भाषा

ENहिગુ
ग्रंथ पाठ

शाङ्खायनश्रौतसूत्र · भाग 2140

श्श्स्_3.20.12: अप्रत्त.दैवते.दुष्टे.न.आवृत्तिर्.अस्ति.हौत्रस्य.अन्यद्द्.हविः.संस्कृत्य.प्रयच्छेद्.देवतायै ।
श्श्स्_3.20.13: न.आवृत्तिः.प्रत्त.दोषे.अस्ति.लुप्यते.स्विष्टकृद्.इळम्.भक्षाश्.च ।
श्श्स्_3.20.14: आज्येन.परम् ।
श्श्स्_3.20.15: अन्यासु.देवतास्व्.इष्टासु.दुष्टेन.वा.शेषवति.तन्त्रे.प्रदानम्.आवर्तते ।
श्श्स्_3.20.16: सर्व.इष्टिर्.अशेषे ।
श्श्स्_3.20.17: कृतस्य.अनावृत्तिर्.गुण.लोपे.सम्निपात.प्रधानत्वात् ।
श्श्स्_3.20.18: मन्त्रम्.न.अनुजपेत् ।
श्श्स्_3.20.19: अनुजपेद्.इत्.जातूकर्ण्यः ।
श्श्स्_3.20.20: अन्याभ्यो.गृहीते.अन्यासु.वा.आवाहितासु.चोदिताभ्यः.प्रयच्छेद्.आज्येन.आवाहिता.यजेत् ।
श्श्स्_3.21.1: इष्टि.पशु.बन्धेषु.सोमे.च.प्रायश्.चित्तम्.ब्रह्मा.जुहोति ।
श्श्स्_3.21.2: ऋग्वेदे.चेद्.दोषः.स्याद्.भूः.स्वाहा.इति.गार्हपत्ये ।
श्श्स्_3.21.3: यजुर्.वेदे.चेद्.भुवः.स्वाहा.इत्य्.अन्वाहार्य.पचने ।
श्श्स्_3.21.4: सोमे.त्व्.आग्नीध्रीये ।
श्श्स्_3.21.5: साम.वेदे.चेत्.स्वः.स्वाहा.इत्य्.आहवनीये ।
श्श्स्_3.21.6: भूर्.भुवः.स्वः.स्वाहा.इत्य्.अज्ञापयाने.दोषे ।
श्श्स्_3.21.7: अनुपस्थाय.प्रसर्गे.प्रतिदिशम्.उपस्थानम् ।
श्श्स्_3.21.8: उपस्थाय.अप्रसर्गे.यथा.प्रोष्य ।
श्श्स्_3.21.9: समारोह्य.अप्रसर्गे.मन्थनम् ।
श्श्स्_3.21.10: न.अरण्योर्.अस्त्य्.उपस्थानम् ।
श्श्स्_3.21.11: न.अहोमेन.अनिज्यया.वा.अग्नीन्.उत्सृजेत् ।
श्श्स्_3.21.12: प्रायश्.चित्तम्.तु.कृत्वा.अतीतानि.कर्माणि.प्रतिनिदध्यात्.प्रतिनिदध्यात् ।
श्श्स्_4.1.1: पत्नी.यजमानौ.व्रत्यम् ।
श्श्स्_4.1.2: अश्नीयातम्.प्राग्.वत्स.अपाकरणात् ।
श्श्स्_4.1.3: यद्.अन्यन्.मांस.लवण.मिथुन.माषेभ्यो.येन.च.द्रव्येण.यक्ष्यमाणः.स्यात् ।
श्श्स्_4.2.1: अग्नीन्.अन्वादधीत.इष्टि.पशु.बन्धेषु.पूर्वे.द्युः ।
श्श्स्_4.2.2: आहवनीये.महा.व्याहृत्या.उत्तमया ।
श्श्स्_4.2.3: प्रथमया.गार्हपत्ये ।
श्श्स्_4.2.4: दक्षिण.अग्नौ.मध्यमया ।
श्श्स्_4.2.5: द्वे.द्वे.च.तूष्णीम् ।
श्श्स्_4.2.6: आहवनीये.दशमीम्.समस्ताभिः ।
श्श्स्_4.2.7: महा.व्याहृतीनाम्.वा.स्थाने.चतस्रो.विहव्यस्य.आनुपूर्व्येण ।
श्श्स्_4.2.8: उपस्थानम्.च.शेषेण ।
श्श्स्_4.2.9: अप.नः.शोशुचद्.अघम्.इति.सप्त.अग्ने.नय.यस्.त्वा.हृदा.त्वम्.नो.अग्ने.अधराद्.इति.वा.दशभिः ।
श्श्स्_4.2.10: प्र.अग्नये.वाचम्.इमम्.स्तोमम्.इति.च.उपस्थानम्.सूक्ताभ्याम् ।
श्श्स्_4.2.11: तूष्णीम्.प्रागहीयम् ।
श्श्स्_4.2.12: महा.व्याहृतिभिः.पैङ्ग्यम् ।
श्श्स्_4.2.13: कौषीतकम्.विहव्येन ।
श्श्स्_4.2.14: आरुणम्.उत्तमम् ।
श्श्स्_4.3.1: पिण्ड.पितृ.यज्ञो.अपर.अह्णे.अमावास्यायाम् ।
श्श्स्_4.3.2: दक्षिण.अग्नेः.पुरस्तात्.शूर्पम्.स्थालीम्.स्फ्यम्.पात्रीम्.उलूखल.मुसले.च.संसाद्य ।

श्श्स्_4.3.3: गार्हपत्यस्य.पश्चाद्.दक्षिण.अग्नेषु.कुशेषु.स्फ्यम्.निधाय ।
श्श्स्_4.3.4: उपरिष्टाद्.व्रीहीन्.पात्र्याम् ।
श्श्स्_4.3.5: पुरस्तात्.शूर्पे.स्थालीम् ।
श्श्स्_4.3.6: आच्य.सव्यम्.जानु.नीचा.मुष्टिना.व्रीहीन्.गृह्णाति.पितॄन्.ध्यायन् ।
श्श्स्_4.3.8: यथा.अधोबिल.श्रितः.स.स्यात्.पत्न्या.सकृत्.फली.कृतान्.दक्षिण.अग्नौ.श्रपयित्वा.अभिघार्य.प्रत्यञ्चम्.उद्वास्य.अवसवि.परिसमुह्य.परिस्तीर्य.पर्युक्ष्य.दक्षिणम्.जान्व्.आच्य.यज्ञ.उपवीती.प्रान्.आसीनो.मेक्षणेन.जुहोति ।
श्श्स्_4.4.1: अग्नये.कव्य.वाहनाय.स्वाहा.सोमाय.पितृमते.स्वाहा.यमाय.अङ्गिरस्वते.पितृमते.स्वाहा.इति ।
श्श्स्_4.4.2अ: मेक्षणम्.अनुप्रहृत्य.दक्षिणा.दक्षिण.अग्नेर्.अपहता.असुरा.रक्षांसि.वेदिषद.इति.स्फ्येन.उन्मृज्य.अभ्युक्ष्य.।.ये.रूपाणि.प्रतिमुञ्चमाना.असुराः.सन्तः.स्वधया.चरन्ति.।.परापुरो.निपुरो.ये.भरन्त्य्.अग्निष्.तांल्.लोकात्.प्र.णुदात्य्.अस्मात् ।
श्श्स्_4.4.2ब्: इत्य्.उल्मुकम्.उन्मृष्टस्य.दक्षिण.अर्धे.निधाय.मूले.कुशान्.सकृल्.लूनान्.उन्मृष्टे.निधाय.असाव्.अवनेनिक्ष्व.ये.च.त्वाम्.अत्र.अन्व्.इति.पितुर्.नाम.आदिश्य.कुशेष्व्.अपो.निषिञ्चत्य्.अवाचीन.पाणिना ।
श्श्स्_4.4.3: एवम्.दक्षिणतः.पितामहस्य ।
श्श्स्_4.4.4: प्रपितामहस्य.च ।
श्श्स्_4.4.5: असाव्.एतत्.ते.ये.च.त्वाम्.अत्र.अन्व्.इति.पिण्डान्.यथा.अवनेजितम्.निधाय ।
श्श्स्_4.4.6: उभाव्.एकस्मिन्.पितृ.भेदे ।
श्श्स्_4.4.7: न.जीव.पितुर्.अस्ति ।
श्श्स्_4.4.8: न.जीव.अन्तर्हिताय ।
श्श्स्_4.4.9: तेभ्यो.वा.पिता.तेभ्यः.पुत्रः ।
श्श्स्_4.4.10: होम.अन्तम्.वा ।
श्श्स्_4.4.11: अत्र.पितरो.मादयध्वम्.यथा.भागम्.पितर.आवृषायध्वम्.इति ।
श्श्स्_4.4.12: उदन्.पर्यावृत्य ।
श्श्स्_4.4.13: त्रिर्.आ.तम्.अनादासित्वा ।
श्श्स्_4.4.14: अमीमदन्त.पितरो.यथा.भागम्.अवीवृषत.इत्.प्रतिपर्यावृत्य ।
श्श्स्_4.4.15: तथैव.अवनेज्य ।
श्श्स्_4.5.1अ: नमो.वः.पितरो.जीवाय.नमो.वः.पितरः.शोषाय.।.नमो.वः.पितरो.घोराय.नमो.वः.पितरो.रसाय.।.नमो.वः.पितरो.बलाय.नमो.वः.पितरो.मृत्यवे ।
श्श्स्_4.5.1ब्: नमो.वः.पितरो.मन्यवे.नमो.वः.पितरः.स्वधायै.।.नमो.वः.पितरः.पितरो.नमो.वः.।.ये.अत्र.पितरः.पितरः.स्थ.यूयम्.तेषाम्.श्रेष्ठा.भूयास्थ ।
श्श्स्_4.5.1च्: य.इह.पितरो.मनुष्या.वयम्.तेषाम्.श्रेष्ठा.भूयास्म.।.या.अत्र.पितरः.स्वधा.युष्माकम्.सा.।.य.इह.पितर.एधतुर्.अस्माकम्.स.।.गृहान्.नः.पितरो.दत्त.इति ।
श्श्स्_4.5.2: एतद्.वः.पितरो.वासो.वध्वम्.पितर.इति.त्रीणि.सूत्राण्य्.उपन्यस्य ।
श्श्स्_4.5.3: ऊर्जम्.वहन्तीर्.अमृतम्.घृतम्.पयः.कीलालम्.परिस्रुतम्.।.स्वधा.स्थ.तर्पयत.नः.पितॄन्.इत्य्.उदक.शेषम्.निनीय ।
श्श्स्_4.5.4: अवघ्राय.पिण्डान् ।
श्श्स्_4.5.5: अवधाय.प्राश्नीयात् ।
श्श्स्_4.5.6: ब्राह्मणाय.वा.दद्यात् ।
श्श्स्_4.5.7: अपो.वा.अभ्यवहरेत् ।
श्श्स्_4.5.8: मध्यम.पिण्डम्.पत्नी.पुत्र.कामा.प्राश्नीयात्.।.आ.धत्त.पितरो.गर्भम्.कुमारम्.पुष्कर.स्रजम्.।.यथा.इह.पुरुषो.असत्.।.इति ।
श्श्स्_4.5.9: उल्मुकम्.अग्नौ.कृत्वा ।
श्श्स्_4.5.10: सकृद्.आच्छिनान्.अनुप्रहृत्य ।
श्श्स्_4.5.11: अग्निहोत्रम्.यवाग्वा.एव.सायम्.प्रातः ।
श्श्स्_4.5.12: स्वयम्.होमश्.च.पर्वणि ।
श्श्स्_4.5.13: एतेन.एव.धर्मेण.अनाहित.अग्नेः.पिण्ड.पितृ.यज्ञः.क्रियेत ।
श्श्स्_4.6.1: दक्षिणतो.न्यायम्.ब्रह्म.कर्म ।
श्श्स्_4.6.2: पश्चात्.तु.पित्र्यायाम् ।
श्श्स्_4.6.3: यजमान.निमित्तो.विपर्ययः ।
श्श्स्_4.6.4: अग्रेण.यजमानम्.आसनम् ।

श्श्स्_4.6.5: समानम्.होत्रा.तृण.निरसनम् ।
श्श्स्_4.6.6: तथा.उपवेषनम् ।
श्श्स्_4.6.7: कर्म.आदौ.देश.पृथक्त्वे.च ।
श्श्स्_4.6.8: प्राग्.अग्रता.विकारः ।
श्श्स्_4.6.9: बृहस्पतिर्.ब्रह्मा.स.यज्ञम्.पातु.स.यज्ञ.पतिम्.स.माम्.पातु.बृहस्पतिर्.दैवो.ब्रह्म.अहम्.मानुषो.भूर्.भुवः.स्वर्.ओम्.इत्य्.उपविश्य ।
श्श्स्_4.6.10: साक्ष्यम्.च.सर्व.कर्मणाम् ।
श्श्स्_4.6.11: मन्त्रवत्सु.वाग्.यमनम् ।
श्श्स्_4.6.12: सर्वासु.गतिषु.यथा.व्रजन्त्य्.अन्यथा.ततः.प्रत्यायन्ति ।
श्श्स्_4.6.13: अनुसमेत्य्.अग्नौ.प्रणीयमाने ।
श्श्स्_4.6.14: सह.इध्मेन.उपवेशनम् ।
श्श्स्_4.6.15: अश्वो.ब्रह्मणो.अग्न्य्.आधेये ।
श्श्स्_4.6.16: सर्वेषाम्.वा ।
श्श्स्_4.6.17: कर्म.प्रसवाय.आमन्त्रित.ओम्.इत्य्.उक्त्वा.यथा.कर्म.प्रसौति ।
श्श्स्_4.7.1: प्रणीता.काले.वाग्.यमनम् ।
श्श्स्_4.7.2: हविष्कृता.विसर्गः ।
श्श्स्_4.7.3: इष्टे.च.स्विष्टकृत्या.अनुयाज.प्रसवेन.विसर्गः ।
श्श्स्_4.7.4: मित्रस्य.त्वा.चक्षुषा.प्रतीक्ष.इति.प्राशित्रम्.प्रतीक्ष्य ।
श्श्स्_4.7.5: देवस्य.त्वा.सवितुः.प्रसवे.अश्विनोर्.बाहुभ्याम्.पूष्णो.हस्ताभ्याम्.प्रतिगृह्णामि.इति.प्र्तिगृह्य ।
श्श्स्_4.7.6: पृथिव्यास्.त्वा.नाभौ.सादयाम्य्.अदित्या.उपस्थ.इति.प्राग्.दण्डम्.स्थण्डिले.निधाय ।
श्श्स्_4.7.7: उपकनिष्ठिकया.अङ्गुष्ठेन.च.प्राशित्रम्.गृहीत्वा ।
श्श्स्_4.7.8: अग्नेष्.ट्वा.आस्येन.प्राश्नामि.इति.प्राश्य.असंखादन् ।
श्श्स्_4.7.9: शान्तिर्.असि.इत्य्.आचम्य ।
श्श्स्_4.7.10: प्राणान्.सम्मृशति ।
श्श्स्_4.7.11: प्राणपा.असि.प्राणम्.मे.पाहि.इति.नासिके.मुखम्.च ।
श्श्स्_4.7.12: चक्षुष्पा.असि.चक्षुर्.मे.पाहि.इति.चक्षुषी ।
श्श्स्_4.7.13: श्रोत्रपा.असि.श्रोत्रम्.मे.पाहि.इति.श्रोत्रे ।
श्श्स्_4.7.14: इन्द्रस्य.त्वा.जठरे.सादयामि.इति.नाभिम् ।
श्श्स्_4.7.13: श्रोत्रपा.असि.श्रोत्रम्.मे.पाहि.इति.श्रोत्रे ।
श्श्स्_4.7.14: इन्द्रस्य.त्वा.जठरे.सादयामि.इति.नाभिम् ।
श्श्स्_4.7.15: को.अदात्.कस्मा.अदात्.कामो.अदात्.कामाय.अदात्.।.कामो.दाता.कामः.प्रतिग्रहीता.काम.एतत्.त.इत्य्.अन्वाहार्यम्.प्रतिगृह्य ।
श्श्स्_4.7.16: ब्रह्मन्.प्रस्थास्यामि.इत्य्.उक्तः ।
श्श्स्_4.7.17: देव.सवितर्.एतम्.ते.यज्ञम्.प्राहुर्.बृहस्पतये.ब्रह्मणे.तेन.यज्ञम्.अव.तेन.यज्ञ.पतिम्.तेन.माम्.अव.देवेन.सवित्रा.प्रसूत.इति.जपित्वा.ओम्.प्रतिष्ठ.इति.प्रसौति ।
श्श्स्_4.7.18: प्रणीतासु.विमुक्तासु.उत्सर्जनम्.ब्रह्मणः ।
श्श्स्_4.7.19: प्राशनम्.ब्रह्म.भागस्य ।
श्श्स्_4.8.1: अदब्धेन.त्वा.चक्षुषा.अवपश्यामि.रायस्.पोषाय.सुप्रजास्त्वाय.सुवीर्याय.अग्नेर्.जिह्वा.असि.सुहूर्.देवेभ्यो.धाम्ने.धाम्ने.मे.भव.यजुषे.यजुष.इत्य्.आज्यम्.अवेक्षते.पत्नी ।
श्श्स्_4.8.2: तेजो.असि.शुक्रम्.अस्य्.अमृतम्.असि.वैश्वदेवम्.असि.इत्य्.आसन्नम्.वेदौ.यजमानः ।
श्श्स्_4.8.3अ: ध्रुवा.असदन्न्.ऋतस्य.योनौ.सुकृतस्य.लोके.ता.विष्णो.पाहि.पाहि.यज्ञम्.पाहि.यज्ञ.पतिम्.इत्य्.आसन्नानि.हवींष्य्.अभिमृश्य.।.पाहि.माम्.यज्ञन्यम्.इत्य्.आत्मानम् ।
श्श्स्_4.8.3: वृष्टिर्.असि.पाप्मनाम्.मे.वृश्च.विद्या.असि.विद्य.मे.पाप्मानम्.इत्य्.आचम्य.।.अग्ने.व्रत.पते.व्रतम्.चरिष्यामि.तत्.शकेयम्.तन्.मे.राध्यताम्.।.इद्म.अहम्.अनृतात्.सत्यम्.उपैमि.इत्य्.आहवनीये.समिधम्.आधाय.वाचम्.यच्छति ।
श्श्स्_4.8.5: यत्.कामो.वा.स्यात् ।
श्श्स्_4.8.6: अनुपदस्यम्.अन्न.अद्यम्.आप्नवानि.इत्य्.आकाशम्.समुद्रम्.वा ।

श्श्स्_4.9.1: महि.इदम्.इन्द्र.इन्द्रियम्.दधात्व्.अस्मान्.रायो.मघवानः.सचन्ताम्.।.अस्माकम्.सन्त्व्.आशिषः.सत्या.नः.सन्व्.आशिषः.।.इति.इळायाम्.उपहूयमानायाम् ।
श्श्स्_4.9.2: ब्रध्न.पिन्वस्व.प्राणम्.मे.पाहि.प्रजाम्.मे.पाहि.पशून्.मे.पाहि.ब्रह्म.मे.धुक्ष्व.क्षत्रम्.मे.धुक्ष्व.विशो.मे.धुक्ष्व.दिशाम्.क्लृप्तिर्.असि.दिशो.मे.कल्पन्तम.कल्पन्ताम्.मे.दिशस्.तासु.क्लृप्तासु.राध्यासम्.।.अत्र.पितरो.मादयध्वम्.यथा.भागम्.पितर.आवृषायध्वम्.इति.बर्हिषदम्.पुरोळाशम्.अभिमृश्य ।
श्श्स्_4.9.3: अमीमदन्त.पितरो.यथा.भागम्.अवीवृषत.इति.प्रत्यवधाय ।
श्श्स्_4.9.4: प्रजापतेर्.भागो.अस्य्.ऊर्जस्वान्.पयस्वान्.अक्षितिर्.असि.मा.मे.क्षेष्ठा.अमुत्रा.अमुष्मिंल्.लोक.इह.च.इत्य्.अन्वाहार्यम्.अभिमृश्य ।
श्श्स्_4.9.5: अनुयाजेष्व्.इष्टेषु.व्यूहित.स्रुचाव्.अग्नेर्.अग्नीषोमयोर्.उज्जितिम्.अनूज्जेषम्.वाजस्य.मा.प्रसवेन.प्रोहामि.इत्य्.उत्तानेन.दक्षिणेन.जुहूम्.प्राचीम्.अग्निर्.अग्नीषोमौ.तम्.अपनुदन्तु.यो.अस्मान्.द्वेष्टि.यम्.च.वयम्.द्विष्मो.वाजस्य.एनम्.प्रसवेन.अपोहामि.इति.नीचा.सव्येन.उपभृतम्.प्रतीचीम् ।
श्श्स्_4.9.6: यथा.देवतम्.अन्यत्र ।
श्श्स्_4.9.7: अनिष्टे.गृह.पतौ.गार्हपत्ये.स्रुवेण.जुहोति ।
श्श्स्_4.10.1अ: यम्.वाम्.देवा.अकल्पयन्न्.ऊर्जो.भागम्.शत.क्रतू.।.इदम्.वाम्.तेन.प्रीणामि.तस्य.तृम्पतम्.अहाह.अहुहू.स्वाहा.।.गन्धर्वाभ्याम्.नारीष्.टाभ्याम्.अहाह.अहुहूभ्याम्.स्वाहा ।
श्श्स्_4.10.1ब्: अग्ने.पृथिव्या.अधिपते.वायो.अन्तरिक्षस्य.अधिपते.सवितः.प्रसवानाम्.अधिपते.सूर्य.नक्षत्राणाम्.अधिपते.सोम.ओषधीनाम्.अधिपते.त्वष्टः.समिधाम्.रूपाणाम्.अधिपते.मित्र.सत्यानाम्.अधिपते.वरुण.धर्माणाम्.अधिपते.इन्द्र.ज्येष्टानाम्.अधिपते.प्रजापते.प्रजानाम्.अधिपते.देवा.देवेषु.पराक्रमध्वम् ।
श्श्स्_4.10.2: प्रथमा.द्वितीयेषु.पराक्रमध्वम्.इत्य्.एवम्.एक.उत्तरम्.ऐकादशभ्यः ।
श्श्स्_4.10.3: विश्वे.देवास्.त्रयस्.त्रिंशास्.त्रिर्.एकादशिन.उत्तर.उत्तर.वर्त्मान.उत्तर.सत्वानो.विश्वे.वैश्वानर.विश्वे.विश्व.महस.इह.मा.अवत.अस्मिन्.ब्रह्मण्य्.अस्मिन्.क्षत्रे.अस्मिन्.कर्मण्य्.अस्याम्.आशिष्य्.अस्याम्.प्रतिष्ठायाम्.अस्याम्.देव.हूत्याम्.अयम्.मे.कामः.समृध्यताम्.स्वाहा.इति.यत्.कामो.भवति ।
श्श्स्_4.10.4: प्रजापत.इति.चतुर्थी ।
श्श्स्_4.11.1: आ.प्यायताम्.ध्रुवा.हविषा.घृतेन.यज्ञम्.यज्ञम्.प्रति.देवय्यड्भ्यो.।.सूर्याया.ऊधो.अदित्या.उपस्थ.उरु.धारा.पृथिवी.यज्ञे.अस्मिन्.।.इत्य्.आप्यायति.ध्रुवाम् ।
श्श्स्_4.11.2: समिष्ट.यजुर्.हूयमानम्.अन्वारभते ।
श्श्स्_4.11.3: सदसि.सन्.मे.भूयाः.सर्वम्.असि.सर्वम्.मे.भूयाः.पूर्णम्.असि.पूर्णम्.मे.भूया.अक्षितिर्.असि.मा.मे.क्षेष्ठा.अमुत्रा.अमुष्मिंल्.लोक.इह.च.इति.पूर्ण.पात्रम्.अभिमृश्य.दिशो.व्युदुक्षति ।
श्श्स्_4.11.4: प्राच्या.दिशा.सह.देवा.ऋत्विजो.मार्जयन्ताम्.।.दक्षिणा.दिशा.सह.मासाः.पितरो.मार्जयन्ताम्.।.प्राच्या.दिशा.सह.गृहाः.पशवो.मार्जयन्ताम्.।.ऊर्ध्वया.दिशा.सह.यज्ञः.संवत्सरो.यज्ञ.पतिर्.मार्जयन्ताम्.इति ।
श्श्स्_4.11.5: सकृत्.सकृन्.मन्त्रेण.द्विर्.द्विस्.तूष्णीम् ।
श्श्स्_4.11.6अ: आपो.हि.ष्ठीयाभिस्.तिसृभिर्.अभिमृश्य.।.अच्छायम्.वो.ययोर्.ओजसा.इति.प्राचीर्.निनीय.उदीचीर्.वा ।
श्श्स्_4.11.6ब्: समुद्रम्.वः.प्र.हिणोमि.स्वाम्.योनिम्.अभि.गच्छत.।.अरिष्टा.अस्माकम्.वीरा.मा.परा.सेचि.नो.धनम्.।.इत्य्.अभिमन्त्र्य ।
श्श्स्_4.11.6च्: शम्.नो.देवीयाभिश्.चतसृभिर्.उरो.अभिमृश्य.।.सम्.इन्द्र.णः.सम्.वर्चसा.पयसा.सम्.तनूभिर्.अगन्महि.मनसा.सम्.शिवेन.।.त्वष्टा.सुदत्रो.वि.दधातु.राय.इति.प्राणान्.।.अनु.नो.मार्ष्टु.तन्वो.यद्.विलिष्टम्.।.इति.मुखम्.विमृज्य.।.विष्णु.क्रमान्.क्रमते ।
श्श्स्_4.12.1: दक्षिणाद्.वेदेः.श्रोणि.देशाद्.आहवनीयात् ।
श्श्स्_4.12.2: दिवि.विष्णुर्.व्यक्रंस्त.जागतेन.छन्दसा.तम्.अहम्.अनु.व्यक्रंसि.ततो.निर्भक्तः.स.यो.अस्मान्.द्वेष्टि.यम्.च.वयम्.द्विष्म.इत्य्.अभ्युद्धृत्य.दक्षिणम्.पादम्.हीनतरम्.सव्यम् ।
श्श्स्_4.12.3: अन्तरिक्षे.विष्णुर्.व्यक्रंस्त.त्रैष्टुभेन.छन्दसा.इति.द्वितीयम् ।
श्श्स्_4.12.4: पृथिव्याम्.विष्णुर्.व्यक्रंस्त.गायत्रेण.छन्दसा.इति.तृतीयम् ।
श्श्स्_4.12.5: दिक्षु.विष्णुर्.व्यक्रंस्त.अनुष्टुभेन.छन्दसा.इति.तिर्यग्.विक्रामति ।
श्श्स्_4.12.6: समान.उदर्कः ।
श्श्स्_4.12.7: अगन्म.स्वर्.इति.प्रान्.ईक्षते ।
श्श्स्_4.12.8: सम्.ज्योतिषा.अभूम.इत्य्.आहवनीयम् ।
श्श्स्_4.12.9: सम्.अहम्.प्रजया.सम्.मया.प्रजा.सम्.अहम्.रायस्.पोषेण.सम्.मया.रायस्.पोषो.वसुर्.यज्ञो.वसीयान्.भूयासम्.इति.प्रान्.एव ।
श्श्स्_4.12.10अ: स्वयम्भूर्.असि.श्रेष्ठो.रश्मिर्.आयुर्दा.अस्य.आयुर्.मे.देहि.वर्चोदा.असि.वर्चो.मे.देहि.तनूपा.असि.तन्वम्.मे.पाहि.इदम्.अहम्.आभ्यो.दिग्भ्यो.अस्यै.दिवो.अस्माद्.अन्तरिक्षाद्.अस्माद्.अन्न.अद्याद्.अस्यै.प्रतिष्ठायै.द्विषन्तम्.भ्रातृव्यम्.निर्भजामि.निर्भक्तो.द्विषन्.भ्रातृव्य.इत्य्.आदित्यम्.उपस्थाय ।
श्श्स्_4.12.10ब्: ऐन्द्रीम्.आवृतम्.आवर्त.आदित्यस्य.आवृतम्.अन्वावर्त.इति.दक्षिणम्.बाहुम्.अन्वावृत्य.।.सव्य.आवृद्.एत्य.गार्हपत्यम्.।.अग्ने.गृहपते.सगृहपतिर्.अहम्.त्वया.अग्ने.गृह.पतिना.भूयासम्.सुगृहपतिस्.त्वम्.मया.अग्ने.गृहपतिना.भूयाः ।
श्श्स्_4.12.10च्: अस्थूरि.नो.गार्हपत्यानि.सन्तु.।.शतम्.हिमा.मह्यम्.अमुष्याद्.इति.पुत्र.नामान्य्.अभिव्याहृत्य.।.भूर्.भुवः.स्वः.सम्.मा.कामेन.गमय.इत्य्.अस्य.अङ्गारम्.उपस्पृश्य ।
श्श्स्_4.12.10द्: यज्ञो.बभूव.स.आ.बभूव.स.प्र.जज्ञे.स.उ.वावृधे.पुनः.।.स.देवानाम्.अधिपतिर्.बभूव.सो.अस्मान्.अधिपतीन्.कृणोतु.।.इति.जपित्वा ।
श्श्स्_4.12.10ए: तथा.एव.आचम्य.।.अग्ने.व्रतपते.व्रतम्.अचारिषम्.तद्.अशकम्.तेन.अरात्सम्.य.एव.अस्मि.सो.अस्मि.इत्य्.आहवनीये.समिधम्.आधाय.।.विसृज्य.वाचम् ।
श्श्स्_4.13.1अ: यो.नो.दूरे.द्वेष्टि.यो.नो.अन्ति.समानो.निष्ट्यो.अरणश्चिद्.अग्ने.।.इध्मस्य.इव.प्रख्यायतो.मा.तस्य.उच्छेषि.किंचन.।.इत्य्.आहवनीयस्य.विक्षामाण्य्.उपसमस्य ।
श्श्स्_4.13.1ब्: गोमान्.अग्न.इति.तृचम्.जपति ।
श्श्स्_4.13.1च्: उद्.वयम्.तच्.चक्षुः.संदृशस्.ते.मा.छित्सि.यत्.ते.तपस्.तस्मै.ते.मा.वृक्षि.इत्य्.आदित्यम्.उपस्थाय.।.तथा.एव.आवृत्य.।.सव्य.आवृद्.उपविश्य ।
श्श्स्_4.13.1द्: इदम्.हविः.प्रजननम्.मे.अस्तु.दश.वीरम्.सर्व.गणम्.स्वस्तये.।.आत्मसनि.प्रजासन्य्.अभयसनि.पशुसनि.लोकसनि.।.अग्निः.प्रजाम्.बहुलाम्.मे.करोत्व्.अन्नम्.पयो.रेतो.अस्मासु.धत्त.।.इति.पयो.भक्षम्.प्रजाति.कामः ।
श्श्स्_4.13.2: दधिक्राव्णो.अकारिषम्.इति.वा.सम्बुभूषन्.दधि.भक्षम् ।
श्श्स्_4.13.3: सम्.यज्ञ.पतिर्.आशिषा.इति.यजमान.भागम्.प्राश्नाति ।

श्श्स्_4.13.4: समिष्ट.यजुषा.सह.प्रवसति.जुहोति ।
श्श्स्_4.14.1: जीवतः.कर्माणि ।
श्श्स्_4.14.2: विसमाप्ते.चेद्.अभिप्रेयान्.मरण.अन्तम्.एकाहेषु.न.अस्ति.तस्य.समापनम् ।
श्श्स्_4.14.3: आहवनीये.सर्वाणि.हवींष्य्.अनुप्रहृत्य ।
श्श्स्_4.14.4: संहार्य.रोम.नखानि.प्रेतस्य ।
श्श्स्_4.14.5: आप्लुत्य.अलम्.कृत्य ।
श्श्स्_4.14.6: दक्षिणस्याम्.दिशि.दक्षिणा.प्रवणे.देशे.दक्षिण.प्राक्.प्रवणे.(.प्राक्.प्रवणेन.).वा ।
श्श्स्_4.14.7: अपेत.वीत.इति.पलाश.शाखया.विमृज्य ।
श्श्स्_4.14.8: स्फ्येन.उन्मृज्य.अभ्युक्ष्य ।
श्श्स्_4.14.9: प्राग्.दक्षिणाचीम्.चितिम्.कृत्वा ।
श्श्स्_4.14.10: पुरस्ताद्.आहवनीयम्.पश्चान्.निधाय.गार्हपत्यम्.दक्षिणतो.दक्षिण.अग्निम् ।
श्श्स्_4.14.11: अन्तरेण.गार्हपत्यम्.दक्षिण.अग्निम्.च.हृत्वा ।
श्श्स्_4.14.12: उत्तानम्.चितौ.निपात्य ।
श्श्स्_4.14.13: दक्षिणतः.पश्चाद्.वा.गाम्.अनुस्तरणीम्.अजाम्.वा.रोहिणीम्.दक्षिणा.मुखीम्.प्रोभ्य ।
श्श्स्_4.14.14: जीवन्त्याः.संज्ञप्ताया.वा.वृक्कौ.पृष्ठत.उद्धृत्य ।
श्श्स्_4.14.15: अन्वाहार्य.पचने.कव.उष्णौ.कृत्वा.अति.द्रव.इत्य्.ऋग्भ्याम्.पाण्योर्.आधाय ।
श्श्स्_4.14.16: प्राण.आयतनेषु.हिरण्य.शकलान्.कृत्वा ।
श्श्स्_4.14.17: अग्नेर्.वर्म.इति.वपया.मुखम्.प्रच्छाद्य ।
श्श्स्_4.14.18: दक्षिणे.पाणौ.जुहूम् ।
श्श्स्_4.14.19: उपभृतम्.सव्ये ।
श्श्स्_4.14.20: ध्रुवाम्.उरसि ।
श्श्स्_4.14.21: अग्निहोत्र.हवणीम्.कण्ठे ।
श्श्स्_4.14.22: स्रुवौ.नासिकयोः ।
श्श्स्_4.14.23: प्राशित्र.हरणम्.दक्षिणे.कर्णे ।
श्श्स्_4.14.24: प्रणीता.प्रणयनम्.सव्ये ।
श्श्स्_4.14.25: शिरसि.कपालानि ।
श्श्स्_4.14.26: अप्सु.ग्रावाणः ।
श्श्स्_4.14.27: उदरे.समवत्तधानीम् ।
श्श्स्_4.14.28: पार्श्वयोः.पात्र्यौ ।
श्श्स्_4.14.29: स्फ्यम्.दक्षिणे.पार्श्वे ।
श्श्स्_4.14.30: कृष्ण.अजिनम्.सव्ये ।
श्श्स्_4.14.31: उपस्थे.अरणी ।
श्श्स्_4.14.32: ऊर्वोर्.अष्ठीवतोश्.च.उलूखल.मुसले ।
श्श्स्_4.14.33: पादयोः.शूर्प.शकटे ।
श्श्स्_4.14.34: पत्तो.अग्निहोत्रपा.त्राणि ।
श्श्स्_4.14.35: तानि.घृतेन.पृषद्.आज्येन.च.पूरयित्वा ।
श्श्स्_4.14.36: अयम्.वै.त्वत्.त्वम्.अस्माद्.अयम्.ते.योनिस्.त्वम्.अस्य.योनिः.।.जात.वेदो.वहस्व.एनम्.सुकृताम्.यत्र.लोकः.।.अयम्.वै.त्वाम्.अजनयद्.अयम्.त्वद्.अधिजायताम्.असौ.स्वाहा.इत्य्.उपोहन्त्य्.अग्निभिः ।
श्श्स्_4.15.1: मा.एनम्.अग्न.इति.सम्प्रदीप्ते.दश.जपित्वा.सव्य.आवृतो.अनवेक्षमाणाः.प्राग्.उदञ्चः.प्रकामन्ति ।
श्श्स्_4.15.2: मृत्योः.पदम्.इत्य्.अनुमन्त्रयते.द्वाभ्याम् ।
श्श्स्_4.15.3: आपो.हि.ष्ठा.सना.च.सोम.इत्य्.उदकम्.स्पृशन्ति.सूक्ताभ्याम्.अनमन्.निमज्जन्तो.असंधावमानाः ।

श्श्स्_4.15.4: असाव्.एतत्.त.इत्य्.एकम्.उदक.अञ्जलिम्.प्रदाय.।.आपो.अस्मान्.इत्य्.उत्क्रम्य.।.अहतम्.वासः.परिधाय.।.तच्.चक्षुर्.इत्य्.आदित्यम्.उपस्थाय.।.कनिष्ठ.पूर्वाः.प्रत्यायन्ति ।
श्श्स्_4.15.5: उद.पात्रे.दूर्वा.यव.सर्षपाण्य्.ओप्य.आर्द्रे.गोमये.निधाय.अश्मन्वती.इत्य्.अभ्यक्तम्.अश्मानम्.अग्निम्.उद.पात्रम्.च.सम्मृशन्ति ।
श्श्स्_4.15.6: अधः.शय्या.हविष्य.भक्षता.प्रत्यूहनम्.च.कर्मणाम्.वैतान.वर्जम्.एक.रात्रम्.त्रिरात्रम्.नव.रात्रम्.वा.अवा.संचयनाद्.व्रतानि ।
श्श्स्_4.15.7: न.अघ.अहानि.वर्धयेयुर्.इति.ह.स्म.आह.कौषीतकिः ।
श्श्स्_4.15.8अ: अपर.पक्षे.संचित्या.अयुजासु.रात्रिषु.।.यम्.त्वम्.अग्न.इति.द्वाभ्याम्.सक्षीरेण.उदकेन.अस्थीनि.निर्वाप्य.।.पुराणे.कुम्भे.शरीराण्य्.ओप्य ।
श्श्स्_4.15.8: उत्.ते.स्तभ्नामि.इति.लोष्टेन.अपिधाय.।.उच्.छ्वञ्चस्व.इति.खाते.निखाय.।.उच्.छ्वञ्चमाना.इति.परिमिते.अवधाय.।.अरण्ये.निखनन्ति ।
श्श्स्_4.15.9: शरीरेष्व्.अदृश्यमानेषु.त्रीणि.षष्टि.शतानि.पलाश.वृन्तानि ।
श्श्स्_4.15.10: तेषाम्.आवाप.स्थानम् ।
श्श्स्_4.15.11: चत्वारिंशत्.शिरसि ।
श्श्स्_4.15.12: ग्रीवायाम्.दश ।
श्श्स्_4.15.13: अस्म.अन्वंसयोर्.बाह्वोः.शतम् ।
श्श्स्_4.15.14: उरसि.त्रिंशत् ।
श्श्स्_4.15.15: जठरे.विंशतिः ।
श्श्स्_4.15.16: षड्.वृषणयोः ।
श्श्स्_4.15.17: शिश्ने.चत्वारि ।
श्श्स्_4.15.18: ऊर्वोः.शतम् ।
श्श्स्_4.15.19: त्रिंशज्.जानु.जङ्घ.अष्ठीवतोः ।
श्श्स्_4.15.20: पाद.अङ्गुलीषु.विंशतिः ।
श्श्स्_4.15.21: एवम्.त्रीणि.षष्टि.शतानि.भवन्ति ।
श्श्स्_4.15.22: पुरुष.आकृतिम्.कृत्वा.ऊर्णा.सूत्रैः.परिवेष्ट्य.यव.चूर्णैः.प्रलिप्य.सर्पिषा.अभ्यज्य.अग्निभिः.संकुर्वन्ति ।
श्श्स्_4.15.23: इच्छन्.पत्नीम्.पूर्व.मारिणीम्.अग्निभिः.संस्कृत्य.सांतपनेन.वा.अन्याम्.आनीय.ततः.पुनर्.आदधीत ।
श्श्स्_4.16.1: व्रत.अपवर्गे.परिधि.कर्म ।
श्श्स्_4.16.2: आनडुहम्.रोहितम्.चर्म.उदग्.ग्रीवम्.प्राग्.ग्रीवम्.वा.उत्तर.लोम.पश्चाद्.अग्नेर्.उपस्तीर्य.उपविशन्ति.कुशान्.वा.एवम्.अग्रान् ।
श्श्स्_4.16.3: अन्तरेण.अग्निम्.च.एतांश्.च.अभ्यक्त्म्.अश्मानम्.निधाय.।.शम्याः.परिधीन्.कृत्वा.।.शमीमयम्.इध्मम्.पलाशम्.वा.।.वारणेन.स्रुवेण.कांस्येन.वा.जुहोति ।
श्श्स्_4.16.4: उपस्थ.कृतः.समन्वारब्धेषु ।
श्श्स्_4.16.5: इमम्.जीवेभ्यः.।.परैतु.मृत्युर्.अमृतम्.म.आ.गाद्.वैवस्वतो.नो.अभयम्.कृणोतु.।.पर्णम्.वनस्पतेर्.इव.अभि.नः.शीयताम्.रयिः.।.सचताम्.न.शची.पतिः.।.याश्.च.अरुणे.दश.अन्वाधान.इति ।
श्श्स्_4.16.6: द्वादश.हुत्वा ।
श्श्स्_4.16.6: यथा.अहानि.इति.दक्षिणम्.अन्वंसम्.द्वाभ्याम्.समीक्ष्य.।.अञ्जनम्.सर्पिषा.सम्निनीय.।.कुशैः.स्त्रीणाम्.अक्षीण्य्.अनक्तीम्.आ.नारीर्.इति.।.सकृत्.सकृन्.मन्त्रेण.द्विर्.द्विस्.तूष्णीम् ।
श्श्स्_4.16.7: उत्तिष्ठ.ब्रह्मणस्पत.इति.द्वाभ्याम्.ब्राह्मणस्य.दक्षिणम्.बाहुम्.अन्वारब्धान्.उत्तिष्ठतो.अनुमन्त्रयते ।
श्श्स्_4.16.8: अनडुहो.वा.पुच्छम् ।
श्श्स्_4.16.9: अनड्वान्.अहतम्.वासः.कांस्यश्.च.दक्षिणा ।
श्श्स्_4.16.10: दक्षिणतो.वित्तम्.नि.वर्तध्वम्.इति.सूक्तेन.प्रत्येनाः.प्रदक्षिणम्.त्रिः.पर्येति ।
श्श्स्_4.16.11: प्रत्येनसि.परिधि.कर्म ।
श्श्स्_4.17.1: रुद्रम्.गवा.यजते.स्वस्त्ययनाय ।
श्श्स्_4.17.2: शूल.गव.इत्य्.आचक्षते ।
श्श्स्_4.17.3: शुद्ध.पक्षे.उपोष्य.पुष्ये.नक्षत्रे.प्राग्.उदीच्याम्.दिषि ।
श्श्स्_4.17.4: अगिम्.मथित्वा.प्राञ्चम्.प्रणीय ।
श्श्स्_4.17.5: पुरस्तात्.पलाश.शाखाम्.सपलाशाम्.निखाय ।
श्श्स्_4.17.6: तस्या.उत्तरतः.पशुम्.उपस्थाप्य ।
श्श्स्_4.17.7: रुद्राय.त्वा.जुष्टम्.उपाकरोमि ।

श्श्स्_4.17.8: रुद्राय.त्वा.जुष्टम्.प्रोक्षामि ।
श्श्स्_4.17.9: रुद्राय.त्वा.जुष्टम्.नियुनज्मि.इति ।
श्श्स्_4.17.10: पर्यग्निकृतम्.उदञ्चम्.नयन्ति ।
श्श्स्_4.17.11: तम्.संज्ञपयन्ति.प्राक्.शिरसम्.उदक्.पादम्.प्रत्यक्.शिरसम्.वा.उदक्.पादम्.अरवमाणम् ।
श्श्स्_4.17.12: यत्.पशुर्.मायुम्.अकृत.उरो.वा.पद्भिर्.आ.हते.।.अग्निर्.मा.तस्माद्.एनसो.जात.वेदाः.प्र.मुञ्चतु.।.स्वाहा.इति.रवमाणे.जुहोति ।
श्श्स्_4.17.13: वपाम्.उद्धृत्य.प्रक्षाल्य.पूर्वे.अग्नौ.श्रपयित्वा.अभिघार्य.उद्वास्य.शिवम्.शिवम्.इति.त्रिः.पर्युक्ष्य.आज्य.आहुतीर्.जुहोति ।
श्श्स्_4.18.1: या.तिरश्ची.न.पद्यते.अहम्.विधरणी.इति.।.ताम्.घृतस्य.धारया.युजे.समर्धमीम्.अहम्.।.स्वाहा ।
श्श्स्_4.18.2: यस्य.इदम्.सर्वम्.तम्.इमम्.हवामहे.।.स.मे.कामान्.काम.पतिः.प्र.यच्छतु.।.स्वाहा.इति.द्वितीयाम् ।
श्श्स्_4.18.3: अग्ने.पृथिव्या.अधिपत.इति.तृतीयाम् ।
श्श्स्_4.18.4: प्रजापत.इति.चतुर्थीम् ।
श्श्स्_4.18.5अ: त्रीणि.पलाश.पलाशानि.मध्यमानि.संतृड्य.उपस्तीर्य.।.वपाम्.अवधाय.अभिघार्य.।.यावताम्.अहम्.ईशे.यावन्तो.मे.अमात्याः.।.तेभ्यस्.त्वा.देव.वन्दे.तेभ्यो.नो.देव.मृळ ।
श्श्स्_4.18.5: वेद.ते.पितरम्.वेद.मातरम्.द्यौस्.ते.पिता.पृथिवी.माता.।.तस्मै.ते.देव.भवाय.शर्वाय.पशु.पतय.उग्राय.देवाय.महते.देवाय.रुद्राय.ईशानाय.अशनये.स्वाहा.इति.वपाम्.हुत्वा.।.अनुप्रहरति.पलाशानि ।
श्श्स्_4.18.6: वपा.श्रपण्यौ.च ।
श्श्स्_4.18.7: दर्शाय.ते.प्रतिदर्शाय.स्वाहा.इत्य्.उत्तराम्.आज्य.आहुतिम्.हुत्वा.तथा.एव.पर्युक्षति ।
श्श्स्_4.18.8: पश्चिमे.अग्नौ.स्थाली.पाकम्.श्रपयति ।
श्श्स्_4.18.9: उत्तरतो.अवदानानि ।
श्श्स्_4.18.10: स्थाली.पाकम्.यूषम्.मांसम्.आज्यम्.इति.सम्निनीय.शम्योः.शम्योर्.इति.त्रिः.पर्युक्ष्य.जुहोति ।
श्श्स्_4.19.1: भवाय.स्वाहा.शर्वाय.स्वाहा.रुद्राय.स्वाहा.ईशानाय.स्वाहा.अग्नये.स्विष्टकृते.स्वाहा.इति ।
श्श्स्_4.19.2: तथैव.पर्युक्ष्य ।
श्श्स्_4.19.3: तान्य्.एव.सम्निनीय ।
श्श्स्_4.19.4: अग्नौ.पश्चिमे ।
श्श्स्_4.19.5: भवान्यै.स्वाहा.शर्वाण्यै.स्वाहा.रुद्राण्यै.स्वाहा.ईशानान्यै.स्वाहा.अग्नाय्यै.स्वाहा.इति ।
श्श्स्_4.19.6: समानम्.पर्युक्षणम् ।
श्श्स्_4.19.7: षळा.विकर्तनात्.पलाशानि.प्राग्.उदञ्चि.निधाय.।.तेषु.लोहित.मिश्रम्.ऊवध्यम्.अवधाय.।.रुद्र.सेनाभ्यो.अनुदिशति ।
श्श्स्_4.19.8: आघोषिण्यः.प्रतिघोषिण्यः.संघोशिण्यो.विचिन्वत्यः.श्वसनाः.क्रव्याद.एष.वो.भागस्.तम्.जुषध्वम्.स्वाहा.इति ।
श्श्स्_4.19.9: यजमानश्.च.उपतिष्ठते ।
श्श्स्_4.20.1अ: भू.पते.भुव.पते.भुवन.पते.भूत.पते.भूतानाम्.पते.महतो.भूतस्य.पते.मृळ.नो.द्विपदे.च.चतुष्पदे.च.पशवे.मृळ.नश्.च.द्विपदश्.च.चतुष्पदश्.च.पशून्.यो.अस्मान्.द्वेष्टि.यम्.च.वयम्.द्विष्मो.दुरापूरो.असि.सच्छायो.अधिनामेन.(.अभिमानेन.) ।
श्श्स्_4.20.1: तस्य.ते.धनुर्.हृदयम्.मन.इषवश्.चक्षुर्.विसर्गस्.तम्.त्वा.तथा.वेद.नमस्.ते.अस्तु.सोमस्.त्वा.अवतु.मा.मा.हिंसीः.।.याव्.अरण्ये.पतयओत्.वृकौ.जञ्जभताव्.इव.।.महा.देवस्य.पुत्राभ्याम्.भव.शर्वाभ्याम्.नमः ।
श्श्स्_4.20.2: कद्.रुद्राय.इमा.रुद्राया.ते.पितर्.इमा.रुद्राय.स्थिर.धन्वन.इति.च.सूक्तानि ।
श्श्स्_4.20.3: वरो.दक्षिणा ।
श्श्स्_4.20.4: उपाकरणम्.प्रोक्षणम्.पर्यग्निक्रणम्.इत्य्.आवृतः.पाशुबन्धिक्यः ।
श्श्स्_4.20.5: पलाश.शाखा.इति.देवतायै.वपाम्.देवतायै.हविः.स्विष्टकृते.च.अन्येषाम्.पशूनाम् ।
श्श्स्_4.20.6: आग्नेयः.सौम्यश्.च.आज्य.भागौ.देवतायै.वपाम्.देवतायै.हविः.स्विष्टकृते.च.आज्य.आहुतिश्.च.अनुमतये.स्थाली.पाकानाम् ।
श्श्स्_4.21.1: षऌ.अर्घ्या.भवन्त्य्.आचार्य.ऋत्विक्.श्वशुरो.राजा.स्नातकः.प्रिय.इति ।
श्श्स्_4.21.2: उदन्.मुखः.प्रान्.मुखो.वा.अहम्.वर्ष्म.सादृशानाम्.विद्युताम्.इव.सूर्यः.।.इदम्.तम्.अधि.तिष्ठामि.यो.अस्मान्.अभि.दासति.।.इति.कूर्चम्.अध्यास्ते.अधितिष्ठति.वा ।
श्श्स्_4.21.3: विराजो.दोहो.असि.विराजो.दोहम्.अशीय.मयि.पद्यायै.विराजो.दोह.इति.पाद्यम्.प्रतिगृह्य ।
श्श्स्_4.21.4: अर्घ्यम्.इत्य्.उक्तो.अपः.प्रतिगृह्य ।
श्श्स्_4.21.5: आचमनीयम्.इत्य्.उक्त.आपो.हि.ष्ठीयाभिस्.तिसृभिर्.एक.एकया.आचम्य ।
श्श्स्_4.21.6: मधु.पर्क.इत्य्.उक्तो.यथा.प्राशित्रम्.तथा.प्रतीक्ष्य ।
श्श्स्_4.21.7: तथा.प्रतिगृह्णाति.।.यशसे.ब्रह्म.वर्चसाय.इति.विकारः ।

श्श्स्_4.21.8: प्रतिगृह्य.सव्ये.पाणौ.कृत्वा.अङ्गुष्ठेन.उपकनिष्ठिकया.च.पूर्व.अर्धाद्.उपहत्य.पूर्व.अर्धे.कांस्यस्य.निलिम्पति.वसवस्.त्वा.अग्नि.राजानो.भक्षयन्त्व्.इति ।
श्श्स्_4.21.9: पितरस्.त्वा.यम.राजानो.भक्षयन्त्व्.इति.दक्षिण.अर्धाद्.दक्षिण.अर्धे ।
श्श्स्_4.21.10: आदित्यास्.त्वा.वरुण.राजानो.भक्षयन्त्व्.इति.पर्श.अर्धात्.पश्च.अर्धेन ।
श्श्स्_4.21.11: रुद्रास्.त्वा.इन्द्र.राजानो.भक्षयन्त्व्.इत्य्.उत्तर.अर्धाद्.उत्तर.अर्धे ।
श्श्स्_4.21.12: विश्वे.त्वा.देवाः.प्रजापति.राजानो.भक्षयन्त्व्.इति.माध्याद्.ऊर्ध्वम् ।
श्श्स्_4.21.13: सकृत्.सकृन्.मन्त्रेण.द्विर्.द्विस्.तूष्णीम् ।
श्श्स्_4.21.14: महा.व्याहृतिभिस्.तिसृभिर्.एक.एकया.प्राश्य ।
श्श्स्_4.21.15: अनुपाय.चतुर्थम् ।
श्श्स्_4.21.16: ब्राह्मणाय.उच्छिष्ट.दानम् ।
श्श्स्_4.21.17: सर्व.पानम्.वा ।
श्श्स्_4.21.18: अपो.अवाभ्यवहरणम् ।
श्श्स्_4.21.19: शम्.नो.देवीयाभिश्.चतसृभिर्.उरो.अभिमृश्य ।
श्श्स्_4.21.20: समानम्.प्राण.सम्मर्शनम् ।
श्श्स्_4.21.21: मुख.विमार्जनम्.च ।
श्श्स्_4.21.22: आ.गोः.प्रवदनात्.तूष्णीम् ।
श्श्स्_4.21.23: गौर्.इत्य्.उक्त.ओम्.कुरुत ।
श्श्स्_4.21.24: माता.रुद्राणाम्.इति.जपित्वा.उत्सृजत.तृणान्य्.अत्त्व्.इति.वा ।
श्श्स्_4.21.25: कूर्चः.पाद्यम्.अर्घ्यम्.आचमनीयम्.मधु.पर्को.गौर्.इति.वेदयेत.वेदयेत ।
श्श्स्_5.1.1: आर्षेयान्.यूनो.अनूचानान्.ऋत्विजो.वृणीते.सोमेन.यक्ष्यमाणः ।
श्श्स्_5.1.2: चतुरः.सर्वान्.वा ।
श्श्स्_5.1.3: चन्द्रमा.मे.दैवो.ब्रह्मा.इत्य्.उपांशु.त्वम्.मानुष.इत्य्.उच्चैः ।
श्श्स्_5.1.4: एवम्.सर्वान् ।
श्श्स्_5.1.5: आदित्यो.मे.दैव.उद्गाता.त्वम्.मानुषः ।
श्श्स्_5.1.6: अग्निर्.मे.दैवो.होता.त्वम्.मानुषः ।
श्श्स्_5.1.7: वायुर्.मे.दैवो.अध्वर्युस्.त्वम्.मानुषः ।
श्श्स्_5.1.8: प्रजापतिर्.मे.दैवः.सदस्यस्.त्वम्.मानुषः ।
श्श्स्_5.1.9: ऋतवो.मे.दैव्या.होत्राशंसिनो.यूयम्.मानुषाः ।
श्श्स्_5.1.10: भर्गम्.मे.वोचो.भद्रम्.मे.वोचो.भूतिम्.मे.वोचः.श्रियम्.मे.वोचो.यशो.मे.वोचो.मयि.भर्गो.मयि.भद्रम्.मयि.भूतिर्.मयि.श्रीर्.मयि.यश.इति.वृतो.जपित्वा.कच्चिन्.न.अहीन.अनुदेश्य.न्यस्त.आर्त्विज्य.नीत.दक्षिणानाम्.अन्यतम.इति.पृष्ट्वा.प्रतिगृह्णोतो.(.प्रतिगृह्णाति.?).प्रत्याचष्टे.वा ।
श्श्स्_5.2.1: प्राचीन.प्रवणम्.देव.यजनम् ।
श्श्स्_5.2.2: प्राग्.उदक्.प्रवणम्.यज्ञ.कामस्य ।
श्श्स्_5.2.3: अनुब्रुवन्.यत्र.होता.आहवनीयम्.आदित्यम्.अपश्.च.पश्येत्.तद्.ब्रह्म.वर्चस.कामस्य ।
श्श्स्_5.2.4: शुद्ध.पक्षे.दीक्षा.पुण्ये.नक्षत्रे.समापनम्.च ।
श्श्स्_5.3.1: अपर.अह्णे.दीक्षणीय.अग्ना.वैष्णवी.इष्टिः ।
श्श्स्_5.3.2: पौर्णमासी.विकारः ।
श्श्स्_5.3.3: पञ्चदश.सामिधेनीका ।
श्श्स्_5.3.4: उपांशु.हविः ।
श्श्स्_5.3.5: विराजौ.स्विष्टकृतः ।
श्श्स्_5.3.6: नित्ये.वा ।
श्श्स्_5.3.7: उपहूतो.अयम्.यजमानो.अस्य.यज्ञस्य.आगुर.उदृचम्.अशीय.इत्य्.आशास्ते.अयम्.यजमानो.अस्य.यज्ञस्य.आगुर.उदृचम्.अशीय.इत्य्.आशास्त.इत्य्.आशिषाम्.स्थान.इळायाम्.सूक्त.वाके.च.प्राक्.तार्तीय.सवनिक्याः.पुरोळाश.इळायाः ।
श्श्स्_5.3.8: न.सूक्त.वाके.यजमानस्य.नाम.गृह्णाति.प्राक्.सवनीयात् ।

श्श्स्_5.3.9: पत्नी.सम्याज.अन्ता.च ।
श्श्स्_5.4.1: अध्वयुर्म्.अन्वारभ्य.उदग्रभणानि.जुह्वतम्.यजमानम्.मनो.मे.मनसा.दीक्षताम्.वान्.मे.वाचा.दीक्षताम्.प्राणो.मे.प्राणेन.दीक्षताम्.चक्षुर्.मे.चक्षुषा.दीक्षताम्.श्रोत्रम्.मे.श्रोत्रेण.दीक्षताम्.इति ।
श्श्स्_5.4.2: आहुतीर्.वा.जुहुयात् ।
श्श्स्_5.4.3: एक.दीक्षे.च.उपस्थानम् ।
श्श्स्_5.4.4: मनो.दीक्षाम्.उपैमि.इत्य्.आहवनीयम् ।
श्श्स्_5.4.5: वाचम्.दीक्षाम्.उपैमि.इति.गार्हपत्यम् ।
श्श्स्_5.4.6: प्राणम्.दीक्षाम्.उपैमि.इति.दक्षिण.अग्निम् ।
श्श्स्_5.4.7: अपरिमिता.दीक्षास्.तासाम्.अपवर्गे.प्रायणीया.इष्टिः ।
श्श्स्_5.5.1: पथ्याम्.स्वस्तिम्.अग्निम्.सोमम्.सवितारम्.च.आज्येन.अदितिम्.चरुणा ।
श्श्स्_5.5.2: स्वस्ति.नः.पथ्यासु.स्वस्तिर्.इद्धि.।.अग्ने.नय.अग्ने.त्वम्.पारय.।.त्वम्.सोम.प्र.चिकितो.या.ते.धामानि.हविषा.।.तत्.सवितुर्.वरेण्यम्.य.इमा.विश्वा.जातानि.।.सुत्रामाणम्.महीम्.ऊ.षु ।
श्श्स्_5.5.3: पञ्चदश.सामिधेनीका ।
श्श्स्_5.5.4: उपांशु.हविः ।
श्श्स्_5.5.5: न.आज्य.भागौ.भवतः ।
श्श्स्_5.5.6: त्वाम्.चित्र.श्रवस्तम.यद्.वाहिष्ठम्.इति.स्विष्टकृतः ।
श्श्स्_5.5.7: शम्य्व्.अन्ता.च ।
श्श्स्_5.6.1: क्रीत्वा.राजानम्.आधाय.शकटे.सोमाय.पर्युह्यमाणाय.इत्य्.उक्तः ।
श्श्स्_5.6.2: भद्राद्.अभि.श्रेयः.प्रेहि.बृहस्पतिः.पुर.एता.ते.अस्तु.।.अथ.ईम्.अवस्य.वर.आ.पृथिव्या.आरे.शत्रून्.कृणुहि.सर्व.वीरः.।.इत्य्.अन्तरेण.वर्त्मनी.तिष्ठन्न्.अनूच्य ।
श्श्स्_5.6.3: इमाम्.धियम्.शिक्षमाणस्य.वनेषु.व्यन्तरिक्षम्.सोम.यास्त.इति.चतस्रो.अनुसम्यन्न्.अन्तरेण.वर्त्मनी ।
श्श्स्_5.6.4: शालाम्.अग्रेण.शकटम्.अवस्थाप्य.प्रपादयन्ति.राजानम् ।
श्श्स्_5.6.5: येन.व्रजेयुस्.तेन.अनुसमियात् ।
श्श्स्_5.6.6: या.ते.धामानि.हविषा.इत्य्.अनुप्रपद्य ।
श्श्स्_5.6.7: अग्रेण.आहवनीयम्.दक्षिणा.तिष्ठन्न्.आगन्.देव.इति.परिधाय ।
श्श्स्_5.6.8: उपस्पृश्य.उत्सृज्यते ।
श्श्स्_5.6.9: मदन्तीभिर्.उदक.अर्थो.अत.ऊर्ध्वम्.आग्नीषोम.प्रणयनात् ।
श्श्स्_5.7.1: आतिथ्या.वैष्णवी.इष्टिः ।
श्श्स्_5.7.2: पौर्णमासी.विकारः ।
श्श्स्_5.7.3: विष्णोर्.नु.कम्.प्र.तद्.विष्णुः ।
श्श्स्_5.7.4: होतारम्.चित्र.रथम्.यस्.त्वा.स्वश्व.इति.स्विष्टकृतः ।
श्श्स्_5.7.5: अगि.मन्थनीयाश्.च.आसन्ने.हविषि ।
श्श्स्_5.7.6: उपांशु.हविः ।
श्श्स्_5.7.7: इळा.अन्ता ।
श्श्स्_5.8.1: उपस्पृश्य.सर्वे ।
श्श्स्_5.8.2: अनाधृष्टम्.अस्य्.अनाधृष्यम्.देवानाम्.ओजो.अनभिशस्त्य्.अभिशस्तिपाः.।.अनभिशस्तेन्यम्.अञ्जसा.सत्यम्.उपगेषम्.सुविते.मा.धा.इति.सहिरण्यम्.ध्रौवम्.आज्यम्.पात्रीस्थम्.बर्हिष्य्.आसन्नम्.तानूनप्त्रम्.समवमृश्य ।
श्श्स्_5.8.3अ: उपस्पृश्य.अग्रेण.आहवनीयम्.परीत्य.अंशून्.उपस्पृशन्तो.राजानम्.आप्याययन्ते ।
श्श्स्_5.8.3ब्: अंशुर्.अंशुष्.टे.देव.सोम.आ.प्यायताम्.इन्द्राय.एक.धनविदे.।.आ.तुभ्यम्.इन्द्रः.प्यायताम्.आ.त्वम्.इन्द्राय.प्यायस्व.।.आ.प्यायय.अस्मान्.सखीन्.सन्या.मेधया.स्वस्ति.ते.।.देव.सोम.सुत्याम्.उदृचम्.अशीय.इति ।
श्श्स्_5.8.4: यम्.आदित्या.अंशुम्.आ.प्याययन्ति.यम.क्षितिम्.अक्षितयः.पिबन्ति.।.तेन.नो.राजा.वरुणो.बृहस्पतिर्.आ.प्याययन्तु.भुवनस्य.गोपाः.।.इत्य्.उरांस्य्.अभिमृश्य ।
श्श्स्_5.8.5: उपस्पृश्य.दक्षिण.उत्तानान्.पाणीन्.प्रस्तरे.निधाय.निह्नुवते.सव्य.उत्तानान्.अपर.अह्णे.।.एष्टा.रायः.प्रेषे.भगाय.ऋतम्.ऋत.वादिभ्यो.नमो.द्यावा.पृथिवीभ्याम्.इति ।
श्श्स्_5.8.6: आप्यायन.प्रभृत्य्.उपसद्य्.उपसदि.संस्थितायाम् ।
श्श्स्_5.9.1: अप्रवर्ग्यः.प्रथम.यज्ञः ।
श्श्स्_5.9.2: विकल्पः.श्रोत्रियस्य ।

श्श्स्_5.9.3: उत्तरेण.गार्हपत्यम् ।
श्श्स्_5.9.4: महा.वीर.पात्रेषु.साद्यमानेषु.पूर्वया.द्वारा.शालाम्.प्रपद्य.।.उत्तरेण.आहवनीयम्.खरौ.पात्राणि.च.गत्वा.।.पश्चाद्.उपोपविश्य.।.होतर्.अभिष्टुहि.इत्य्.उक्तः.।.अनवानम्.एक.एकाम्.सप्रणवाम्.अभिष्टौति ।
श्श्स्_5.9.5: ब्रह्म.जज्ञानम्.प्रथमम्.पुरस्ताद्.वि.सीमतः.सुरुचो.वेन.आवः.।.स.बुध्न्या.उपमा.अस्य.विष्ठाः.सतश्.च.योनिम्.असतश्.च.वि.वः ।
श्श्स्_5.9.6: इयम्.पित्रे.राष्ट्र्य्.एत्य्.अग्रे.प्रथमाय.जनुषे.भूम.नेष्ठाः.।.तस्मा.एतम्.सुरुचम्.ह्वारमह्यम्.घर्मम्.श्रीणन्ति.प्रथमस्य.धासेः ।
श्श्स्_5.9.7: अभि.त्यम्.देव्म.सवितारम्.ओण्योः.कवि.क्रतुम्.।.अर्चामि.सत्य.सवम्.रत्नधाम्.अभि.प्रियम्.मतिम्.कविम्.।.ऊर्ध्वा.यस्याम्.अति.भा.अदिद्युतत्.सवीमनि.।.हिरण्य.पाणिर्.अमिमीत.सुक्रतुः.कृपा.स्वस्तृपा.स्वर्.इति.वा ।
श्श्स्_5.9.8: अञ्जन्ति.यम्.इति.बिले.अज्यमाने ।
श्श्स्_5.9.9: सम्.सीदस्व.इति.साद्यमाने ।
श्श्स्_5.9.10: भवा.नो.अग्ने.सुमनास्.तपो.ष्व्.अग्ने.यो.नः.सनुत्य.इत्य्.अङ्गारेषु.उपोह्यमानेषु ।
श्श्स्_5.9.11: कृणुष्व.पाज.इति.पञ्च ।
श्श्स्_5.9.12: परि.त्वा.गिर्वणो.अधि.द्वयोः ।
श्श्स्_5.9.13: शुक्रम्.ते.अर्हन्.बिभर्षि ।
श्श्स्_5.9.14: पतङ्गम्.अक्तम्.स्रक्वे.द्रप्सस्य.इति.सूक्ते ।
श्श्स्_5.9.15: पवित्रम्.त.इति.द्वे ।
श्श्स्_5.9.16: वि.यत्.पवित्रम्.धिषणा.अतन्वत.घर्मम्.शोचन्तम्.प्रणवेषु.विभ्रतः.।.समुद्रे.अन्तरायवो.विचक्षणम्.त्रिर्.अह्नो.नाम.सूर्यस्य.मन्वत ।
श्श्स्_5.9.17: अयम्.वेन.इति.सूक्तम्.नाके.सुपर्णम्.इत्य्.उद्धृत्य ।
श्श्स्_5.9.18: गणानाम्.त्वा.इति.सूक्तम् ।
श्श्स्_5.9.19: बृहद्.वदेम.विदथे.सुवीरा.इति.वीर.कामायै.वीरम्.ध्यायात् ।
श्श्स्_5.9.20: का.राधद्.इति.नव ।
श्श्स्_5.9.21: आ.नो.विश्वाभिर्.ऊतिभिर्.इति.तिस्रः ।
श्श्स्_5.9.22: प्रातर्.यावाणा.इति.पूर्व.अह्णे.सूक्तम् ।
श्श्स्_5.9.23: आ.भाति.इत्य्.अपर.अह्णे ।
श्श्स्_5.9.24: सर्वम्.ईळे.द्यावीयम्.उत्सृज्य.वाचम् ।
श्श्स्_5.9.25: उत्तमाम्.परिशिष्य.रुचितो.घर्म.इत्य्.उक्ते.अरूरुचद्.इत्य्.अभिष्टुत्य ।
श्श्स्_5.9.26: उत्तमया.परिधाय ।
श्श्स्_5.9.27: उपस्पृश्य.उत्थाय.अवकाशानाम्.अनुवाकेन.महा.वीरम्.उपस्थाय.उपस्पृश्य.उपविशति ।
श्श्स्_5.10.1: उप.ह्वय.इति.गव्य्.आहूयमानायाम् ।
श्श्स्_5.10.2: हिम्.कृण्वति.इत्य्.आयत्याम् ।
श्श्स्_5.10.3: अभि.त्वा.देव.सवितर्.इत्य्.अभिधीयमानायाम् ।
श्श्स्_5.10.4: समी.वत्सम्.सम्.वत्स.इव.इत्य्.उपसृज्यमानायाम् ।
श्श्स्_5.10.5: यस्.ते.स्तन.इति.स्तनम्.वत्से.अभिपद्यमाने ।
श्श्स्_5.10.6: गौर्.अमीमेद्.इत्य्.उन्नीयमाने ।
श्श्स्_5.10.7: नमसा.इद्.उप.सीदत.संजानाना.इत्य्.उपसीदति ।
श्श्स्_5.10.8: दोहेन.गाम्.दुहन्ति.सप्ता.दशभिर्.आत्मन्वत्.।.समिद्धो.अग्निर्.अश्विना.तप्तो.वाम्.घर्म.आ.गतम्.।.दुह्यन्ते.गावो.वृषण.इह.धेनवो.दस्रा.मदन्ति.कारवः.।.तद्.उ.प्रयक्षतमम्.इति.दुह्यमानायाम् ।
श्श्स्_5.10.9: अधुक्षद्.उत्तिष्ठ.ब्रह्मणस्पत.इत्य्.उत्तिष्ठति ।
श्श्स्_5.10.10: उप.द्रव.पयसा.गो.धुगो.(.गोधुगो.).षु.मा.घर्म.सिञ्च.पय.उस्रियायाः.।.वि.नाकम्.अख्यत्.सविता.दमूना.अनु.द्यावा.पृथिवी.सुप्रणीते.।.इत्य्.आह्रियमाणयोः.पयसोः ।
श्श्स्_5.10.11: आ.सुते.सिञ्चत.श्रियम्.आ.नूनम्.अश्विनोर्.ऋषिर्.इत्य्.आसिच्यमानयोः ।
श्श्स्_5.10.12: उद्.उ.ष्य.देवः.सविता.हिरण्यया.इत्य्.उद्यम्यमाने ।
श्श्स्_5.10.13: कर्म.विपर्यासे.यथा.कर्म ।
श्श्स्_5.10.14: प्रैतु.ब्रह्मणस्पतिर्.इति.प्रव्रजत्सु ।
श्श्स्_5.10.15: नाके.सुपर्णम्.इत्य्.अनुसम्यन् ।

श्श्स्_5.10.16: होतृ.षदन.उपविश्य ।
श्श्स्_5.10.17: घर्मस्य.यज.इत्य्.उक्तः ।
श्श्स्_5.10.18: उभा.पिबतम्.।.तप्तो.वाम्.घर्मो.नक्षति.स्व.होता.प्र.वाम्.अध्वर्युश्.चरति.प्रयस्वान्.।.मधोर्.दुग्धस्य.अश्विना.तनाया.वीतम्.पात्म.पयस.उस्रियायाः.।.इति.समस्ताभ्याम्.वषट्.कृत्य ।
श्श्स्_5.10.16: घर्मस्य.अग्ने.वीहि.इत्य्.अनुवषट्.करोति.इति.पूर्व.अह्णे ।
श्श्स्_5.10.20: अथ.अपर.अह्णे ।
श्श्स्_5.10.21: अस्य.पिबतम्.।.यद्.उस्रियास्व्.आहुतम्.घृतम्.पयो.अयम्.सु.वाम्.अश्विना.भाग.आ.गतम्.।.माध्वी.धर्तारा.विदथस्य.सत्पती.तप्तम्.घर्मम्.पिबतम्.रोचने.दिवः.।.इति.समस्ताभ्याम्.वषट्.कृत्य ।
श्श्स्_5.10.22: तथैव.अनुवषट्.कृत्य ।
श्श्स्_5.10.23: स्वाहा.कृतः.शुचिर्.देवेषु.घर्मो.यो.अश्विनोश्.चमसो.देव.पानः.।.तम्.ईम्.विश्वे.अमृतासो.जुषाणा.गन्धर्वस्य.प्रत्यास्र्ना.रिहन्ति.।.इत्य्.अभिष्टुत्य ।
श्श्स्_5.10.24: सखे.सखायम्.इत्य्.आयति ।
श्श्स्_5.10.25: गर्धर्व.इत्था.इति.साद्यमाने ।
श्श्स्_5.10.26: तम्.घेम्.इत्था.इति.प्रागाथिकाम्.आवर्त्स्यति ।
श्श्स्_5.10.27: हविर्.हविष्म.इति.पुरा.होमात् ।
श्श्स्_5.10.28: प्राण.भक्षो.होतुः ।
श्श्स्_5.10.29: प्रत्यक्षो.यजमानस्य ।
श्श्स्_5.10.30: दधि.घर्मे.च ।
श्श्स्_5.10.31: हुतम्.हविर्.मह्दु.हविर्.इन्द्रतमे.अग्नाव्.अश्याम.ते.देव.घर्म.मधुमतो.वाजवतः.पितुमत.इति.भक्ष.मन्त्रः ।
श्श्स्_5.10.32: संसाद्यमानेषु.महा.वीर.पात्रेषु.।.आ.यस्मिन्.सप्त.वासवा.रोहन्ति.पूर्व्या.रुहः.।.ऋषिर्.हि.दीर्घ.श्रुत्तम.इन्द्रस्य.घोअर्मो.अतिथिः.।.इत्य्.अभिष्टुत्य ।
श्श्स्_5.10.33: सूयवसाद्.इति.परिधाय ।
श्श्स्_5.10.34: उपस्पृश्य.उत्सृज्यते ।
श्श्स्_5.10.35: सुत्ये.वा.अहन्य्.आग्नीध्रीये.प्रवर्ग्यः.स्तुते.बहिष्.पवमाने.माध्यन्दिने.च ।
श्श्स्_5.10.36: प्रस्तरे.निह्नुत्य.उपसदा.चरन्ति.सप्रवर्ग्ये.प्रवर्ग्यम्.संस्थाप्य ।
श्श्स्_5.11.1: उपसद्याय.इत्.पूर्व.अह्णे.तिस्रः.सामिधेनीर्.अनवानम्.एक.एकाम्.सप्रणवाम्.त्रिस्.त्रिर्.आह ।
श्श्स्_5.11.2: इमाम्.मे.अग्ने.समिधम्.इति.तिस्रो.अपर.अह्णे ।
श्श्स्_5.11.3: तृतीयेन.पूर्वस्या.वचनेन.उत्तराम्.संधाय.अवस्यति ।
श्श्स्_5.11.4: अग्निम्.आवह.सोमम्.आवह.विष्णुम्.आवह.इति.प्रणवेन.संधाय ।
श्श्स्_5.11.5: स्रुग्.आदापनेन.स्रुचाव्.आदाप्य ।
श्श्स्_5.11.6: उपांशु.यजति ।
श्श्स्_5.11.7: अग्निर्.वृत्राणि.य.उग्र.इव.।.त्वम्.सोम.क्रतुभिर्.अषाळ्हम्.युत्सु.।.यः.पूर्व्याय.तम्.उ.स्तोतारः ।
श्श्स्_5.11.8: यावद्.आदिष्टम्.कुर्यात् ।
श्श्स्_5.11.9: विपर्यासो.अपर.अह्णे.याज्या.पुरोनुवाक्यानाम् ।
श्श्स्_5.11.10: इमाम्.मे.अग्ने.समिधम्.इति.द्वितीये.अहनि.पूर्व.अह्णे.तिस्रः.सामिधेनीः ।
श्श्स्_5.11.11: उपसद्याय.इत्य्.अपर.अह्णे ।
श्श्स्_5.11.12: यथा.प्रथमे.तथा.तृतीये ।
श्श्स्_5.11.13: स्व.कालास्.तु.विवर्धेरन् ।
श्श्स्_5.11.14: अहर्.अहर्.वा.विपर्यासः ।
श्श्स्_5.11.15: उपवसथे.प्रातर्.उभे.चरणे.संस्थाप्य ।
श्श्स्_5.12.1: अग्नि.प्रणयनम्.अप्रवर्ग्ये ।
श्श्स्_5.12.2: महा.वीर.पात्र.उद्वासनम्.सप्रवर्ग्ये ।
श्श्स्_5.12.3: तत्र.प्रस्तोता.साम.गायति ।
श्श्स्_5.12.4: तत्र.होतुर्.निधन.उपायः ।

श्श्स्_5.12.5: व्याख्यातम्.अग्नि.प्रणयनम् ।
श्श्स्_5.13.1: हविर्.धान.प्रवर्तनाय.अमन्त्रितः ।
श्श्स्_5.13.2: दक्षिणस्य.हविर्.धानस्य.उत्तरम्.वर्त्म.उत्तरस्य.च.दक्षिणम्.अन्तरेण.तिष्ठन्.हविर्.धानाभ्याम्.प्रवर्त्यमानाभ्याम्.इत्य्.उक्तः ।
श्श्स्_5.13.3: अपेतो.जन्यम्.भयम्.अन्य.जन्यम्.च.वृत्रहन्.।.अप.चक्रा.अवृत्सत.।.इति.दक्षिणेन.प्रपदेन.प्रत्यञ्चम्.लोग्म.अपास्य ।
श्श्स्_5.13.4: प्रेताम्.यज्ञस्य.इति.तिष्ठन्न्.अनूच्य ।
श्श्स्_5.13.5: द्यावा.नः.पृथिवी.इमम्.तयोर्.इद्.घृतवद्.यमे.इव.इति.दक्षिणस्य.उत्तरम्.वर्त्म.उपनिश्रितो.अनुसम्यन् ।
श्श्स्_5.13.6: अधि.द्वयोर्.इति.छदिष्या.धीयमाने ।
श्श्स्_5.13.7: विश्वा.रूपाणि.प्रतीति.परिश्रीयमाणयोः ।
श्श्स्_5.13.8: आ.वाम्.उपस्थम्.इति.नभ्यस्थयोः ।
श्श्स्_5.13.9: कर्म.विपर्यासे.यथा.कर्म ।
श्श्स्_5.13.10: परि.त्वा.गिर्वण.इति.परिधाय ।
श्श्स्_5.13.11: यत्र.तिष्ठन्.प्रथमाम्.अन्ववोचत्.तत्.स्थित्वा.उत्सृज्यते ।
श्श्स्_5.14.1: मितेषु.यज्ञ.अगारेष्व्.अग्नीषोमौ.प्रणयन्ति ।
श्श्स्_5.14.2: तत्.प्रभृत्या.अनुबन्ध्यायाः.संस्थानाद्.अन्तरेण.चात्वाल.उत्करौ.तीर्थम् ।
श्श्स्_5.14.3: तेन.प्रपद्य ।
श्श्स्_5.14.4: उत्तरेण.आग्नीध्रीयम्.धिष्ण्यम्.सदश्.च.गत्वा ।
श्श्स्_5.14.5: उत्तरेण.अध्वर्यू.यज्ञ.पात्राणि.च.पूर्वया.द्वारा.शालाम्.प्रपद्य ।
श्श्स्_5.14.6: शाला.मुखीयस्य.पश्चाद्.उपविश्य ।
श्श्स्_5.14.7: अग्नीषोमाभ्याम्.प्रणीयमानाभ्याम्.इत्य्.उक्तः ।
श्श्स्_5.14.8: सावीर्.हि.देव.प्रथमाय.पित्रे.वर्ष्माणम्.अस्मै.वरिमाणम्.अस्मै.।.अथ.अस्मभ्यम्.सवितः.सर्व.ताता.दिवे.दिव.आ.सुवा.भूरि.पश्वः.।.इत्य्.आसीनो.अनूच्य ।
श्श्स्_5.14.9: उत्तिष्ठ.ब्रह्मणस्पते ।
श्श्स्_5.14.10: प्रैतु.ब्रह्मणस्पतिः ।
श्श्स्_5.14.14: होता.देव.उप.त्वा.अग्न.इति.तृचौ ।
श्श्स्_5.14.14: भूतानाम्.गर्भम्.आदध.इति.गर्भ.कामायै.गर्भम्.ध्यायाद्.उत्तरेण.सदो.अनुसम्यन् ।
श्श्स्_5.14.14: आग्नीध्रीये.अग्निम्.निदधति ।
श्श्स्_5.14.14: अग्ने.जुषस्व.इत्य्.आहुतौ.हूयमानायाम् ।
श्श्स्_5.14.15: उत्तरेण.अग्निम्.सोमो.जिगाति.इति.तिस्रो.अनुसम्यन् ।
श्श्स्_5.14.16: उप.प्रियम्.इत्य्.आहवनीये.हुयमानायाम् ।
श्श्स्_5.14.17: तम्.अस्य.राजा.इति.प्रपाद्यमाने ।
श्श्स्_5.14.18: अन्तश्.च.प्राग्.आ.इत्य्.अनुप्रपद्य ।
श्श्स्_5.14.19: दक्षिणे.हविर्.धाने.राजनि.सन्न.उत्तरतो.दक्षिणा.तिष्ठन्.श्येनो.न.योनिम्.गणानाम्.त्वा.अस्तभ्नाद्.द्याम् ।
श्श्स्_5.14.20: एवा.वन्दस्व.इति.परिधाय ।
श्श्स्_5.14.21: सव्य.आवृद्द्.हविर्.धानयोः.पूर्वस्याम्.द्वार्य्.उपविशति ।
श्श्स्_5.14.22: अपरया.द्वारा.प्रपाद्यमाने.अनुसमेति.होता ।
श्श्स्_5.14.23: समानम्.अनुवचनम् ।
श्श्स्_5.14.24: दक्षिण.आवृद्.अपरया.द्वारा.निष्क्रम्य.सव्य.आवृद्.उत्त्तरेण.हविर्.धाने.गत्वा.तत्र.एव.उपविशति ।
श्श्स्_5.15.1: अग्नीषोमीयेण.उपवसथे.पशुना.यजते ।
श्श्स्_5.15.2: यूपाय.आज्यम्.आनाय.इत्य्.उक्तो.अञ्जन्ति.त्वाम्.इत्य्.अन्वाह ।
श्श्स्_5.15.3: उच्छ्रीयमाणाय.इत्य्.उक्त.उच्छ्रयस्व.वनस्पते.समिद्धस्य.श्रयमाणः.पुरस्ताज्.जातो.जायत.ऊर्ध्व.ऊ.षु.ण.ऊर्ध्वो.नः ।
श्श्स्_5.15.4: परिवीयमाणाय.इत्य्.उक्तो.युवा.सुवासा.इति.परिधाय.तिष्ठन्न्.अन्वाह.अग्नि.मन्थनीयाः ।

श्श्स्_5.15.5: यज्ञेन.यज्ञम्.इति.परिधाय.सामिधेनीर्.अन्वाह ।
श्श्स्_5.15.6: पशु.देवताम्.आवाह्य.अनन्तरम्.वनस्पतिम् ।
श्श्स्_5.15.7: अध्वर्यू.सम्मृश्य.तिष्ठति ।
श्श्स्_5.15.8: मित्रा.वरुणयोस्.त्वा.प्रशास्तोः.प्रशिषा.प्रयच्छामि.यज्ञस्य.अरिष्ट्या.इति.यजमानो.मैत्रावरुणाय.दण्डम्.प्रयच्छति ।
श्श्स्_5.15.9: तेन.एव.मन्त्रेण.यथा.अर्थम्.प्रतिगृह्य.दक्षिणेन.होतारम्.दक्षिण.आवृत्.पूर्वः.प्रतिपद्यते ।
श्श्स्_5.15.10: उत्तरेण.हविर्.धाने.दक्षिणेन.आग्नीध्रीयम्.धिष्ण्यम्.गत्वा.पूर्वया.द्वारा.सदः.प्रपद्य.स्वस्य.धिष्ण्यस्य.पश्चाद्.उपविश्य.एकादश.प्रयाजान्.यजति ।
श्श्स्_5.16.1: प्रैषा.मैत्रावरुणस्य ।
श्श्स्_5.16.2: सप्रैषे.च.पुरोनुवाख्याः ।
श्श्स्_5.16.3: तथा.अनुवचननै ।
श्श्स्_5.16.4: प्रहाणस्.तिष्ठन्.दण्डे.पराक्रम्य.समिधः.प्रेष्य.इत्य्.उक्तो.होता.यक्षद्.अग्निम्.समिधा.इति.प्रेष्यति ।
श्श्स्_5.16.5: आप्रियः.प्रयाज.याज्या.यद्.आर्षेयो.यजमानः ।
श्श्स्_5.16.6: समिद्धो.अद्य.मनुष.इति.वा.सर्वेषाम् ।
श्श्स्_5.16.7: स्वा.तु.नाराशंसी.तत्.प्रयाजस्य ।
श्श्स्_5.16.8: दशभिश्.चरित्वा.पर्य्.अग्नय.इत्य्.उक्तो.अग्निर्.होता.नो.अध्वर.इति.तिस्रो.अन्वाह ।
श्श्स्_5.16.9: उपप्रेष्य.होतर्.इत्य्.उक्तो.अजैद्.अग्निर्.इत्य्.उपप्रैषम्.आह ।
श्श्स्_5.16.10: उक्त.उपप्रैषे.अध्रिगुम्.होता ।
श्श्स्_5.17.1: दैव्याः.शमितार.उत.च.मनुष्या.आरभध्वम्.उपनयत.मेध्या.दुर.आशासाना.मेध.पतिभ्याम्.मेधम् ।
श्श्स्_5.17.2: प्र.अस्मा.अग्निम्.भरत.स्तृणीत.बर्हिर्.अन्व्.एनम्.माता.मन्यताम्.अनु.पिता.अनु.भ्राता.सगर्भ्यो.अनु.सखा.सयूथ्यः ।
श्श्स्_5.17.3: उदीचीनान्.अस्य.पदो.निधत्तात्.सूर्यम्.चक्षुर्.गमयताद्.वातम्.प्राणम्.अन्ववसृजताद्.अन्तरिक्षम्.असुम्.दिशः.श्रोत्रम्.पृथिवीम्.शरीरम् ।
श्श्स्_5.17.4: एकधा.अस्य.त्वचम्.आच्छ्यतात्.पुरा.नाभ्या.अपिशसो.वपाम्.उत्खिदताद्.अन्तरा.इव.उष्माणम्.वारयध्वात् ।
श्श्स्_5.17.5: श्येनम्.अस्य.वक्षः.कृणुतात्.प्रशसा.बाहू.शला.दोषणी.कश्यपा.इव.अंसाच्छिद्रे.श्रोणी.कवषा.ऊरू.स्रेक.पर्णाष्ठीवन्ता ।
श्श्स्_5.17.6: षड्विंशतिर्.अस्य.वङ्क्रयस्.ता.अनुष्ठ्य.उच्च्यावयताद्.गात्रम्.गात्रम्.अस्य.अनूनम्.कृणुतात् ।
श्श्स्_5.17.7: ऊवध्य.गोहम्.पार्थिवम्.खनतात् ।
श्श्स्_5.17.8: अस्ना.रक्षः.संसृजतात् ।
श्श्स्_5.17.9: वनिष्टुम्.अस्य.मा.राव्ष्ट.उरूकम्.मन्यमाना.न.इद्.वस्.तोके.तनये.रविता.रवत्.शमितार.इत्य्.अध्रिगौ.नवम.उच्छ्वासः ।
श्श्स्_5.17.10: अध्रिगो.शमीध्वम्.सुशमि.शमीध्वम्.शमीध्वम्.अघ्रिगो.इति.त्रिः.परिधाय.उपांशु.जपय्त्.उभाव्.अपापश्.च.इति ।
श्श्स्_5.17.11: न.पशुम्.संज्ञप्यमानम्.ईक्षेत ।
श्श्स्_5.17.12: पृषद्.आज्य.अवेक्षणम्.प्रायश्.चित्तम् ।
श्श्स्_5.17.13: ऋचम्.वा.वैष्णवीम्.जपेत् ।
श्श्स्_5.18.1: स्तोकेभ्य.इत्य्.उक्तो.जुषस्व.सप्रथस्तमम्.इमम्.नो.यज्ञम्.इति.च.सूक्तम्.अन्वाह ।
श्श्स्_5.18.2: स्वाहा.कृतिभ्य.इत्य्.उक्तो.होता.यक्षद्.अग्निम्.स्वाहा.आज्यस्य.इति.प्रेष्यति ।
श्श्स्_5.18.3: आप्रीणाम्.उत्तमा.याज्या ।
श्श्स्_5.18.4: अन्तरेण.उत्तमम्.प्रयाजम्.वपाम्.च.वाग्.यमनम् ।
श्श्स्_5.18.5: न.आज्य.भागौ.यजति ।
श्श्स्_5.18.6: वृधन्वन्तौ.वा ।
श्श्स्_5.18.7: दर्शपौर्णमासिका.निगमास्.तेषु.निगच्छतः ।
श्श्स्_5.18.8: न.प्रैषेषु ।
श्श्स्_5.18.9: अग्नीषोमाव्.इमम्.इति.वपायाः.पुरोनुवाक्या ।
श्श्स्_5.18.10: होता.यक्षद्.अग्नीषोमाव्.इति.प्रैषः ।
श्श्स्_5.18.11: युवम्.एतानि.इति.याज्या ।

श्श्स्_5.18.12: यथा.प्रपन्नम्.उपनिष्क्रम्य.इदम्.आप.इति.तृचेन.चात्वाल.उपस्पृश्य.उत्सृज्येते ।
श्श्स्_5.19.1: पशु.पुरोळाशाय.आमन्त्रिताव्.आग्नीध्रीयम्.उत्तरेण.होतुश्.च.गत्वा.यथा.धिष्ण्यम्.उपविशतः ।
श्श्स्_5.19.2: पश्व्.अर्थानि.विभवाद्.अर्थम्.साधयन्ति ।
श्श्स्_5.19.3: पुरोळशः.स्विष्टकृत्.समवाये.अपि ।
श्श्स्_5.19.4: अतुल्यानाम्.अनूहेन ।
श्श्स्_5.19.5: न.निगमाः.सन्ति.पशु.तन्त्रे.चोद्यमानानाम् ।
श्श्स्_5.19.6: अग्नीषोमा.यो.अद्य.इति.पुरोळाशस्य.पुरोनुवाक्या ।
श्श्स्_5.19.7: होता.यक्षद्.अग्नीषोमाव्.इत्.प्रैषः ।
श्श्स्_5.19.8: अग्नीषोमा.पिप्तृतम्.इति.याज्या ।
श्श्स्_5.19.9: इळाम्.अग्न.इति.स्विष्टकृतः.पुरोनुवाक्या ।
श्श्स्_5.19.10: होता.यक्षद्.अग्निम्.पुरोळाशस्य.इति.प्रैषः ।
श्श्स्_5.19.11: अग्निम्.सुदीतिम्.इति.याज्या ।
श्श्स्_5.19.12: इळाम्.उपहूय.पशुना.चरन्ति ।
श्श्स्_5.19.13: मनोतायै.हविष.इत्य्.उक्तस्.त्वम्.ह्य्.अग्ने.प्रथमो.मनोता.इति.मनोता.सूक्तम्.अन्वाह ।
श्श्स्_5.19.14: अग्नीषोमा.य.आहुतम्.इति.पशोः.पुरोनुवाक्या ।
श्श्स्_5.19.15: होता.यक्षद्.अग्नीषोमाव्.इति.प्रैषः ।
श्श्स्_5.19.16: अग्नीषोमा.हविष.इत्य्.अर्धर्चे.याज्याया.विरमत्या.वसा.होमात् ।
श्श्स्_5.19.17: हुते.वषट्.करोति ।
श्श्स्_5.19.18: देवेभ्यो.वनस्पत.इति.वनस्पतेः.पुरोनुवाक्या ।
श्श्स्_5.19.19: होता.यक्षद्.वनस्पतिम्.इति.प्रैषः ।
श्श्स्_5.19.20: वनस्पते.रशनया.इति.याज्या ।
श्श्स्_5.19.21: पिप्रीहि.देवान्.इति.स्विष्टकृतः.पुरोनुवाक्या ।
श्श्स्_5.19.22: होता.यक्षद्.अग्निम्.स्विष्टकृतम्.इति.प्रैषः ।
श्श्स्_5.19.23: अनिगदा.याज्या ।
श्श्स्_5.19.24: इळाम्.उपहूय.एकादश.अनुयाजान्.यजति ।
श्श्स्_5.20.1: देवम्.बर्हिः.सुदेवम्.देवैर्.इत्य्.अनवानम्.प्रेष्यति ।
श्श्स्_5.20.2: यथा.चातुर्मास्येषु.तथा.यजति ।
श्श्स्_5.20.3: अष्टम.नवमाव्.अन्तरेण.आगन्तू ।
श्श्स्_5.20.4: देवो.वनस्पतिर्.वसुवने.वसु.धेयस्य.वेतु.।.देवम्.बर्हिर्.वारितीनाम्.वसुवने.वसु.धेयस्य.वेतु ।
श्श्स्_5.20.5: सूक्ता.प्रेष्य.इत्य्.उक्तो.अग्निम्.अद्य.होतारम्.इति.सूक्त.वाक.प्रैषम्.आह ।
श्श्स्_5.20.6: सौमिकम्.सवनीये ।
श्श्स्_5.20.7: शम्योर्.उक्ते.यथा.प्रपन्नम्.उपनिष्क्रम्य.उत्सृज्यते.मैत्रावरुणः ।
श्श्स्_5.20.8: शालाम्.होता.गत्वा.पत्नी.सम्याज.अन्तम्.नक्तम्.संस्थापयति.संस्थापयति ।
श्श्स्_6.1.1: व्याख्यातो.अग्नीषोमीयः.प्रकृतिः.पशूनाम् ।
श्श्स्_6.1.2: आर्षम्.आम्नानम्.मन्त्राणाम्.प्रकृतौ ।
श्श्स्_6.1.3: यथा.अर्थम्.उत्तरस्याम्.तताव्.अर्थ.विकारस्य.उत्पत्ति.रूपेण.अनभिधानात्.शब्द.विकारम्.ऊहम्.ब्रुवते ।
श्श्स्_6.1.4: ऋक्षु.विकारो.न.विद्यते ।
श्श्स्_6.1.5अ: यजमानाभ्याम्.यजमानेभ्यः.।.मेध.पतये.मेधपतिभ्यः.।.मेधौ.मेधान्.।.आदद्.आदन्.।.घस्तु.घसन्तु.।.अघसद्.अघसन्.।.अघद्.अक्षन्न्.इति.वा ।
श्श्स्_6.1.5ब्: रभीयांसाव्.इव.रभीयस.इव.।.अग्रभीद्.अग्रभीषुः.।.अवीवृधत.अवीवृधन्त.।.अश्यासुः.।.ऋध्यासुः.।.अचीकमेताम्.अचीकमन्त.।.इत्य्.अर्थ.भेदात्.शब्द.विकारः ।
श्श्स्_6.1.6: बर्हिश्.चक्षुः.श्रोत्रम्.प्राणो.असुस्.त्वन्.नाभिर्.ऊष्मा.ज्ञाति.नामानि.श्येनम्.शला.कश्यपा.कवषा.स्रेक.पर्ण.ऊवध्य.गोहम्.अस्ना.इति.यथा.समाम्नातम् ।

श्श्स्_6.1.7: चोदना.संदेहे.च ।
श्श्स्_6.1.8: शेष.भूतान्य्.अपूर्वाणि ।
श्श्स्_6.1.9: आय.निगदाश्.च ।
श्श्स्_6.1.10: एकधा.एकधा.षड्विंशतिः.षड्विंशतिर्.इति.समासेन.वा ।
श्श्स्_6.1.11: एष.संख्या.न्यायः ।
श्श्स्_6.1.12: एक.देवत.द्वि.देवतयोश्.च.बहुवत् ।
श्श्स्_6.1.13: पुंवन्.मिथुनेषु.समान्याम् ।
श्श्स्_6.1.14: अप्य्.अन्यतरस्याम् ।
श्श्स्_6.1.15: एव.इत्य्.अकारेण.संधानम्.देवता.नाम.धेयस्य.स्वर्.आदेर्.द्वि.देवत्यस्य ।
श्श्स्_6.1.16: सकृद्.बध्नन्.पशु.भेदे ।
श्श्स्_6.1.17: सूपस्थाश्.च ।
श्श्स्_6.1.18: उदग्.अयनस्य.आद्य्.अन्तयोर्.ऐन्द्राग्नो.निरूळ्ह.पशु.बन्धः ।
श्श्स्_6.1.19: सांवत्सरो.वा ।
श्श्स्_6.1.20: काम्या.बहवः ।
श्श्स्_6.1.21: अग्नि.प्रणयन.आदयो.हृदय.शूल.अन्ताः.पशवो.अग्नीषोमीय.सवनीयौ.परिहाप्य ।
श्श्स्_6.1.22: आग्नावैष्णवी.च.यक्ष्यमाणस्य ।
श्श्स्_6.1.23: निर्वचनम्.च.आशिषम् ।
श्श्स्_6.1.24: अन्यत्र.च.अग्नीषोमीयात्.सूक्त.वाके.नाम.ग्रहणम् ।
श्श्स्_6.1.25: प्रातर्.अनुवाक.प्रभृत्य्.आदि.प्रदिष्टानि.शस्त्र.अनुवचनयोः.सूक्तानि ।
श्श्स्_6.1.26: एकाम्.प्रतीयाद्.अन्यत्रे ।
श्श्स्_6.2.1: महा.रात्रे.प्रातर्.अनुवाकाय.आमन्त्रितो.अग्रेण.आग्नीध्रीयम्.धिष्ण्यम्.तिष्ठन्.प्रपदो.जपति ।
श्श्स्_6.2.2: भूः.प्रपद्ये.भुवः.प्रपद्ये.स्वः.प्रपद्ये.भूर्.भुवः.स्वः.प्रपद्य.ओम्.प्रपद्ये.वाचम्.ऋचम्.प्रपद्ये.मनो.यजुः.प्रपद्ये.साम.प्राणम्.प्रपद्ये.चक्षुः.श्रोत्रम्.प्रपद्ये.नमो.देवेभ्यो.नमो.देवताभ्यो.नमो.महते.देवाय.नमो.गन्धर्व.अप्सरोभ्यो.नमः.सर्प.देव.जनेभ्यो.नमो.भूताय.नमो.भविष्यते.नमः.पितृभ्यः.प्रतिनमस्कारेभ्यो.वो.अपि.नमः ।
श्श्स्_6.2.3: दिशो.यथा.रूपम्.उपतिष्ठते ।
श्श्स्_6.3.1: अस्याम्.मे.प्राच्याम्.दिशि.सूर्यश्.च.चन्द्रश्.च.अधिपती.सूर्यश्.च.चन्द्रश्.च.मा.एतस्यै.दिशः.पाताम्.सूर्यम्.च.चन्द्रम्.च.स.देवतानाम्.ऋच्छतु.यो.नो.अतो.अभिदासति.इति.प्राचीम् ।
श्श्स्_6.3.2: अस्याम्.मे.दक्षिणस्याम्.दिशि.यमश्.च.मृत्युश्.च.अधिपती.यमश्.च.मृत्युश्.च.मा.एतस्यै.दिशः.पाताम्.यमम्.च.मृत्युम्.च.स.देवतानाम्.ऋच्छतु.यो.नो.अतो.अभिदासति.इति.दक्षिणाम् ।
श्श्स्_6.3.3: अस्याम्.मे.प्रतीच्याम्.दिशि.मित्रश्.च.वरुणश्.च.अधिपती.मित्रश्.च.वरुणश्.च.म.एतस्यै.दिशः.पाताम्.मित्रम्.च.व्रुणम्.च.स.देवतानाम्.ऋच्छतु.यो.नोज्.अतो.अभिदासति.इति.प्रतीचीम् ।
श्श्स्_6.3.4: अस्याम्.म.उदीच्याम्.दिशि.सोमश्.च.रुद्रश्.च.अधिपती.सोमश्.च.रुद्रश्.च.मा.एतस्यै.दिशः.पाताम्.सोमम्.च.रुद्रम्.च.स.देवतानाम्.ऋच्छतु.यो.नो.अतो.अभिदासति.इति.सव्य.आवृद्.उदीचीम् ।
श्श्स्_6.3.5: अस्याम्.म.ऊर्ध्वायाम्.दिशि.बृहस्पतिश्.च.इन्द्रश्.च.अधिपती.बृहस्पतिश्.च.इन्द्रश्.च.मा.एतस्यै.दिशः.पाताम्.बृहस्पतिम्.च.इन्द्रम्.च.स.देवतानाम्.ऋच्छतु.यो.नो.अतो.अभिदासति.इति.प्रान्.ऊर्ध्वाम् ।
श्श्स्_6.3.6: अस्मिन्.म.अङ्गरिक्षे.वायुश्.च.वृष्टिश्.च.अधिपती.वायुश्.च.वृष्टिश्.च.मा.एतस्यै.दिशः.पाताम्.वायुम्.च.वृष्टिम्.च.स.देवतानाम्.ऋच्छतु.यो.नो.अतो.अबिह्दासति.इत्य्.अन्तरिक्षम् ।
श्श्स्_6.3.7: अस्याम्.मे.पृथिव्याम्.अग्निश्.च.अन्नम्.च.अधिपती.अग्निश्.च.अन्नम्.च.मा.एतस्यै.दिशः.पाताम्.अग्निम्.च.अन्नम्.च.स.देवतानाम्.ऋच्छतु.यो.नो.अतो.अभिदासति.इति.पृथिवीम् ।
श्श्स्_6.3.8: बृहद्.रथन्तरे.म.ऊरू.वामदेव्यम्.आत्मा.यज्ञायज्ञीयम्.प्रतिष्ठा.भूर्.अहम्.भुवर्.अहम्.स्वर्.अहम्.अश्मा.अहम्.अश्माखणः.सुत्रामाणम्.इति.जपित्वा.दक्षिण.आवृद्.आग्नीध्रीये.भूर्.भुवः.स्वः.स्वाहा.अग्नये.स्वाहा.उषसे.स्वाहा.अश्विभ्याम्.स्वाहा.अश्विभ्याम्.स्वाहा.सरस्वत्यै.स्वाहा.जुषाणानि.महांसि.सवनान्य्.आज्यस्य.व्यन्तु.स्वाहा.इति.स्रुवेण.हुत्वा.सव्य.आवृद्द्.हविर्.धानयोः.पूर्वस्याम्.द्वार्य्.उपविशति ।
श्श्स्_6.3.9: देवेभ्यः.प्रातर्.यावभ्य.इत्य्.उक्तो.हिम्.कृत्य.मध्यमया.वाचा.प्रातर्.अनुवाकम्.अन्वाह ।
श्श्स्_6.3.10: त्रीणि.पदानि.समस्य.पङ्क्तीनाम्.अवस्येद्.द्वाभ्याम्.प्रणुयात् ।
श्श्स्_6.3.11: आपो.रेवतीम्.अनूच्य.आग्नेयम्.गायत्रम्.क्रतुम् ।
श्श्स्_6.4.1अ: उपरयन्तो.अध्वरम्.।.अग्निम्.ईळे.पुरोहितम्.।.अग्निम्.दूतम्.वृणीमहे.।.अश्वम्.न.त्वा.इति.दश.।.जुषस्व.सप्रथस्तमम्.।.अभि.त्वा.गोतमा.गिरा ।
श्श्स्_6.4.1ब्: अग्निर्.होता.पुरोहितः.।.दूतम्.वः.।.अग्ने.मृळ.।.अर्चन्तस्.त्वा.।.अग्निम्.स्तोमेन.।.उपसद्याय.।.इमे.विप्रस्य.।.समिधा.अग्निम् ।
श्श्स्_6.4.1च्: अग्निम्.हिन्वन्तु.।.प्र.अग्नये.वाचम्.।.त्वम्.अग्ने.यज्ञानाम्.इति.षड्विंशतिः ।
श्श्स्_6.4.2: अथ.आनुष्टुभम् ।
श्श्स्_6.4.3: ते.ते.अग्न.इत्य्.एका.।.होता.अजनिष्ट.।.त्वम्.हि.क्षैतवद्.इति.नव.।.अग्ने.कदा.त.आनुषग्.इति.पञ्च ।
श्श्स्_6.4.4: अथ.त्रैष्टुभम् ।

श्श्स्_6.4.5: ससस्य.यद्.इति.पञ्च.।.यो.मर्त्येष्व्.इति.त्रीणि.।.प्र.वो.देवम्.इति.पञ्च.सूक्तानि.।.अग्ने.बृहन्न्.इति.च.सप्त.।.अगन्म.महा ।
श्श्स्_6.4.6: अथ.बार्हतम् ।
श्श्स्_6.4.7: एना.वः.।.प्र.वो.यह्वम्.।.अग्ने.विवस्वद्.इति.द्वादश.।.सखायस्.त्वा.इत्य्.अष्टौ.।.अदर्शि.इति.चतस्रः.।.समिद्धश्.चिद्.इति.तिस्रः.।.अयम्.अग्निः.सुवीर्यस्य ।
श्श्स्_6.4.8: अथ.औष्णीहम् ।
श्श्स्_6.4.9: त्वाम्.अग्ने.मनीषिणः.।.ईळिष्व.आ.हि.।.पुरु.त्वा ।
श्श्स्_6.4.10: अथ.जागतम् ।
श्श्स्_6.4.11: वेदिषद.इत्.सप्त.।.एहि.प्र.होता.।.यज्ञेन.वर्धत.।.जनस्य.गोपाः ।
श्श्स्_6.4.12: अथ.पाङ्क्तम् ।
श्श्स्_6.4.13: अग्निम्.तम्.मन्ये ।
श्श्स्_6.5.1: अथ.उषस्यम्.गायत्रम् ।
श्श्स्_6.5.2: कस्.त.उष.इति.तिस्रः.।.प्रति.ष्या.सूनरी ।
श्श्स्_6.5.3: अथ.आनुष्टुभम् ।
श्श्स्_6.5.4: उषो.भद्रेभिः ।
श्श्स्_6.5.5: अथ.त्रैष्टुभम् ।
श्श्स्_6.5.6: उपो.रुरुच.इति.चत्वारि ।
श्श्स्_6.5.7: अथ.बार्हतम् ।
श्श्स्_6.5.8: प्रत्य्.उ.अदर्शि.।.सह.वामेन ।
श्श्स्_6.5.9: अथ.औष्णिहम् ।
श्श्स्_6.5.10: उषस्.तच्.चित्रम्.इति.तिस्रः ।
श्श्स्_6.5.11: अथ.जागतम् ।
श्श्स्_6.5.12: एता.उ.त्या.इति.चतस्रः ।
श्श्स्_6.5.13: अथ.पाङ्क्तम् ।
श्श्स्_6.5.14: महे.नः ।
श्श्स्_6.6.1: अथ.आश्विनम्.गायत्रम् ।
श्श्स्_6.6.2: अश्विना.यज्वरीर्.इष.इति.तिस्रः.।.प्राअतर्.युजा.इति.चतस्रः.।.आश्विनाव्.अश्वावत्या.इति.तिस्रः.।.एषो.उषाः.।.गो.मदूष्व्.इति.द्वे.।.दूराद्.इह.इव.इति.षट्त्रिंशत्.।.उद्.ईराथाम्.।.आ.मे.हवम् ।
श्श्स्_6.6.3: अथ.आनुष्टुभम् ।
श्श्स्_6.6.4: आ.नो.विश्वाभिर्.ऊतिभिः.।.यद्.अद्य.स्थः.परावती.इति.सूक्ते ।
श्श्स्_6.6.5: अथ.त्रैष्टुभम् ।
श्श्स्_6.6.6अ: आ.भाति.इति.सूक्ते.।.नासत्याभ्याम्.इति.त्रीणि.।.वसू.रुद्र.इति.तिस्रः.।.युवो.रजांसि.इति.सूक्ते ।
श्श्स्_6.6.6: ग्रावाणा.इव.।.धेनुः.प्रत्नस्य.।.क.उ.श्रवद्.इति.सूक्ते.।.स्तुषे.नर.इति.सूक्ते.परिहाप्य.पञ्चपदाम्.।.आ.वाम्.रथो.रोदसी.बद्बधान.इति.पञ्च.सूक्तानि ।
श्श्स्_6.6.7: अथ.बार्हतम् ।
श्श्स्_6.6.8: इमा.उ.वाम्.दिविष्टयः.।.अयम्.वाम्.मधुमत्तम.इति.प्रथमा.तृतीया.पञ्चमी.च ।
श्श्स्_6.6.9: अथ.औष्णिहम् ।
श्श्स्_6.6.10: युवोर्.उ.षू.रथम्.इति.पञ्च ।
श्श्स्_6.6.11: अथ.जागतम् ।
श्श्स्_6.6.12: त्रिश्चिन्.नो.अद्य.।.ईळे.द्यावीयम्.।.घोषाम्.च.सपुत्राम् ।
श्श्स्_6.6.13: अथ.पाङ्क्तम् ।
श्श्स्_6.6.14: प्रति.प्रियतमम्.इति ।
श्श्स्_6.6.17: उत्तमया.परिधाय.उत्सृज्य.वाचम्.।.छन्दो.अनन्तरेण.वा.प्रतिपत्.समारोहणीयानाम्.च.एतस्य.समाम्नायस्य.त्रीणि.षष्टि.शतानि ।
श्श्स्_6.6.18: ऊर्ध्वम्.वा.शताद्.यथा.कामी ।

श्श्स्_6.6.19: पाङ्क्तानि.न.अन्तरियात् ।
श्श्स्_6.6.20: पुरोदयाद्.उपांशुम्.होष्यन्ति.इति.स.कालः.परिधानस्य ।
श्श्स्_6.6.21: आन्तर्यामाद्.वाग्.यमनम् ।
श्श्स्_6.7.1: अप.इष्य.होतर्.इत्य्.उक्तः.प्र.देवत्र.इति.द्वादशीम्.परिहाप्य ।
श्श्स्_6.7.2: नव.अनूच्य.एकादशीम्.आहुताव्.अप्सु.हूयमानायाम् ।
श्श्स्_6.7.3: आवृत्.तासु.दशमीम् ।
श्श्स्_6.7.4: प्रति.यद्.आप.इति.दृश्यमानासु ।
श्श्स्_6.7.5: सम्.अन्या.इति.समायतीषु ।
श्श्स्_6.7.6: आपो.न.देवीर्.इति.होतृ.चमसे.अवनीयमानासु ।
श्श्स्_6.7.7: आ.धेनव.इत्य्.आयतीषु.सर्वाम्.उक्त्वा.प्रणवेन.अवस्यति ।
श्श्स्_6.7.8: अध्वर्यव.एषीर्.अपा.इत्य्.अध्वर्युम्.पृच्छति ।
श्श्स्_6.7.9: उत.इव.नम्नमुर्.इति.प्रत्याह ।
श्श्स्_6.7.10अ: प्रत्युक्तो.निगदम्.तास्व्.अध्वर्यव्.आधाव.इन्द्राय.सोमम्.ऊर्जस्वन्तम्.मह्दुमन्तम्.तृष्टिवनिम्.वसुमते.रुद्रवत.आदित्यवत.ऋभुमते.विभुमते.वाजवते.बृहस्पतिमते.विश्व.देव्यावते ।
श्श्स्_6.7.10ब्: यस्य.पीत्वा.मद.इन्द्रो.वृत्राणि.जङ्घनत्.।.प्र.स.जन्यानि.तारिषः.।.अम्बय.इत्य्.अध्यर्धाम्.अनूच्य.।.उओत्थाय.अध्वर्युम्.अन्वावृत्य.उत्तराम्.अध्यर्धाम्.अनूच्य.।.उपोत्तमाम्.च.सूक्तस्य.।.उत्तमया.परिधाय.।.पर्यावृत्य.उपविशति ।
श्श्स्_6.8.1: प्राणम्.मे.पाहि.प्राणम्.मे.जिन्व.स्वाहा.त्वा.सुभव.सूर्याय.इत्य्.उपांशुम्.हूयमानम्.अनुप्राणिति ।
श्श्स्_6.8.2: अपानम्.मे.पाह्य्.अपानम्.मे.जिन्व.स्वाहा.त्वा.सुभव.सूर्याय.इत्य्.अन्तर्यामम्.अन्ववानिति ।
श्श्स्_6.8.4: दक्षिणओत्.ब्रह्मा.मैत्रावरुणश्.च.उपविश्य ।
श्श्स्_6.8.5: ब्रह्मन्.स्तोष्यामः.प्रशास्तर्.इत्य्.उक्तौ ।
श्श्स्_6.8.6: आयुष्मत्य.ऋचो.मा.गात.तनूपाः.साम्न.स्तुत.देवस्य.सवितुः.प्रसव.इति.जपित्वा ।
श्श्स्_6.8.6: आयुष्मत्य.ऋचो.मा.गात.तनूपाः.साम्नः.स्तुत.देवस्य.सवितुः.प्रसव.इति.जपित्वा ।
श्श्स्_6.8.7: ओम्.स्तुत.इति ।
श्श्स्_6.8.8: प्रसवः.सर्वेषाम्.स्तोत्राणाम् ।
श्श्स्_6.8.9: असतो.मा.सद्.गमय.तमसो.मा.ज्योतिर्.गमय.अन्तान्.मा.अनन्तम्.गमय.मृत्योर्.मा.अमृतम्.गमय.इति.यजमानः.पवमानान्.उपसरिष्यन् ।
श्श्स्_6.8.10: श्येनो..असि.पत्वा.गायत्र.छन्दा.अनु.त्वा.आरभे.स्वस्ति.मा.सम्पारय.अस्य.यज्ञस्य.उट्टचम्.इति.स्तुते.बहिष्.पवमाने ।
श्श्स्_6.8.11: सुपर्णो.असि.पत्वा.त्रिष्टुप्.छन्दा.इति.माध्यंदिने ।
श्श्स्_6.8.12: सखा.असि.पत्वा.जगत्.छन्दा.इत्य्.आर्भवे ।
श्श्स्_6.8.13: समान.उदर्कः ।
श्श्स्_6.8.14: उपहूता.देवा.अस्य.सोमस्य.पवमानस्य.विचक्षणस्य.भक्ष.उप.माम्.देवा.ह्वयन्ताम्.अस्य.सोमस्य.पवमानस्य.विचक्षणस्य.भक्षे.मनसा.त्वा.भक्षयामि.वाचा.त्वा.भक्षयामि.प्राणेन.त्वा.भक्षयामि.चक्षुषा.त्वा.भक्षयामि.श्रोत्रेण.त्वा.भक्षयामि.इति.स्तुते.बहिष्.पवमाने.होता ।
श्श्स्_6.9.1: आग्नेयः.सवनीयः ।
श्श्स्_6.9.2: ऐन्द्राग्नो.वा ।
श्श्स्_6.9.3: ऐकादशिना.वा ।
श्श्स्_6.9.6: एक.यूपेष्व्.ऐकादशिनेष्व्.आवर्तते.परिव्ययणीया.रशना.पृथक्त्वात्.त्रिस्.त्रिः ।
श्श्स्_6.9.7: एकादशे.अन्तरेण.परिव्ययणीयाम्.प्रगाथम्.च.यान्.वो.नर.इति.च.सूक्त.शेषम्.अन्वाह ।
श्श्स्_6.9.8: उत्तमया.उपशयम्.अनुमन्त्रयते ।
श्श्स्_6.9.9: पूर्वे.द्युर्.उच्छ्रितेष्व्.अपरिवीयमाणेषु.पूर्वया.परिदध्यात् ।
श्श्स्_6.9.10: संतान.अर्थो.वा.अर्धर्चेन.एव.काङ्क्षेत् ।
श्श्स्_6.9.11: समान.जातीया.अनुसमियात् ।
श्श्स्_6.9.12: यथा.उत्तमे.तथा.ऊहेन ।
श्श्स्_6.9.13: पशु.देवताम्.आवाह्य.वनस्पतिम्.च.।.इन्द्र्म.वसुमन्तम्.आवह.इन्द्रम्.रुद्रवन्तम्.आवह.इन्द्रम्.आदित्यवन्तम्.ऋभुमन्तम्.विभुमन्तम्.वाजवन्तम्.बृहस्पतिमन्तम्.विश्व.देव्यावन्तम्.आवह.इति.सवन.देवताः ।
श्श्स्_6.9.14: न.अन्येषु.निगम.स्थानेषु.निगच्छन्ति ।

श्श्स्_6.9.15: सूक्त.वाके.वा ।
श्श्स्_6.9.16: अध्वर्यू.सम्मृश्य.प्रवर.आनुपूर्व्येण.प्रवृत.आहुती.जुहोति ।
श्श्स्_6.9.17: जुष्टो.वाचो.भूयासम्.जुष्टो.वाचस्पते.दवि.(.दैवि.).वाग्.यत्.ते.वाचो.मधुमत्तमम्.तस्मिन्.नो.अद्य.धात्.(.धाः.).स्वाहा.सरस्वत्या.इति.पूर्वाम् ।
श्श्स्_6.9.18: तूष्णीम्.उत्तराम् ।
श्श्स्_6.10.1: अग्ने.नय.इति.तिस्रो.भुवो.यज्ञस्य.प्र.वः.शुक्राय.प्र.कारव.इत्य्.आग्नेयस्य ।
श्श्स्_6.10.2: आ.नो.दिवो.बृहतः.पर्वताद्.आ.सरस्वतीम्.देवयन्तः.सरस्वत्य्.अभि.नः.पावी.रवी.कन्या.प्र.क्षोदषा.इमा.जुह्वाना.इति.सारस्वतस्य ।
श्श्स्_6.10.3: त्वम्.सोम.प्र.चिकितस्.त्वम्.इमा.ओषधीः.सोमो.धेनुम्.या.ते.धामानि.दिव्य.षाळ्हम्.युत्सु.या.ते.धामानि.हविर्.एषा.इति.सौम्यस्य ।
श्श्स्_6.10.4: पूषा.इमा.आशाः.प्रपथे.पथाम्.पथस्.पथः.शुक्रम्.ते.यास्.ते.पूषन्.पूषा.सुबन्धुर्.इति.पौष्णस्य ।
श्श्स्_6.10.5: आ.दैव्या.वेधसम्.बृहस्पतिः.समजयत्.स.हि.शुचिः.स.सुष्टुभा.स.ऋक्वता.स.आ.नो.योनिम्.इति.बार्हस्पत्यस्य ।
श्श्स्_6.10.6: विश्वे.अद्य.मरुतो.विश्व.ऊती.यम्.देवासो.अवथ.विश्वे.देवाः.गृणुत.ये.के.च.ज्मा.ते.हि.यज्ञेषु.यज्ञियास.ऊमाः.स्तीर्णे.बर्हिषि.इति.वैश्वदेवस्य ।
श्श्स्_6.10.7: इन्द्रम्.नर.इन्द्रो.राज.इन्द्र.क्षत्रम्.उरुम्.न.आ.नो.विश्वाभिर्.ऊतिभिः.सजोषा.आ.ते.शुष्मो.वृषभ.इत्य्.ऐन्द्रस्य ।
श्श्स्_6.10.8: गोमद्.अश्वावद्द्.हये.नरः.शुची.वो.अरा.इव.इद्.या.वः.शर्म.यूयम्.अस्मान्.इति.मारुतस्य ।
श्श्स्_6.10.9: उभा.वामा.वृत्रहणा.ता.योधिष्ठम्.शुचिम्.नु.गीर्भिर्.विप्रः.प्रचर्षणिभ्य.इत्य्.ऐन्द्राग्नस्य ।
श्श्स्_6.10.10: आ.नो.देवः.सविता.त्रायमाण.आ.देवो.यातु.सविता.यन्त्रैर्.वामम्.अद्य.ये.ते.पन्था.अस्मभ्यम्.तद्.दिव.इति.सावित्रस्य ।
श्श्स्_6.10.11: अस्तभ्नाद्.द्याम्.तत्.त्वा.याम्य्.अव.ते.हेळ.एव.आ.वन्दस्व.इमाम्.धियम्.शिक्षमाणस्य.उद्.उत्तमम्.वरुण.इति.वारुणस्य ।
श्श्स्_6.10.12: इत्य्.ऐकादशिनानाम् ।
श्श्स्_6.10.13: ये.च.एवम्.देवताः.पशवः ।
श्श्स्_6.11.1: इन्द्रा.नु.पूषण.इत्य्.ऐन्द्रा.पौष्णस्य ।
श्श्स्_6.11.2: सोमा.पूषणा.इति.सोमा.पौश्णस्य ।
श्श्स्_6.11.3: सम्.वाम्.कर्मणा.इत्य्.ऐन्द्रा.वैष्णवस्य ।
श्श्स्_6.11.4: नासत्याभ्याम्.इत्य्.आश्विनस्य ।
श्श्स्_6.11.5: विष्णोर्.नु.कम्.इति.वैष्णवस्य ।
श्श्स्_6.11.6: रात्री.इति.रात्र्याः ।
श्श्स्_6.11.7: भूरिम्.द्वे.इति.द्यावा.पृथिवीयस्य ।
श्श्स्_6.11.8: जनीयन्त.इति.तिस्रः.स.वावृधे.दिव्यम्.सुपर्णम्.।.यस्य.व्रतम्.पशवो.यन्ति.सर्वे.यस्य.व्रतम्.उपतिष्ठन्त.आपः.।.यस्य.व्रते.पुष्टि.पतिर्.निविष्टस्.तम्.सरस्वन्तम्.अवसे.हुवेम.।.इति.सारस्वतः ।
श्श्स्_6.11.9: य.इमा.विश्वा.भुवनानि.इति.वैश्व.कर्मणस्य.चतुर्थीम्.परिहाप्य ।
श्श्स्_6.11.10: आ.ते.पितर्.इति.रौद्रस्य ।
श्श्स्_6.11.11: अहम्.रुद्रेभिर्.इति.वाग्.देवत्यस्य ।
श्श्स्_6.11.12: तिस्रस्.तिस्रः.पूर्वाः.पुरोनुवाक्या.वपायाः.पुरोळाशस्य.पशोस्.तिस्रस्.तिस्र.उत्तरा.याज्याः ।
श्श्स्_6.11.13: न.एके.पशु.पुरोळाशम्.सवनीयस्य ।
श्श्स्_6.11.14: कर्म.तु.न्यायः ।
श्श्स्_6.11.15: सावित्र.वाग्.देवत्यै.च.उपांशु ।
श्श्स्_6.11.16: आवर्तते.पशु.गणे.मनोता ।
श्श्स्_6.11.17: परिव्ययणीय.आदि.वपा.अन्तम्.प्रातः.सवने.पशु.कर्म.कृत्वा.निष्क्रम्य.तथैव.उपस्पृश्य.चात्वले.(.चात्वाले.) ।
श्श्स्_6.12.1: धिष्ण्यान्.उपस्थाय.सदः.प्रसर्पन्ति ।
श्श्स्_6.12.2: अग्रेण.हविर्.धाने.तिष्ठन्तस्.तम्.तम्.ईक्षमाणाः ।
श्श्स्_6.12.3: संराऌ.असि.कृशानो.रौद्रेण.अनीकेन.पाहि.मा.अग्ने.पिपृहि.मा.नमस्.ते.अस्तु.मा.मा.हिंसीर्.इत्य्.आहवनीयम् ।
श्श्स्_6.12.4: रौद्र.आदिर्.उदर्कः ।
श्श्स्_6.12.5: अनुदर्को.वा ।
श्श्स्_6.12.6: अपिजो.असि.दुवस्वान्.इति.मथित्वा.अनुप्रहृतम् ।

श्श्स्_6.12.7: परिषद्यो.असि.पवमान.इत्य्.आस्तवम् ।
श्श्स्_6.12.8: प्रतक्वा.असि.नभस्वान्.इति.चात्वालम् ।
श्श्स्_6.12.9: कव्यो.असि.हव्य.सूदन.इति.शामित्रम् ।
श्श्स्_6.12.10: समुह्यो.असि.विश्व.भरा.इत्य्.उत्करम् ।
श्श्स्_6.12.11: दक्षिण.आवृतो.विभूर्.असि.प्रवाहण.इत्य्.आग्नीध्रम् ।
श्श्स्_6.12.12: प्रपत्स्यमानाः.सदश्.च.उपर्य्.अभिमृशन्ति.दिवस्.पृष्ठम्.असि.मा.मा.संताप्सीर्.इति ।
श्श्स्_6.12.13: ऋतस्य.द्वारौ.मा.मा.संताप्तम्.इति.द्वार्यौ.सम्मृश्य.।.उत्तरेण.आग्नीध्रीयम्.धिष्ण्यम्.गच्छन्ति.ये.प्रत्यञ्चो.धिष्ण्यान्.अतिक्रामन्ति ।
श्श्स्_6.12.14: मलिंलुचो.असि.सगर.इत्य्.आसादम्.अच्छावाकस्य ।
श्श्स्_6.12.15: बह्निर्.असि.हव्य.वाहन.इति.होतुर्.धिष्ण्यम् ।
श्श्स्_6.12.16: श्वात्रो.असि.प्रचेता.इति.मैत्रावरुणस्य ।
श्श्स्_6.12.17: तुथो.असि.विश्व.वेदा.इति.ब्राह्मण.आच्छंसिनः ।
श्श्स्_6.12.18: उशिग्.असि.कविर्.असि.इति.पोतुः ।
श्श्स्_6.12.19: अवस्युर्.असि.दुवस्वान्.इति.नेष्टुः ।
श्श्स्_6.12.20: अंहारिर्.असि.बम्भारिर्.इत्य्.अच्छावाकस्य ।
श्श्स्_6.12.21: शुन्ध्युर्.असि.(.शुंध्युर्.).मार्जालीय.इत्य्.अवेक्ष्य.मार्जालीयम् ।
श्श्स्_6.12.22: शुंध्युर्.अस्य्.उपसद्य.इति.ब्रह्म.सदनम् ।
श्श्स्_6.12.23: ऋत.धामा.असि.स्वर्.ज्योतिर्.इत्य्.औदुम्बरीयम् ।
श्श्स्_6.12.24: समुद्रो.असि.विश्व.व्यचा.इति.सदो.अनुवीक्ष्य ।
श्श्स्_6.12.25: अजो.अस्य्.एक.पाद्.इति.शाला.मुखीयम् ।
श्श्स्_6.12.26: अहिर्.असि.बुध्न्य.इति.प्राजहितम् ।
श्श्स्_6.12.27: अन्नाअ.अस्य्.अन्न.पतिर्.इति.व्रत.श्रपणम् ।
श्श्स्_6.13.1: अग्नयः.सगराः.सगराः.स्थ.सगरेण.नाम्ना.रौद्रेण.अनीकेन.पात.मा.अग्नयः.पिपृत.मा.नमो.वो.अस्तु.मा.मा.हिंसिष्ट.इति.सर्वान् ।
श्श्स्_6.13.2: अध्वनो.अधिपतिर्.असि.स्वस्ति.नो.अद्य.अस्मान्.देव.याने.पथि.स्ताद्.इत्य्.आदित्यम्.उपस्थाय.मैत्रावरुण.प्रभृतय.उदञ्चो.अच्छावाकम्.परिहाप्य.पूर्वया.द्वारा.सदः.प्रसर्पन्ति ।
श्श्स्_6.13.3: विश्वे.देवा.अनु.मा.प्रसर्पत.इन्द्र.त्रिधातु.शरणम्.यत.इन्द्र.भयामहे.सदसस्पतिम्.अद्भुतम्.इति.जपन्तो.अग्रेण.उत्तरेण.सर्वान्.धिष्ण्यान्.गच्छन्ति ।
श्श्स्_6.13.4: दक्षिण.धिष्ण्यो.दक्षिण.धिष्ण्यः.पूर्वो.गत्वा.स्वस्य.स्वस्य.धिष्ण्यस्य.पश्चाद्.उपविशति ।
श्श्स्_6.13.5: उत्तरेण.सदो.गत्वा.ब्रह्मा.अपरया.द्वारा.सदस्.प्रपद्य.दक्षिणेन.मैत्रावरुणम्.गत्वा.यथा.आसनम्.आस्ते ।
श्श्स्_6.13.6: न.असंस्थिते.सवने.(.असंस्थिने.).अपरया.द्वारा.निह्सर्पन्ति ।
श्श्स्_6.13.7: अन्तरेण.होतुर्.मैत्रावरुणस्य.च.धिष्ण्याव्.अधिष्ण्यानाम्.(?).विसंस्थित.संचरः ।
श्श्स्_6.13.8: उत्तरेण.स्वम्.स्वम्.धिष्ण्यम्.धिष्ण्यवताम् ।
श्श्स्_6.13.9: पश्च.अर्धेन.आग्नीध्रीयस्य.उदञ्चः ।
श्श्स्_6.13.10: मार्जालीयस्य.वा.दक्षिणा ।
श्श्स्_6.13.11: अव्यावर्तमानाश्.च.प्रत्यायन्ति ।
श्श्स्_6.13.13: आदित्य.उपस्थानम्.रात्रि.पर्यायेष्व्.आश्विने.च.न.विद्यते.न.विद्यते ।
श्श्स्_7.1.1: प्रसृप्य.पुरोळाशैः.सवनीयैश्.चरन्ति ।
श्श्स्_7.1.2: धानावन्तम्.इत्.पुरोनुवाक्या ।
श्श्स्_7.1.3: होता.यक्षद्.इन्द्र्म.हरिवान्.इत्य्.अनुसवनम्.प्रैषो.यथा.समाम्नातम् ।
श्श्स्_7.1.4: यथा.सवनम्.वितारयति ।
श्श्स्_7.1.5: तेन.एव.यजत्य्.उद्धृत्य.होता.अयक्षम्.होतर्.यजम्.च ।
श्श्स्_7.1.6: अग्ने.जुषस्व.नो.हविर्.इति.स्विष्टकृतः.पुरोनुवाक्या ।
श्श्स्_7.1.7: होता.यक्षद्.अग्नि.पुरोळाशानाम्.इत्य्.अनुसवनम्.प्रैषैः ।

श्श्स्_7.1.8: हविर्.अग्ने.वीहि.इति.च.याज्या ।
श्श्स्_7.2.1: ऐन्द्रवायव.मैत्रावरुणाव्.आश्विनश्.च.द्वि.देवत्याः ।
श्श्स्_7.2.2: वायव्.आ.याहि.दर्शत.इन्द्र.वायू.इम.इत्य्.ऐन्द्र.वायवस्य.पुरोनुवाक्ये ।
श्श्स्_7.2.3: होता.यक्षद्.वायुम्.होता.यक्षद्.इन्द्र.वायू.इति.प्रैषौ ।
श्श्स्_7.2.4: अग्रम्.पिब.शतेना.न.इति.याज्ये ।
श्श्स्_7.2.5: अयम्.वाम्.मित्रावरुणा.इति.मैत्रावरुणस्य.पुरोनुवाक्या ।
श्श्स्_7.2.6: होता.यक्षन्.मित्रा.वरुणा.इति.प्रैषः ।
श्श्स्_7.2.7: गृणाना.जमदग्निना.इति.याज्या ।
श्श्स्_7.2.8: प्रातर्.युज.इत्य्.आश्विनस्य.पुरोनुवाक्या ।
श्श्स्_7.2.9: होता.यक्षद्.अश्विना.इति.प्रैषः ।
श्श्स्_7.2.10: वावृधाना.इति.याज्या ।
श्श्स्_7.2.11: अनवानम्.द्विदेवत्यानाम्.पुरोनुवाक्याः.प्रैषांश्.च.आह ।
श्श्स्_7.2.12: तथा.यजति ।
श्श्स्_7.2.13: ऐन्द्र.वायवस्य.नाना.प्रणवे.पुरोनुवाक्ये ।
श्श्स्_7.2.14: याज्ये.नाना.वषट्.कारे ।
श्श्स्_7.2.15: सकृत्.पुरस्ताज्.जपो.ये.यजामहो.अनुमन्त्रणश्.च ।
श्श्स्_7.3.1: एतु.वसुः.पुरूवसुर्.इत्य्.ऐन्द्रवायवम्.प्रतिगृह्य.उरौ.दक्षिणे.निधाय.अनपिधानम्.अनवेक्षणम्.च.द्विदेवत्यानाम्.आ.शेषस्य.अवनयनात् ।
श्श्स्_7.3.2: एतु.वसुर्.विदद्.वसुर्.इति.मैत्रावरुणम्.प्रतिगृह्य.दक्षिणेन.ऐन्द्रवायवम्.हृत्वा.दक्षिणतः.पश्चान्.निदधाति ।
श्श्स्_7.3.3: ऐतु.वसुः.सम्यद्.वसुर्.इत्य्.आश्विनम्.प्रतिगृह्य.दक्षिणेन.पूर्वौ.हृत्वा.उत्तरतः.पश्चान्.निदधाति ।
श्श्स्_7.3.4: सोमस्य.अग्ने.वीहि.इत्य्.अनुवषट्.कारः.सर्वासु.सोम.याज्यासु.द्विदेवत्य.ऋतु.याजान्.पर्हाप्य.आदित्य.ग्रह.सावित्र.ग्रहौ.पात्नीवतम्.च ।
श्श्स्_7.3.5: उपांशु.वा.पात्नीवतस्य ।
श्श्स्_7.4.1: उन्नीयमानेभ्य.इत्य्.उक्त.आ.त्वा.वहन्तु.हरय.इत्य्.उन्नीयमान.सूक्तम् ।
श्श्स्_7.4.2: होता.यक्षद्.इन्द्रम्.प्रातः.प्रातः.सावस्य.इति.प्रैषः ।
श्श्स्_7.4.3: इदम्.ते.सोम्यम्.मध्व्.इति.यजति ।
श्श्स्_7.4.4: नृ.चक्षसम्.त्वा.नृ.चक्षाः.प्रतीक्ष.इति.होतृ.चमसम्.प्रतीक्ष्य.वयोधसम्.त्वा.वयोधाः.प्रतिगृह्णामि.इति.प्रतिगृह्य.उरः.संस्पर्शयति.द्विदेवत्यांश्.च ।
श्श्स्_7.4.5: पुनर्.उन्नीतानाम्.होत्रका.यजन्ति ।
श्श्स्_7.4.6: मित्रम्.वयम्.इति.मैत्रावरुणः ।
श्श्स्_7.4.7: इन्द्र.त्वा.वृषभम्.इति.ब्राह्मण.आच्छंसी ।
श्श्स्_7.4.8: मरुतो.यस्य.इति.पोता ।
श्श्स्_7.4.9: अग्ने.पत्नीर्.इति.नेष्टा ।
श्श्स्_7.4.10: उक्ष.अन्नाय.इत्य्.आग्नीध्रः ।
श्श्स्_7.4.11: अयाऌ.अग्नीद्.इत्य्.उक्ते.अयाऌ.इत्य्.आग्नीध्रः ।
श्श्स्_7.4.12: स.भद्रम्.अकर्.यो.नः.सोमम्.पाययिष्यति.इति.होता ।
श्श्स्_7.4.13: सोमम्.भक्षयिष्यन्तो.याज्ञिकैर्.नाम.धेयैर्.असा.उपह्वयस्व.इति.कर्तारो.अन्यो.अन्यस्मिन्न्.उपहवम्.इच्छन्ते ।
श्श्स्_7.4.14: वषट्.कर्ता.प्रथमो.भक्षयति ।
श्श्स्_7.4.15: प्रतिभक्षितम्.द्विदेवत्य.शेषम्.नाराशंसवताम्.च.ग्रहाणाम्.होतृ.चमसे.अवनयति.हुते.त्वा.भक्षितम्.अवनयाम्य्.ऊर्जस्वन्तम्.देवेभ्य.आयुष्मन्तम्.मह्यम्.इति ।
श्श्स्_7.4.16: द्विर्.ऐन्द्र.वायव.शेषस्य.अवनयनम्.तत्र.अभ्यावर्तते.मन्त्रः ।
श्श्स्_7.4.17: अनवसर्जनम्.च.द्विदेवत्यानाम्.आ.शेषस्य.अवनयनात् ।
श्श्स्_7.5.1: इह.वसुः.पुरूवसुर्.इत्य्.ऐन्द्र.वायवम्.अध्वर्यवे.प्रगृह्य.उपहूतौ.वायुर्.इन्द्र.वायू.सह.प्राणेन.सह.वर्चसा.तयोर्.अहम्.उपहूतः.सह.प्राणेन.सह.वर्चसा.इति.भक्षयित्वा.प्रग्रहण.मन्त्रेण.पुनः.प्रगृह्य.भक्ष.मन्त्रेण.पुनर्.भक्षयति ।
श्श्स्_7.5.2: इह.वसुर्.विदद्.वसुर्.इति.मैत्रावरुणम्.प्रगृह्य ।

मूल पाठ: Śāṅkhāyanaśrautasūtra · Edition: Alfred Hillebrandt Calcutta 1885-1899 (Bibliotheca Indica, 99) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc