङ्गा प्राकारभूषणायुधाः
सर्वे मन्त्रमयास्थेवे यथेष्टा सर्वकामिका ।
विद्येश्चेश्वर्ये रचिस्सेस्तु दिव्यामृत सुखप्रदैः
कुञ्चिताग्र कचोद्गारैर्ललाट मृदुपट्टकैः ।
पिनाकी धनुराकारै भ्रूभिरुन्नतवक्षभिः
आलोकर्ण पर्वतैः स्निग्ध नेत्रोत्पलैः शुभैः ।
सम्पूर्ण शशिसंकाशवदनाभोग मण्डलैः
आताम्रोन्नतविम्वोष्टैस्तुंगनासाग्रशोभिभिः ।
नात्युन्नतैः समैः स्निग्धैःर्विशुद्धैर्दन्तपङ्क्तिभिः
प्. ७३)
पद्मरागप्रतीकाशैन्नीलयं नानन्दकारिभिः ।
गुप्तरध्रैः समैः कर्णैर्विरोमैः स्निग्ध कोमलैः
आकंबुकर्णसीमन्तैर्मृणालललितैर्भुजैः ।
आवृत्त संहतैः पूर्णैः पीनोन्नतपयोधरैः
आक्षां मध्यदेशान्तैर्गम्भीरावृत्तनाभिभिः ।
त्रिवलीतरंग भंगोधैरोमराशिप्रकम्पिभिः
पुलकोद्भिन्नरम्यान्तैर्निगूढैरस्थिसंन्धिभिः ।
अश्वत्रपत्रसदृशैः गुह्य देशैर्मनोरमैः
कदली गर्भसंस्पर्शैरुरुभिश्शुभलक्षणैः ।
निगूढजानुगुल्फभिर्नितम्ब विपुलो ज्वलैः
प्रस्तजंघैस्समैः पादैः प्रशस्तैर्लक्षणान्वितैः ।
सुरक्तपाणि पादान्तैश्शंखचक्राम्बुजांकितैः
सुक्लिंतैष्ठरङ्गुलि पर्वेस्तनुतुङ्गनखोज्वलैः ।
स्निग्ध त्वक् स्वधल्परेखाभिस्सर्वलक्षणसंयुतैः
सेव्यन्ते तु विद्येशास्सदा कदपपिडिताः ।
दिव्यगन्धानुलिप्तांगैः दिव्याभरणभूषितैः
दिव्याम्बरधरैः सैम्यैः दिव्यमाल्योक्तमांगिभिः ।
रुद्रैश्च विविधाकारैः कालानलसमप्रभैः
दिव्यज्ञानबलोपेतैस्सृष्टिसंहारकारकैः ।
अथोर्ध्वं तु भवेदन्यत् सर्वैश्वर्य मयं शुभम्
सदाशिवं परं तत्वः शुद्धस्फटिक निर्मलः ।
योगपीठं परंशुद्धं तस्मिन् विद्या महात्मनः
प्. ७४)
धर्मादि चरणैर्युक्तं मध्ये कमल भूषितम् ।
चारुकेसरपर्यन्तं सहस्रदलविस्तरम्
बहिरष्टभिसंयुक्तं पङ्कजैर्विमलात्मकैः ।
विशुद्ध शक्तिभिंनं ब्रह्माङ्गैरूपशोभितम्
विद्येश्वरैश्च पीठस्थैः सिद्धयोगिभिरावृतम् ।
तत्रास्ते भगवान् देवो सर्वतत्वेश्वरोहरः
सदाशिवो विभुर्व्यापी मन्त्रमूर्ति मधः परः ।
अनन्तकान्ति सम्पन्नः अप्रमेय गुणक्रमः
अनन्तशक्ति संभोग अनन्तासनसंस्थितः ।
विभज्यसस्वकं देहमष्टधा परमेश्वरः
अनन्तादि शिखंड्यन्त स्थित शान्तेन चेतसा ।
अतोर्ध्वं बैन्दवं तत्वं विमलं सर्वतोमुखम्
परमं तत्वानामनन्तं ज्योतिरूपिणम् ।
तत्र विन्दु स्थितं स्कन्द शुद्धस्फटिकनिर्मलः
कदम्बगोलकाकारं स्फुरत्किरणमालिनम् ।
सकलो निष्कलश्चैव तथा सकलनिष्कलः
सूक्ष्मो भिन्नकलश्चैव शिवो ज्ञेयस्तु पञ्चधा ।
कलै शान्त्यादिभिर्युक्त सकलं परिपठ्यते
निष्कलः केवलो बिन्दु व्यापी सकलनिष्कलः ।
ज्वालिन्यादिभिः संयुक्तः सूक्ष्मोसौ परिकीर्तितः
प्. ७५)
स्वरैः षोडशभिर्भिन्नैर्भिन्नात्मा विन्दुरुच्यते ।
ततोस्यानन्ततो भेद सर्वशास्त्रेषु षण्मुख
मन्त्रेषु मातृकायाञ्च न विना बिन्दुना क्वचित् ।
निष्कलस्ता पराशक्तिरचिन्त्या सर्वतोमुखी
सुसूक्ष्मा निर्मला नित्यानन्तानिर्वाणदायिनी ।
याविजृम्भति तत्वेषु सर्वतत्वेषु चैव हि
तथा भूतं जगत्सर्वमेकयानेकरूपया ।
अस्या ऊर्ध्वं निरालम्बं निराधारं निरामयम्
अचलं व्यापकं शान्तं सृष्टिसंहारवर्जितम् ।
प्रकृतेः पुरुषसंयोगात् विद्यारागस्य चैव हि
कलाकालस्य संयोगात् मायातत्वनन्तस्य संगमात् ।
विद्या सदा शिवश्चैव बिन्दोः शक्तिसमागमात्
सृष्टिरुत्पद्यते स्कन्द विन्दुशक्त्यादितः क्रमात् ।
पृथिवीमादितः कृत्वा यावत्तत्वन्तु वैन्दवम्
तत्वात्तत्वं विजानीयात् दद्धा प्रत्य * संस्थितम् ।
उर्वी तत्वादितः कृत्वा देवताश्च षडानन
अन्योन्यान्तरितैश्वर्या प्रभावान्तरितस्तथा ।
यानि नामानि तत्वानां तानि तत्वाधिपेष्वपि
ज्ञात्वैवं योजयेन्मन्त्री यस्मिन् न्यः प्राप्तुमीहते ।
ब्रह्माण्डादूर्ध्वतो ये तु सर्वतत्वेष्ववस्थिताः
जरामृत्युविनिर्मुक्त द्वन्द्वोपद्रववर्जिताः ।
तेषां हि या तना काचित् न भयं विद्यते क्वचित्
प्. ७६)
वर्ज्य सृष्टिं तु संहारं स्थितिं सर्वात्मकां गुह ।
स्थितिकाले प्रभुंजन्ते यत्वैश्वर्यं यथोदितम्
संहारे निर्गुणाभूत्वा तत्वैः सार्धं विशंतिते ।
सृष्टिकाले प्रजायन्ते सर्वतत्वैः स्वकैः क्रमात्
पुनरप्येवमेतेषां उदयास्तमनस्थितिः ।
यो यस्मिन्नाश्रितो नित्यं तत्वतस्तद्विधानवित्
तत्कालसमयो सोपि भवते तत्परायणः ।
यथान्तराणि प्रोक्तानि प्रभावैर्य व्याप्तिषु
तथान्तराणि वेद्यानि उदयास्तमनादिषु ।
नोदयास्तमनं स्कन्द भवते शिव वेदिनः
यतो हि सर्वतत्वानां विज्ञानादन्ततस्थिताः ।
तत्वैरेभिर्निबंधात्मा सर्वधर्मश्च संयुतः
नान्येन शक्यते माक्तुः वर्ज्यदीक्षाः शिवात्मिकाः
॥ श्री श्री इति श्रीमत्सर्वज्ञानोत्तरे क्रियापादेऽध्वप्रकरणम् ॥
अतः परं प्रवक्ष्यामि अप्रबुद्धस्य देहिनः ।
सर्वतत्व निबन्धस्य सर्वधर्ममयस्य तु
पशुधर्म नियुक्तस्यानादि मलमुषिणः ।
शृणुवत्सपरां दीक्षां शिवसायुज्यदांशुभाम्
यस्य यस्य हि देवस्यादि मन्तो येक्षरः ।
अकाराकारसंभिन्नं वह्निबीजमन्वितः
प्. ७७)
वायुबीजसुसंयुक्तं अथ षष्ठं नियोजितः ।
मूर्ध्नि बिन्दुसमायुक्तः मन्त्री सर्वेषु कीर्तितम्
तदेकमक्षरं भिन्नं मात्राद्वादशभिः पुनः ।
ह्रस्वब्रह्म समाख्याता दीर्घैरङ्गानि निर्दिशेत्
त्रितत्वं बिन्दुसंयुक्तं त्रयो नेत्राः प्रकीर्तिताः ।
स विसर्जास्स्मृताः ह्यस्त्रा बिन्दुनाद विवर्जिताः
शिवोक्तेन विधानेन इष्ट्वा देवाननु क्रमात् ।
तर्पयित्वा यथा भूयस्ततो दीक्षां समारभेत्
उपोषितां शुचीः स्नातानाचान्तान् धौतवाससः ।
धौतपादास्तु संसिक्तान् रिष्यामन्त्रि प्रवेशयेत्
आलभ्यः पञ्चभिः ब्रह्मैः शिवांगैः प्रणवेन च ।
नेत्रं नेत्रेषु विन्यस्य नेत्रबन्धं तु कारयेत्
दुकूलपट्टवेदांगैस्तथा कार्पासजेन वा ।
सतशेन नवेनाथ सितेनश्लष्णवाससा
पुष्पांजलि समायुक्त दक्षिणामूर्तिमानयेत् ।
गुरोस्संसिक्तमनसा दर्भहस्तः सुमन्त्रितः
दर्भाग्रेर्दक्षिणाजानुं स्पृशत्वै देशिकस्य तु ।
ततश्चालंवनं कृत्वा पाशान् संहृत्य होमयेत्
हृदयेन विधानज्ञस्तथैवास्त्र द्वयेन तु ।
वर्गातीतं यकारं तं प्रासादं च पुनः क्रमात्
प्. ७८)
पूर्वात् बीजितान् कृत्वा धर्माधर्मेषु योजयेत् ।
धर्मे तु संस्तीज्योष्ठा वामा धर्मे ततोच्यते
उभयोः संस्थिता रौद्री तत्रस्थो होमयेदुभौ ।
त्रितत्वभेदिता वर्णा शक्तित्रयमिहोच्यते
वर्णातीत धर्मे तु धर्मा मध्यममेव तु ।
धर्माधर्मौ प्रसादेन व्यामिश्रौ होमयेत् पुनः
अथवा तावुभौ स्कन्द धर्माधर्मौ विमिश्रितौ ।
होमयेच्छिवतत्वेन सकलेन विचक्षणः
अकारौकारसंभिन्नं हंसंवर्गान्तसंस्थितम् ।
मकारसहितं देवं वह्निवायुसमीरितम्
मूर्ध्नि बिन्दुसमायुक्तमतष्षष्ठं नियोजितः ।
सकलां सर्वभूतस्यं शिवतत्व प्रकीर्तितम्
यस्मिन् तत्वे प्रभुर्यस्तु शिवं तत्र प्रकल्पयेत् ।
तन्मन्त्रैस्सर्व संस्कारस्तस्मिंस्तत्वे समाचरेत्
पतिधर्मैः समस्तैस्तु पशुधर्मान्निराकुरु ।
पतिधर्मांश्च वे धर्मे रमस्केनतानि तु
स्थाने जन्मतथेश्वर्यं तद्भोगापातनं तथा ।
अधिकारं लयं चैव होमयेत् क्रमशः पुनः
तत्वं संयोजयेत् पूर्वं कुण्डमध्ये विधानवित् ।
स्वनाम सर्वतत्वानां मन्त्रो ग्रहणकर्मणि
प्. ७९)
तत्व मध्ये तु गायत्रीं स्वमन्त्र विधिकल्पिताम् ।
पशुसंगृह्य तत्वज्ञ तस्य गर्भे नियोजयेत्
नासाग्रं नियतस्थानं पशोर्ग्रहण कर्मणि ।
ह्रस्व वी * * * * * तेजपिंडा कृतिं स्मरेत्
ताडयित्वास्त्र बीजेन हृदयेन समुद्रया ।
गर्भादानं तु सद्येन वासुपुंसवने स्मृतम्
सुम * * नो संज्ञेन पुरुषं जातकर्मणि ।
ईशानं योजये नाम्नि हृदयञ्चान्न प्राशने
शिरसा त्वधिकारञ्च शिखाया भोगमेव च ।
ऐश्वर्य नेत्रबीजेन कवचेन लयं हुनेत्
एकैकेन दशाहुत्या पूर्णाहुत्य शिवेन तु ।
दशभिः स्रोतसं शुद्धिं ब्रह्माङ्गैरनुपूर्वशः
शिवेन सर्वतत्वेषु तत्वशुद्धिं समाचरेत् ।
पाशच्छेदं तथा दाहं प्रायश्चित्तं च होमयेत्
तत्वं तत्वेषु सन्धाय नरकांश्च विरोधयेत् ।
* * * * * * * * * * *
हुं फट् कारेत्
वियोज्य ज्येष्ठया पश्चाद्रौद्राच्चैव चोद्धरेत् ।
तत्वे तत्वे त्विदं कर्म विधिनानेन षण्मुख
कर्मभूमौ सुविस्तारं भूर्लोके तु समारभेत् ।
कालाग्नि रुद्रतत्वे तु कालाग्नित्वं विशोधयेत्
प्. ८०)
नारके नारकान् धर्मान् भुक्त्वा कूश्मांडतां नयेत् ।
पाताले सप्तमेतं तु न्यासं कृत्वा विमोचयेत्
अथोर्ध्वं हाटकं तत्वं भूलोके जनयेत् ततः ।
स्थावरत्वं तु सद्येन सारिसृप्यमवात्मना
पक्षित्वं घोररूपेण मृगत्वं पुरुषेण तु ।
पशुत्वमीशबीजेन होमयेदनुपूर्वशः
एकैदशभिर्मन्त्रीं हुत्वा पूर्णाहुतिं ततः ।
सद्येन वामदेवेन हृदिना च विधानवित्
शूद्रत्वं होमयेद् देही वैश्यादीननुपूर्वशः ।
गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा
उपनिष्क्रमणं नामान्नप्राशनमेव च ।
हृदिना निष्क्रम कर्म चूडा वै ब्रह्मभिः स्मृता
अथोपनयनं कार्यं ब्रह्माङ्गैर्दशभिः क्रमात् ।
मेखलोपवीतं च दण्डं कृष्णाजिनं तपः
स्वाध्यायमग्नीकार्यञ्च सन्ध्योपासनमेव च ।
भिक्षाभिवादनं मौनं ब्रह्मचर्यं शमोदमः
गुरुपसदनं जाप्यमनिन्दामस्सुहार्जवः ।
अहिंसा सत्यमद्रोहस्त्यागः क्षांतिरपैशुनः
दयाभूतेषु लोलुत्वं मदिवं ह्रीरचापचलम् ।
तेजः क्षमाशुचि शौचमद्रो * * * * निता
प्. ८१)
सर्वाननुक्रमेणैतान् गायत्र्यां दशधा हुनेत् ।
त्रायुषं चोपाकर्म गोदानं च महाव्रतम्
नैष्ठिकं चासिधारं च हुनेत् पाशुपतेन तु ।
ततस्ता प्लावनेभ्योमश्शिवांगैरभिधीयते
पत्नीसंयोजनं कुर्यात् ब्रह्माङ्गैः पुनरेव हि ।
कृत्वा दर्भमयां पत्नीं मोमित्येव नियोजयेत्
एकैकैर्दशभिमन्त्री एकैकेनाहुतीदश ।
अग्निष्टोमोत्यग्निष्टोमो वाजपेयोक्य षोडशी
अतिरात्राप्तोर्यामश्च सोमसंस्था इति स्मृताः ।
ब्रह्माङ्गैः शिवगायत्र्या महास्त्रेण शिवेनव
विंशाहुतीर्दद्यात् एकैकस्य विशुद्धये ।
पूर्णाहुतिं ततः पश्चात् सर्वसंस्कारकर्मसु
शिवेन संप्रयुंजीत प्लुतेनामृतवर्षिणा ।
शिवेन कुरुते होमं यस्मिन् संस्कार कर्मणि
वर्जा पूर्णाहुतीमेकां द्विगुणं तत्समाचरेत् ।
सोमसंस्थावसाने तु सर्वमन्त्रैः सकृत् सकृत्
सोमवानाहुतिं दद्याद् दधिक्षीरं घृतं मधु ।
सहस्रक्रतु मध्ये तु दशदज्ञात् परं हुनेत्
त्रिंशत्त्रिंश तिराहुत्या शिवेन च विचक्षणः ।
अश्वमेधं ततो होमेदाहुत्यं पञ्चविंशतिः
प्. ८२)
शिवमन्त्रेण मन्त्रज्ञो * * स्था भवति ध्रुवम् ।
वानप्रस्थ ततो हुत्वा सर्वमन्त्रैश्च पञ्चधा
तस्मिन् सर्वपरित्यागं कृत्वा * * * * यते ।
भिक्षुत्वं होमयेत् तस्य सर्वमन्त्रैः सकृत् सकृत्
विशुद्धं कल्मषं भूयो ब्रह्मलोके नियोजयेत् ।
सन्धानं पूर्ववत् कृत्वा भेदयित्वा ततः पुनः
इष्ट्वातु पूर्ववद् देवान् पूर्वोक्त विधिमारभेत् ।
ब्रह्मत्वं वासु देवत्वं रुद्रत्वं विधानवित्
पूर्ववत्कर्मयोगेन होमयेत् सुसमाहितः ।
कटाहं पूर्ववद्भित्वा दलरुद्रादिगीश्वरान्
पूर्वोक्तेन विधानेन यजेद्ब्रह्माणु मूर्धनि ।
* * * * * * * मेजेशं पूर्वतो न्यसेत्
अग्निरुद्रं स्वके देशे कालं याम्ये नियोजयेत् ।
भयानकं तु नैर्-ऋत्यां वारुणं तु महाबलम्
वारुण्यां शोषणन्यस्य कामरूपं ततोत्तरे ।
सर्वविद्याधिपं रुद्रमैशान्यां तु नियोजयेत्
स्वमन्त्रैरर्चयेत्सर्वान् शिववच्छंभुमीश्वरम् ।
पूर्वोक्तेन विधानेन कृत्वा मण्डल तर्पणम्
ततस्तु शंभुरुद्रत्वं जनयित्वा विरोधयेत् ।
शेषेषु निष्कृतिं दद्यात् विंशविंशाहुति क्रमात्
प्. ८३)
विशोध्या पार्थिवं तत्वं वरुणेत्वे नियोजयेत् ।
तेजो निले तथा * त्नि अहं क्रीडिषणे गुणे
प्राकृते पौरुषे चैव रागविद्या कले तथा ।
काले मायां पुनश्चेति विद्यायामीश्वरै तथा
सदाशिवे तथा तत्वे तथा सकलनिष्कले ।
सर्वतत्वाधिपाधर्मान् तत्वधर्मास्तथापरान्
विधिनानेन संशोध्य कारणे चोन्मने न्यसेत् ।
अथासर्वतत्वेषु यजेदेकं परं शिवम्
तन्मन्त्रैः सर्वसंस्थारास्तत्वे तत्वे समाचरेत् ।
तस्यैव दक्षिणामूर्तौ क्रमात् तत्वाधिपान् न्यसेत्
तं मध्ये पितु रुद्रास्ताण्ययैव नियोजयेत् ।
पूर्ववत् सर्वकर्माणि सर्वाध्वानि समाचरेत्
तथैव चोन्मनीभावमाहुत्यन्ते षडानन ।
चवारेव विधिः प्रोक्तः शरीरे शृणु सांप्रतम्
धेनशुधेन शुद्धस्तु भवतीह न संशयः ।
पूर्वोक्तेन विधानेन धारणाभिस्तु पञ्चभिः
शोधयेत् सर्वतत्वानि देहस्थानि पुनर्णमात् ।
पशुं संयोजयेत् पूर्वं पूर्वोक्तविधिना शिवे
साधिकारे शिवातीते शुद्धस्फटिक निर्मले ।
कर्मण्येव कृते तस्य शिवाश्शेदो विधीयते
प्. ८४)
सप्ताभिर्मन्त्रितां कृत्वा क्षुरिकास्त्रेण कर्तरीम् ।
योजयेहीत शिखास्थाने युक्तां त्रिमधुरेण तु
शिवाबीजेन मन्त्रज्ञो वौषडन्तेन निक्षिपेत् ।
शक्तिसम्पुटमध्यस्थं कारणेन नियोजयेत्
अनमस्कं ततः पश्चात् साधिकाराद्विमोचयेत् ।
यमुद्दिश्यकृतंकर्म मन्त्रदैवतपूर्वकः
विधानशास्त्रदृष्टेन तत् तस्य फलदद्धुवम् ।
यत्कृतः कामचारेण विधिहीनं षडानन
न तेन कर्मणा सिद्धिं न सुखं न परां गतिम्
॥ इति सर्वज्ञानोत्तरे क्रियापादे दीक्षाप्रकरणम् ॥
अतस्संक्षेपतो वक्ष्ये दीक्षाविधि विनिश्चयम् ।
चातुर्वर्णहितार्थाय परमेशेन भाषितः
संहृत्य सर्वतत्वानि पञ्चधा परिवर्तयेत् ।
देवताश्च ततो भूयस्तेषु मन्त्रान् यथाक्रमम्
पृथिव्यापस्तथा तेजोः वायुराकाशमेव च ।
एतानि पञ्चतत्वानि सर्वेषां व्यापकानि तु
न विनापञ्चभिस्तत्वैर्देह बन्धो विधीयते ।
स्थूलसूक्ष्मविभागेन ज्ञात्वैतानि विशोधयेत्
सर्वतत्वानि शुद्धानि विशुद्धैः षडानन ।
देवैश्च देवतास्सर्वे शुद्धा स्मृताः भवन्ति हि
प्. ८५)
ब्रह्माविष्णुश्च रुद्रश्चानन्तेश सदाशिवौ ।
पृथिव्यादिषु तत्वेषु क्रमात् तत्वाधिपाः स्मृताः
तेषां मध्यमन्त्रस्तु विभिंता मन्त्र या भवतु ।
त्रयस्त्रिंशतिमं शम्भोरितरेषास्वनामकम्
पूर्वविधजनं कृत्वा तथा योनिं प्रकल्पयेत् ।
ग्रहणं न तथा भूयः पशुसंयोजनं तथा
निवृत्ति * समन्त्रेण साधयेत् साधकोत्तमः ।
गुह्यकेन प्रतिष्ठां तु विद्याघोरेण होमयेत्
शान्तिं तत् पुरुषेणैव शान्त्यतीतां शिवेन तु ।
एकैकस्य शतं ज्ञेयमाहुतीनां तु साधकैः
हुतैश्चैव तु मुच्यन्ते पशवोजन्मबन्धनात् ।
गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा
जन्मनिष्क्रमणं नाम अन्नप्राशनमेव च ।
अधिकारं तथा भोगं लयं चैव विधानवित्
ततश्च स्रोतसं शुद्धिं तत्व संशुद्धिमेव च ।
वियोगञ्च तथोद्धारं तत्वसन्धानमेव च
छेदं भेदनं दाहमेतान् पूर्ववदाचरेत् ।
पृथिव्यादिषु तत्वेषु ततः कुर्यान्निरंजनम्
पूर्ववद् देह संश्लिष्टान् शोध्यतत्वा शिवं नयेत् ।
पुनरेवं प्रवक्ष्यामि गुह्याद्गुह्यतरं परम्
प्. ८६)
संस्काररहितः कर्मा भित्वा केवल योजनः ।
इष्ट्वा देवं शिवं शान्तं प्रासादममितौजसः
सहस्राहुति होमं तु ब्रह्माङ्गैः पुनराचरेत् ।
भूयोप्यष्ट सहस्रं तु दत्वा देवस्य षण्मुख
संहृत्य पुद्गलं पश्चात् शिवाग्रेव नियोजयेत् ।
ततः सन्धाय तत्वानि पुनर्मूलेन भेदयेत्
ततस्तेनैव मार्गेण बिन्दुतत्वे नियोजयेत् ।
अमनस्कं यथा पूर्व वासतत्वं षडानन
कृत्वा तु देहसंश्लिष्टान् पुनस्तत्वं नियोजयेत् ।
पूर्वोक्तेन विधानेन योजयित्वा पशुं शिवम्
तथा चैव शिवाश्चेदं कृत्वा कुर्यादनामयम् ।
एवं दीक्षा समाना यागचण्डेश्वरस्य तु
कृत्वा पूर्वं गुरोर्यागं अपरेऽहनि पुत्रकः
गुरुरप्यात्मसंशुद्ध्या विद्यादेवं विधानतः ।
शिवादीयोविदात्मायं गुरुपंति पुनर्व्रजेत्
शास्त्रोपदिष्टमार्गेण वारुण्यामीश्वरस्य तु ।
पद्मसंस्थान्यजन्मन्त्री मण्डले हृष्टमानसान्
सदाशिवमनन्तं च विद्यारुद्रं सहोमया ।
विष्णुनद्देवेशं ब्रह्माणं स्कन्दमेव च
समयिकं पुत्रकः पश्चात् पूज्य शंभुं तथा गुरु ।
प्. ८७)
गन्धपुष्प सवित्राध्यैर्वस्त्रालंकार वाहनैः
पूजयित्वा विधानेन तथात्मानं निवेदयेत् ।
एवं निवेदितात्मा तु गुरुपाशैर्विमुच्यते
अध प्रभृति भगवन्यो विदेहो ममात्मकः ।
युष्मदीयो विकल्पेन शंस्यवाल्यश्च ते सदा
एवं गुरुवशो भूत्वा सन्तुष्टो यावदायुषः ।
अनुज्ञातो यदा तेन कुर्यात् कार्याणि सुव्रतः
अग्निकार्यं जपं पूजा दीक्षाज्ञान व्रतानि च ।
वृथा तेषां विजानीयात् गुरुर्येषां न देवता
गुरुः पिता गुरुर्माता गुरुर्देवो गुरुः सुहृत् ।
गुरोस्तु न परं किञ्चिदित्याह भगवान् शिवः
ज्ञानाज्ञानेन दिव्येनाचोद्घाटयति चक्षुषी ।
अज्ञानतिमिराक्रान्ते तस्माज्ज्ञानमयो हि सः
सिद्धविद्याधरान् भोगान् सदेवासुर मानुषान् ।
प्राप्नुवन्ति समायुक्त गुरुणोक्तेन कर्मणा
गुरुपदिष्टमार्गेण प्राप्नुवन्ति परंपदम् ।
तस्मादादौ गुरुः प्रोक्तः पश्चाद् देवो निरंजनः
दीक्षया तु परं ज्ञानं नयते शाश्वतं यतः ।
तस्मान्नास्तत्र बोद्धव्यः गुरुभ्यः परतो गुह
गुरवस्तोषिता येनाहं रुद्रगणैः सह ।
तोषितो नात्रसन्देहस्तथा देवास्सवासवाः
प्. ८८)
अवज्ञानेन क्रुद्धेन नरके पतनं ध्रुवम् ।
तस्मादेवं विदित्वा तु गुरुं नैवावमानयेत्
आसनं शयनं यानं नरोहेद्गुरुसन्निधौ
(नाध्यापनं प्रकुर्वीत)
गुरों निम्नासनो भूत्वा स तिष्ठो तत्परायणः ।
चित्रां नैवाग्रतो धार्यं नोष्णंषं न च पादुके
किरीटाद्युज्वलाज्वलां त्येवं न कुर्याद् गुरुसन्निधौ ।
नाध्यापनं प्रकुर्वीत व्याख्यानं शिष्यसंग्रहम्
गुरोश्चैव समीपस्थो गुरुशिष्य प्रबोधनम् ।
न श्रोतव्या गुरोर्निन्दा शास्त्रनिन्दा तथैव च
देवस्य देशिकानाञ्च मुनीनाञ्च षडानन ।
गुरोर्ज्येष्ठं कनिष्ठं वा भ्रातरं न व्यति क्रमेत्
तथा चैवात्मनो ज्येष्ठान् सर्वान् पश्येद् गुरुशिव ।
दीक्षाभिषेक ज्येष्ठेन कनिष्ठस्य कदाचन
तपोविद्याधिकस्यापि * तव्यं नाभिपादनम् ।
सर्वतो गुरवो ज्ञेया ये चान्ये पूर्वदीक्षिताः
मान्याः पूज्याश्च ते नित्यं गुरवोन्यत्र षण्मुख
इति श्री सर्वज्ञानोत्तरे क्रियापादे कलातत्वपञ्चतत्वदीक्षाप्रकरणम् ॥
न प्राप्तोपि परां दीक्षां गुरुभुक्तोपि यत्नतः ।
कालेनान्त स्थितो यस्य तस्य मोक्षाः कथं भवेत्
किं प्रदा तस्य संक्लेशो मोक्षमुद्दिश्य यः कृतः ।
प्. ८९)
किं किंचिद् विद्यते कर्म तस्य धर्मोक्ष साधनम्
गुरुभक्ताय शान्ताय सत्याचाराय सुव्रत ।
मृतस्यापि वरं स्कन्द दीक्षाकर्म विधीयते
* * * * * * * विधिसंक्षेपविस्तरम् ।
अपि कल्पमति कुर्याद् एकश्चित्त समाहितः
तत्वानि देवता बीजं कलिकैः करवीरकैः ।
उच्चार्य विन्यसेन् मन्त्री दर्भै पुत्नीशके कृते
स्नापयित्वास्त्र बीजेन पञ्चगव्य शिवाम्बुजा ।
संस्थाप्य दक्षिणे पार्श्वे तस्य नाम हृदि न्यसेत्
अथवा व्योमसंस्थाने गोमयेन षडानन ।
सम्मन्त्र्य पञ्चगव्येन कृत्वा तस्मिन् नियोजयेत्
शक्तित्रयत्येनेत्तासु धर्माधर्म च षण्मुख ।
तदेवालम्भनं कृत्वा तस्मात् संहृत्य होमयेत्
ततस्तु मूर्ध्नि आगव्य यावत् पादतलान्तकः ।
विन्यसेत् सर्वतत्वानि तत्वैर्देवा न तु क्रमात्
बिन्दु तत्वे न्यसेन् मूर्ध्नि तत्र बिन्दु नियोजयेत् ।
शान्तीं च निष्कले स्थाने ध्यात्वा सर्वानिधो मुखात्
मूर्ध्निथो खण्डिकोर्ध्वं तु न्यसेद् देवं सदाशिवम् ।
तत्रास्तथस्य संलीन विन्यसेच्छक्तिमण्डलम्
जिह्वायां वक्त्र मध्ये तु तत्र विद्यां च योजयेत् ।
अष्टौ विद्येश्वरान् मन्त्री ग्रीवायां बाहु संधिषु
प्. ९०)
मायां वै यामपार्श्वे तु न्यसेत् कालं तु दक्षिणे ।
कलामुरसिसंस्थाप्य हृदये नीललोहितम्
तत्रापरम् पुनर्विद्यां तत्रैव पुरुषः स्मृतः ।
रागोपि रञ्जकस्तस्य विद्य प्रबोध लक्ष्मणैः
अव्यक्तमुदरे ध्यात्वा नाभौ सूक्ष्माणि विन्यसेत् ।
शब्द स्पर्शं च रूपञ्च रसोगन्धश्च पञ्चमः
पृष्ठवंशे गुणं न्यस्य तत्रैव पुरुषत्रयम् ।
नाभि मेढ्रान्तरे बुद्धि महङ्कृतिश्च सन्धिषु
योन्यं व्योमेश्वरं देवं व्योम मध्ये नियोजयेत् ।
तत्रैव योजयेद् वायुं गुह्याद्गुह्याष्टकावृतम्
योनभ्यन्तरतः स्कन्द वित्तस्थाने हुताशनम् ।
तस्याधो वारुणं तत्वं यावधा जानुमण्डलः
तस्याभ्यन्तरे लोकान् यावदामुश्ल कीलकौ ।
लोकादौ विन्यसेद् देवान् ब्रह्म विष्णु महेश्वरान्
गुल्फाय पो * * प्रंते तु किञ्चिदभ्यन्तरे गुह ।
चिन्तयेत् सप्तपाताल नरकांस्तु तल स्थितौ
पादाङ्गुष्ठे तु देवेशं कालाधिपतिमीश्वरम् ।
स्थापयित्वा विधानेन पुनरभ्यर्चयेत् क्रमात्
संचित्य सहिता न्यध्व मूर्ध्नि आरभ्य मन्त्रवित् ।
पादादारभ्य तान् सर्व अंसौ संस्थाप्य शोधयेत्
प्. ९१)
यागं यथोचितं कृत्वा तत्वे योनि मनु क्रमात् ।
कल्पयित्वा यथा पूर्वं पशुं संहृत्य योजयेत्
गर्भाधानादितः कृत्वा सर्वकर्माणि पूर्ववत् ।
तत्वातु सर्वतत्वेषु तथा संयोजयेच्छिवे
क्षीराज्यदधिसंमिश्राअं सूच्यग्रे संव्यवस्थिताम् ।
कृत्वाग्नौ होमयेत् पश्चात् तां तु पुत्तलकां बुधः
अथवा पुनरप्येवं स्थूलसूक्ष्मविभेदतः ।
व्योमानिलानलाम्भोर्वीः पञ्चतत्वानि योजयेत्
तेषामन्तर्गतान्यसेत् सर्व तत्वात् षडानन ।
कलाभिर्व्यापितास्तांश्च शान्ति शृण्यादिभिः क्रमात्
कलया शृन्यया लौप्तमाकाशं बैन्दवं परम् ।
व्याप्त सदाशिवं तत्वं शान्तया वायुरूपया
तस्यायो या पदं व्यक्तं विद्याया तेजरूपया ।
अव्यक्ताद्यावदंभोंतं व्याप्त चैव प्रतिष्ठया
स चाह्याभ्यन्तरं पश्चात् ब्रह्माण्डं तु प्रत्तय ।
व्यापितं सहरुद्रैश्च ध्मातचाकेरा भयम्
यदेव श्रन्यया व्याप्तं तच्छून्यमिति चोच्यते ।
वायव्ययागतो वायुस्तेजस्तेज सद्याप्रतः
आपो वारुणया प्रोक्तो उर्वी पार्थिवया वृता ।
यदन्तरं यथा व्याप्तं तस्य नाम्ना तु तत्स्मृतः
प्. ९२)
बहिरेवं स्थिता व्याप्ति शरीरे श्रासु तत्वतः ।
शोधनान् क्रमं चैषां पशुमाश्रित्य संस्थितः
संचिन्त्य पूर्ववद्रूपं तथा नाडीर्विचिन्तयेत् ।
शक्तित्रयं न्यसेत् तावद्धर्माधर्मौ च षण्मुख
तन्मात्रैः पञ्चभिर्युक्तं गुणैश्च त्रिभिरावृतः ।
मनोबुद्धिरहंकारैरव्यक्तेन हृदि पुद्गलः
भ्रुवो कर्णान्तरादूर्ध्वं श्रत्येश्रन्ये कलान्यसेत् ।
तस्याधो हृदयादूर्ध्वं मनिले शान्तिमेव च
हृदयाद्राव मेढ्रान्तं विद्यां तेजसि योजयेत् ।
मेढ्राधो यावजान्वन्तं प्रतिष्ठा वरुणा न्यसेत्
तस्याधः पार्थिवं तत्वं यावत् पादतलान्तिकम् ।
निवृत्तिं योजयेत् तत्र ध्यात्वा पूर्ववदर्चयेत्
विद्येश्वरं यं बीजं कलाश्रुत्यां प्रकल्पयेत् ।
कवचादि शिवाअंगानि पुनश्शत्याकाः क्रमात्
उर्वीवार्णबीजाभ्यां तेजसा निलखात्मभिः ।
संयुक्तास्ते स्मृतास्तत्वा योमाध्याक्ष्मावसानिकाः
ह्रस्वादौ ये स्त्वरापञ्च नपुंसकविवर्जिताः ।
तन्मात्रस्थे तु विज्ञेया गन्धाद्यादेशिकोत्तमैः
अहंकारश्च संज्ञं तु अम्बुधीनीति संज्ञकम् ।
मकारस्तु मनः प्रोक्तः * तमः परिकीर्तितः
प्. ९३)
रकारं तु रजो विद्धि संसत्वं तु निगद्यते ।
यकारं प्रकृतिं स्कन्द परिकल्प्यविशोधयेत्
पृथिव्यादीनि तत्वानि निवृत्त्यादि विशोधयेत् ।
गन्धादि पञ्चसूक्ष्मानि सद्यादिभिरनु क्रमात्
त्रितत्वेन तु होतव्यमहंकारादिकं क्रमात् ।
प्रणवेन विधानज्ञो होमधीत गुणत्रयम्
तत्वे तत्वे तु तत्वज्ञः पञ्च सूक्ष्माणि शोधयेत् ।
गुणत्रयं तथा व्यक्तं मनोबुद्धिमहंकृतः
एकैकस्याहुतिशत्तं दद्याच्छुद्धेन सर्पिषा ।
तिलैर्वाघृतसंमिश्रैस्तण्डुलै राज्य संयुतैः
श्रीफलैर्बिल्वपत्रैर्वा पुस्पैर्वाऽर्धाञ्जिकैः शुभैः ।
होमयेत ततोदिष्टं तैस्तु पूर्णाहुतिं तथा
पूर्ववत् स्रोत शुद्धिस्तु तत्व संशुद्धिनैव च ।
क्रमात् संधाय तत्वानि तया हित्वा शिवं नयेत्
एवं दीक्षा मृतस्योक्ता जीवतोपि हि षण्मुख ।
समयादिभ निर्मुक्ता सुख बन्धाद् विमुच्यते
सृष्टिसंहारन्यायेन पृथगत ध्वनि कल्पना ।
दीक्षा संहारतः कार्यारनयोरविसंमता
विपन्नस्याखिलं कर्मा हन्येकस्मिन् समाप्यते ।
आचारोऽयं स्थितं स्कन्द सिध्यर्थम् जीवितस्य तु
इति सर्वज्ञानोत्तरे क्रियापादे मृतकदीक्षाप्रकरणम् ॥
अथ परं प्रवक्ष्यामि समयाचार लंघने ।
यथा विशुद्धयते देही विपन्नोप षडानन
मृदम्भुना तु संशोद्ध्यास्त्र जप्तेन मन्त्रवित् ।
आलिप्यामलकैः पूतैः स्थापयित्वा शिवांभसा
भस्मस्नानं विलोमेन कृत्वा तु परियापयेत् ।
गन्धपुष्पैरलंकृत्य उदक पाद निवेशयेत्
रक्तगन्धैस्तथा पुष्पैरजैवस्त्रोपवीतकैः ।
सं चाद्यवस्त्रसंयुक्तजस्त्रजापिभिरुत्क्षिपेत्
नीत्वा तु शांकरि दीक्षां शुचिस्थाने निधापयेत् ।
नि-ऋति प्लवनं तत्र शिवक्षेत्रं प्रकल्पयेत्
चतुर्हस्तायतं निम्न द्विहस्त समविस्तरम् ।
अस्त्र जप्तैस्तु तत्कीलैर्विदिक्षु कीलितो बहिः
विलोमं रक्तसूत्रेण कवचाख्येन वेष्टयेत् ।
पीतेन रजसावत्रं तस्य मध्ये समालिखेत्
त्र्यश्रमञ्च समायुक्तः शृंगाटकं तथोपरि ।
रक्तेन रजसा तं तु सर्वधान्यमयेन वा
पूर्वोक्तेन विधानेन तत्र वह्निं प्रकल्पयेत् ।
अस्त्रेण प्रस्तरां दर्भान् प्युत्क्रमेण तु देवताः
पर्युक्षणं तथा कुर्यादर्चिनाभ्युक्षणं तथा ।
स्रुचं स्रुवं च होमान्ते शवस्थोपरिविन्यसेत्
प्. ९५)
पूर्ववच्छोदयेदाज्यमभिर्वार्य विलोमतः ।
तथैवोद्घाटनं कुर्यात् निष्णतिं च षडानन
तर्पयित्वा तथा वह्निं दत्वा पूर्णाहुतिं ततः ।
ऐश्वर्यादि विलोमेन मन्त्र सिंहासनं न्यसेत्
सन्ध्यादि मन्त्र विन्यासं दत्वा देहेष्वके गुह ।
शिवे शिवासने चैव तथा होमं समाचरेत्
पूजयित्वाय तथा न्यायं गन्धपुष्पैः पवित्रकैः ।
अर्घ्यपाद्यादिभिश्चैव यथाशक्त्या विचक्षणैः
ततः संचिन्तयेन्नाडीः दिव्यरूपा मनोरमाः ।
ततश्चिति * नेत्तत्र चन्दनागरुदादिभिः
यथावासं भवेत् तस्य कुचवस्त्रोक्तरं गृह ।
पुनरभ्युक्ष्य तु प्रेतं मात्र बीजेन षण्मुख
चिति मध्ये नियुंजीत वस्त्रं चं न घृतप्लुतः ।
ततः संचिन्तयेन्नाडीं तस्य देहे विचक्षणः
स्वसंज्ञां हृदि संस्थाप्य तं मध्ये पुद्गलं न्यघे ।
ततः संधाय तत्वानि पादादारभ्य मन्त्रवित्
हित्वा तु तां तथा भूधः पशुं संयोजयेच्छिवे ।
तत्र संदीपयेद् बहिं तमस्ताद प्रदक्षिणः
अस्त्रबीजेन मन्त्रज्ञ आग्नेयीध्यारणं स्मरेत् ।
अविच्छिन्नां तथा राम घोयस्त्राभिमन्त्रिताः
प्. ९६)
भ्रामयित्वास्त्रबीजेन जलधारां निधापयेत् ।
ततोजलं प्रजेद् विद्वान् स्नात्वा दत्वोदकं शुचिः
यागं यथोदितं कृत्वा निवेद्येशं क्षमापयेत् ।
एवं विमुच्यते देही समयादि विलंघने
अज्ञानाज्ज्ञानतो वापि कृतौ त्वं तेष्ठि कर्मणि ।
इति श्रीसर्वज्ञानोत्तरे अन्त्येष्टिप्रकरणम् ॥
एवं दीक्षा त्वया ख्याता मृतानामपि शंकर ।
तथैवाचार रहितामन्त्येष्टिः पाशशोधिनी
नैष्ठिकानां समाख्याहि ब्रह्मचर्यो जितात्मनाः ।
ज्ञानचर्यान्वितस्यापि कालाकस्य गतिर्भवेत्
ज्ञानाचर्या द्वितौ बौद्धौ बुद्धि तत्वमवाप्नुयात् ।
तामसं जिनभक्तानां प्राप्नुवन्ति * * * *
ये भवन्त्य जितात्मानस्तेषां मुक्तिस्तु दीक्षया ।
चैवतानि पश्यन्ति मुक्तिस्थानानि षण्मुख
मुक्तिस्थानं भवेदेकं विमलं सर्वतो मुखम् ।
अचलं बासकं शान्तं लिङ्गाश्रय विवर्जितः
तस्मिन् नियोजन्मन्त्री शोध्य तत्व क्रमेण तु ।
यो चस्मिन्नाश्रितो लिङ्गी तमादौ पूजयेत् ततः
तर्पयित्वा तथा सम्यक् प्रायश्चित्तं विशोधयेत् ।
पञ्चरात्रं त्रिरात्रं वा क्षपयित्वा षडानन
पश्चादष्ट सहस्रं तु अस्त्र बीजेन होमयेत् ।
प्. ९७)
भूयोप्यष्टसहस्रं तु मूलमन्त्रेण होमयेत्
भूत्वा दीक्षापराकार्या संसार्णव तारिणी ।
नैष्ठिको दीक्षितस्त्वेन नित्यमप्यभिचारतः
शिवशास्त्रपरोनित्यं शिवहोमरतः शुचिः ।
शिवार्चन शिवध्यायी शिवजापि सदा भवेत्
अ * ल कांक्षिण स्कन्द नानुग्रहं करिष्यति ।
द्वावेवाश्रमिणौ शैवे गृहस्थ ब्रह्मचारिणौ
लोकानुग्रहकर्तारौ परिव्राट् तापसौ न हि ।
एवं कार्याधिकारोयं यावत् संक्रामतो न्यतः
संक्रामिताधिकारस्तु कर्मशन्या समाचरेत् ।
गृहस्थ ब्रह्मचारित्वं संज्ञामात्रं तु केवलम्
पारमार्थिकमेतेषां नाश्रमो नाश्रमक्रिया ।
यदर्थं कृत कर्माणो नियुक्तौ परमे पदे
तदर्थं नाश्रमः प्रोक्तः शिवशास्त्र समाश्रितः ।
पूर्वसन्ध्या जपं होमं यच्च कर्म क्रमागतः
स्थित्यर्थमाचरेत् किञ्चित् सततं मन्त्र तत्परः ।
यस्मिन् वर्णो स्थितो दीक्षां प्राप्तो देही शिवात्मिकाम्
तत्रैव संस्थितो नित्यं शिवधर्मं प्रकल्पयेत् ।
यदुक्तं शिवशास्त्रेऽस्मिन् न्युक्तं कर्मषडानन
तदवश्यं तु कर्तव्यं तद्विलंख्य विलंघनम् ।
प्. ९८)
आज्ञेयं कारणा ज्ञेया नोविकल्प्या कदाचन
सिद्धे यं साधनं नास्ति दूषणं न च विद्यते ।
न पुं हि य*(?)र्षकं वाक्यं दैविकं रिषिस्तथा
न देवैः ब्राह्मणो वाक्यं वैष्णवं पद्मजन्मना ।
न शैवं विष्णुना वाक्यं बाध्यते तु कदाचन
यो भि बाधति मूढात्मा सं नष्टो मूढचेतनः ।
उत्तरोत्तर वैशिष्ट्यं सर्वेषां परिकीर्तितम्
वाक्यानां वाक्यवित् प्राज्ञैस्तथा गुह्यं हितैषिभिः ।
* वर्णाश्रमाचार प्रायश्चित्ताश्च लौकिकाः
सम्बन्धादशधर्माश्च प्रसिद्धां ना विचारयेत् ।
गर्भाधानादितः कृत्वा यावदुद् बाहमेव वा
तावं तु वैष्टिकं कर्म पश्चाद् वै वेत्यनन्यभात् ।
न मुख्य प्रवत्या च स्कन्द लोकं धर्मान् समाचरेत्
न चान्य शास्त्रेद्दिष्टां न चान्यं देवतां स्मरेत् ।
विशुद्ध भावना युक्त शिवैक गत मानसः
विशुद्ध माप्नुयात् स्तानमचिन्त्य सर्वग मृव ।
शबलं कर्मसन्देह द्यत्कृतं कृतकोद्भवम्
नेह मन्त्रफलं तस्य नैकान्ते सुखदं भवेत् ।
यमेवेच्छति संप्राप्त शुद्धकर्म समाश्रयेत्
तत्कर्म परतां नित्यं सुखी त * दवा स्व्यतः ।
प्. ९९)
शास्त्रस्यैवा विरोधेन शुद्ध कर्माजितेन्द्रियः
अनेनैव स्वदेहेन सिध्यते नात्र संशयः ।
ब्राह्मणाः क्षत्रिया वैश्याश्शूद्राशुद्धस्तु साधकाः
सुवर्णादानु पूर्वेणाचार्याश्च षडानन ।
श्रद्धधानान सूयाश्च कर्मज्ञाः कर्म तत्पराः
अनुरक्ताभिषक्ताश्च ते त्वानुग्रहकाः स्मृताः ।
कृष्णवर्णमृगो यस्मिन् चरते तु षडानन
तद्देशं याज्ञिकं विद्यात् यश्च विप्रैरधिष्ठितः ।
यत्र विप्रास्सदाचारा यतयश्च तपोधनाः
संनिदेवास्तथा वेदाः पुण्यदेहां तमादिशेत् ।
तद्देश कुलसंभूता आचार्याश्शास्त्रसंमिताः
शिवशास्त्रं परां नित्यं शिवार्चाग्निपरायणाः ।
आपादमस्तकं यावत् भस्मस्नानं द्विजस्य तु
नाभेरूर्ध्व ह्रपस्योक्तं मारत्नेन तु भस्मना ।
वैश्यस्य पट्टिका प्रोक्ता शूद्रस्य तु त्रिपुंड्रकः
भस्मना ब्रह्म जप्तेन यथास्थानेष्वनुक्रमात् ।
ब्राह्मणस्य जटाश्लष्णाः कनकाः परिकीर्तिताः
स्थूलास्तद्विगुणो ज्ञेया क्षत्रियस्य तु व्यन्तराः ।
वैश्यस्यैका शिखा स्थाने तथा शूद्रस्य कीर्तिताः
ह्रस्व श्लक्ष्णानुसंयुक्तास्संयतस्य जितेन्द्रियः ।
प्. १००)
यज्ञोपवीत सूत्रं तु विप्रे पञ्चसरं मृतम्
त्रिसरं क्षत्रियस्योक्तः वैश्यस्य द्विसरं स्मृतः ।
शूद्रस्यैक सरं ज्ञेयं नित्यमव्यभिचारिणः
अर्चायामग्निकार्ये वा सन्ध्या काले च नान्यथा ।
इति श्रीसर्वज्ञानोत्तरे लिङ्गोद्धारादिप्रकरणम् ॥
अभिषेक विधानं तु संप्रवक्ष्याम्यतः परम् ।
हिताय देशिकं द्राणाः यथा शम्भु मुखाच्च्युतः
पूर्वोक्ते भूतले शुद्धे गोमयेनोपलेपि ते ।
सर्वशोभाभिरम्ये तु सर्व गन्ध विभूषिते
सुतिथौ वार नक्षत्रे मुहूर्ते करणान्विते ।
शुभग्रहोदये लग्ने शकुने मंगलैर्युते
सत्यव्रत चरं दान्तं त्यागयुक्तं दयान्वितम् ।
प्रसन्नवदनं दक्षं गुरुभक्तं दृढव्रतम्
शौचाचारसुसंपन्नं योगयुक्तं जितेन्द्रियम् ।
शिवभक्तं सदाशान्तं शिष्यं तन्त्रस्य पारगः
यागम्मुत्वा यथोद्दिष्टं दीक्षा निवृत्य मन्त्रवित् ।
ततोभिषेचयेत् तं तु युक्तायुक्त विचारकः
वीणावेणु मृदं गाद्यैः काहलैः पटहादिभिः ।
शंखतूर्यनिनादैश्च नृत्तगेय समन्वितैः
सर्वमंगलसंयुक्तमभिषेकं समारभेत् ।
प्. १०१)
यागदक्षिणपूर्वेण पश्चिमे वोत्तरेण च
यतोद्वारं नाभि पश्चात् तण्डुलं परिकल्पयेत् ।
द्वात्रिंशदांगुल विस्तारमुच्छ्रायं तावदेवभिः
चतरश्रं समं शुद्धं मध्ये कमल भूषितम् ।
पूर्ववत् पीठविन्यासं तस्मिन् संस्थाप्य पूजयेत्
शुद्धपद्मासितं स्नातं मन्त्रालंकृत विग्रहम् ।
ततः कुम्भान्यथा पूर्वं पूर्वादारभ्य कल्पयेत्
शिवकुम्भविधानेन मन्त्रदेवत संयुतम् ।
अष्टौ विद्येश्वरान् मन्त्री अष्टभिः संनियोजयेत्
चतुष्वंगान्यथास्थानं पञ्च ब्रह्माणि पञ्चसु ।
अस्त्रजप्तं कुरुस्वैकं शिवजप्तं तथा परः
गायत्र्या चमनार्थं तु वन्यां परि कल्पयेत् ।
शतमष्टोत्तरं जप्त्वा शिवाख्यमभिमन्त्रयेत्
प्रथमं चास्त्र बीजेन स्नापयित्वा विधानवित् ।
विद्येश्वरैस्ततः पश्चादनन्ताद्यैर्यथा क्रमात्
ब्रह्मभिश्चानुपूर्वेण पुनरङ्गान्यनुक्रमात् ।
अभिषेकं शिवेनैव पश्चात् कुर्वीत षण्मुखः
ततो गन्धैश्च पुष्पैश्च वस्त्रालंकारपादुकैः ।
ब्रह्मसूत्र पवित्राद्यैः र्भूव्य पट्टं निवेदयेत्
पूजयित्वा विधानेन शिववन्तं तु देशिकः ।
प्. १०२)
शिव समीपं समाश्रित्याधिकारं समर्पयेत्
गुरुणायोऽधिकारस्तु गमवत्ससमर्पितः ।
अद्य प्रभृति योगीन्द्र सोधिकारो मया त्वयि
अनुग्राह्यास्तथा शिष्याश्शास्त्रदृष्टेन कर्मणा ।
श्रोतव्यं शिवशास्त्रं च श्रावणीयं तदर्थिनाम्
संवत्सरोषिते शिष्ये दीक्षां निर्वर्तयेद्बुधः ।
सायके मन्त्र दीक्षां तु यस्मिन् तत्वे भिषिच्यते
इतरेष्वाहुतीं दत्वा शिवहस्तं प्रकल्पयेत् ।
समया मृपयेत् पश्चात् ब्रह्माङ्गानि तथैव च
न निंद्या तु कारणं देवं तच्छास्त्रं च शिवोद्भवः ।
देशिकं पुत्रकं चैव गुरोर्वाक्यं न लंघयेत्
सुतिकायां न संस्पर्शं छाया चतुरलंघनात् ।
यत्नेन वर्णयेत् प्राज्ञो देव जग्धं च सौनिकम्
इत्येता समयास्तन्त्रैः समासात् परिकीर्तिताः ।
पालानां तु शिवं यान्ति सन्निरोधं ततो न्यथा
पिण्ड मन्त्रास्थतस्त्राव्यावत्सरात्मा शिवशिवस्तथा ।
समयज्ञेष्विदं ज्ञानमथ ऊर्ध्वं न दापयेत्
ब्राह्मणाः क्षत्रिया वैश्याः स्त्री शूद्रादि नपुंसकाः ।
दीक्षाकाले त्वमीमांस्या ज्ञानदाने विचारयेत्
त्रिचतुःपञ्चभिः विप्र क्षत्रिये नव सप्तभिः ।
प्. १०३)
अष्टभिर्दशभिर्वैश्ये शूद्रे विंशत्या दापयेत्
उत्तमं सर्वशास्त्राणां शिवशास्त्रात्मकं गुह ।
गुह्याद्गुह्यतरं गुह्यं भवितव्यं प्रयत्नतः
ना शिष्याय प्रदातव्यं नाभक्ताय न नास्तिके ।
न गुरु द्वेषिणे चैव कन्यशास्त्ररताय च
यस्य देवे पराभक्तिः नित्यं गुरौ षण्मुख ।
नान्यशास्त्रे यथा भक्तिर्ज्ञानं तस्मिन्न स योजयेत्
न जल्प शिवशास्त्रेण प्रकुर्वीत कदाचन ।
न वोरणं कुर्यात् दशद् देजनसं * * * *
विविक्ते निर्जने रम्ये पूज्यविद्याधिपं गुरुम् ।
जितेन्द्रियः शुचिः स्नातः शिवज्ञानं तु श्रावयेत्
श्रोतव्यं च तथा भूतैस्तच्छक्तैस्ता परायणैः ।
आदावन्ते च संयोज्य गुरुं संभाव भावितैः
पौर्णमास्याममावास्यां चतुर्दश्यष्टमेषु च ।
नाध्यापयेच्छिवज्ञानं ग्रहणाय न सन्धिषु
सविशेष जपं पूजा व्रत होमं समाचरेत् ।
दानोपवासनियमात् सर्वेष्वे तेषु षण्मुख
कृतघ्ना नास्तिकाः क्रूराः निस्सत्याः कलह प्रियाः ।
मायाशाठ्य समोपेता भूमंते तन्त्र हारिणः
पृच्छन्ति मधुरैर्वाक्यै शेषमुत्वाद्य वा पुनः ।
प्. १०४)
तेषां न विश्वसेद्धर्मान् यदीच्छेच्छान्तिमात्मनः
एवं कार्यधिकारो हि यावत् संक्रमितोन्यतः ।
सङ्क्रामिताधिकारस्तु कर्मसन्यासमाचरेत्
साधकस्याभिषेकस्तु एवं वत्स विधीयते ।
आचार्य साधकश्चैव द्वावेतौ तुल्यमङ्गलौ
समाप्त विद्यो कर्तव्यो गुरुस्साधक एव च ।
सकाम सायको ज्ञेया निष्ठा मे देशिकः स्मृतः
एक एव क्रियाकारो भावभेद प्रधक्तयोः ।
सोल्पं होमं जपध्यानं कुरुते देशिकस्सदा
कर्मनिष्ठा प्रतिष्ठो हि सततं साधकोत्तमः ।
इति श्रीसर्वज्ञानोत्तरे क्रियापादे अभिषेकप्रकरणम् ॥
अतः परं प्रवक्ष्यामि स्नानं वित्रानुसारतः ।
पञ्चभिः कलशैर्वापि पूर्वोक्त विधिकल्पितैः
अष्टो विद्येश्वरान् मन्त्री एकस्मिन् विनियोजयेत् ।
द्वितीये पञ्च ब्रह्माणि तृतीयंग चतुष्टयम्
अस्तु युक्तं चतुर्थं तु शिवकुम्भञ्च च पञ्चकम् ।
अभिमन्त्र्य यथा न्यासं पूर्ववत् स्नानमाचरेत्
चतुर्भिर्वायथाकुम्भैरभिषेकं समाचरेत् ।
विद्येश्वराद्यया पूर्वं ब्रह्माङ्गानि च मन्त्रवित्
एकस्मिन् कलशे योज्यमस्त्रयुक्तं तृतीयकः ।
प्. १०५)
चतुर्थं शिवकुम्भं तु अभिषिञ्चेत पूर्ववत्
अथवा द्वौ पुनः कुम्भौ अभिषेकाय कल्पयेत् ।
एकस्मिन् सर्वमन्त्रांश्च शिवकुम्भं तृतीयकः
ब्रह्मपत्रपुटैर्वापि शंक शुक्त्याथवा पुनः ।
अभिषेकं प्रकुर्वीत ततोऽनुज्ञापयेत् पुनः
पुष्पैर्वा मनसा वापि वाचा वापि प्रशस्यथा ।
अननुज्ञातमन्त्रस्तु न कुर्यान्मात्रिकां विधिम्
स्तुवं स्रुचाक्षसूत्रञ्च संग्रहेत् तत् ततः क्रमात् ।
त्रिकालमर्चनं जपं होमं समाचरेत्
इति सर्वज्ञानोत्तरे क्रियापादे संक्षिप्ताभिषेकप्रकरणम् ॥
स्रुवस्यावक्षसूत्रस्य विधानं शृणु तत्वतः ।
जपस्य सिद्धि द्रव्याणि प्रवक्ष्याम्यनुपूर्वशः
स्रुवं हस्त प्रमाणं तु आधारोङ्गुष्ठ पर्वतः ।
बाहु मात्रं स्रुचं ज्ञेया पुष्करं संनि सन्निभः
पालाशाश्वत्थ बिल्वं तु वैकंकतं तु वा पुनः ।
क्षालयित्वास्त्रबीजेन धारणाभिर्विशोधयेत्
ततश्च पञ्चगव्येन पुनर्गन्धोदकेन तु ।
त्रितत्वं शक्तिबीजं तु योजयेदुभयोरपि
गन्धपुष्पैरलंकृत्य धूपं दद्याद् विधानवित् ।
सप्तरात्रं स्थितिं कृत्वा पश्चाद्धोमो नियोजयेत्
प्. १०६)
पुत्रदीप फलं वृक्षो मधो गत्वा विशोधयेत् ।
खसस्यं गोमयं ग्राह्यं पुनस्तत्रो विलेपयेत्
सिक्त्वातु पूर्ववन्मन्त्री अस्त्रगन्ध शिवांबुना ।
शिवी कृत्वा तु तं वृक्षं शिववत् प्रति पूजयेत्
पुरस्तादग्निकार्यं तु शास्त्र दृष्टेन कर्मणा ।
कृत्वा भूत बलिं दत्वा पश्चादक्षाणि संहरेत्
मध्ये शाखा समुद्भुतैर्मन्त्रमावर्तयेच्छिवः ।
पूर्वशाखोद्भवस्कन्द जपे तत्पुरुषं बिलम्
अघोरवामदेवौ वा सद्योजाताङ्गमेव वा ।
ये यथावस्थिता मन्त्रास्तैस्तुतान् परिकल्पयेत्
वायव्यानल माहेन्दु वरुणावाथ मिश्रकाः ।
तेभिस्वस्त्रोतजैरक्षै सर्वे सिध्यन्त्य संशयः
कंन्याकर्तितु सूत्रेण त्रिगुणं त्रिगुणे न तु ।
अक्षमाला प्रकुर्वीत शुद्धे नास्त्रोदकेन तु
शतमष्टोत्तरं वापि चतुःपञ्चाशदेव वा ।
सप्तविंशति वा मन्त्री अक्षमाला शुभास्मृता
शक्तिन्यासं पुराकृत्वा तस्मिन् सूत्रे निधापयेत् ।
वेधयेदस्त्रबीजेन प्रोतयेद्धृदयेन तु
अन्योन्य संस्थितं कृत्वा मुखं तेषां सुसंहृतान् ।
निरुजांति प्रणान् शुद्धान् न भिन्नामल वर्जितान्
प्. १०७)
ततः शिवाम्भसा क्षाल्यं पुनर्गन्धैर्विभूषयेत् ।
स्वस्त्रोते विन्यसेच्छक्तिं वीरपत्रस्तथोपरि
मूयूरचन्द्रकैश्छाद्य पश्चादक्षाणि योजयेत् ।
वीरपत्रस्य तथा चैव पश्चादालभनं कुरु
स्वमन्त्रं पूजयेत् तत्र गन्धपुष्पैरनुक्रमात् ।
शिवीभूतं तु तत्सूत्रं संपुटित्वा दिने दिने
ततस्समुद्गके मन्त्री मांत्रालब्धे निधापयेत् ।
सौवर्णे राजते चैव ताम्रसिद्धोर्थकेपि वा
ग्रहणं मोक्षणं चैव स्थापनं च विधानवित् ।
हृदये तु कर्तव्यमर्चनं च विलेपनम्
अतः संक्षेपतो वक्ष्ये भूयोक्षस्य विधिं परम् ।
आहृत्य निपुणानक्षान् अस्त्रजप्तेन भस्मना
संशोध्यवारि युक्तेन धारणा निपुणः क्रमात् ।
ततस्तु पञ्चगव्येन पुनर्गन्धोदकेन तु
ततः शिवाम्भसा क्षाल्य पुनर्गन्धैर्विभूषयेत् ।
यागं कृत्वा यथोद्दिष्टं पूर्वोक्त मेखलं यथा
ततस्तु प्राणसंघातमाकृष्य हृदि मण्डले ।
त्रितत्वे मध्यगो भूत्वा जपं कुर्यात् समाहितः
त्रितत्व मध्यगो भूत्वा जपं कुर्यात् समाहितः ।
त्रिभिस्तु चुलकैर्नित्यं यावत् संख्या प्रपूर्यते
प्. १०८)
तावतत् गन्धतोयेन शिवस्य जपमर्पयेत् ।
जपं कृत्वोदिसंकृत्वा पुनरीशं प्रसाधयेत्
तमाकृष्य तथैवैह व्रतमन्त्रैः समाचरेत्
इति श्रीसर्वज्ञानोत्तरे क्रियापादे जपादिप्रकरणम् ॥
अतः परं प्रवक्ष्यामि व्रतानां व्रतमुत्तमम् ।
शिवव्रतमितिख्यातं सर्वदा सुरपूजितम्
विशुद्धं पाण्डरं जन्म शुक्लवासोनुलेपनम् ।
शुक्लयज्ञोपवीती च जटामकुट मण्डितः
सर्वाभरणसंपन्न शुक्लमाला विभूषितैः ।
चरुभूत् ब्रह्मचर्यस्य शिवाग्नि गुरुपूजितः
मन्त्रमूर्ति शिवस्यैव यथापूर्व प्रकीर्तितम् ।
तथा वै साधकैंद्राणा व्रतज्ञेयं तथात्मकम्
शुक्लकौपीन वासं वा उष्णीषाक्षक मण्डलुम् ।
शिवालये वसन्नित्यं भिक्षाभक्षो जितेन्द्रियः
शिवध्यानरतो मौनी शिवाग्नि गुरुपूजकः ।
संवत्सरे व्यतिक्रान्ते शिवतुल्यो भवेदिति
इति सर्वज्ञानोत्तरे क्रियापादे शिवव्रतप्रकरणम् ॥
अतः परं प्रवक्ष्यामि लक्ष्मणं तु शिवालये ।
स्थापनं चैव लिंगस्य यस्मिन् सर्व प्रतिष्ठितः
ब्रह्माद्या देवतास्सर्वे लिङ्गमाश्रित्य संस्थिताः ।
प्. १०९)
तस्माद् वै स्थापयेल्लिङ्गं शास्त्रदृष्टेन कर्मणा
त्रिण्यां विद्याव्रतो योगी गुरुदेवाग्नि पूजकः ।
आचार्यस्तत्व विद्धीमान् विशिष्टकुलजः शुचिः
सर्वलक्षणहीनोपि शिवशास्त्रार्थ विद्गुह ।
स्थापकस्स परप्रोक्त शिवविच्छास्त्र संमतः
सर्वलक्षणसंपन्न संम्यत् शास्त्रं न विन्दति ।
न योगी न व्रतस्नातो ना चावाचार्य उच्यते
न शठो नास्तिकः क्रूर पिशुनो न च मत्सरी ।
कुषीकु * सखीं व्यङ्गं क्षयरोगी जलोदरी
काणः केकरपिङ्गाक्षः कपालकुतशेखरः ।
सर्वदोषाश्रयं वत्स तार्किकं तु विवर्जयेत्
भोजका देवजग्धाश्च देवव्रतधरांश्च ये ।
विनाग्नि नैष्ठिकाश्चैव स्थापनेषु विवर्जयेत्
स्थान शुद्धात्मशुद्धी च द्रव्यशुद्धिं तथैव च ।
मन्त्रस्य लिङ्गशुद्धिं च विदित्वा गमकृत्
शिवा भवास्त्रतोयेन स्थानमभ्युक्षयेत् ततः ।
माहेन्द्र वारुणं वापि पुनः क्षेत्रं प्रकल्पयेत्
दिशां बन्धं ततः कुर्यात् यथापूर्वमुदाहृतम् ।
स्थान शुद्धिर्भवेदेवं देहशुद्धिः प्रचोदिता
मन्त्रशुद्धिर्मनोंथथे मन्त्री मन्त्र विचक्षणः ।
प्. २१०)
मलाध्यैश्वर्य ज्ञालानि मन्त्राणां कीर्तितानि तु
तेषां प्रबोधिनी शक्ति शिवाज्ञानं न मन्त्रता ।
मन्त्रशुद्धिर्भवेदेवं समासात् परिकीर्तितः
द्रव्यशुद्धिस्तु द्रव्याणां प्रोक्षितानां शिवाम्भसा ।
लिङ्गशुद्धिं पुनर्वक्ष्या विभातां चार्चनस्य च
लक्षणं चैव लिङ्गस्य येन सान्निध्यतां व्रजेत् ।
लिङ्गाद्धस्तशतं क्षेत्रमाचार्ये स्थापितस्य तु
स्वायंभूते सहस्रं स्याद्रिष्ठिभिस्तु सदर्थकम् ।
भूमि संशोधनं कृत्वा क्षेत्रस्य जननं कुरु
जनिते तु शिवक्षेत्रे पश्चाद् वै भूपरिग्रहः ।
शिलान्यासं ततः पश्चात् सूत्रयित्वा विधानवित्
हेमरत्नादिभिर्बीजैर्भूषयित्वा निधापयेत् ।
पुण्याह जय शब्दैश्च शंखवाद्यकनिस्वनैः
बाहुर्मंगल निर्घोषैः पूज्य विष्णुविनायकान् ।
दिशाबलिं ततो दद्यात् पूजयित्वा दिगीश्वरान्
आचार्यः शिल्पिभिः सार्धं लिंगं कुर्यात् सलक्षणम् ।
स्थपतिश्च यथोद्दिष्टं प्रासादं शास्त्रसम्मतम्
प्रासादाद्वा भवेल्लिङ्गं लिङ्गात् प्रासाद एव वा ।
यदेव सूत्रितं पूर्वं तेन सूत्रेण चोदितम्
अस्त्रयागं पुनः कृत्वा अस्त्रैरस्त्रं नियोजयेत् ।
स्नापयित्वास्त्रतोयेन गन्ध पुष्पैर्नियोजयेत्
प्. १११)
धूपं दत्वा विधानेन रात्रिमेकां निधापयेत् ।
वस्त्रशययां समारूढं कुठारं टङ्कमुद्गरम्
घृतेन मधुनाभ्यज्य मुखा तेषां पुनः क्रमात् ।
अस्त्रं तु जपतो ध्याने प्रवेशे हृदयं जपेत्
संप्राप्योदित शैलं तु तत्र यागं पुनः क्रमात् ।
कृत्वा भूतबलिं दत्वा हृदयं परिवर्तयेत्
तस्य पादांश्शिलां गृह्य विवर्तां सौम्यदर्शनम् ।
विवर्णामनवद्यांस्तु विशुद्धां सुनिदर्शनाम्
अस्त्राभिमन्त्रितं कृत्वा सद्येना लभनं कुरु ।
ते नैवाभ्यर्चनं भूयस्तत्र कर्म समाचरेत्
अथो भागे कुर्वीत * * * * * तात्मकः ।
पूर्वमूत्तरमीशानं मस्तकं परिकल्पयेत्
वृक्षस्य पूर्वतं पूर्वं प्रासादे पूर्वते मुखे ।
यतो वापि भवेद्वारं तत्रवंत्रं तु कल्पयेत्
स्वस्थानस्यंतु पूर्वेण प्रासादं पश्चिमामुखम् ।
दक्षिणेन तथा कुर्यात् पश्चिमे पूर्वतो मुखम्
उत्तरेण तथा भूय पूर्वं पश्चिमे * व वा ।
द्वारं तु मध्यतः स्थाप्य भूमिभागवशाद् भवेत्
नोत्तराभिमुखां देवां न कुर्याद् दक्षिण मुखात् ।
विदिशासु च वक्त्राणि न कुर्यात् तु कदाचन
प्. ११२)
अन्यथा स्थाप्यमानानां दैवानां शिखि संभव ।
दुर्भिक्षं विग्रहो राजा वुपसर्गो भयानि च
उच्छ्रायां देन कुर्वीत विस्तारं गुणबहिः ।
चतुरश्रयावर्तुलां वा प्रदंगो पुरान्वितम्
प्राकाराभ्यन्तरेष्टौ तु पार्श्वे विन्यस्य मन्त्ररा * ।
प्रासादानि मुखान् कुर्यान् न गर्भतैस्तु वेधयेत् ॥ ३५ ।
इन्द्र पावक धर्मेश निऋ-ऋति वरुणा तिलात् ।
कुबेरं च तथैशानं स्थापयेत् तेषु देवता
द्वारे देशे बहिः स्थाप्यौ दुर्गाविघ्नविनायकौ ।
स्थाप्यौनन्दिमहाकालौ शिवस्य पुरतस्तथा
शिवलिंगं ततो मध्ये ज्येष्ठमध्यमकन्यसम् ।
संपूर्णोदर पार्श्वं तु पृष्ठमुन्नतमस्तकम्
अवक्रापश्रयं हीना श्रमवक्र * * स्थितम् ।
पद्मार्थचंद्र चक्राक श्रीवत्स स्वस्तिकाङ्कितम्
एकहस्तद्विहस्तं वा त्रिहस्तं वापि कन्यसः ।
चतुर्हस्तं पञ्चहस्तं षड् हस्तं मध्यम * *
सप्ताष्ट नवहस्तं वा उत्तमं परिकीर्तितम् ।
श्वेतरक्तं तथा पीतं कृष्ण विप्रादितः क्रमात्
गुरु स्निग्धं सुगन्धं च सुस्वरं तेजसान्वितः ।
व्यामिश्रमपि त गृह्यं चतुर्णाममविशोभतः
प्. ११३)
सर्वशल्य विनिर्मुक्तं सर्वतोष विवर्जितम् ।
सर्वलक्षणसंयुक्तं शिवलिङ्गनिधापयेत्
अंगुल्य द्वंगुलं वापि कुर्यात् तु चतुरंगुलम् ।
अष्टाङ्गुल वितस्तिं वा मणिरत्न मयं शुभः
सततां रत्न लिङ्गानां प्रासादो न विधीयते ।
प्रासादे वा गृहे रम्ये यथेष्ठं संप्रपूजयेत्
यदात्मकं बलेर्लिङ्गं वेदीकार्या तदात्यका ।
लिङ्गवेद्यासमुज्ञेयं वेदिलिङ्ग समास्मृतः
सौवर्णराजता वापि ताम्रावा विमला भवेत् ।
अभावे रत्नवेदीनां रत्नलिङ्गेषु कीर्तिता
वेद्याः पूर्वापरं ज्ञात्वा तथावोत्तर लक्षणं ।
मध्ये प्रवेशयेद्यल्लिङ्गं द्वौ भागौ बाह्यतः स्मृतौ
भागद्वयं भवेद् दृश्यं तृतीयं संप्रवेशयेत् ।
विहितं रत्नलिंगानां सुषिरे होम भे * ते
तेषा. हि लक्षण मध्ये उत्तरे प्रयत्नतः ।
भागत्रयं समं कृत्वा तत ऊर्द्ध्वं परित्यजेत्
तत्र सर्वत्र समं श्रेष्ठ सुप्तक्तोन्नत मस्तकम् ।
सर्वदोषविनिर्मुक्तं सर्वलक्षणसंयुतम्
चतुरश्रमथो भागमष्टाश्रं मध्यत स्थितम् ।
वृत्तं चैव तमूर्ध्वं तु प्रकूर्वीत षडानन
प्. ११४)
सुविशुद्धस्य लिङ्गस्य कुक्कुटाण्डमयस्य च ।
यव मध्यं ततः कुर्याच्चतुरश्रमतः पुनः
परिपूर्णातरं मध्ये अत ऊर्ध्वकृतं भवेत् ।
अष्टाश्रं वा प्रकूर्वीत सुप्तताराकार मध्यकम्
समाश्रं निव्रणं शुद्धं तेजस्कं चारुदर्शनः ।
मृदंग कामतं जेयं मृदंगाकार * स्तिकः
स्थापितं च वने वापि स्थितं वा विषमं यदि ।
मणिरत्नमयं लिङ्गं पुनः संस्थाप्य पूजयेत्
ऊत्तरप्लवनां वेदिं दर्पणोदर सन्निभः ।
मेखलां द्वादशांगेन प्रणालं चार्ध भागिकः
प्रमाण लक्षणं चैव मणिरत्नमयेषु च ।
स्थापनं चार्चनं प्रोक्तमितरेण विधिं शृणु
अथ गर्भग्रं पुरस्कन्द लिङ्गस्य त्रिगुणं कुरु ।
मध्यमांसे शस्य सद्वेदीं भक्तिर्वेदी समास्मृताः
तत् प्रमाणं भवेद्वारं विस्तरेण विधानवित् ।
उच्छ्राय द्विगुणं कुर्या सुसमीकन्यसस्य तु
षष्ठं भागमथस्त्यज्य द्वारमध्यमकं न्यसेत् ।
कल्पयीत यथोद्दिष्टं मध्यमस्थाधुना शृणु
द्व त्रि भागे तु संत्यज्याधो भागस्य षण्मुख ।
ऊर्ध्वभागे प्रकुर्वीत द्वारं वै मध्य संमितु
प्. ११५)
भागमेकं परित्यज्य द्वयोर्भागः प्रकल्पयेत् ।
तद्भागं पूरयेद्भूमौ शेषं लिङ्ग क्रमेण तु
अधो वेदिं स्थिरां कृत्वा निर्वाणां सुसमन्विता ।
सुश्लिष्टामिष्टकैश्च्छाद्यं यावत् क्षेत्र समा * *
ततसूत्तर वेद्यां च पीठस्य रचनां कुरु ।
विधिना शास्त्रदृष्टेन सर्वकर्माणि चैवभि
लिंगाद्वे तथा गर्भो भक्तिश्चैव षडानन ।
प्रासादं च तथा तत्तलिङ्गमानेन कारयेत्
तल्लिंगं मंजरीययास्त्रि * * * * * * * * ।
शुकनासा महासेन शिखरं चैव लैंगितम्
तल्लैंगिकं पुनः सूत्रं गर्भादुभयतो न्यसेत् ।
दिगश्रमुश्रयार्धेन शुकनासस्य मण्डपम्
गर्भस्यो भयतो लिङ्गमेकैकं संप्रवेशयेत् ।
द्वौलिङ्गादग्रतः कुर्याच्छुकनासस्य षण्मुख
वलभिच्छांदकं वापि गजसिंहाकृतिं तथा ।
हंसकृत्यातिं वापि शुकनासं समं कुरु
द्वौ लिंगावर्धलिंगञ्च गर्भं वै मध्यमस्य तु ।
द्वौ लिङ्गावुत्तमस्योक्तौ त्रीणिलिङ्गानिकं न्यसेत्
अथवा सर्वलिंगानां यो भागो द्वारकर्मणि ।
गृहीत्वा तेन भागेन प्रासादं परिवर्तयेत्
प्. ११६)
सूत्रेण सुमितं कृत्वा लिङ्गं भागत्रयं कुरु ।
चतुरश्रमधोभागमष्ठ भूमध्यम स्थितः
वृद्धतृतीयकं भागं किञ्चिदुन्नतमस्तकम् ।
अत ऊर्ध्वं मध्यमञ्च समभागं प्रशस्यते
पीठलिङ्गसमाप्रोक्तं पूजाभागद्वयेन वा ।
अन्यथा रुचिता लिंगात् गर्भान्तं नवधा कुरु
मध्यपीठं पदान्यष्टौ स्वांशमात्रादि * * * ।
सर्वेषामेव भागानां परिणाहस्तु कीर्तितः
ब्रह्माद्यस्तु त्रयोभागं वृत्तं षोडशसंयुतम् ।
एवं कुंडितं क्षेत्रं परिणाहस्तु कीर्तितः
मस्तकं यस्य लिंगस्य येनांशेन तु वृत्तयेत् ।
तत्र भागं पुनस्तस्या यामे परिकल्पयेत्
ब्रह्मवेद्यां न्यसेद् भाग द्वितीये पीठिका स्थिताः ।
अर्चा भागं तृतीयान्तु कर्तव्यं लक्षणान्वितम्
ऊर्ध्वं तृतीयके भागं त्यज्य लक्षण मुद्धरेत् ।
सूत्रयित्वा सुवर्णेन तल्लिङ्गाकृति मुत् जिरेत्
अष्टाश्राम्मध्यतश्चोर्ध्वं बाहुभिः समलंकृतम् ।
उत्कीर्य मधुनाज्येन पश्चातमुपलेपयेत्
द्विस्त्रे कान्तरिते सूत्रे तस्य मध्ये पुनर्नयेत् ।
मध्यमांगुलिमानेन तश्शुभं लक्षणं स्मृतः
अथ लक्षण यथालिङ्गं हीण लक्षणमेव वा ।
अति दीर्घ कृशं ह्रस्वं नाथश्रयं त्यत्र देवताः
प्. ११७)
तस्मात् सर्व प्रयत्नेन प्रोचरे लक्षणं शुभम् ।
श्लक्ष्णं मेव संचिन्नं सुप्रमाणं सुदर्शनः
सर्वदोषविनिर्मुक्ताः वेदिं कुर्यात् स लक्षणः ।
यथालिंगं तथा चैषा स्थापनीया प्रयत्नतः
दीर्घमायुः क्षयात् कुर्याद् वेद्यां ह्रस्वं तथा धनः ।
तस्माद्ध्रस्व तरं लिङ्गं नाति दीर्घञ्च कारयेत्
मद्धया हारेण * * संयतेन जितात्मना ।
आचार्येण च शान्तेन सततं मन्त्रजापिना
लिङ्गं वेदी वृषश्चैव निष्पन्नादी यदा हवेत् ।
गो युक्तारथमारूढमानयीत तदा शुचिः
गन्धपुष्पैरलंकृत्य धूपं दत्वा विधानवित् ।
पुरःप्रदक्षिणी कृत्य नानाघोषैः प्रवेशयेत्
नीत्वा चायतनं दिव्यं ईशानीं दिशमाश्रितः ।
मृदुशययासनं रूढमेकरात्रं निधापयेत्
तत्रादि व्यासनं कुर्यादाचार्यः सुसमाहितः ।
होमं कृत्वा विधानोक्तं जपेद् ब्रह्मादि संहिताः
ततो मूर्ति धारानष्टौ सकलीकृत विग्रहान् ।
जपध्यानरतां छान्तान् अर्धरात्रे प्रवेशयेत्
उत्तिष्ठंत्तेति विपेन्द्र कलशान्वारि पूरितान् ।
मन्त्र द्रव्य समायुक्तान् संपादयथ मे परान्
प्. ११८)
ततो लिंगं समुत्थाप्यास्त्र जप्तेन वारिणा ।
स्नापयेद् वस्त्र पूतेन शीतेनाष्टोत्तरेण वा
धारणाभिश्च संशोध्य लिंगं वेदिं तथा वृषम् ।
संस्नाप्य वारुणैर्मन्त्रैर्भूषयित्वा प्रवेशयेत्
चतुरश्रराशिलां कृत्वा त्रयंगुलाधार मेखलाः ।
चतुरश्रेण लिङ्गस्य समसूत्रेण सूत्रिताम्
सुदृढां निस्तृणां शुद्धां द्वादशांकुलमुच्छ्रिताम् ।
सहोमा निहितां श्लिष्टां सुस्थिरां समसूत्रिताम्
संप्रोक्ष्या यतनं मन्त्री मन्त्र पूतेन वारिणा ।
ब्रह्ममध्ये शिलां न्यस्य विधानोक्तं ततः कुरु
सौवर्णां तादृशीं कृत्वा कुर्मं पृष्ठे निधापयेत् ।
या तव सर्व बीजानि रत्नानि च पुनः क्रमात्
ततः शिलां प्रतिष्ठाप्य तस्या मध्ये यथा विधि ।
तत्र शक्तिं न्यसेद् विद्वान् अंकुरांकुरसन्निभाम्
हरितालं तु पूर्वेणाग्नेययां तु मनःशिलाम् ।
यान्याधामं जनं दद्यान्नैर्-ऋत्यं हेममाक्षिकम्
विमलकं तु वारुण्यां वायव्यां परतं न्यसेत् ।
कासीसमुत्तरे दद्यादीशान्यां रोचनां न्यसेत्
गैरिकावा विधातव्या ब्रह्मस्थाने विचक्षणैः ।
पवित्रा सर्वमङ्गल्या ज्ञेयाः पुष्ठिकराः स्मृताः
प्. ११९)
व्रीहींश्च गर्भ षष्ठिंश्चैन्द्रा दिशि नियोजयेत् ।
माषांश्चैव कुलुत्थांश्चाग्नेययां दिशि योजयेत्
मुद्गांश्च चणकांश्चैव याम्यायां तु नियोजयेत् ।
तिलान् कृष्णातलांश्चैव नैर्-ऋत्यां दिशि योजयेत्
गोधूमांश्च यवांश्चैव वारुण्यां दिशि योजयेत् ।
प्रियंगवश्च श्यामाकान् सौम्यायां दिशि योजयेत्
ऐशान्यां सर्वधान्यानि दद्यात् पुष्टिकराणि तु ।
धातवः सर्वबीजानि ब्रह्मस्थाने नियोजयेत्
भूयोपि पूर्वतो व्रीहि निष्पावं दक्षिनेन तु ।
पश्चिमेन यवान् दद्यात् उत्तरेण प्रियंगवः
बीजगाढं न कुर्वीत मंगलार्थं नियोजयेत् ।
विपरीतानि बीजानि यदालिङ्गस्य पादयेत्
ततो दोषा निवर्तन्ते व्याधयश्च भयानि च ।
ऐन्द्रां तु पादयेद् वज्रं सूर्यकान्तं तु व * तः
इन्द्रनीलं तु याम्यायां वैडूर्यान्नैर्-ऋते दिशि ।
शंखश्चैव तु वारुण्यां वायव्यां पुष्परागकम्
मरतकं तु कौवेर्यांमैन्यो मौक्तिकं न्यसेत् ।
ब्रह्मस्थाने ब्रह्ममणी वासुकेरमृतं मणिम्
लोताक्षोयत साध्यानां विश्वेभ्यः पुलको मणिः ।
सौम्ये शानयोर्मध्ये चन्द्रकन्तु प्रदापयेत्
प्. १२०)
अलाभात् सर्व धातूनां हरितालं तु दापयेत् ।
अलाभात् सर्वबीजानां धवबीजं प्रदापयेत्
अलाभात्सर्व रत्नानां वज्रमेकं तु दापयेत् ।
अलाभात् सर्व लोहानां स्वर्णमेकं तु दापयेत्
यथास्थानेषु तैर्वतैर्विधि प्राप्नोति दुष्कलम् ।
किञ्चिच्च पुष्पधूपाणि यवभूते नियोजयेत्
धूपं दत्वा पुनश्चैव पश्चाल्लिंगन्तु स्थापयेत् ।
मध्यावलंबनं कृत्वा तेन सूत्रेण तत्ववित्
निश्शब्द नियतं शान्तं स्थितलिङ्गं स चालयेत् ।
नमः सर्वात्मकायेति लिखाधः वायसेन तु
पीतवर्णामतो भागे चतुरश्रे पितामहम् ।
अतसी पुष्प संकाशं मध्ये तु पुरुषोत्तमम्
वृत्तभागे न्यसेद्रुद्रं शुद्धकुन्देन्दु समप्रभम् ।
तत्रैव देवतास्सर्वा अर्चा भाग समाश्रिताः
यदाद्यमैश्वरं तेजः सर्वदेवमयं च तत् ।
पिण्ड भूतं च तत्वानां ततोज्ञो लिङ्गमुच्यते
इमां भूतं विजानीयात् शुद्ध काञ्चन समप्रभम् ।
गणमातांबिकां पुण्या धात्री योगीश्वरी पुरा
धर्मादि चरणं न्यस्य ततः पीठं नियोजयेत् ।
प्रणवेन विधानज्ञो अर्चान्यत् पूर्व चोदितम्
प्. १२१)
प्रणवं सर्वदेवत्यं विज्ञेयं परमात्यतः ।
सञ्चिन्त्य देवता रूपं यद्विकल्पत्ति तद्भवेत्
ऐन्द्र वारुण कौबेर्येरास्वन्यस्यां दिशि षण्मुख ।
स्थापितच्च पते लिङ्गं तच्छान्तिं तत्र कारयेत्
सा एव देवता याज्ञ्य पञ्चाङ्गकृत लक्षणाः ।
होमं कुर्यात् तु तत्रैव दद्याद् गो मिथुनं ततः
ततस्तु देवदेवेशं शिवं परमकारणम् ।
पूर्वोक्तेन विधानेन लिङ्गेग्नौ संप्रपूजयेत्
पूजां गृह्णानि लिङ्गस्थो वह्निस्थो वा परा हुतिम् ।
आचार्य मूर्तिमास्थाय शिवो ज्ञानं प्रयच्छति
आचार्यस्यापि मन्त्रस्य शिवज्ञान शिवस्य च ।
नानात्वं नैव कुर्वीति विद्याविद्येश्वरादयः
शिवज्ञान समायुक्त आचार्यो मन्त्र विग्रही ।
सर्वमूर्ति धरो नित्यं शिवमन्त्रं प्रपूजयेत्
अस्त्रं चैव तु पीठस्यात् लोकेशासन्मूलमाश्रितान् ।
गणेशान् लिङ्गमध्यस्यात् पूजयीत यथा क्रमम्
विद्येश्वरान्तदूर्ध्वन्तु चक्रवत्परिसंस्थितान् ।
ऊर्ध्वाधश्शक्ति संलीनात् पूजयित्वा विधानवित्
शक्तिस्थं ब्रह्मभिर्युक्तं शिवाङ्गैः परिपारितम् ।
शिवं विश्वेश्वरं देवं लिङ्गमूर्ध्वं निपूजयेत्
लिंगं प्रक्षाल्य शास्त्रेण शिवास्त्रं यत्प्रकीर्तितम् ।
प्. १२२)
रुद्ररुपध विघ्ना तेन प्रोत्सारितास्तुते
पीठं प्रक्षाल्य पश्चात् तु वर्धन्यादुदकेन तु ।
पाशुपतेन चास्त्रेण उषारूपधराहताः
एवं प्रोत्सारणं कृत्वा विघ्नानां विविधं बुधः ।
ततोर्ध्वानं प्रकुर्वीत शिवस्य परमात्मनः
अर्चयित्वा विधानेन यथा पूजां विसर्जयेत् ।
अभ्यर्च्य पञ्चभिर्ब्रह्मैश्चण्डेशाय निवेदयेत्
धुनि चण्डेश्वरायेति हुं फट् स्वाहेत्यनुक्रमात् ।
करेण दक्षिणे नैव निर्माल्यं सततं बुधः
वां महास्तेन मन्त्रज्ञ स्रुजं गृह्य विचक्षणः ।
नश्रन्य मस्तकं लिङ्गं कृत्वा तिष्ठेत् साधकः
न चास्य भ्रूम यद्धस्तादुपरिष्ठान् कदाचन ।
तर्जन्या तर्जयेद् विघ्नान् सान्निध्यं लिङ्गमुद्रया
निरोधे निष्ठुरा कुर्यात् स्नानकाले विचक्षणः ।
संप्रक्षाल्य करौ मन्त्री स्पृष्ट्वा लिंगं पुनः पुनः
सक्तोथ क्षालयेद्गात्रं स्नानमूर्ध्वं समाचरेत् ।
इति श्रीसर्वज्ञानोत्तरे प्रतिष्ठाप्रकरणम् ॥
गन्धे क्षीणे यथा लिङ्गे वर्तुमानं तु कारयेत् ।
चालयित्वा तु तत्स्थानात् पृष्ठदेशे निधापयेत्
शैले निलयेश्छैलं दाखे दाखं तथा ।
प्. १२३)
मृण्मये मृण्मयं चैव रत्ने रत्नं नियोजयेत्
सुवर्णेन तु संधाय घृतेन मधुना सह ।
पूर्वोक्तेन विधानेन प्रयत्नेन तु स्थापयेत्
एवं तु तेन धत्तेन विधिज्ञो विधि सत्तमः ।
रक्षो भूत पीशाचाश्च आश्रयं निविगर्हितम्
अत्युच्चं वा प्रमाणस्थं विषमस्थां समं कुरु ।
निमुस्तं बोध्न तं कुर्याद् वारार्थं न व्यतिक्रमेत्
न चैव वेधनं कुर्यारदेशस्य षण्मुख ।
याम्यां वा पश्चिमां वापि सूत्रमेकं परित्यजेत्
अथ बाह्यात् क्रमे सूत्रमीशानं सार्वद्वारिकम् ।
शास्त्रोक्तं विधिमुत्सृज्य भक्तियुक्तोपि मानवः
सुस्थितं दुःस्थितं वापि शिवलिङ्गं न चालयेत् ।
शास्त्रोपदिष्टमार्गेण घृ * नाहुतिभिः क्रमात्
शतेन स्थापयेल्लिङ्गं सहस्रेण तु चालयेत् ।
दुद्धरेद्वापि पूर्व * * * सूत्रेण मन्त्रवित्
अत्राम्बु पञ्चगव्येन धारणाभिर्विशोधयेत् ।
दधि क्षीर घृतैः स्नाप्य ततोलिंगं विरुक्षयेत्
यवगोधुमजैश्चूर्णैः कषाग्नैर्गन्धयोजितैः ।
त्वक् भिश्च विविधैर्मद्धैः क्षीरवृक्षसमुद्भवैः
आभिः क्षीरकुशाग्रैश्च मद्ध्य क्षत तिलेस्सह ।
यवैः सिद्धार्थकैःर्युक्तं पश्चादर्घ्यं प्रदापयेत्
ततो गन्धैश्च पुष्पैश्च धूपवस्त्रविभूषणैः ।
भक्ष्य भोज्यान्न पानादि द्यैश्चिन्तयेद्बिन्दुमीश्वरम्
प्. १२४)
यद्यद् द्रव्यं निषेधं स्यात् तन्मयं तत्र चिन्तयेत् ।
शक्तियुक्तं परं देव मया भृतं षडानन
यो द्यो वासौ सदा देव सर्वदः सर्व कामिकः ।
सर्वज्ञः सर्वगश्शान्तो मूक्तो मूक्तो निरामयः
युक्तानि शक्तिमन्त्रेण सर्वद्रव्याणि षण्मुख ।
मेद्ध्यानि तु भंतिहतस्मात् सर्वत्र योजयेत्
शिरस्थाने तु देवस्याचार्यो होममाचरेत् ।
शिवस्य शिवमन्त्रेण सहस्र परिसंख्यया
ब्रह्मभिश्च शिवांगैश्च यथास्थानेष्वनुक्रमात् ।
तस्यार्थेन बहिः पश्चात् मूर्ति होमं समाचरेत्
विद्येश्वर गणैर्मन्त्रैर्लोकपालैस्तथैव च ।
यथास्थानेषु पञ्चाङ्गैः मूर्ति होम परः स्मृतः
अथवा सर्वमन्त्राणां यथा पूर्वमुदाहृतम् ।
शिवस्य शिवयागे तु तथाग्नौ तर्पयेत् सदा
पृथक् पृथक् पदा स्कन्द व्या * * * स्य देवताः ।
तथा पञ्चां संयुक्ताः स्वमन्त्रविधि कल्पिताः
अथाभ्यर्च महेशानं लिङ्गेग्नौ स्थंडिलेपि वा ।
तदेक मन्त्रमन्त्रास्तु ध्येया सर्वांग युताः
एवमिष्ट्वा यथान्यायं ततो दद्याद् दिशा बलिम् ।
इष्ट्वा चण्डेश्वरं देवा गुरुं च संप्रपूजयेत्
प्. १२५)
गन्ध पुष्प पवित्राद्यैर्वस्त्रालंकार वाहनैः ।
ग्रामखेट पुरे वापि यथा विभवविस्तरैः
वित्तशाठ्यं न कुर्वीत महापुण्य जिगीर्षया ।
सर्वान् कामानवाप्नोति यथोक्तेन तु कर्मणा
सर्वयज्ञतपोदान सर्वतीर्थेषु यत्फलम् ।
तत्फलं कोटिगुणितं स्थाप्य लिंगं लभेन्नरः
यो लिङ्गं स्थापयेदेवं विधि पूर्वं सदक्षिणः ।
सर्वागमोदितं पुण्यं कोटि कोटि गुणं लभेत्
पिस्तृजं मातृजं वापि यतवोद्गहते स्त्रिधाम् ।
कुलैकविंशमुत्तार्य ततो गछतु परां गतिम्
अज्ञात्वा विधिवच्छास्त्रं कुरुते यस्तु लोभतः ।
कर्तारञ्च तथात्मानं इहामुत्र विनाशयेत्
तस्मात् सर्व प्रयत्नेन विधिवत् कारयेद् बुधः ।
कर्ताकारयिता चैव ततो याति परां गतिम्
इति श्रीसर्वज्ञानोत्तरे जीर्णोद्धारप्रकरणम् ॥
चालय मानेषु लिङ्गेषु विधिरेषु प्रकीर्तिता ।
अचलेषु समाख्याहि तत्वतः प्रतिमासु च
अतत्वज्ञे चल लिंगं स्थापितं तु * दा भवेत् ।
स्थपत्या वा यवान्येन तस्य कालो(?) विधिः स्मृतः
सौवर्णं राजतं ताम्रं कर्तुं वा शैल मृण्मयम् ।
प्. १२६)
स पीठं निर्मितं लिंगं धधन्यदचलं भवेत्
अस्त्राम्बु पञ्चगव्येन धारणादिभिर्विशोधयेत् ।
स्थापयेत् सर्व बीजैस्तु प्लुतैर्बिन्दु विभूषणैः
ध्यानेन देवता पीठं यातु बीजं सरत्नकम् ।
पूर्वोक्तेन विधानेन प्रणवेन तु सा स्मरेत्
इन्द्रश्च पावकश्चैव यम नि-ऋ-ऋति एव च ।
जलवायु कुबेरेश ब्रह्मानन्दाश्च देवताः
पृथिव्यादीनि गन्धान्तं ब्रह्मवेद्यां प्रकल्पयेत् ।
धारिका मूर्ध्नि वेद्या तु धर्मादि चरणान्न्यसेत्
तानि चैव निबंधानि गुणैरन्योन्य वर्तिभिः ।
चतस्त्रो गात्रकां कृत्वा रागाद्य वरणादिषु
अथोर्ध्व चन्दने भूयो माया विद्ये प्रकल्पयेत् ।
वा त्वा लिङ्गं तु तन्मध्ये शिवान्तं वाथ चिन्तयेत्
विशुद्धि रश्मि निर्भासं सूर्यकोटि समप्रभम् ।
आधारं सर्वदेवानां भक्तिमुक्ति फलप्रदम्
तस्य मूर्ध्नि सितं पद्मं तल्लिनं चारु कार्णिकम्
चारुकेसरपर्यन्तं अष्टपत्रं मनोरमम् ।
लिङ्गमेवं सदा कल्प्य ततः संस्थापयेच्छिवम्
पूर्वोक्तेन विधानेन पूजयेच्च यथा क्रमम् ।
स्वाहा स्वधा वषट्कारैः वषट् कारेण चैव हि
प्. १२७)
अभ्यर्च्य संप्रयुंजीत नेत्र वक्त्राणि चैव हि ।
अभ्यर्च्य संप्रयुंजीत धूपं भक्ष्यादिभिः क्रमात्
अग्निस्थस्यावि देवस्य गन्धपुष्पपवित्रकैः ।
वस्त्रेषु चार्घ्य पात्रेषु नमस्कारोपि धीयते
सर्वलिंगे स्वयं स्कन्द विधिरुक्तः समासतः ।
प्रयत्नेन तु कर्तव्यः प्रतिमासु निबोधमे
प्रतिमां लक्षणोपेतां विचित्र लेप्यां तथेतराम् ।
यादृशं देवतारूपं तादृग्रूपं तु कारयेत्
अस्त्राम्बु पञ्चगव्याद्यैः स्नानं पूर्ववदाचरेत् ।
तथा च भूत संशुद्धिं धारणाभिः समाचरेत्
सौम्येन देवता स्थाप्य प्रथमेन षडानन ।
ततोङ्गानि नियुंजीत नेत्र वक्त्राणि चैव हि
संचिन्त्य देवता रूपं शुद्धाव * व लक्षणम् ।
प्रसन्न वदनं सौम्यं सर्वालंकार भूषितम्
हृदा तु गन्धपुष्पाणि वस्त्राण्याभरणानि च ।
धूपोपहार द्रव्याणि दीपानि स्वकीयेन नियोजयेत्
होमे रत्नेषु रप्येषु ताम्रशैलमयेषु च ।
दाखेषु च सर्वेषु सदा स्नानं विधीयते
चित्र लेप्येषु वैद्यानां तस्यानन्तेषु कारयेत् ।
पाद्यमाचमनं चार्घ्यं सर्वज्ञानेन संस्मरेत्
प्. २२८)
केवलं मन्त्र विन्यास मुत्न पुष्पैर्निरंबुभिः ।
कृत्वा धूपं प्रयुंजीत नैवेद्यं चोप कल्पयेत्
गन्धपुष्पैस्तथा धूपैस्तद्गृहं परिवासयेत् ।
वस्त्र शोभां पुना कृत्वा चित्रवर्णैर्वराम्बरैः
तोरणैश्च ध्वजैश्छत्रैः पताकैश्चारु दक्षणैः ।
रचनाभिरनेकाभि रचित्वा देवता न्यसेत्
ततो होमं प्रकूर्वित पुरस्तात् संयतेन्द्रियः ।
स्थापिता देवता या तु तस्या मन्त्रैस्तु पूर्ववत्
स्थापने सर्वदेवानां पुरस्ताद्धोममाचरेत् ।
सततं अग्नि कार्येषु अगारं पृथग् भवेत्
प्रतिदेवं प्रतिष्ठायां * * * * * * * * ।
इति सर्वज्ञानोत्तरे प्रतिमादिप्रकरणं ॥
पुनरेवं प्रवक्ष्यामि जपस्य विधिनिर्णयम् ।
यथा च विन्दते कालमाप्यायन विसर्जनम्
जपाद् दशांशतो होमे जपान्ते दशलाक्षिकः ।
कोटिः कल्पेदिता वत्स उत्तमा सिद्धि साधने
मध्यस्य तु पञ्चास्यत् कन्यसे पञ्चविंशतिः ।
सर्वाणि क्षुद्र कर्माणि तस्यार्थेन तु कारयेत्
दीर्घकंटकिनो वृक्षा निंबतिन्दु विभीतकाः ।
श्रशक्र श्लेष्मातकाश्चैव विज्ञेया क्रूरकर्मणि
प्. १२९)
द्विविधाग्रा स्फुटिता वक्रा वक्रच्छेदा समिद्धयः ।
विषा प्रकटिकैर्लाक्षाः प्रयोज्याः क्रूरकर्मणि
उक्ताभ्यस्त्वन्यथा स्कन्द क्षीरवृक्ष समुद्भवाः ।
शान्ति कर्मणि विज्ञेयास्त्यक्त्वा वा ब्रह्मवृक्षजा
लता पल्लवमध्यस्था ग्रन्थि हीनाः समत्वचः ।
नीरुजा निर्व्रणाश्शान्त क्रूरेष्वेता विलोमिकाः
विषमाश्रास्सदा कुंड विज्ञेयाः क्रूर कर्मसु ।
समाश्राः शान्तिके कर्षै पौष्टिके च षडानन
सा भाग्यमर्थ संसिद्धिं नित्य होमात् प्रवर्तते ।
जपेन पाप संशुद्धिं ज्ञानध्यानात् प्रमुच्यते
विशिष्टजन संपादो नरेन्द्रजन वन्दनम् ।
आत्मोत्कर्षबलं चैव यदि स्यात् सिध्यते ध्रुवम्
दिव्यान्तरिक्ष भौमानि सिद्धि लिंगानि पश्यति ।
अथवाभ्यन्तरे वाचं श्रुत्वा भूष्याणि संहरेत्
पुष्पलोहादि लोहानि रसं चोपरसानि च ।
उपवीतां जनादीनि अरिताल मनःशिलाम्
अरिवर्गाहतं लोहं घृतमध्वानि वेधयेत् ।
प्रहिरसे पञ्चगव्येतीतः कुर्याद्वरायुधम्
रसं चोपरसं चैव पीत सूर्म्येण शोधयेत् ।
होमान्तरादि शुल्पानां शोधनं पूर्वचोदितम्
प्. १३०)
यद्यस्य शोधनं द्रव्य मूलतन्त्रैः प्रकीर्तितम् ।
रसतन्त्रे तथा भूयस्तत्तन्नैव विशोधयेत्
अक्ष सूत्र विधानेन द्रव्यालभन मालभेत् ।
कथितं तु पुरावत्स स्त्रिविध द्रव्य साधनम्
उत्तमं मध्यमं चैव कन्यसं च यथा क्रमम् ।
सात्विकं राजसं चैव तामसं चेति तत्स्मृतम्
ज्वलन्तं सात्विकं विद्यात् सधूमं राजसं स्मृतम् ।
सोष्णं वै तामसं विद्यात् * दद्रव्य विचक्षणः
उत्तिष्ठं ज्वलमानेन सधूमेन सुरांगना ।
सोष्माणो दृश्यतां याति इति तो त्रिविधा गतिः
बीजमन्त्रं तदा ध्यानमात्मानञ्च विधानवित् ।
बिन्दुमध्यगतं कुर्याच्छक्त्याधिष्ठित विग्रहम्
रसो रसायनं रोगो गणिकां जन पादुके ।
एव मुक्तनिबिध्यन्ते हरिताल मनःशिले
बिन्दु नाद मयो यो योत्रगीयदा भवति षण्मुख ।
तदाशु सर्व कार्याणि संसाययति नान्यथा
सितशान्तितरोज्ञेयः पीतः पौष्टिक कर्मणि ।
शिख्यवन्मारणे प्रोक्ता व्यायव्योच्चाटने स्मृतः
ऐंद्रकोपक संकाशो वशीकरण कर्मणि ।
विद्वेषणे प्रयुंजीत धूमवर्णो निलात्मकः
प्. १३१)
इन्द्रायुध समाकारं तथैवा कर्षणे मनम् ।
सर्वा वर्णात्मको बिन्दुः सर्व कर्म करः स्मृतः
भ्रुवोर्मध्यगतं चैव षट्च्छदनेन यो ।
शुद्धस्फटिक संकाशं पश्यते करणेन तु
निश्वासो श्वास योगेन देहिनां देह संस्थितः ।
उदितो भास्करो भूत्वा सोमश्चै * कलात्मकः
स एव कालो नाद्यन्तो यस्मिन् सर्वं प्रतिष्ठितम् ।
विशते च पुनस्तस्मिन् तस्माच्चैव प्रवर्तते
दक्षिणे प्राणवृत्तिस्तु * त्युमाख्याति देहिनाम् ।
उत्तरेण तथैवेह * य च पुनरीश्वरम्
त्रैरब्दिक महो * * * भ्यां ज्ञेया द्विराब्दिकम् ।
अभिरे * तथा * * हे * नाहाय पाडिकम्
अ * र्ध्व * * * * मौ यदा चरति भास्करः ।
तदा होरात्रिकं मृत्युं पुनराख्याहि देहिनाम्
मृत्युमेवं विधं दृष्ट्वा यदि जीवितु मिच्छति ।
तदाऽसौ सौम्य नाथस्थं तमेव परिचिन्तयेत्
शुद्धकुन्देन्दु वर्णाभां शङ्खगोक्षीर सप्रभम् ।
अमृतीरूपमात्मानं तन्मध्ये तन्मयं गुह
अथ चावर्ण पूर्वं वाऽमृता परिकीर्तिताः ।
तामेव धारयेन्नित्यं न मृत्यु वशगो भवेत्
प्. १३२)
दूर्वां त्रिमधुरक्तां वा अमृताद्व्यंगुला तथा ।
जुहुधा त्रिमधुरक्तां वा प्लुतेन विद्यते
अथ निर्वेद मायानि जीविते वस्थिरे चले ।
कालात्मकं तदा देवं मृत्युरूपं विचिन्तयेत्
वह्निना मूर्ति संभिन्नं सुषुम्ना मध्य संस्थितम् ।
ज्वलज्ज्वलन संकाशं दीप्ततेज शिखार्चितम्
उत्कृष्य मूर्ध्नि शब्देन प्राणास्तत्समतां नयेत् ।
काला जु * समाधाय मनसा निश्चलेन्द्रियः
निष्पद्य स्पन्दनौ सम्यक् सर्वद्वाराणि चैव हि ।
सन्ताड्या वायुवेगेन क्षुरिकास्त्रेण मूर्धनि
अ * श भावनायुक्तो बिन्दुनाद मयं स्मरेत् ।
एवं विमुच्यते प्राणैः तस्मिन्नेव प्रकी * ते
बिन्दुनादोद्भवं सर्वं स्थूल सूक्ष्म * * * * ।
तस्माद्बिन्दुमुपासीत शक्तिस्नरस * * *
यथा तु चित्त सम्पन्नश्चरुभस्थ तं भवेत् ।
वित्तहीनं चरेद् भिक्षां कणपत्वां न कीमथ
इति सर्वज्ञानोत्तरे सिद्धिसाधकादिप्रकरणम् ॥
अतः परं प्रवक्ष्यामि भिक्षा चर्या विधिक्रमम् ।
भोजनं शयनं शौचमायामञ्च जपाश्रयम्
हृदिना ग्रहणं कुर्यात् पात्रस्य सततं बुधः ।
प्. १३३)
क्षालयित्वास्त्र बीजेन कवचेन तु वेष्टयेत्
ईशानं चिन्तयन् मध्ये गायत्रास्त्रं च मन्त्रवित् ।
अस्त्रं तु जपतो नित्यं भिक्षामावयेच्छुचिः
अस्त्र दण्डे तु विन्यस्य छत्रे गायत्रिमेव तु ।
ततो भिक्षामटेन्नित्यं पतिता शस्तवर्जिताम्
आगत्य तत्पुनः पात्रं शुद्धि स्थाने निधापयेत् ।
संगृह्य मूर्तिकां भूयो जंघा शौचं तु कारयेत्
आचम्योद्धुल्य पूतात्मा पुनरभ्युक्षयेच्चरुम् ।
शोधयित्वा विधानेन देवाग्न्यात्मनि कल्पयेत्
अथ प्राणाहुतिं दत्वा शिवहोमं पुनः क्रमात् ।
स्निग्धमल्पं च भुञ्जीत भविष्य शीतलं निशि
आचम्य बहिः निष्क्रान्तो भक्षयेदं तथा वनः ।
उद्धूल्य पुनराचम्य * यीत विधिना ततः
त्रिहस्तोत्खात भूशयये शुचि शुद्धे महीतले ।
सर्वलक्षणसंपूर्णो पुनरा कृत्वा जपालयम्
वितानध्वज संयुक्तं पताकै रूप शोभितम् ।
रुद्रावतार क्रिडाद्यैश्चित्र कर्म विभूषितम्
नवैकादश हस्तं वा सप्तहस्तमथापि वा ।
प्रागुत कल्पकनं कुर्याच्छयनं च सदा बुधः
पञ्चरंगित सूत्रेण वर्मालब्धो * मन्त्रवित् ।
द्वार देशादारभ्य वेष्टयेत् त्रिगुणेन तु
प्. १३४)
रत्निमात्रां स्थितः कीला नष्टौ दिग्देवतान्वितान् ।
अंगान् स्वस्थान् विन्यस्थान् पूजयित्वा यथा क्रमात्
चतुरः कलशान् पूर्णान् विदिशासु निवेशयेत् ।
शिवस्थाने यजेद् रुद्रं प * ध्यानेन वा गुह
दीप्ततेजोनिल प्रख्यं दंष्ट्रोत्कटभयानकम् ।
शस्त्रोद्यतकरं घोरं सर्वविघ्न विनाशनम्
ततः शक्तिं न्यसेद् भूमौ विद्यां तत्रोपरिन्यसेत् ।
स्वरचक्रं ततो दद्याद् वर्णानि च यथाक्रमम्
पूर्ववन्मन्त्र देहस्तु प्राकारास्त्रैः सुगोपितम् ।
शयीतमनसा योगी शिवं पश्येत् समं ततः
तमेव जपतो नित्यं ध्यानमाश्रित्य मन्त्रवित् ।
अर्धरात्रे तु सवने तथैव समुपासयेत्
शयनं च तथा भूय प्रबुधस्य तथा जपः ।
गतिं देवस्य विज्ञाय जपध्यानादिकं क्रमात्
प्रहरार्धे ततोत्थाय ध्यात्वा देवं पिनाकिनम् ।
मनसा वर्तयेत् तं तु प्रणवं बिन्दु वर्जितम्
निर्गत्य शयनं स्थानात् आवश्यकरणं कुरु ।
बहिरंगो पवीती च दृष्टिदूत पदक्रमी
दिवैवोद मुखस्तिष्थे छात्रो वै दक्षिणमुखः ।
अर्धरात्रे तु नैर्-ऋत्ये द्वे सन्ध्ये तु यथा दिवा
प्. १३५)
काष्ठितृणोपलं लोष्ठं वांत ध्यानं षडानन ।
ततो मलं प्रकुर्वीत वस्त्रतश्चावकुंठितः
न नदीषु कुर्यान्न भस्मनि न गोमये ।
न गुल्मे शाद्वले प्रश्मेशानोप वनेषु च
काष्ठेन दावा रामृश्य पायुं लोष्ठेन वा गुह ।
ग्रहीतशिग्नो भूत्वा तु मृत्तिका हरणं कुरु
बालुकोषर संवर्ज्य वृक्ष मूल जलाये * ।
वल्मीक मृत्तिकां चैव तथा वै ग्रामयानिकाम्
विशुद्धं मृत्तिकां गृह्य जयतीरे निधापयेत् ।
ततः शौचं प्रकुर्वीत मृत्तिकां गृह्य वारिणाम्
लिङ्गे त्रीणि गुदे सप्त दशैक करे स्मृतः ।
उभयोः सप्ततातप्य मृत्तिका शुद्धिमिच्छता
एकैकमन्तरे त्रीणि एव शौचं कृतं भवेत् ।
दन्त काष्ठं ततो मन्त्री भक्षयेदभिमन्त्रितम्
आचम्य विधिनोत्थाय पुनरुद्धुलयेत् क्रमात् ।
पश्चाद्योजं ध्यानं यावदभ्युदितो रधिः
ततः स्नानं प्रकुर्वीत सकृत् विततवारिणि ।
अथोर्ध्वं भस्मना स्नानं सर्वकाम समृद्धये
लेप गन्ध विनाशाय वारुणं परिकीर्तितम् ।
इति श्रीसर्वज्ञानोत्तरे भिक्षाचर्यादिप्रकरणम् ॥
प्. १३६)
अथातः संप्रवक्ष्यामि वारुणं स्नानमुत्तमम् ।
सावनं परमं स्कन्द लेप गन्ध विनाशनम्
पाणिपादौ पुरःक्षाल्य मृत्तिकां गृह्य वारुणी ।
उपस्पृश्य शुचिर्भूत्वा शिवं ध्यायेत् स निर्मलम्
अस्त्रेण प्रोक्षणं कुर्यात् मृत्तिका हरणं कुरु ।
मनयितास्त्र बीजेन हृदयेन तु संहरेत्
जलतीरे निधायै तत् क्षालयित्वा जलाश्रयम् ।
अस्त्रेण क्षालयेत् पूर्वं स्थापयेद्धृदयेन तु
ते नैवाभ्युक्षणं भूयस्ततो भागत्रयं पुनः ।
पूर्वदक्षिणे नैव तथा चैवोत्तरेण तु
अस्त्र जप्तं भवेत् पूर्वं ब्रह्म जप्तं तु दक्षिणं ।
उत्तरं शिव जप्तं तु प्रकुर्वीत पृथक् पृथक्
अस्त्र जप्तं क्षिपेद् दिक्षु दशस्वपि यथाक्रमम् ।
नाराचास्त्र प्रयोगेण तोय मध्ये पुनः क्षिपेत्
आग्नेयी धारणा ध्यात्वा पुनरमृतं विचिन्तयेत् ।
शिवजप्तेन भागेन ततोभ्यावर्तयेज्जले
शिवतीर्थं भवेदेवं विधिनानेन षण्मुख ।
अत्र ग्रन्थ पातः ॥
प्. १३७)
सर्वज्ञानोत्तरपादम्
जंघे पादे तथा हस्ते प्रक्षाल्य तु पुनः पुनः ।
कंथयित्वा ततः स्नायात् शिवतीर्थस्य मध्यतः
चक्रवत्युपचारेण सुगन्धामलकादिभिः ।
ब्रह्माङ्गैः शिव गायत्र्या महास्त्रेण शिवेन च
अभिषेकं प्रकुर्वीत सन्ध्योपासनमेव च ।
संहृत्यसर्वमन्त्राणि निनादेन विधानवित्
आकृष्योदितमार्गेण स्थापयीत हृदिस्वके ।
तत आयतनं गच्छेत् पुष्पहस्तो विचक्षणः
यदा तु रोगादिना वारुण स्नान शक्तस्तदा प्रक्षाल्य ।
पाणि पादौ तु भस्मस्नानं समाचरेत्
इति श्रीसर्वज्ञानोत्तरे वारुणस्नानप्रकरणम् ॥
भस्मस्नानं प्रवक्ष्यामि संक्षेपान्न तु विस्तरात् ।
सर्वज्ञा * त्तोमं पुण्यं सर्वपापहरं परम्
ख संस्थं गोमयं गृह्य स्थाने वा पतितं शुभे ।
अधः परिसन्त्यज्य पञ्चगव्येन मर्दयेत्
विविक्ते निर्जने रम्ये सर्वोपद्रव वर्जिते ।
प्रक्षवल्मीक निर्मुक्ते प्रवाते परिशोषयेत्
शुष्कं संहरेत् प्राज्ञः अस्त्रबीजेन प्रोक्षयेत् ।
शिवाग्निं जनयित्वा तु निर्दहेत् तेन वह्निना
अथ संक्षेपतः स्कन्द आरण्य गोमयं पुनः ।
पञ्चगव्येन संयुक्तं विधानेन तु निर्दहेत्
प्. १३८)
तस्याप्य संभवेभस्म लेप गन्ध विवर्जितम् ।
शुचि स्थानाश्रितं शुद्धं तदप्येवं पुनर्दहेत्
संहृत्य हृदि मन्त्रेण नवे भाण्डे निधापयेत् ।
अस्त्रं तु जपतो मन्त्री सर्वविघ्नविनाशनम्
अस्त्राभिमन्त्रितं कृत्वा मलस्नानं समाचरेत् ।
विधिस्नानं ततः पश्चात् मूर्ध्न आरभ्य मन्त्रवित्
ब्रह्मभिस्त्वनुपूर्वेण बहिरंगैरनुक्रमात् ।
अभिषेकं शिवे नैव पश्चात् कूर्वित षण्मुख
उद्धूल्य विधिवत् प्राज्ञः कौपीना परिवर्तये * ।
प्रक्षाल्य तु मृदा पादौ करौ च पुनराचमेत्
त्रितत्व परिजप्तं तु त्रिः पिबेन् मन्त्रविज्जलम् ।
परिमृज्यान्मुखं शक्त्या त्रिवारं तु यथाक्रमम्
प्रणवेन ततो विद्वान् शिखानेत्रादिकं स्पृशेत् ।
आचम्य विधिना भूयः पितृदेवाश्च तर्पयेत्
सर्व मन्त्रैः सदा संध्यां वन्दयित्वा विचक्षणः ।
ततो ध्यानं प्रकुर्वित जपञ्च त्रिविधं पुनः
जपेत् षट्क त्रयं पुण्यं नित्यं मनोवाक्काय कर्मभिः ।
काल्ये च मध्यमे चैव प्रासादादि क्रमेण तु
सर्वेषु वा शिवं ध्यात्वा नित्यं जपध्यानेषु वा स्मरेत् ।
प्राणवृत्ति निरोधेन नैव पापमवाप्नुयात्
प्. १३९)
संहितां वा स्मरेन् नित्यं त्रिषु कालेषु मन्तवित् ।
शतमष्टोत्तरमक्षैस्सर्व पाप विशुद्धये
सर्व विघ्न विनाशार्थं पाशजालस्य चैव हि ।
अस्त्राणि घोरूपाणि सततं परिवर्तयेत्
एवं मन्त्रमयो भूत्वा सर्व मन्त्रांस्तु योजयेत् ।
संसाययेद्रुद्रान्मन्त्रान्योगि योगात्मकान् गुणान्
* स्नायो यदा मन्त्री मन्त्रसाधनमारभेत् ।
* हा यो योगी सिद्धिं कमण्डलु धरस्सदा
श्रीसर्वज्ञानोत्तरे भस्मस्नानप्रकरणम् ॥
अतः परं प्रवक्ष्यामि कमण्डलुधरस्सदा
असहायस्य योगीन्द्र सखा ये व कमण्डलुम् ।
प्रज्वल्यमग्निं घोरेणास्त्रेण च विधानवित्
प्रातरुत्थाय तं नित्यं देहे देव कमण्डलुम् ।
ताम्रम्येन संशोध्य तथास्त्रोदक भस्मना
रौप्य हेमौ तु संशोद्ध्य लेप गन्ध मलान्वितौ ।
ततस्त्वा पूरयेत् पश्चाद् वस्त्रपूतेन वारिणा
पाद्यमाचमनं शौचमाचरेत् सततं क्रमात् ।
न किञ्चित् संस्पृशेत् तावद् यावच्छुष्कौ करावुभौ
सुशुष्क पाणि पूतात्मा व्यतिकार्यं यथोदितम् ।
नान्येन सेवितं वस्त्रं न शयया न कमण्डलुम्
न भस्मना कलावत्यं संसेवेत कदाचन ।
आत्म शययात्म वस्त्रं च जायापत्यं कमण्डलुम्
प्. १४०)
आत्मनः शुचिरेतानि परेषामशुचिर्भवेत् ।
श्रीसर्वज्ञानोत्तरे कमण्डलुप्रकरणं ॥
इति सर्वज्ञानोत्तरपादः समाप्तः ॥
स्रोतः
मूल पाठ: sarvajñānottaram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0