भाषा

ENहिગુ
ग्रंथ पाठ

शाङ्खायनश्रौतसूत्र · भाग 120

श्श्स्_1.1.1: यज्ञम्.व्याख्यास्यामः ।
श्श्स्_1.1.2: स.त्रयाणाम्.वर्णानाम् ।
श्श्स्_1.1.3: ब्राह्मण.क्षत्रिययोर्.वैश्यस्य.च ।
श्श्स्_1.1.4: असम्युज्य.विधीयमानम्.साधारणम् ।
श्श्स्_1.1.5: सम्योगाद्.व्यवतिष्ठते ।
श्श्स्_1.1.6: यज्ञ.उपवीती.देव.कर्माणि.करोति ।
श्श्स्_1.1.7: प्राचीन.अपवीती.पित्र्याणि ।
श्श्स्_1.1.8: आचमन.प्रभृति.येन.अधिकरणेन.सम्युज्येत.न.तेन.व्यावर्तेत ।
श्श्स्_1.1.9: न.च.व्यवेयात् ।
श्श्स्_1.1.10: इत्य्.आवृताम्.लक्षणा ।
श्श्स्_1.1.11: उद्देशः ।
श्श्स्_1.1.12: उत्तरत.उपाचारः ।
श्श्स्_1.1.13: प्रान्.न्यायानि.देव.कर्माणि ।
श्श्स्_1.1.14: दक्षिणा.न्यायानि.पित्र्याणि ।
श्श्स्_1.1.15: आसीन.न्यायम्.बाह्वृच्यम् ।
श्श्स्_1.1.16: वचनात्.स्थानम् ।
श्श्स्_1.1.17: होता.च.कुर्याद्.अनादिष्टम् ।
श्श्स्_1.1.18: त्रिप्रभृतिष्व्.ऋग्.गनेषु.प्रथम.उत्तमयोस्.त्रिर्.वचनम्.अन्यत्र.जपेभ्यः ।
श्श्स्_1.1.19: उत्तमस्य.च.छन्दोमानस्य.ऊर्ध्वम्.आदि.व्यञ्जनात्.स्थाने.ओम्.कारः.प्लुतस्.त्रि.मात्रः.शुद्धः ।
श्श्स्_1.1.20: म.कार.अन्तो.वा ।
श्श्स्_1.1.21: तम्.प्रणव.इत्य्.आचक्षते ।
श्श्स्_1.1.22: अवसाने.म.कार.अन्तम्.सर्वेष्व्.ऋग्.गणेषु.सपुरोनुवाक्येषु ।
श्श्स्_1.1.23: तेन.अर्धर्चम्.उत्तरस्याः.संधाय.अवस्यति.पादम्.वा.तत्.संततम्.इत्य्.आचक्षते ।
श्श्स्_1.1.24: स.सर्वेषाम्.ऋग्.गणानाम्.धर्मो.ये.कर्म.सम्योगेन.चोद्यन्ते ।
श्श्स्_1.1.25: विदूरेष्व्.अपि.कर्मस्व्.अन्तरेण.प्रथमाम्.परिधानीयाम्.च.संतान.अर्थो.अर्धर्चेन.काङ्क्षति ।
श्श्स्_1.1.26: अर्धर्च.न्यायाश्.च.ऋचः ।
श्श्स्_1.1.27: वचनाद्.अन्यत् ।
श्श्स्_1.1.28: उच्चैर्.न्यायश्.च.ऋग्वेदः ।
श्श्स्_1.1.29: वचनाद्.उपांशुता ।
श्श्स्_1.1.30: संस्वार.न्यायता.च.शब्दानाम् ।
श्श्स्_1.1.31: ऐकस्वर्यम्.च ।
श्श्स्_1.1.32: उच्चैस्तराम्.प्रणवः.पुरोनुवाख्यायाः ।
श्श्स्_1.1.33: प्रणवाद्.याज्या.उच्चैस्तराम् ।
श्श्स्_1.1.34: उच्चैस्तराम्.वषट्.कारः ।
श्श्स्_1.1.35: समो.वा ।
श्श्स्_1.1.36: प्रणवो.ये.यजामहो.वषट्.कारः.सम्प्रैषाः.प्रैषाश्.च.उच्चैर्.उपांशु.हविह्ष्व् ।
श्श्स्_1.1.37: देवता.नाम.धेयम्.च.उपांशु.निगम.स्थानेषु ।
श्श्स्_1.1.38: भूर्.भुव.इति.पुरस्ताज्.जपः ।
श्श्स्_1.1.39: ये.यजामहे.वौषल्.ओजः.सहः.सह.ओजः.स्वर्.इत्य्.उपरिष्टाद्.इति.चतुष्टयम्.सर्वासु.याज्यासु ।
श्श्स्_1.1.40: अनुयाजेषु.तु.ये.यजामहो.न.अस्ति ।

श्श्स्_1.1.41: अनुवषट्.कारे.च ।
श्श्स्_1.1.42: प्लुतेन.याज्य.अन्तेन.वषट्.कारस्य.संधानम् ।
श्श्स्_1.1.43: अप्लुतेन.वा ।
श्श्स्_1.1.44: तद्.उपांशु.याजे.न.अस्ति ।
श्श्स्_1.2.1: प्लावयेद्.आ.कारम्.आवाहनम् ।
श्श्स्_1.2.2: ये.यजामहः.प्लुत.आदिः.पुरस्ताद्.याज्यानाम् ।
श्श्स्_1.2.3: चतुर्.मात्रा.याज्ञिकी.प्लुतिः ।
श्श्स्_1.2.4: संध्य्.अक्षराणाम्.तालु.स्थाने.आ.3.इ.कारी.भवतः ।
श्श्स्_1.2.5: ओष्ठ्य.स्थाने.आ.3.उ.कारी.भवतः ।
श्श्स्_1.2.6: अन्यानि.प्रकृत्या.अक्षराणि ।
श्श्स्_1.2.7: ए.कार.ओ.कारौ.च.प्रगृह्यौ ।
श्श्स्_1.2.8: याज्य.अन्ते ।
श्श्स्_1.2.9: विसर्जनीयो.रिफितो.रेफम्.आपद्यते ।
श्श्स्_1.2.10: लुप्यते.अरिफितः ।
श्श्स्_1.2.11: अनुस्वारम्.म.कारः ।
श्श्स्_1.2.12: अन्यानि.प्रकृत्या.व्यञ्जनानि ।
श्श्स्_1.2.13: औ.कारो.वषट्.कारे.चतुर्.मात्रः ।
श्श्स्_1.2.14: ष.काराच्.च.उत्तरो.अ.कारः ।
श्श्स्_1.2.15: प्रकृत्या.वा.उभौ ।
श्श्स्_1.2.16: पूर्वो.वा.प्रकृत्या ।
श्श्स्_1.2.17: प्रकृत्या.अ.कार.इति.जातूकर्ण्यः ।
श्श्स्_1.2.18: बार्हत.राथन्तरम्.वषट्.कुर्यात्.पुरस्ताद्.दीर्घम्.उपरिष्टाद्द्.ह्रस्वम् ।
श्श्स्_1.2.19: उपरिष्टाच्.च.ये.यजामहाद्.देवता.आदेशनम्.सपुरोनुवाख्ये ।
श्श्स्_1.2.20: सप्रैषे.तु.न.विद्यते ।
श्श्स्_1.2.21: जुहोति.इत्य्.उक्ते.सर्पिः.प्रीयेत ।
श्श्स्_1.2.22: स्वाहा.कारो.अन्ते.होम.मन्त्राणाम् ।
श्श्स्_1.2.23: समिद्.आधान.मन्त्राणाम्.च ।
श्श्स्_1.2.24: मन्त्र.पृथक्त्वात्.कर्म.पृथक्त्वम् ।
श्श्स्_1.2.25: इति.करणश्.च.मन्त्र.अन्ते ।
श्श्स्_1.2.26: मन्त्र.अन्तेन.करणेषु.कर्मणः.सम्निपातनम् ।
श्श्स्_1.2.27: सम्प्रेषितो.अन्वाह ।
श्श्स्_1.2.28: तथा.यजति ।
श्श्स्_1.2.29: इत्य्.एतत्.सार्वयज्ञिकम् ।
श्श्स्_1.3.1: उपोष्य.पौर्णमासेन.हविषा.यजते ।
श्श्स्_1.3.2: तथा.अमावास्येन ।
श्श्स्_1.3.3: द्वे.पौर्णमासौ ।
श्श्स्_1.3.4: अमावास्ये.च ।
श्श्स्_1.3.5: याम्.पर्यस्तमयम्.पूर्ण.उदियाद्.याम्.च.अस्तमिते.ते.पौर्णमास्यौ ।
श्श्स्_1.3.6: श्वो.न.द्रष्टा.इति.यद्.अहश्.च.न.दृश्येत.ते.अमावास्ये ।
श्श्स्_1.3.7: तत्र.इज्यायाम्.याथाकामी ।

श्श्स्_1.3.8: इति.पौर्णमास्याम्.इत्य्.अमावास्यायाम्.इत्य्.उपदेशाद्.व्यवतिष्ठन्ते ।
श्श्स्_1.3.9: तत्.सम्युक्ताश्.चः.शब्दाः ।
श्श्स्_1.3.10: समानम्.अन्यत् ।
श्श्स्_1.3.11: उभयत्र.आग्नेयः.पुरोळाशः ।
श्श्स्_1.3.12: अग्नीषोमीय.उपांशु.यजः ।
श्श्स्_1.3.13: वैष्णवो.वा ।
श्श्स्_1.3.15: ऐन्द्राग्नो.असम्नयतो.द्वितीयो.अमावास्यायाम् ।
श्श्स्_1.3.16: ऐन्द्रम्.साम्नाय्यम्.सम्नयतः ।
श्श्स्_1.3.17: माहेन्द्रम्.वा ।
श्श्स्_1.3.18: वैष्णवम्.त्व्.असम्नयन्न्.उपांशु.याजम् ।
श्श्स्_1.4.1: आमन्त्रितो.होता.अन्तरेण.उत्करम्.प्रणीताश्.च.प्रतिपद्य.दक्षिणेन.प्रपदेन.बर्हिर्.आक्रमणम् ।
श्श्स्_1.4.2: वेद्य्.अन्त.सम्मिता.पश्चात्.पार्ष्णिः ।
श्श्स्_1.4.3: विक्रम्य.च.स्थानम् ।
श्श्स्_1.4.4: अग्नये.समिध्यमानाय.इति.सम्प्रेषितः ।
श्श्स्_1.4.5: कम्.प्रपद्ये.तम्.प्रपद्ये.यत्.ते.प्रजापते.शरणम्.छन्दस्.तत्.प्रपद्ये.यावत्.ते.विष्णो.वेद.तावत्.ते.करिष्यामि.देवेन.सविता.प्रसूत.आर्त्विज्यम्.करिष्यामि.नमो.अग्नये.उपद्रष्टे.नमो.वायव.उपश्रोत्रे.नम.आदित्याय.अनुक्यात्रे.जुष्टाम्.अद्य.देवेभ्यो.वाचम्.वदिष्यामि.शुश्रूषेण्याम्.मनुष्येभ्यः.स्वधावतीम्.पितृभ्यः.प्रतिष्ठाम्.विश्वस्मै.भूताय.प्रशास्त.आत्मना.प्रजया.पशुभिः.प्रजापतिम्.प्रपद्ये.अभयम्.नो.अस्तु.प्राजापत्यम्.अनुवक्ष्यामि.वाग्.आर्त्विज्यम्.करिष्यति.वाचम्.प्रपद्ये.भूर्.भुवः.स्वर्.इति.जपित्वा ।
श्श्स्_1.4.6: त्रिर्.हिम्.कृत्य ।
श्श्स्_1.4.7: <.प्र.वो.वाजा>इत्य्.उपसंधाय.मध्यमया.वाचा ।
श्श्स्_1.4.8: <.अग्न.आ.याहि.वीतय>.<.ईळेन्य>.इति.तृचौ ।
श्श्स्_1.4.9: <.अग्निम्.दूतम्.वृणीमह>.इत्य्.एका ।
श्श्स्_1.4.10: <.समिध्यमानो.अध्वर>.इत्य्.एका ।
श्श्स्_1.4.11: तिस्रः.साप्तदश्ये ।
श्श्स्_1.4.12: तद्.अन्यत्र.सायनाभ्याम्.दर्श.पूर्ण.मासाभ्याम् ।
श्श्स्_1.4.13: <.समिद्धो.अग्न.आहुत>.इति.द्वे ।
श्श्स्_1.4.14: अग्ने.महान्.असि.ब्राह्मण.भारत.इति.प्रणवेन.संधाय ।
श्श्स्_1.4.15: अमुतो.अर्वाञ्चि.यजमानस्य.त्रीण्य्.आर्षेयाण्य्.अभिव्याहृत्य ।
श्श्स्_1.4.16: षट्.तु.द्वि.गोत्रस्य ।
श्श्स्_1.4.17: पुरोहित.प्रवरेण.अब्राह्मणस्य ।
श्श्स्_1.4.18: मानव.इत्.वा.सर्वेषाम् ।
श्श्स्_1.4.19: देव.इद्धो.मन्व्.इद्ध.ऋषि.ष्टुतो.विप्र.अनुमदितः.कवि.शस्तो.ब्रह्म.संशितो.घृत.आहवन.इत्य्.अवसाय ।
श्श्स्_1.4.20: प्रणीर्.यज्ञानाम्.रथीर्.अध्वराणाम्.अतूर्तो.होता.तूर्णिर्.हव्य.वाऌ.इत्य्.अवसाय ।
श्श्स्_1.4.21: आस्पात्रम्.जुहूर्.देवानाम्.चमसो.देव.पानो.अराम्.इव.अग्ने.नेमिर्.देवांस्.त्वम्.परिभूर्.असि.इत्य्.अवसाय ।
श्श्स्_1.4.22: व्यवस्यन्न्.आवाहयति.देवताः ।
श्श्स्_1.5.1: आवह.देवान्.यजमानाय ।
श्श्स्_1.5.2: अग्निम्.अग्न.आवह.सोमम्.आवह.इत्य्.आज्य.भागौ ।
श्श्स्_1.5.3: अग्निम्.आवह.अग्नीषोमाव्.आवह.विष्णुम्.वा.अग्नीषोमाव्.आवह.इन्द्र.अग्नी.आवह.इन्द्रम्.आवह.महेन्द्रम्.वा ।
श्श्स्_1.5.4: देवान्.आज्यपान्.आवह ।
श्श्स्_1.5.5: अग्निम्.होत्राय.आवह ।
श्श्स्_1.5.6: स्वम्.महिमानम्.आवह ।
श्श्स्_1.5.7: आ.च.वह.जात.वेदः.सुयजा.च.यज.इत्य्.आवाह्य ।
श्श्स्_1.5.8: उपविश्य.ऊर्ध्व.जानुर्.दक्षिणेन.प्रादेशेन.भूमिम्.अन्वारभ्य.जपति ।

श्श्स्_1.5.9: अस्यै.प्रतिष्ठायै.मा.छित्सि.पृथिवि.मातर्.मा.मा.हिंसीर्.मा.मोदोषीर्.(?).मधु.मनिष्ये.मधु.वनिष्ये.मधु.जनिष्ये.मधुमतीम्.अद्य.देवेभ्यो.वाचम्.वदिष्यामि.चारुम्.मनुष्येभ्य.इदम्.अहम्.पञ्च.दशेन.वज्रेण.पाप्मानम्.भ्रातृव्यम्.अवबाध.इति.।.सप्त.दशेन.वा ।
श्श्स्_1.6.1: मानुष.इत्य्.उक्तः ।
श्श्स्_1.6.2: देव.सवितर्.एतम्.त्वा.वृणते.सह.पित्रा.वैश्वानरेण.इन्द्र.पूषन्.बृहस्पते.प्र.च.वद.प्र.च.यज.वसूनाम्.रातौ.स्याम.रुद्राणाम्.ओम्याभ्याम्.(?).स्वादित्या.आदित्या.अनेहसो.यद्.अस्य.होतृ.वूर्ये.(?).जिह्मम्.चक्षुः.परापतात्.।.अग्निष्.टत्.पुनर्.आभराज्.जात.वेदा.विचर्षणिर्.इति.।.प्रवृतो.जपित्वा ।
श्श्स्_1.6.3: उपोत्थाय.अध्वर्योर्.दक्षिणेन.प्रादेशेन.दक्षिणम्.अंसम्.अन्वारभ्य.जपति.सव्येन.अग्नीधो.दक्षिणम्.।.इन्द्रम्.अन्वारभामहे.होतृ.वूर्ये.पुरोहितम्.।.येन.अयन्न्.उत्तमम्.स्वर्.देवा.अङ्गिरसो.दिवम्.।.यष्टिश्.च.अध्वर्यू.नवतिश्.च.पाशा.अन्तरा.द्यावा.पृथिवी.विचृत्ताः.।.सिनन्ति.पाकम्.अधि.धीर.एमि.स्योने.मे.द्यावा.पृथिवी.उभे.इमे.।.इति ।
श्श्स्_1.6.4: षण्.मा.ऊर्वीर्.अंहसः.पान्तु.द्यौश्.च.पृथिवी.च.अहश्.च.रात्रिश्.च.आपश्.च.ओषधयश्.च.इत्य्.अवसृज्य ।
श्श्स्_1.6.5: ऐन्द्रीम्.आवृतम्.आवर्त.आदित्यस्य.आवृतम्.अन्वावर्त.इति.दक्षिणम्.बाहुम्.अन्वावृत्य ।
श्श्स्_1.6.6: निरस्तः.परावसुर्.ये.अस्मान्.द्वेष्टि.यम्.च.वयम्.द्विष्मस्.तेन.सह.इति.होतृ.षदनात्.शुष्कम्.तृणम्.उभयतः.प्रतिच्छिद्य.दक्षिणा.परम्.अवान्तर.देशम्.निरस्य ।
श्श्स्_1.6.7: अप.उपस्पृश्य ।
श्श्स्_1.6.8: अशुष्कम्.उदग्.अग्रम्.निधाय ।
श्श्स्_1.6.9: इदम्.अहम्.अर्वावसोः.सदसि.सीदामि.इत्य्.उपविश्य ।
श्श्स्_1.6.10: दक्षिण.उत्तरम्.उपस्थम्.कृत्वा.प्राञ्चो.पाणी.प्रगृह्य.जपति ।
श्श्स्_1.6.11: नमो.द्यावा.पृथिवीभ्याम्.होतृभ्याम्.पूर्वसूभ्याम्.विश्व.कर्मणौ.तनूपौ.मे.स्थस्.तन्वम्.मे.पातम्.मा.मा.हिंसिष्टम्.मा.मा.संताप्तम्.इत्य्.आहवनीयम्.प्रेक्ष्य.गार्हपत्यम्.च ।
श्श्स्_1.6.12: उदक्.संसर्पन्न्.आह.एष.वाम्.आकाश.इति ।
श्श्स्_1.6.13: विश्वे.देवाः.शास्तन.तद्.अद्य.वाचो.नमो.महद्भ्य.इति.जपित्वा ।
श्श्स्_1.6.14: अग्निर्.होता.वेत्तु.अग्निर्.होत्रम्.वेत्तु.प्रावित्रम्.साधु.ते.यजमान.देवता.इत्य्.अवसाय ।
श्श्स्_1.6.15: यो.अग्निम्.होतारम्.अवृथा.इत्य्.उपांशु ।
श्श्स्_1.6.16: घृतवतीम्.अध्वर्यो.स्रुचम्.आस्यस्व.देवयुवम्.विश्व.वाराम्.ईळामहै.देवान्.ईळे.अन्यान्.नमस्याम.नमस्यान्.यजाम.यज्ञियान्.इति.स्रुवाव्.आदाप्य.पञ्च.प्रयाजान्.यजति ।
श्श्स्_1.7.1: समिधः.समिधो.अग्न.आज्यस्य.व्यन्त्व्.इति.प्रथमः ।
श्श्स्_1.7.2: आज्यस्य.वेत्व्.इति.द्वितीयः ।
श्श्स्_1.7.3: नराशंसो.अग्न.आज्यस्य.वेत्व्.इति.द्वितीयो.वसिष्ठ.शुनकानाम्.अत्रि.वध्र्य्.अश्वानाम्.कण्व.संकृतीनाम्.राजन्यानाम्.प्रजा.कामानाम्.च ।
श्श्स्_1.7.4: इळो.अग्न.आज्यस्य.व्यन्त्व्.इति.तृतीयः ।
श्श्स्_1.7.5: बर्हिर्.अग्न.आज्यस्य.वेत्व्.इति.चतुर्थः ।
श्श्स्_1.7.6: स्वाहा.अग्निम्.स्वाहा.सोमम्.स्वाहा.अग्निम्.स्वाहा.अग्नीषोमौ.विष्णुम्.वा.स्वाहा.अग्नीषोमौ.स्वाहा.इन्द्राग्नी.स्वाहा.इन्द्रम्.महेन्द्रम्.वा.स्वाहा.देवा.आज्यपा.जुषाणा.अग्न.आज्यस्य.हविषो.व्यन्त्व्.इति.प्रयाज.याज्याः ।
श्श्स्_1.8.1: अग्निर्.वृत्राणि.त्वम्.सोम.असि.सत्पतिर्.इत्य्.आज्य.भागौ.वार्त्रघ्नौ.पौर्णमास्याम् ।
श्श्स्_1.8.2: अग्निः.प्रत्नेन.सोम.गीर्भिर्.इत्य्.अमावास्यायाम्.वृधन्वन्तौ ।
श्श्स्_1.8.3: जुषाणा.अग्निर्.आज्यस्य.हविषो.वेतु.जुषाणः.सोम.आज्यस्य.हविषो.वेत्व्.इति.याज्ये ।
श्श्स्_1.8.4: अग्निर्.मूर्धा.इत्य्.आग्नेयस्य.पुरोनुवाक्या ।
श्श्स्_1.8.5: भुवो.यज्ञस्य.इति.याज्या ।
श्श्स्_1.8.6: अग्नीषोमाव्.इमम्.इत्य्.उपांशु.याजस्य.पुरोनुवाक्या ।
श्श्स्_1.8.8: जुषाणाव्.अग्नीषोमाव्.आज्यस्य.हविषो.वीताम्.इति.याज्या ।
श्श्स्_1.8.8: इद्म.विष्णुर्.वषट्.ते.विष्णव्.इति.वैष्ण्वस्य ।
श्श्स्_1.8.9: जुषाणो.वा ।
श्श्स्_1.8.10: अग्नीषोमा.सवेदसा.युवम्.एतानि.इत्य्.अग्नीषोमीयस्य ।
श्श्स्_1.8.11: इन्द्र.अग्नी.अवसा.प्र.चर्षणिभ्य.इत्य्.ऐन्द्राग्नस्य ।
श्श्स्_1.8.12: आ.इन्द्र.सानसिम्.प्र.ससाहिष.इति.साम्नाय्यस्य ।
श्श्स्_1.8.13: महान्.इन्द्रो.य.ओजसा.महान्.इन्द्रो.नृवद्.इति.माहेन्द्रस्य ।
श्श्स्_1.8.14: इन्द्रम्.वो.विश्वतो.मादयस्व.हरिभिर्.इति.इन्द्रस्य.अप्रतिनिधेः ।
श्श्स्_1.9.1: पिप्रीहि.देवान्.इति.स्विष्टकृतः.पुरोनुवाक्या ।
श्श्स्_1.9.2: अयाऌ.अग्निर्.अग्नेः.प्रिया.धामान्य्.अयाट्.सोमस्य.प्रिया.धामान्य्.अयाऌ.अग्नेः.प्रिया.धामान्य्.अयाऌ.अग्नी.षोमयोः.प्रिया.धामानि.विष्णोर्.वा.अयाऌ.अग्नी.षोमयोः.प्रिया.धामान्य्.अयाऌ.इन्द्र.अग्न्योः.प्रिया.धामान्य्.अयाऌ.इन्द्रस्य.प्रिया.धामानि.महेन्द्रस्य.वा.अयाड्.देवानाम्.आज्यपानाम्.प्रिया.धामानि.यक्षद्.अग्नेर्.होतुः.प्रिया.धामानि.यक्षत्.स्वम्.महिमानम्.आयजताम्.(?).एज्या.इषः.कृणोतु.सो.अध्वरा.जात.वेदा.जुषताम्.हविर्.अग्ने.यद्.अद्य.विशो.अध्वरस्य.इति.याज्या ।
श्श्स्_1.9.3: वषट्.कृत्य.उपस्पर्शनम् ।

श्श्स्_1.10.1: इळाम्.उपह्वास्यमानस्य.दक्षिणस्य.पाणेः.प्रदेशिन्याम्.अनक्ति.।.उत्तमे.च.पर्वणि.मध्यमे.च ।
श्श्स्_1.10.2: वाचस्.पतिना.ते.हुतस्य.प्राश्नामि.इषे.प्राणाय.इत्.पूर्वम्.अञ्जनम्.अधर.ओष्ठे.निलिप्यति.।.मनसस्.पतिना.ते.हुतस्य.प्राश्नाम्य्.ऊर्ज.उदानाय.इत्य्.उत्तर.ओष्ठ.उत्तरम् ।
श्श्स्_1.10.3: उपस्पृश्य ।
श्श्स्_1.10.4: दक्षिणेन.उत्तर.इळाम्.धारयन् ।
श्श्स्_1.10.5: अप्रसारिताभिर्.अङ्गुलिभिर्.अमुष्टि.कृताभिः ।
श्श्स्_1.10.6: स्वयम्.पञ्चमम्.आदाय ।
श्श्स्_1.10.7: मुख.सम्मिताम्.धारयन्.हृदय.सम्मिताम्.वा ।
श्श्स्_1.11.1अ: उपहूतम्.बृहत्.सह.दिवा.सह.सूर्येण.सह.चक्षुषा.उप.माम्.बृहत्.सह.दिवा.सह.सूर्येण.सह.चक्षुषा.ह्वयताम्.।.उपहूतम्.वामदेव्यम्.सह.अन्तरिक्षेण.सह.वायुना.सह.प्राणेन.उप.माम्.वामदेव्यम्.सह.अन्तरिक्षेण.सह.वायुना.सह.प्राणेन.ह्वयताम् ।
श्श्स्_1.11.1ब्: उपहूतम्.रथन्तरम्.सह.पृथिव्या.सह.अग्निना.सह.वाचा.सह.पशुभिर्.उप.माम्.रथन्तरम्.सह.पृथिव्या.सह.अग्निना.सह.वाचा.सह.पशुभिर्.ह्वयताम् ।
श्श्स्_1.11.1च्: उपहूतम्.स्थास्नु.भुवनम्.उप.माम्.स्थास्नु.भुवनम्.ह्वयताम् ।
श्श्स्_1.11.1द्: उपहूतम्.चरिष्णु.भुवनम्.उप.माम्.चरिष्णु.भुवनम्.ह्वयताम्.।.उपहूतः.सखा.भक्ष.उप.माम्.सखा.भक्षो.ह्वयताम् ।
श्श्स्_1.11.1ए: उपहूताः.सप्त.होत्रा.उप.माम्.सप्त.होत्रा.ह्वयताम्.।.उपहूता.गावः.सह.आशिरा.उप.मम.गावः.सह.आशिरा.ह्वयन्ताम् ।
श्श्स्_1.11.1f: उपहूता.वाक्.सह.प्राणेन.उप.माम्.वाक्.सह.प्राणेन.ह्वयताम्.।.उपहूता.वाक्.सह.मनसा.उप.माम्.वाक्.सह.मनसा.ह्वयताम् ।
श्श्स्_1.11.1ग्: उपहूता.इळा.वृष्टिर्.उप.माम्.इळा.वृष्टिर्.ह्वयताम्.।.उपहूता.इळा.ततुरिर्.उप.माम्.इळा.ततुरिर्.ह्वयताम्.।.उपहूता.हे.सा.असि.जुषस्व.मा.इळ.इति.जपित्वा.इळाम्.उपह्वयते ।
श्श्स्_1.12.1अ: इळा.उपहूता.उपहूता.इळा.उप.अस्मान्.इळा.ह्वयताम्.इळा.उपहूता.मानवी.घृत.पदी.मैत्रावरुणी ।
श्श्स्_1.12.1ब्: ब्रह्म.देव.कृतम्.उपहूतम्.।.दैव्या.अध्वर्यव.उपहूता.उपहूता.मनुष्या.य.इमम्.यज्ञम्.अव.अन्ये.(?).च.यज्ञ.पतिम्.वर्धान्.।.उपहूते.द्यावा.पृथिवी.पूर्वजे.ऋतावरी.देवी.देव.पुत्रे ।
श्श्स्_1.12.1च्: उपहूतो.अयम्.यजमान.उत्तरस्याम्.देव.यज्यायाम्.उपहूतो.भूयसि.हविष्.करण.इदम्.मे.देवा.हविर्.जुषन्ताम्.इति.तस्मिन्न्.उपहूत.इत्य्.उपहूय ।
श्श्स्_1.12.2: अवघ्नाय ।
श्श्स्_1.12.3: अन्तर्.इळम्.चतुर्.अवानिति ।
श्श्स्_1.12.4: अन्ते.वा.चतुर्थम् ।
श्श्स्_1.12.5: इळा.असि.स्योना.असि.स्योनकृत्.सा.नः.सुप्रजास्.त्वे.राजस्.पोषे.धाः.।.जुष्टे.जुष्टिम्.ते.गमेय.उपहूत.उपहवम्.ते.अशीय.मुखस्य.त्वा.द्युम्नाय.सुरभ्य्.आस्यत्वाय.प्राश्नामि.इत्य्.उत्तर.इळाम्.प्राश्य ।
श्श्स्_1.12.6: इतराम्.यजमान.पञ्चमाः.प्राश्य ।
श्श्स्_1.12.7: आ.मार्जनाद्.वाग्.यमनम् ।
श्श्स्_1.12.8: इदम्.आप.इति.तृचेन.अन्तर्.वेदि.पवित्रवति.मार्जयन्ते ।
श्श्स्_1.12.9: परिहृते.ब्रह्म.भागे.अन्वाहार्यम्.आहरन्ति ।
श्श्स्_1.12.10: एष.दक्षिणा.कालः.सर्वासाम्.इष्टीनाम् ।
श्श्स्_1.12.11: न.अन्वाहार्यो.अस्त्य्.आदिष्ट.दक्षिणासु ।
श्श्स्_1.12.12: एषा.ते.अग्ने.समित्.तया.वर्धस्व.च.आ.च.प्यायस्व.।.वर्धिषीमहि.च.वयम्.आ.च.प्यासिषीमहि.।.इति.समिधम्.अनुमन्त्र्य ।
श्श्स्_1.12.13: त्रीन्.अनुयाजान्.यजति ।
श्श्स्_1.13.1: देवम्.बर्हिर्.वसुवने.वसु.धेयस्य.वेतु ।
श्श्स्_1.13.2: देवो.नराशंसो.वसुवने.वसु.धेयस्य.वेतु ।
श्श्स्_1.13.3: देवो.अग्निः.स्विष्टकृत्.सुद्रविणा.मन्द्रः.कविः.सत्य.मन्मा.आयजी.होता.होतुर्.होतुर्.आयजीयान्.अग्ने.यान्.देवान्.अयाड्.यान्.अपिप्रेर्.ये.ते.होत्रे.अमत्सत.इत्य्.अवसाय ।
श्श्स्_1.13.4: ताम्.ससनुषीम्.होत्राम्.देवम्.गमाम्.दिवि.देवेषु.यज्ञम्.एरय.इमम्.स्विष्टकृच्.च.अग्ने.होता.भूर्.वसुवने.वसु.धेयस्य.नमो.वाके.वीहि.इत्य्.अनुयाज.याज्याः ।
श्श्स्_1.14.1: सूक्ता.ब्रूहि.इत्य्.उक्तः ।
श्श्स्_1.14.2: इदम्.द्यावा.पृथिवी.भद्रम्.अभूद्.आर्ध्म.सूक्त.वाकम्.उत.नमो.वाकम्.ऋध्यास्म.सूक्त.उच्यम्.(?).अग्ने.त्वम्.सूक्त.वाग्.असि.इत्य्.अवसाय ।
श्श्स्_1.14.3: उपश्रुती.दिवस्.पृथिव्योर्.ओमन्वती.ते.अस्मिन्.यज्ञे.यजमान.द्यावा.पृथिवी.स्ताम्.इत्य्.अवसाय ।
श्श्स्_1.14.3: शंगयी.जीर.दानू.अत्रस्नू.अप्रवेदे.उरु.गव्यूती.अभयम्.कृताव्.इत्य्.अवसाय ।
श्श्स्_1.14.5: वृष्टि.द्यावा.रीत्य्.आपा.शम्भुवौ.मयोभुवा.ऊर्जस्वती.पयस्वती.सूपचरणा.च.स्वधिचरणा.च.तयोर्.आविदी.इत्य्.अवसाय ।
श्श्स्_1.14.6: अग्निर्.हविर्.अजुषत.अवीवृधत.महो.ज्यायो.अकृत ।
श्श्स्_1.14.7: सोमो.हविर्.अजुषत.अवीवृधत.महो.ज्यायो.अकृत ।

श्श्स्_1.14.8: अग्निर्.हविर्.अजुषट.अवीवृधत.महो.ज्यायो.अकृत ।
श्श्स्_1.14.9: अग्नीषोमौ.हविर्.अजुषेताम्.अवीवृधेताम्.महो.ज्यायो.अक्राताम् ।
श्श्स्_1.14.10: विष्णुर्.वा ।
श्श्स्_1.14.11: अग्नीषोमौ.हविर्.अजुषेताम्.अवीवृधेताम्.महो.ज्यायो.अक्राताम् ।
श्श्स्_1.14.12: इन्द्र.अग्नी.हविर्.अजुषेताम्.अवीवृधेताम्.महो.ज्यायो.अक्राताम् ।
श्श्स्_1.14.13: इन्द्रो.हविर्.अजुषत.अवीवृधत.महो.ज्यायो.अकृत.।.महा.इन्द्रो.वा ।
श्श्स्_1.14.14: देवा.आज्यपा.आज्यम्.अजुषन्त.अवीवृधन्त.महो.ज्यायो.अक्रत ।
श्श्स्_1.14.15: अग्निर्.होत्रेण.हविर्.अजुषत.अवीवृधत.महो.ज्यायो.अकृत ।
श्श्स्_1.14.16: अस्याम्.ऋधद्द्.होत्रायाम्.देवम्.गमायाम्.आशास्ते.अयम्.यजमानः ।
श्श्स्_1.14.17: असाव्.असाव्.इति.नामनी.यजमानस्य.अभिव्याहृत्य.उत्तराम्.देव.यज्याम्.आशास्ते.भूयो.हविष्.करणम्.आशास्त.आयुर्.आशास्ते.सुप्रजास्.त्वम्.आशास्ते.दिव्यम्.धाम.आशास्ते ।
श्श्स्_1.14.18: यद्.अनेन.हविषा.आशास्ते.तद्.अश्यात्.तद्.ऋध्यात्.तद्.अस्मै.देवा.रासन्ताम्.तद्.अग्निर्.देवो.देवेभ्यो.वनुताम्.वयम्.अग्नेः.परि.मानुषाः ।
श्श्स्_1.14.19: इष्टम्.च.वीतम्.च.अभूद्.उभे.च.एनम्.(.न.इति.वा.).द्यावा.पृथिवी.अंहसः.पाताम्.आ.इह.गतिर्.वाम्.अस्य.इदम्.च.नमो.देवेभ्य.इति ।
श्श्स्_1.14.20: नम.उप.इति.बर्हिष्य्.अञ्जलिम्.निधाय.जपति ।
श्श्स्_1.14.21: शम्योर्.ब्रूहि.इत्य्.उक्तस्.तत्.शम्योर्.इति.शम्योर्.वाकम्.उक्त्वा.उपस्पृश्य ।
श्श्स्_1.14.22: स्रुग्.आदापन.आदि.मन्द्र.याज्य.भाग.अन्तम् ।
श्श्स्_1.14.23: परम्.मध्यमया ।
श्श्स्_1.14.24: अनुयाज.आद्य्.उत्तमया ।
श्श्स्_1.15.1: उपांशु.गार्हपत्ये.पत्नी.सम्याजैश्.चरन्ति ।
श्श्स्_1.15.2: सोमम्.त्वष्टारम्.देवानाम्.पत्नीर्.अग्निम्.गृह.पतिम्.इति.यजति ।
श्श्स्_1.15.3: राका.सिनीवाल्यौ.प्रजा.कामस्य.पूर्वे.गृह.पतेः ।
श्श्स्_1.15.4: आ.प्यायस्व.सम्.ते.पयांसि.इह.त्वष्टारम्.तन्.नस्.तुरीपम्.देवानाम्.पत्नीर्.उत.ग्ना.व्यन्तु.राकाम्.अहम्.यास्.ते.राके.सिनीवालि.यासु.बाहुर्.अग्निर्.होता.गृहपतिर्.वयम्.उ.त्वा.गृह.पत.इति ।
श्श्स्_1.15.5: यथा.ह.त्यद्.वसव.इति.जपित्वा.इळाम्.उपह्वयते ।
श्श्स्_1.15.6: उपहूता.इयम्.यजमानी.इति.वा.विकारः ।
श्श्स्_1.15.7: इळा.अन्ताः.पत्नी.सम्याजाः ।
श्श्स्_1.15.8: शम्य्व्.अन्ता.वा ।
श्श्स्_1.15.9: प्र.त्वा.मुञ्चामि.इति.वेदम्.विमुच्य.योक्त्रम् ।
श्श्स्_1.15.10: अञ्जलौ.पत्न्याअः.कृत्वा.वेदम्.च.मुक्तम् ।
श्श्स्_1.15.11: अद्भिर्.वेद.योकोत्रे.परिषिञ्चन्.जपति ।
श्श्स्_1.15.12: कामाय.त्वा.वेदो.असि.येन.त्वम्.वेद.देवेभ्यो.वेदो.अभवस्.तेन.अस्मभ्यम्.वेद.एधि.।.वेदो.असि.वित्तिर्.असि.विदेयम्.कर्म.असि.करणम्.असि.क्रियासम्.सनिर्.असि.सनिता.असि.सनेयम् ।
श्श्स्_1.15.13: घृतवन्तम्.कुलायिनम्.रायस्.पोषम्.सहस्रिणम्.।.वेदो.ददातु.वाजिनम्.।.इति.वेदो.पत्नीम्.वाचयति ।
श्श्स्_1.15.14: स.तृणानि.प्रगृह्य.अन्तरेण.ऊरू.न्यस्यते ।
श्श्स्_1.15.15: तन्तुम्.तन्वन्न्.इत्य्.उत्तरेण.गार्हपत्यम्.आ.बर्हिषः.स्तीर्त्वा ।
श्श्स्_1.15.16: आपृणो.असि.सम्पृणः.प्रजया.मा.पशुभिर्.आ.पृण.इति.वेद.शेषम्.उपस्थाय ।
श्श्स्_1.15.17: एतेन.अग्ने.ब्रह्मणा.--.अयाड्.यज्ञम्.जात.वेदा.अन्तरः.पूर्वो.अस्मिन्.निषद्य.।.सन्वन्.सनिम्.सुविमुचा.वि.मुञ्च.धेह्य्.अस्मभ्यम्.द्रविणम्.जात.वेदः.।.इत्य्.आहवनीयम्.उपस्थाय ।
श्श्स्_1.15.18: उपस्पृश्य.उत्सृज्यते ।
श्श्स्_1.16.1: व्याख्यातौ.दर्श.पूर्ण.मासौ.प्रकृतिर्.इष्टि.पशु.बन्धानाम् ।
श्श्स्_1.16.2: अन्वयस्य.प्रकृतिर्.इत्य्.आख्या ।
श्श्स्_1.16.3: अन्तरेण.आज्य.भागौ.स्विष्टकृतम्.च.यद्.इज्यते.तम्.आवाप.इत्य्.आचक्षते.तत्.प्रधानम् ।
श्श्स्_1.16.4: तद्.अङ्गानि.इतराणि ।
श्श्स्_1.16.5: तेषाम्.अभिन्न.काले.अथे.विभवः ।

श्श्स्_1.16.6: तन्त्र.लक्षणम्.तत् ।
श्श्स्_1.16.7: प्रदानम्.उच्च.अवचाभिर्.देवताभिः.सम्युज्य.श्रूयते ।
श्श्स्_1.16.8: तत्र.देवता.विकारे.तद्.देवते.याज्या.पुरोनुवाक्ये ।
श्श्स्_1.16.9: निगम.स्थानेषु.च.सा.देवता.उपलक्ष्यते ।
श्श्स्_1.16.10: आवाहन.उत्तमे.प्रयाजे.स्विष्टकृन्.निगदे.सूक्त.वाके.च.इज्यमाना.देवता.निगच्छन्ति.तस्मान्.निगम.स्थानानि ।
श्श्स्_1.16.11: अनुक्रामन्तश्.च.विकारान्.व्याख्यास्यामः ।
श्श्स्_1.16.12: पौर्णमासी.विकार.इत्य्.उक्ते.वार्त्रघ्नौ.प्रतीयात् ।
श्श्स्_1.16.13: अमावास्या.विकार.इति.वृधन्वन्तौ ।
श्श्स्_1.16.14: अनादेशे.विकल्प.भूतौ ।
श्श्स्_1.16.15: देवतातः ।
श्श्स्_1.16.16: हविष्टो.वा ।
श्श्स्_1.16.17: सम्निपाते.हविष्टः ।
श्श्स्_1.16.18: सामान्यान्.नियमः ।
श्श्स्_1.16.19: साप्तदश्यम्.च.सामिधेनीनाम् ।
श्श्स्_1.16.20: इष्टि.पशु.बन्धेषु.वचनाद्.अन्यत् ।
श्श्स्_1.16.21: काम्यासु.उपांशु.हविष्टा ।
श्श्स्_1.16.22: अनुक्रामन्तश्.च.व्याख्यास्यामः ।
श्श्स्_1.17.1: चोदना.प्रकरणे.हविषाम्.प्रतीक.ग्रहणम्.याज्या.पुरोनुवाक्यानाम्.न.चेद्.अन्यो.अर्थ.सम्योगः ।
श्श्स्_1.17.2: द्वि.प्रभृतिषु.चोदना.आनुपूर्व्येण ।
श्श्स्_1.17.3: दैवतेन ।
श्श्स्_1.17.4: लिनेग्ने.च ।
श्श्स्_1.17.5: उपसृष्टासु.देवतास्व्.अनधिगच्छन्स्.तल्.लिङ्गे.दैवतेन.तुष्येत् ।
श्श्स्_1.17.6: उपसृष्टास्.तु.निगच्छन्ति ।
श्श्स्_1.17.7: अभीक्ष्णम्.च.एक.एकस्यै.देवतायै.हविश्.चोद्यते.तत्र.ये.प्रथम.उपदिष्टे.याज्या.पुरोनुवाक्ये.ते.सर्वत्र.प्रतीयात् ।
श्श्स्_1.17.8: न.च.इष्टयः.पृथक्त्वतः.शक्याः.परिसंख्यातुम् ।
श्श्स्_1.17.9: तत्र.अनादिष्ट.याज्या.पुरोनुवाक्यासु.गायत्री.त्रिष्टुभौ.तद्.देवते.परीच्छेत् ।
श्श्स्_1.17.10: उष्णिग्.बृहत्यौ.वा.परिहाप्य ।
श्श्स्_1.17.11: वर्षीयसी.तु.याज्या ।
श्श्स्_1.17.12: समे.वा ।
श्श्स्_1.17.13: यत्र.एतेषाम्.लक्षणानाम्.किंचित्.स्यात् ।
श्श्स्_1.17.14: हुवे.हवामहे.श्रुध्य्.आगह्य्.आ.इदम्.बर्हिर्.निषीद.देवता.नाम.इति.पुरोनुवाक्या.लक्षणानि ।
श्श्स्_1.17.15: अद्धि.पिब.जुषस्व.मत्स्व.आवृषायस्व.वीहि.प्र.देवता.नाम.इति.याज्या.लक्षणानि ।
श्श्स्_1.17.16: पुरस्ताल्.लक्षणा.पुरोनुवाख्या ।
श्श्स्_1.17.17: उपरिष्टाल्.लक्षणा.याज्या ।
श्श्स्_1.17.18: अनधिगच्छंस्.तद्.देवते.नंराभ्याम्.यजेत् ।
श्श्स्_1.17.19: इमम्.आ.शृणुधी.हवम्.यत्.त्वा.गीर्भिर्.हवामहे.।.आ.इदम्.बर्हिर्.निषीद.नः.।.स्तीर्णम्.बर्हिर्.आनुषग्.आ.सदेत.उप.इळाना.(?).इह.नो.अद्य.गच्छ.।.अहेळना.(?).मनसा.इदम्.जुषस्व.वीहि.हव्यम्.प्रयतम्.आहुतम्.नः.।.इत्य्.ऊहेद्.द्वि.देवत.बहुदेवतेषु ।
श्श्स्_1.17.20: प्राकृतीर्.वा.अभिसम्नमेत्.प्राकृतीर्.वा.अभिसम्नमेत् ।
श्श्स्_2.1.1: वसन्ते.ब्राह्मणस्य.अग्न्य्.आधेयम् ।
श्श्स्_2.1.2: ग्रीष्मे.क्षत्रियस्य ।
श्श्स्_2.1.3: वर्षासु.वैश्यस्य ।

श्श्स्_2.1.4: शरदि.वा ।
श्श्स्_2.1.5: शिशिरः.सर्व.वर्णानाम् ।
श्श्स्_2.1.6: याथाकाम्यम्.ऋतूनाम्.सोमेन.यक्ष्यमाणस्य ।
श्श्स्_2.1.7: अमावास्यायाम्.पौर्णमास्याम्.वा.दधीत ।
श्श्स्_2.1.8: शुद्ध.पक्षे.वा.पुण्ये.नक्षत्रे ।
श्श्स्_2.1.9: कृत्तिका.प्रभृतीनि.त्रीणि.फल्गुनी.प्रभृतीनि.च ।
श्श्स्_2.2.1: अथ.इष्टि.कालाः ।
श्श्स्_2.2.2: सद्यो.द्वादश.अहे.मास.ऋतौ.संवत्सरे.वा ।
श्श्स्_2.2.3: अग्नये.पवमानाय.इष्टिः ।
श्श्स्_2.2.4: पौर्णमासी.विकारः ।
श्श्स्_2.2.5: अग्न.आयूंष्य्.अग्ने.पवस्व ।
श्श्स्_2.2.6: तम्.हि.शश्वन्त.ईळते.ते.स्याम.ये.अग्नय.इति.स्विष्टकृतः ।
श्श्स्_2.2.7: अग्नये.च.पावकाय.अग्नये.च.शुचये.द्वितीया ।
श्श्स्_2.2.8: अमावास्या.विकारः ।
श्श्स्_2.2.9: अग्ने.पावक.स.नः.पावक ।
श्श्स्_2.2.10: अग्निः.शुचि.वर्ततम.उद्.अग्ने.शुचयः ।
श्श्स्_2.2.11: अग्निम्.अग्निम्.हवीमभिर्.अग्निना.अङ्गिः.समिध्यत.इति.स्विष्टकृतः ।
श्श्स्_2.2.12: अदितये.तृतीया ।
श्श्स्_2.2.13: त्वम्.अग्ने.सप्रथाः.सोम.यास्.त.इति.सद्वन्ताव्.आज्य.भागौ ।
श्श्स्_2.2.14: उत.त्वाम्.अदिते.महि.।.महीम्.ऊ.षु.मातरम्.सुव्रतानाम्.ऋतस्य.पत्नीम्.अवसे.हुवेम.।.तुवि.क्षत्राम्.अजरन्तीम्.उरूचीम्.सुशर्माणम्.अदितिम्.सुप्रणीतिम् ।
श्श्स्_2.2.15: प्र.इद्धो.अग्न.इमो.अग्न.इति.विराजौ.स्विष्टकृतः ।
श्श्स्_2.2.16: चतस्रः.कुर्वन्तो.अग्नये.पथमाम् ।
श्श्स्_2.2.17: अग्ने.द्युम्नेन.उप.त्वा.जुह्वः ।
श्श्स्_2.2.18: अर्चन्तस्.त्वा.अग्निम्.स्तोमेन.इति.स्विष्टकृतः ।
श्श्स्_2.3.1: प्रथमे.वा.समान.तन्त्रे ।
श्श्स्_2.3.2: मध्यमे.वा ।
श्श्स्_2.3.3: द्वि.हविषो.वा ।
श्श्स्_2.3.4: आदित्यस्य.ऐन्द्राग्नो.द्वितीयो.ब्राह्मणस्य ।
श्श्स्_2.3.5: अग्नीषोमीयो.वा ।
श्श्स्_2.3.6: ऐन्द्रो.राजन्यस्य ।
श्श्स्_2.3.7: वैश्वदेवो.वैश्यस्य ।
श्श्स्_2.3.8: विश्वे.देवासः.स्तीर्णे.बर्हिषि ।
श्श्स्_2.3.9: आग्नेयी.वा.द्वयोः.पूर्वा ।
श्श्स्_2.3.10: आज्येन.तनू.देवताः.पुरस्तात्.पुरोळाशस्य.अग्निम्.पवमानम्.पावकम्.च.शुचिम्.च.उपरिष्टात् ।
श्श्स्_2.3.11: विश्वेभिर्.अग्ने.अग्निभिर्.अग्ने.विश्वेभिर्.अग्निभिर्.इति.स्विष्टकृतः ।
श्श्स्_2.3.12: अदितये.द्वितीया ।
श्श्स्_2.3.13: अमावास्या.विकारः ।
श्श्स्_2.3.14: ताक्ष्णीनाम्.तनू.देवताभिर्.एक.हविषस्.त्र्यहम्.वैष्णव.द्वितीयाभिर्.अपरम्.आदित्य.तृतीयाभिर्.अपरम्.दशम्य्.अविकृता.आग्नेयी ।
श्श्स्_2.3.15: सर्वासु.उपांशु.हविष्टा ।
श्श्स्_2.3.16: पाञ्चदश्यम्.च.सामिधेनीनाम् ।

श्श्स्_2.3.17: सप्तदश.आदित्यायाम् ।
श्श्स्_2.3.18: चतुर्विंशतिर्.दक्षिणा ।
श्श्स्_2.3.19: द्वादश ।
श्श्स्_2.3.20: षड्.वा ।
श्श्स्_2.3.21: अश्वः ।
श्श्स्_2.3.22: शत.मान.रथ.वासो.अजाश्.च ।
श्श्स्_2.3.23: द्वादश.रात्रम्.स्वयम्.होमी.स्यात् ।
श्श्स्_2.3.24: सत्य.वदनम्.च ।
श्श्स्_2.3.25: अतिथिभ्यश्.च.दानम् ।
श्श्स्_2.3.26: आहित.अग्निर्.व्रते.न.अनिष्ट्वा.पशुना.मांसम्.अश्नीयान्.न.अनिष्ट्वा.आग्रयणेन.नवानाम्.ओषधीनाम्.फलानि ।
श्श्स्_2.4.1: पूर्वा.दर्श.पूर्णमासाभ्याम्.अन्वारम्भणीय.इष्टिः ।
श्श्स्_2.4.2: आग्नावैष्णवः.सरस्वत्यै.सरस्वते.च ।
श्श्स्_2.4.3: अग्ना.विष्णू.महि.तद्.वाम्.महित्वम्.पातम्.घृतस्य.गुह्यानि.नाम.।.दमे.दमे.सुष्टुतिर्.वाम्.इयाना.उप.वाम्.जिह्वा.घृतम्.आचरण्यत्.।.अग्नाविष्णू.महि.धाम.प्रियम्.वाम्.वीथो.घृतस्य.गुह्या.जुषाणा.।.दमे.दमे.सप्त.रत्ना.दधाना.प्रति.वाम्.जिह्वा.घृतम्.उच्चरण्यत् ।
श्श्स्_2.4.4: पावका.नः.सरस्वतीम्.आ.जुह्वानाः ।
श्श्स्_2.4.5: जनीयन्तः.स.वावृधे ।
श्श्स्_2.4.6: पञ्च.हविषम्.एके.अग्नये.भगिने.व्रत.पतये.च ।
श्श्स्_2.4.7: त्वम्.अग्ने.वीरवद्.यशस्.त्वम्.भगो.नः ।
श्श्स्_2.4.8: त्वम्.अग्ने.व्रतपा.यद्.वो.वयम् ।
श्श्स्_2.4.9: पौर्णमासी.विकारः ।
श्श्स्_2.4.10: धेनुश्.च.दक्षिणा ।
श्श्स्_2.5.1: काम्यम्.पुनर्.आधेयम्.अजानानस्य ।
श्श्स्_2.5.2: अग्नेये.अग्नये.च.वैश्वानराय.उद्वास्यिष्यमाणस्य ।
श्श्स्_2.5.3: वैश्वानरो.न.ऊतय.आ.प्रयातु.परावतः.।.अग्निर्.नः.सुष्टुतीर्.उप.।.पृष्टो.दिवि ।
श्श्स्_2.5.4: मध्यावर्षम्.पुनर्.आधेय.कालः ।
श्श्स्_2.5.5: पुनर्वसू.च.नक्षत्रम् ।
श्श्स्_2.5.6: या.वा.आषाढ्या.उत्तर.अमावास्या ।
श्श्स्_2.5.7: मध्यंदिनश्.च.कालः ।
श्श्स्_2.5.8: पञ्च.कपालश्.च.आग्नेयः ।
श्श्स्_2.5.9: सामिधेन्यश्.च.पञ्चदश ।
श्श्स्_2.5.10: त्रिषु.च.प्रयाजेष्व्.अग्नि.शब्दो.विकृतः ।
श्श्स्_2.5.11: तनूनपाद्.अग्निम्.इळो.अग्निना.बर्हिर्.अग्निः ।
श्श्स्_2.5.12: वार्त्रघ्नः.पूर्व.आज्य.भागः ।
श्श्स्_2.5.13: अग्निम्.स्तोमेन.बोधय.इति.वा.अग्नये.बुद्धिमते ।
श्श्स्_2.5.14: अग्न.आयूंषि.इत्य्.उत्तरो.अग्नये.पवमानाय ।
श्श्स्_2.5.15: एह्य्.ऊ.षु.ब्रवाणि.इति.वा.इन्दुमते ।
श्श्स्_2.5.16: अग्निर्.मूर्धा.इति.वा.रेतस्वते ।
श्श्स्_2.5.17: यथा.चोदितम्.यजति ।
श्श्स्_2.5.18: अग्ने.तम्.अद्य.इति.प्रथमा.तृतीये.हविषो.द्वितीया.चतुर्थ्यौ.स्विष्टकृतः ।
श्श्स्_2.5.19: देवम्.बर्हिर्.अग्नेर्.वसुवने.देवो.नराशंसो.अग्ना.वसुवने ।
श्श्स्_2.5.20: अग्नि.शब्दम्.चतुर्षु.पूर्वेषु.प्रयाजेष्व्.अनुयाजयोश्.च.विभक्तय.इत्य्.आचक्षते ।

श्श्स्_2.5.21: ताश्.च.उपांशु ।
श्श्स्_2.5.22: उत्तरश्.च.आज्य.भागः ।
श्श्स्_2.5.23: हविश्.च ।
श्श्स्_2.5.24: सर्वम्.वा.सह.पूर्वाभ्याम्.अनुयाजाभ्याम् ।
श्श्स्_2.5.25: हविर्.अन्तम्.वा ।
श्श्स्_2.5.26: हविर्.एव.वा ।
श्श्स्_2.5.27: पुनर्.उत्स्यूतो.जरत्.संव्यायः.पुनः.संस्कृतः.कद्रथो.अनड्वान्.हिरण्यम्.वा.दक्षिणा ।
श्श्स्_2.5.28: अदितये.द्वितीया ।
श्श्स्_2.5.29: अमावास्या.विकारः ।
श्श्स्_2.5.30: आग्निवारुणी.वा ।
श्श्स्_2.5.31: स.त्वम्.नो.अग्ने.अवमस्.त्वम्.नो.अग्ने.वरुणस्य.विद्वान्.इति ।
श्श्स्_2.6.1: अग्निहोत्रम्.जुहोति.सायम्.च.प्रातश्.च ।
श्श्स्_2.6.2: पुरा.छायानाम्.संसर्गाद्.गार्हपत्याद्.आहवनीयम्.उद्धरति ।
श्श्स्_2.6.3: प्रभान्त्याम्.रात्र्याम् ।
श्श्स्_2.6.4: प्रादुष्.करणम्.नित्य.धृतः ।
श्श्स्_2.6.5: गत.श्रियः.शुश्रुवान्.ब्राह्मणो.ग्रामणी.राजन्यः ।
श्श्स्_2.6.6: उद्ध्रियमाण.उद्धर.पाप्मनो.मा.यद्.अविद्वान्.यच्.च.विद्वांश्.चकार.।.अह्ना.यद्.एनश्.चकृम.इह.किंचित्.सर्वस्मान्.मा.उद्धृतः.पाहि.तस्मात् ।
श्श्स्_2.6.7: अमृत.आहुतिम्.अमृतायाम्.जुहोम्य्.अग्निम्.पृथिव्याम्.अमृतस्य.जित्यै.।.तया.अनन्तम्.लोकम्.अहम्.जयानि.प्रजापतिर्.यम्.प्रथमो.जिगाय.इति ।
श्श्स्_2.6.8: रात्र्या.इति.प्रातर्.विकारः ।
श्श्स्_2.6.9: परिसमुह्य.होष्यन् ।
श्श्स्_2.6.10: ऋतम्.त्वा.सत्येन.परिषिञ्चामि.इति.त्रिस्.त्रिर्.एक.एकम्.पर्युक्ष्य.हुत्वा.च ।
श्श्स्_2.6.11: सत्यम्.त्वा.ऋतेन.परिषिञ्चामि.इति.प्रातः ।
श्श्स्_2.6.12: यज्ञस्य.संततिर्.असि.यज्ञस्य.त्वा.संतत्यै.नयानि.इति.गार्हपत्यात्.संतताम्.उदधाराम्.आहवनीयात् ।
श्श्स्_2.6.13: तन्तुम्.तन्वन्न्.इत्य्.अन्तरा.श्वापदे.गते ।
श्श्स्_2.7.1: प्रथम.अस्तमिते.जुहोति ।
श्श्स्_2.7.2: दृश्यमाने.वा.नक्षत्रे ।
श्श्स्_2.7.3: उप.उदयम्.व्युषिते ।
श्श्स्_2.7.4: उदिते.वा ।
श्श्स्_2.7.5: पुरस्तात्.तु.काले.मनः.कुर्वीत ।
श्श्स्_2.7.6: तस्य.अपराधे.प्रायश्चित्तम् ।
श्श्स्_2.7.7: उन्नीय.अभ्युदितम्.आ.तमनाद्.आसित्वा.हुत्वा.वरम्.दत्त्वा.भूर्.इत्य्.अनुमन्त्रयेत ।
श्श्स्_2.7.8: अहुत्वा.वा.उदुह्य.आहवनीयम्.अन्यम्.प्रणीय.जुहुयात् ।
श्श्स्_2.7.9: पयो.यवागूर्.दध्य्.आज्यम्.अग्नि.होत्र.हवींषि ।
श्श्स्_2.7.10: न.दध्य्.अधिश्रयति ।
श्श्स्_2.7.11: न.अपः.प्रत्यानयत्य्.आज्ये ।
श्श्स्_2.7.12: कुश.तरुणे.प्रत्यस्य.आज्यस्य.उन्नयति ।
श्श्स्_2.7.13: पश्चाद्.अन्वाहार्य.पचनाद्.यजमानः.प्रत्यन्.तिष्ठन्न्.आदित्यम्.उपतिष्ठते.सत्य.ऋताय.त्वा.दक्षिणाम्.नयानि.इति.सायम् ।
श्श्स्_2.7.14: ऋत.सत्याय.त्वा.दक्षिणाम्.नयानि.इत्य्.आहवनीयम्.प्रातः ।
श्श्स्_2.7.15: उत्तरेण.अन्वाहार्य.पचनम्.यजमानस्य.संचरः ।
श्श्स्_2.7.16: दक्षिणतः.पश्चाद्.आहवनीयाद्.आसनम् ।

श्श्स्_2.7.17: एवम्.गार्हपत्यात्.पत्न्याः ।
श्श्स्_2.7.18: वृष्टिर्.असि.पाप्मानम्.मे.वृश्च.विद्या.असि.विद्य.मे.पाप्मानम्.इत्य्.आचामति ।
श्श्स्_2.7.19: वाचम्.च.यच्छति ।
श्श्स्_2.8.1: दक्षिणतो.अग्निहोत्रीम्.उपसृजन्ति ।
श्श्स्_2.8.2: न.च.अन्तरेण.संचरेरन् ।
श्श्स्_2.8.3: न.च.शूद्रेण.दोहयेत् ।
श्श्स्_2.8.4: अग्नये.देवेभ्यो.धुक्ष्व.इति.सायम्.जपति ।
श्श्स्_2.8.5: सूर्याय.देवेभ्यो.धुक्ष्व.इति.प्रातः ।
श्श्स्_2.8.6: अशनाया.पिपासे.स्त्रिया.वै.स्त्रियम्.बाधन्ते.स्तिर्या.वाम्.बाधे.अग्नियोत्र्या.वत्सेन.वीरेण.इति.सायम्.प्रातः ।
श्श्स्_2.8.7: अन्वाहार्य.पचनेन.वीरेण.इति.स्त्री.वत्सायाम् ।
श्श्स्_2.8.8: सुभूत.कृतः.सुभूतम्.नः.कृणुत.इत्य्.उपवेषेण.उदीचो.अङ्गारान्.गार्हपत्यान्.निरुह्य.अधिश्रयत्य्.अशनाया.पिपासीयेन.अग्निहोत्र.स्थाल्या.गार्हपत्येन.वीरेण.इति.विकारः ।
श्श्स्_2.8.9: अग्नेष्.ट्वा.चक्षुषा.अवेक्ष.इति.समिधम्.आदीप्य.अवज्योत्य ।
श्श्स्_2.8.10: सम्.आप.ओषधीनाम्.रसेन.इति.स्रुवेण.अपः.प्रत्यानीय ।
श्श्स्_2.8.11: प्रतितप्य.तूष्णीम्.पुनर्.अवज्योत्य ।
श्श्स्_2.8.12: त्रिर्.उपसादम्.उदग्.उद्वास्य ।
श्श्स्_2.8.13: अनुच्छिन्दन्न्.इव ।
श्श्स्_2.8.14: नमो.देवेभ्य.इति.दक्षिणतो.अङ्गारान्.उपस्पृश्य ।
श्श्स्_2.8.15: सुभूताय.व.इति.सुप्रत्यूळ्हान्.प्रत्युह्य ।
श्श्स्_2.8.16: स्रुवम्.च.स्रुचम्.च.प्रतितप्य.उन्नयत्य्.अशनाया.पिपासीयेन.स्रुचा.स्रुवेण.वीरेण.इति.विकारः ।
श्श्स्_2.8.17: चतुष्.पञ्च.कृत्वो.वा ।
श्श्स्_2.8.18: स्रुवे.स्रुवे.च.मन्त्रः ।
श्श्स्_2.8.19: उन्नीते.स्रुचम्.सम्मृशति ।
श्श्स्_2.8.20: सजूर्.देवेभ्यः.सायम्.यावभ्य.इति.सायम्.जपति ।
श्श्स्_2.8.21: सजूर्.देवेभ्यः.प्रातर्.यावभ्य.इति.प्रातः ।
श्श्स्_2.8.22: उत्तरेण.गार्हपत्यम्.स्रुचम्.उपसाद्य.प्रादेश.मात्रीम्.पालाशीम्.समिधम्.आदाय.स्रुचम्.च.समया.अतिहृत्य.गार्हपत्यम्.आहवनीयस्य.पश्चाद्.उदग्.अग्रेषु.कुशेषु.स्रुचम्.उपसाद्य.समिधम्.अभ्यादधात्य्.अशनाया.पिपासीयेन.समिध.आहवनीयेन.वीरेण.इति.विकारः ।
श्श्स्_2.8.23: द्व्य्.अङ्गुलम्.समिधो.अतिहृत्य.अभिजुहोति ।
श्श्स्_2.9.1: अग्निर्.ज्योतिर्.ज्योतिर्.अग्निः.स्वाहा.इति.सायम् ।
श्श्स्_2.9.2: सूर्यो.ज्योतिर्.ज्योतिः.सूर्यः.स्वाहा.इति.प्रातः ।
श्श्स्_2.9.3: दक्षिणम्.जान्व्.आच्य.अवषट्.कारासु ।
श्श्स्_2.9.4: उपसाद्य.उत्तराम्.असंसृजंस्.तूष्णीम्.भूयसीम्.पूर्वस्याः ।
श्श्स्_2.9.5: स्रुचि.भूयिष्ठम्.कुर्यात् ।
श्श्स्_2.9.6: श्रुचो.बुध्नेन.अङ्गारान्.उपस्पृश्य.द्विर्.उदीचीम्.स्रुचम्.उद्यम्य.उपसादयति ।
श्श्स्_2.9.7: अगन्.प्राणः.स्वर्गम्.लोकम्.जिते.जयाम्य्.अभयम्.मे.अलोकताया.अपुत्रताया.अपशुताया.इति.यजमानः.पूर्वाम्.आहुतिम्.अनुप्राणिति ।
श्श्स्_2.9.8: आगन्न्.अपान.आत्मानम्.विजिते.विजयाम्य्.अभयम्.मे.अलोकताया.अपुत्रताया.अपशुताया.इत्य्.उत्त्तराम्.अन्ववानिति ।
श्श्स्_2.9.9: या.यज्ञस्य.समृद्धस्य.आशीः.सा.मे.समृध्यताम्.इति ।
श्श्स्_2.9.10: हुतयोर्.उत्तरतः.प्रतीचीम्.सायम्.द्विर्.उपमार्ष्टि ।
श्श्स्_2.9.11: ऊर्ध्वाम्.दक्षिणतः.प्रातः ।
श्श्स्_2.9.12: पूर्वम्.उपमार्जनम्.कुशेषु.निलिम्पत्य्.ओषधीः.प्रीणामि.इति.मनसा ।
श्श्स्_2.9.13: उत्तरम्.दक्षिणतः.पाणिम्.उत्तानम्.निदधाति.पितॄन्.प्रीणामि.इति.मनसा ।
श्श्स्_2.9.14: द्विः.प्रदेशिन्या.प्राश्य.उपब्दिमद्.उदन्.पर्यावृत्य.(?).प्राग्.दण्डया.भक्षयित्वा.प्राग्.दण्डाम्.पर्यस्य.निर्लिह्य.प्रक्षाल्य.आचम्य.प्राग्.उदीचीर्.अप.उत्सिच्य.प्राग्.उदीचीम्.उद्दिशति ।

श्श्स्_2.9.15: एतद्.एक.होमे.कर्म ।
श्श्स्_2.9.16: सर्वेषु.तु.जुह्वत्य्.ऊर्णाम्.स्रुचम्.उत्तरेण.गार्हपत्यम्.निधाय ।
श्श्स्_2.10.1: इह.पुष्टिम्.पुष्टि.पतिर्.दधात्व्.इह.प्रजाम्.जनयतु.प्रजापतिः.।.अग्नये.रयिमते.पशुमते.पुष्टि.पतये.स्वाहा.।.अग्नये.गृह.पतये.स्वाहा.।.अग्नये.स्वाहा.।.तूष्णीम्.चतुर्थी.गार्हपत्ये ।
श्श्स्_2.10.2: तत्.सवितुर्.वरेण्यम्.भूर्.वाग्.बहु.बहु.मे.भूयात्.स्वाहा.।.भर्गो.देवस्य.धीमहि.भुवः.प्राणो.भूयान्.भूयो.मे.भूयात्.स्वाहा.।.धियो.यो.नः.प्र.चोदयात्.स्वर्.णाम.सर्वम्.सर्वम्.मे.भूयात्.स्वाहा.।.अग्नये.अन्नादाय.अन्न.पतये.स्वाहा.इत्य्.अन्वाहार्य.पचने.चतुर्थी ।
श्श्स्_2.10.3: महा.व्याहृतिभिर्स्.तिस्रो.ब्रह्म.वर्चस.कामस्य ।
श्श्स्_2.10.4: अविकृता.चतुर्थी ।
श्श्स्_2.10.5: याः.स्रुच्य्.आपस्.त्रैधम्.ताः.करोत्य्.अग्निहोत्र.स्थाल्याम्.गार्हपत्यस्य.पश्चाद्.अञ्जलौ.च.पत्न्याः ।
श्श्स्_2.10.6: सम्.त्वा.सृजामि.प्रजया.धनेन.इत्य्.अञ्जलौ ।
श्श्स्_2.10.7: प्रतितप्य.स्रुचम्.निदधाति ।
श्श्स्_2.11.1: दक्षिणतो.न्यायम्.याजमानम् ।
श्श्स्_2.11.2: उप.प्रयन्तो.अध्वरम्.अयम्.अग्निः.सहस्रिण.उभा.वाम्.अयम्.ते.योनिर्.अयम्.इह.अस्य.प्रत्नाम्.इति.षण्णाम्.त्रिः.प्रथमाम्.उत्तमाम्.च ।
श्श्स्_2.11.3: आयुर्दा.अग्ने.अस्य.आयुर्.मे.देहि.वर्चोदा.अग्ने.असि.वर्चो.मे.देहि.तनूपा.अग्ने.असि.तन्वम्.मे.पाह्य्.अग्ने.यन्.म.ऊनम्.तन्वस्.तन्.म.आ.पृण.।.इन्धानास्.त्वा.शतम्.हिमा.द्युमन्तम्.समिधीमहि.।.वयस्वन्तो.वयस्.कृतम्.सहस्वन्तः.सहस्.कृतम्.।.अग्ने.सपत्न.दम्भनम्.अदब्धासो.अदाभ्यम्.।.इति.जपित्वा ।
श्श्स्_2.11.4: चित्र.अवसो.स्वस्ति.ते.पारम्.अशीय.इति.त्रिः ।
श्श्स्_2.11.5: सम्.त्वम्.अग्ने.सूर्यस्य.वर्चसा.आगथाः.समृषीणाम्.स्तुतेन.सम्.ऋषीणाम्.स्तुतेन.सम्.प्रियेण.धाम्ना.सम्.अहम्.आयुषा.सम्.वर्चसा.सम्.प्रजया.सम्.प्रियेण.धाम्ना.सम्.रायस्.पोषेण.--षीय.(?).इत्य्.उपविश्य ।
श्श्स्_2.11.6: अम्भ.स्थाम्भो.वो.भक्षीय.मह.स्थ.महो.वो.भक्षीय.ऊर्ज.स्थ.ऊर्जम्.वो.भक्षीय.रायस्.पोष.स्थ.रायस्.पोषम्.वो.भक्षीय.।.रेवती.रमध्वम्.अस्मिन्.योनाव्.अस्मिंल्.लोके.अस्मिन्.गोष्ठे.अस्मिन्.क्षये.अस्याम्.आशिष्य्.अस्याम्.प्रतिष्ठायाम्.इह.एव.स्थ.इतो.मा.अपगात.इति.गाम्.अभ्येति ।
श्श्स्_2.12.1: संहिता.असि.विश्व.रूप्य्.ऊजा.मा.आविश.गौपत्येन.इत्य्.अस्या.ललाटम्.उपस्पृश्य ।
श्श्स्_2.12.2: उप.त्वा.अग्न.इति.तृचेन.अग्ने.त्वम्.न.इति.च.द्वैपदेन.गार्हपत्यम् ।
श्श्स्_2.12.3: इळ.एह्य्.अदित.एहि.सूनृत.एहि.इति.गाम्.अभ्येति ।
श्श्स्_2.12.5: सोमानम्.स्वरणम्.इति.तृचेन.उत्तरतो.अन्वाहार्य.पचनम् ।
श्श्स्_2.12.6: अन्तरेण.गार्हपत्य.आहवनीयौ.माहित्रम्.जपित्वा.आहवनीयम्.उपतिष्ठते ।
श्श्स्_2.12.7: तत्.सवितुर्.वरेण्यम्.कदा.चन.स्तरीर्.असि.परि.ते.दूलभ.इति.त्रिर्.एताम् ।
श्श्स्_2.12.8: सर्वेषु.तु.जुह्वन्.महा.व्याहृतिभिस्.तिस्रस्.तिस्रः.समिधो.अभ्यादधात्य्.आहवनीये.वै.एक.हावी.(.ऐकहावी.) ।
श्श्स्_2.12.9: दैवस्.तन्तुर्.अस्य्.अनु.त्वा.रभे.मा.अहम्.त्वद्.व्यवच्छित्सि.इत्य्.आहवनीयस्य.दक्षिणतो.अङ्गारान्.उपस्पृश्य ।
श्श्स्_2.12.10: ततो.असि.तन्तुर्.अस्य्.अनु.मा.संतनुहि.प्रजया.पशुभी.रायस्.पोषेण.सुप्रजास्.त्वेन.सुवीर्येण.मानुषस्.तन्तुर्.अस्य्.अनु.मा.रभस्व.मा.त्वम्.मद्.व्यवच्छित्था.असाव्.इति.ज्येष्ठस्य.पुत्रस्य.नाम.अभिव्याहृत्य.यावन्तो.वा.भवन्ति ।
श्श्स्_2.12.11: आत्मनो.अजात.पुत्रः ।
श्श्स्_2.12.12: सत्येन.अवभृथम्.अभ्यवैम्य्.अप्सु.व्रतम्.इत्य्.आचम्य.वाचम्.विसृजते ।
श्श्स्_2.13.1: अथ.प्रातः ।
श्श्स्_2.13.2: भूर्.भुवः.स्वः.सुप्रजाः.प्रजाभिर्.भूयासम्.सुपोषः.पोषैः.सुवीरो.वीरैर्.अभयम्.ते.अभयम्.नो.अस्तु.मनसा.त्वा.उपतिष्ठे.लोकम्.उपैमि.स्वश्.च.इत्य्.आहवनीयम् ।
श्श्स्_2.13.3: अत्र.एव.तिष्ठन्न्.इतरौ ।
श्श्स्_2.13.4: अभयम्.ते.अभयम्.नो.अस्तु.वाचा.त्वा.उपतिष्ठे.प्रजाम्.उपैमि.पशूंश्.च.इति.गार्हपत्यम् ।
श्श्स्_2.13.5: अभयम्.ते.अभयम्.नो.अस्तु.प्राणेन.त्वा.उपतिष्ठे.व्यानम्.उपैम्य्.आयुश्.च.इत्य्.अन्वाहार्य.पचनम् ।
श्श्स्_2.13.6: अभयम्.वो.अभयम्.नो.अस्तु.कामेन.व.उपतिष्ठते.वित्तिम्.उपैमि.भूतिम्.च.इति.सर्वान् ।
श्श्स्_2.13.7: समानम्.समित्.प्रभृत्या.व्रतस्य.विसर्जनात् ।
श्श्स्_2.13.8: अनेन.वैव.सायम्.प्रातः ।
श्श्स्_2.13.9: अनुपस्थानम्.वा.प्रातः ।
श्श्स्_2.14.1: प्रवत्स्यन्न्.अग्नीन्.समीक्षते.अभयम्.वो.अभयम्.नो.अस्त्व्.इति ।
श्श्स्_2.14.2: नर्य.प्रजाम्.मे.पाहि.मानुषान्.मा.भयात्.पाहि.इति.गार्हपत्यम् ।
श्श्स्_2.14.3: अथर्य.(?).पितुम्.मे.पाहि.पित्र्यान्.मा.भयात्.पाहि.इत्य्.अन्वाहार्य.पचनम् ।
श्श्स्_2.14.4: तम्.उत्तरेण.गत्वा.शंस्य.पशून्.मे.पाहि.दैवान्.मा.भयात्.पाहि.इत्य्.आहवनीयम् ।
श्श्स्_2.14.7: अन्नम्.अन्नम्.इति.त्रीणि.पदान्य्.अभ्युद्धृत्या.सकाशाद्.वाग्.यमनम् ।

श्श्स्_2.14.8: अनपेतम्.हि.कारणम् ।
श्श्स्_2.14.9: संधि.वेलयोर्.वा.आचम्य.वाचम्.यत्वा.पुनर्.आचम्य.महा.व्याहृतिभिर्.विसर्गः ।
श्श्स्_2.14.10: चक्षुर्.विषये.अग्नीनाम्.वाचम्.यच्छेत्.।.प्रोष्यायन् ।
श्श्स्_2.15.1: तथा.चैव.समीक्षणम् ।
श्श्स्_2.15.2: आगन्म.वृत्र.हन्तमम्.अस्मभ्यम्.वसुवित्तमम्.।.अग्ने.संराऌ.अभि.द्युम्नम्.अभि.सह.आ.यच्छस्व.।.शंस्य.पशून्.मे.अजुगुपस्.तान्.मे.पाह्य्.एव.दैवान्.मा.भयाद्.अजुगुपस्.तस्मान्.मा.पाह्य्.एव.इत्य्.आहवनीयम् ।
श्श्स्_2.15.3: तृण.अपचयनम्.समिद्.आधानम्.च.सर्वेषु ।
श्श्स्_2.15.4: अयम्.अग्निः.पुरीष्यो.रयिमान्.पुष्टि.वर्धनः.।.अग्ने.पुरीष्या.अभि.द्युम्नम्.अभि.सह.आ.यच्छस्व.।.अथर्य.पितुम्.मे.अजुगुप्सस्.तम्.मे.पाह्य्.एव.पित्र्यान्.मा.भयाद्.अजुगुपस्.तस्मान्.मा.पाह्य्.एव.इत्य्.अन्वाहार्य.पचनम् ।
श्श्स्_2.15.5: अयम्.अग्निर्.गृह.पतिर्.गार्हपत्यात्.प्रजाया.वसुवित्तमः.।.अग्ने.गृह.पते.अभि.द्युम्नम्.अभि.सह.आ.यच्छस्व.।.नर्य.प्रजाम्.मे.अजुगुपस्.ताम्.मे.पाह्य्.एव.मानुषान्.मा.भयाद्.अजुगुपस्.तन्.मान्.मा.पाह्य्.एव.इति.गार्हपत्यम् ।
श्श्स्_2.15.6: व्यवेतो.अग्नीन्.प्रवसति ।
श्श्स्_2.15.7: तेन.च.एव.उत्सृज्यते ।
श्श्स्_2.16.1: वास्तोष्.पतीयम्.ध्रौव्ये.दशरात्र.अवर.अर्धे.सम्प्रयातेषु ।
श्श्स्_2.16.2: अग्निष्ठस्य.दक्षिणे.युक्त.उपोह्य.चीवरम्.वास्तोष्.पते.प्रतिजानीहि.इत्य्.अनूच्य.वास्तोष्.पते.शग्मय.इति.यजति ।
श्श्स्_2.16.3: हुते.च.अनाहितम्.त्यजेत् ।
श्श्स्_2.17.1: समारोहयमाणो.गार्हपत्ये.पाणी.प्रतितप्य.प्राणान्.सम्मृशत्य्.एहि.मे.प्राणान्.आरोह.इति ।
श्श्स्_2.17.2: सकृत्.सकृन्.मन्त्रेण.द्विर्.द्विस्.तूष्णीम् ।
श्श्स्_2.17.3: अयम्.ते.योनिर्.इति.वारणी.प्रतितपति ।
श्श्स्_2.17.4: सकृत्.सकृन्.मन्त्रेण.द्विर्.द्विस्.तूष्णीम् ।
श्श्स्_2.17.5: एवम्.आहवनीयात् ।
श्श्स्_2.17.6: नित्य.धृताद्.अन्यस्मिन् ।
श्श्स्_2.17.7: अनस्तमिते.च.मन्थनम् ।
श्श्स्_2.17.8: उपावरोह.जात.वेदः.पुनस्.त्वम्.देवेभ्यो.हव्यम्.वह.नः.प्रजानन्.।.आयुः.प्रजाम्.रयिम्.अस्मासु.धेह्य्.अरिष्टो.दीदिहि.नो.दुरोणे.।.इत्य्.आत्मनो.अरण्योर्.उपावरोह्य.मन्थनम् ।
श्श्स्_2.17.9: लौकिके.वा.लौकिके.वा ।
श्श्स्_3.1.1: संस्थितायाम्.पौर्णमास्याम्.इन्द्राय.इष्टिर्.विमृधे ।
श्श्स्_3.1.2: अमावास्या.विकारः ।
श्श्स्_3.1.3: इन्द्र.क्षत्रम्.मृगो.न.भीमः ।
श्श्स्_3.1.4: जुष्टो.दमूना.अग्ने.शर्ध.इति.स्विष्टकृतः ।
श्श्स्_3.1.5: अदितये.अमावास्यायाम्.संस्थितायाम् ।
श्श्स्_3.1.6: पौर्णमासी.विकारः ।
श्श्स्_3.1.7: ये.वैमृधस्य.ते.स्विष्टकृतः ।
श्श्स्_3.1.8: यावज्.जीवम्.च ।
श्श्स्_3.1.9: प्रयोग.आन्तात् ।
श्श्स्_3.2.1: अनागते.पर्वण्य्.अमावास्ये.प्रवृत्ते.अभ्युदित.इष्टिः ।
श्श्स्_3.2.2: अग्नये.दात्र.इन्द्राय.प्रदात्रे.विष्णवे.शिपिविष्टाय.इति ।
श्श्स्_3.2.3: निरुप्ते.जानंस्.तान्.एव.विभजेत् ।
श्श्स्_3.2.4: अग्ने.दादानो.अग्ने.बृहतः ।
श्श्स्_3.2.5: सहस्रा.ते.शता.तू.भर ।
श्श्स्_3.2.6: अमावास्या.विकारः ।
श्श्स्_3.2.7: धनुश्.च.त्रीषु.दक्षिणा ।
श्श्स्_3.2.8: काले.च.अमावास्यम् ।
श्श्स्_3.2.9: न.अभ्यावृत्तिः.पिण्ड.पितृ.यज्ञस्य.अस्ति ।

श्श्स्_3.3.1: अतीते.पर्वण्य्.अमावास्ये.प्रवृत्ते.अभ्युद्दृष्ट.इष्टि ।
श्श्स्_3.3.2: अग्नये.पथिकृत.इन्द्राय.वृत्रघ्ने.वैश्वानराय ।
श्श्स्_3.3.3: वेत्था.हि.वेध.आ.देवानाम् ।
श्श्स्_3.3.4: वार्त्रहत्याय.सहदानुम् ।
श्श्स्_3.3.5: ऋतावानम्.वैश्वानरम्.ऋतस्य.ज्योतिषस्.पतिम्.।.अजस्रम्.भानुम्.ईमहे.।.नाभिम्.यज्ञानाम् ।
श्श्स्_3.3.6: अमावास्या.विकारः ।
श्श्स्_3.3.7: दण्ड.उपानहम्.दक्षिणा ।
श्श्स्_3.3.8: संस्थितायाम्.च.अमावास्यम् ।
श्श्स्_3.3.9: नाभ्य्.आवृत्तिः.पिण्ड.पितृ.यज्ञस्य.अस्ति ।
श्श्स्_3.4.1: अग्नये.अग्निमते.अग्नाव्.अग्नाव्.अभ्युद्धृते ।
श्श्स्_3.4.2: पथि.कृते.अन्तरेण.विहारम्.चक्रीवति.वृत्ते.नियत.अतिपत्तौ.च ।
श्श्स्_3.4.3: वीतये.मिथः.संसृष्टेषु ।
श्श्स्_3.4.4: विविचये.ग्राम्येण ।
श्श्स्_3.4.5: संवर्गाय.प्रदाव्येन ।
श्श्स्_3.4.6: शुचये.क्रव्येण ।
श्श्स्_3.4.7: अप्सुमते.वैद्युतेन ।
श्श्स्_3.4.8: व्याधि.प्लाये.रुद्राय ।
श्श्स्_3.4.9: अध्वानम्.गमिष्यन्.पूष्णे.पथि.कृते ।
श्श्स्_3.4.10: सार्वकामिक्य्.अग्नये.कामाय ।
श्श्स्_3.4.11: व्रत.पतये.व्रत्य.वेलाम्.प्रोष्या.व्रत्यम्.वा.चरित्वा ।
श्श्स्_3.4.12: व्रतभृते.अश्रु.कृत्वा ।
श्श्स्_3.4.13: गृह.दाहे.क्षामवते ।
श्श्स्_3.4.14: मरुद्भ्यो.यमौ.प्रजातायाम् ।
श्श्स्_3.5.1: अग्निम्.अग्निम्.हवीमभिर्.अग्निना.अग्निः.समिध्यते ।
श्श्स्_3.5.2: अग्न.आ.याहि.वीतये.यो.अग्निम्.देव.वीतये ।
श्श्स्_3.5.3: कया.नो.अग्ने.विवसस्.त्वाम्.अग्ने.मानुषीः ।
श्श्स्_3.5.4: कुवित्.सु.नो.मा.नो.अस्मिन्.महा.धने ।
श्श्स्_3.5.5: अप्स्व्.अग्न.उरौ.महान् ।
श्श्स्_3.5.6: कद्.रुद्राय.अश्याम.ते ।
श्श्स्_3.5.7: वयम्.उ.त्वा.पथस्.पते.पथस्.पथः ।
श्श्स्_3.5.8: अग्निः.परेषु.धामसु.कामो.भूतस्य.भव्यस्य.।.संराऌ.एको.वि.राजति.।.अश्याम.तम् ।
श्श्स्_3.5.9: त्वम्.अग्ने.व्रतभृत्.शुचिर्.अग्ने.देवान्.इह.आ.वह.।.उप.यज्ञम्.हविश्.च.नः.।.व्रतानि.बिभ्रद्.व्रतपा.अदाभ्यो.भवा.नो.दूतो.अजरः.सुवीरः.।.दधर्.रत्नानि.सुमृलीको.अग्ने.गोपाय.नो.जीवसे.जात.वेदः ।
श्श्स्_3.5.10: कृष्णा.रजांसि.पत्सुतस्.त्वे.वसूनि.पुर्वणीक.होतः ।
श्श्स्_3.5.11: मरुतस्.त्वेष.सदृश.आ.यात.यमाव्.इव.।.शुभ्रा.हिरण्य.खादयः.।.वात.त्विषो.मरुतः.श्रिये.कम्.इति.वा ।
श्श्स्_3.6.1: ज्ञातयो.असंविदाना.बहु.देवताम्.इष्टिम्.निर्वपेरन् ।
श्श्स्_3.6.2: अग्निः.प्रथमो.वसुभिर्.नो.अव्यात्.सोमो.रुद्रैर्.अभि.रक्षतु.त्मना.।.इन्द्रो.ंरुद्भिर्.ऋतुथा.कृषोत्व्.आदित्यैर्.नो.वरुणः.शर्म.यंसत्.।.सम्.अग्निर्.वसुभिर्.नो.अव्यात्.सम्.सोमो.रुद्रियाभिस्.तनूभिः.।.सम्.इन्द्रो.रात.हव्यो.मरुद्भिः.सम्.आदित्यैर्.वरुणो.विश्व.वेदाः ।
श्श्स्_3.6.3: संज्ञानम्.इति.च.जपेरन् ।
श्श्स्_3.7.1: मित्र.विन्दायाः ।
श्श्स्_3.7.2: पञ्चदश.सामिधेनीः ।
श्श्स्_3.7.3: अग्निना.रयिम्.गयस्फान.इत्य्.आज्य.भागौ ।

श्श्स्_3.7.4: अग्निः.सोमो.वरुणो.मित्र.इन्द्रो.बृहस्पतिः.सविता.यः.सहस्री.।.पूषा.नो.गोभिर्.अवसा.सरस्वती.त्वष्टा.रूपाणि.समनक्तु.यज्ञैः.।.त्वष्टा.रूपाणि.दधती.सरस्वती.पूषा.भगम्.सविता.मे.ददातु.।.बृहस्पतिर्.ददद्.इन्द्रो.बलम्.मे.मित्रः.क्षत्रम्.वरुणः.सोमो.अग्निः ।
श्श्स्_3.7.5: नू.नो.रास्व.सहस्रवद्.उत.नो.ब्रह्मन्न्.अविष.इति.स्विष्टकृतः ।
श्श्स्_3.7.6: सहस्रम्.दक्षिणा ।
श्श्स्_3.7.7: देवता.आनुपूर्व्यम्.पुरोनुवाक्यावन्.निगमेषु ।
श्श्स्_3.7.8: याज्यावद्.आदेशे ।
श्श्स्_3.7.9: यथा.सम्प्रेषितम्.वा ।
श्श्स्_3.8.1: फाल्गुन्याम्.पौर्णमास्याम्.प्रयोगे.अदीक्षित.अयनानाम् ।
श्श्स्_3.8.2: वसिष्ठ.यज्ञस्य.अमावास्यायाम्.साकम्.प्रस्थाय्यस्य.च ।
श्श्स्_3.8.3: पञ्चदश.वर्षाणि.दाक्षायण.यज्ञस्य ।
श्श्स्_3.8.4: संवत्सरम्.संवत्सरम्.वा.सर्वेषाम् ।
श्श्स्_3.8.5: न.प्रयुञ्जानस्य.नित्यौ.दर्श.पूर्ण.मासौ.वर्तेते ।
श्श्स्_3.8.6: दाक्षायण.यज्ञस्य ।
श्श्स्_3.8.7: पौर्णमासानि.पूर्वे.द्युः ।
श्श्स्_3.8.8: अग्नी.षोमीयो.वा ।
श्श्स्_3.8.9: आग्नेयः.साम्नाय्यम्.च.ऐन्द्रम्.पौर्णमास्याम् ।
श्श्स्_3.8.10: अपर.पक्षम्.दीक्षित.व्रतो.अतिथिभ्यो.ददाति ।
श्श्स्_3.8.11: सत्य.व्रतो.वा ।
श्श्स्_3.8.12: अभ्यञ्जन.हत.अविक.पल्पूलितानि.न.वस्ते ।
श्श्स्_3.8.13: हविर्.उच्छिष्ट.अशनः ।
श्श्स्_3.8.14: न.सौहित्यम्.प्राप्नुयात् ।
श्श्स्_3.8.15: सोमम्.राजानम्.चन्द्रमसम्.भक्षयामि.इति.मनसा.ध्यायन्न्.अश्नाति ।
श्श्स्_3.8.16: आमावास्यानि.पूर्वे.द्युः ।
श्श्स्_3.8.17: ऐन्द्राग्नो.वा ।
श्श्स्_3.8.18: आग्नेयो.मैत्रावरुणी.च.पयस्या.अमावास्यायाम् ।
श्श्स्_3.8.19: ऋतेन.या.उत.वाम्.विक्षु ।
श्श्स्_3.8.20: पुरा.शम्योर्.वाकाद्.ऊर्ध्वम्.वा.अनावाह्य.वाजिनो.यजति ।
श्श्स्_3.8.21: उत्तमे.प्रयाजे.निगच्छन्ति.यथा.अर्थम्.च.सूक्त.वाके ।
श्श्स्_3.8.22: वाजिनो.देवा.हविर्.जोषयिष्यन्ते.वर्धयिष्यन्ते.महो.ज्यायः.करिष्यन्ते ।
श्श्स्_3.8.23: शम्.नो.भवन्तु.वाजिनो.वाजे.वाज.इत्य्.ऊर्ध्वज्ञुर्.अनवानम्.यजति ।
श्श्स्_3.8.24: वाजिनस्य.अग्ने.वीहि.इत्य्.अनुवषट्.कारः ।
श्श्स्_3.8.25: यजमानो.ब्रह्मा.होता.अध्वर्युर्.आग्नीध्रश्.च.समुपहूय.भक्षयन्ति ।
श्श्स्_3.8.26: प्रथमो.जघन्यश्.च.यजमानः ।
श्श्स्_3.8.27: यन्.मे.रेतः.प्र.धावति.यद्.वा.सिक्तम्.प्र.जायते.।.राज्ञा.सोमेन.तद्.वयम्.अस्मासु.धारयामसि.।.वाजो.असि.वाजिनम्.असि.वाजो.मयि.धेहि.इति.भक्ष.मन्त्रः ।
श्श्स्_3.9.1: इळादधस्य ।
श्श्स्_3.9.2: आग्नेय.सरस्वत्यै.च ।
श्श्स्_3.9.3: अग्नीषोमीयः.स.उपांशु.याजः.साम्नाय्यम्.च.ऐन्द्रम्.पौर्णमास्याम् ।
श्श्स्_3.9.4: व्रतानि.च.दाक्षायण.याज्ञिकानि ।
श्श्स्_3.9.5: आग्नेयः.सरस्वते.च ।
श्श्स्_3.9.6: ऐन्द्राग्नो.मैत्रावरुणी.पयस्या.अमावास्यायाम् ।
श्श्स्_3.9.7: समानम्.वाजिनम् ।

श्श्स्_3.10.1: सार्वसेनि.यज्ञे ।
श्श्स्_3.10.2: उभयानि.हवींष्य्.एकस्याम्.इष्टौ ।
श्श्स्_3.10.3: पौर्णमासानि.पूर्वाणि ।
श्श्स्_3.10.4: अर्चन्तस्.त्व्.अस्माकम्.अग्ने.अध्वरम्.इत्य्.उत्तरस्य.आग्नेयस्य ।
श्श्स्_3.10.5: न.अमावास्याम्.यजति ।
श्श्स्_3.10.6: पिण्ट.पितृ.यज्ञम्.तु.करोति ।
श्श्स्_3.10.7: न.शौनक.यज्ञे.साकम्.प्रस्थाय्ये.च.विकारो.होतुम्.अस्ति ।
श्श्स्_3.11.1: सार्वसेनि.यज्ञेन.वसिष्ठ.यज्ञो.व्याख्यातः ।
श्श्स्_3.11.2: पूर्वाणि.त्व्.आमावास्यानि ।
श्श्स्_3.11.3: न.पौर्णमासीम्.यजते ।
श्श्स्_3.11.4: इत्.दर्श.पूर्ण.मास.अयनानि ।
श्श्स्_3.11.5: काम्यानि ।
श्श्स्_3.11.6: पाञ्चदश्यम्.च.सामिधेनीनाम् ।
श्श्स्_3.11.7: आग्नेय.आग्नावैष्णवौ ।
श्श्स्_3.11.8: पौर्णमासी.विकारः ।
श्श्स्_3.11.9: सदा.यजते.अन्यत्र.पर्वणः ।
श्श्स्_3.11.10: ंउन्ययनम्.इत्य्.आचक्षते ।
श्श्स्_3.11.11: आग्नेय.ऐन्द्रो.वैश्वदेवः ।
श्श्स्_3.11.12: अमावास्या.विकारः ।
श्श्स्_3.11.13: सदा.यजते.अन्यत्र.पर्वणः ।
श्श्स्_3.11.14: अदीक्षितः.कृष्ण.अजिनम्.प्रतिमुञ्चते ।
श्श्स्_3.11.15: तुरायणम्.इत्य्.आचक्षते ।
श्श्स्_3.11.16: संवत्सर.प्रयोगे.च ।
श्श्स्_3.12.1: सौमी.श्यामाक.इष्टिः ।
श्श्स्_3.12.2: वैणुयवी.च ।
श्श्स्_3.12.3: ऐन्द्राग्न.आग्नेन्द्रो.वा.वैश्वदेवो.द्यावा.पृथिवीयश्.च.व्रीहि.यवानाम् ।
श्श्स्_3.12.4: सद्वद्.आज्य.भागे ।
श्श्स्_3.12.5: इमम्.यज्ञम्.या.ते.धामानि.दिवि.इति ।
श्श्स्_3.12.6: सौम्यस्य.मधु.पर्को.दक्षिणा ।
श्श्स्_3.12.7: इयम्.वाम्.अस्य.शुचिम्.नु ।
श्श्स्_3.12.8: आ.घा.ये.सुकर्माणः.सुरुचः ।
श्श्स्_3.12.9: मही.द्यौर्.उर्वी.पृथ्वी ।
श्श्स्_3.12.10: वैश्वदेव.द्यावा.पृथिवीयौ.च.उपांशु ।
श्श्स्_3.12.11: विराजौ.स्विष्टकृतः ।
श्श्स्_3.12.12: वत्सः.प्रथमजो.दक्षिणा ।
श्श्स्_3.12.13: समान.तन्त्रा.वा.दर्श.पूर्ण.मासाभ्याम् ।
श्श्स्_3.12.14: दर्श.पूर्ण.मासौ.वा.नवानाम् ।
श्श्स्_3.12.15: अग्निहोत्रम्.वा.यवाग्वा.सायम्.प्रातः ।
श्श्स्_3.12.16: अग्निहोत्रीम्.वा.नवान्.आदयित्वा.तस्यै.दुग्धेन.सायम्.प्रातर्.अग्निहोत्रम्.जुहुयात् ।
श्श्स्_3.12.17: गार्हपत्ये.वा.स्थाली.पाकम्.श्रपयित्वा.आग्रयण.देवताभ्यः.स्विष्टकृच्.चतुर्थीभ्यः.स्वाहा.कारेण.आहवनीये.जुहुयात् ।

श्श्स्_3.13.1: फाल्गुन्याम्.पौर्णमास्याम्.प्रयोगश्.चातुर्मास्यानाम् ।
श्श्स्_3.13.2: चैत्र्याम्.वा ।
श्श्स्_3.13.3: वैश्वानरीय.पार्जन्य.इष्टिः.पूर्वस्याम्.पौर्णमास्याम् ।
श्श्स्_3.13.4: पर्जन्याय.यस्य.व्रते ।
श्श्स्_3.13.5: उत्तरस्याम्.वैश्वदेवम् ।
श्श्स्_3.13.6: आग्नेयः ।
श्श्स्_3.13.7: सौम्य.सावित्रौ ।
श्श्स्_3.13.8: सारस्वत.पौष्णौ ।
श्श्स्_3.13.9: मरुद्भ्यः.स्वतवद्भ्यः ।
श्श्स्_3.13.10: वैश्वदेवी ।
श्श्स्_3.13.11: द्यावा.पृथिवीयश्.च ।
श्श्स्_3.13.12: हिरण्य.पाणिम्.ऊतय.उदीरय ।
श्श्स्_3.13.13: पूषन्.तव.शुक्रम्.ते ।
श्श्स्_3.13.14: इह.इह.वः.प्र.चित्रम् ।
श्श्स्_3.13.15: अग्नि.मन्थनीयाश्.च.आसन्न्नषु.(.आसन्नेषु.?).हविह्षु ।
श्श्स्_3.13.17: अभि.त्वा.देव.सवितुः.।.मही.द्यौः.।.त्वाम्.अग्ने.पुष्कराद्.इति.च.तिस्रः.।.उत.ब्रुवन्तु.जन्तव.इति.जाताय.।.आ.यम्.हस्ते.न.खादिनम्.इति.हस्तेन.धार्यमाणाय.।.उत्तरे.प्रह्रियमाणाय.।.अग्निना.अग्निः.समिध्यते.।.त्वम्.ह्य्.अग्ने.अग्निना.।.तम्.मर्जयन्त.इत्य्.अग्नि.मन्थनीयाः ।
श्श्स्_3.13.18: नव.च.प्रयाजाः ।
श्श्स्_3.13.19: चतुर्थ.उत्तमाव्.अन्तरेण.चत्वारः ।
श्श्स्_3.13.20: दुरो.अग्न.आज्यस्य.व्यन्तु.।.उषासा.नक्ता.अग्न.आज्यस्य.वीताम्.।.दैव्या.होतारा.अग्न.आज्यस्य.वीताम्.।.तिस्रो.देवीर्.अग्न.आज्यस्य.व्यन्तु ।
श्श्स्_3.13.21: सद्वन्ताव्.आज्य.भागौ ।
श्श्स्_3.13.22: सावित्र.द्यावा.पृथिवीयौ.च.उपांशु ।
श्श्स्_3.13.23: विराजौ.स्विष्टकृतः ।
श्श्स्_3.13.24: वत्सः.प्रथमजो.दक्षिणा ।
श्श्स्_3.13.25: नव.अनुयाजाः ।
श्श्स्_3.13.26: प्रथम.द्वितीयौ.तु.षऌ.अन्तरेण ।
श्श्स्_3.13.27: देवीर्.द्वारो.वसुवने.वसुधेयस्य.व्यन्तु.।.देवी.उषासा.नक्ता.वसुवने.वसु.धेयस्य.वीताम्.।.देवी.जोष्ट्री.वसुवने.वसुधेयस्य.वीताम्.।.देवी.ऊर्ज.आहुती.वसुवने.वसुधेयस्य.वीताम्.।.देवी.उषासा.नक्ता.वसुवने.वसुधेयस्य.वीताम्.।.देवी.जोष्ट्री.वसुवने.वसुधेयस्य.वीताम्.।.देवीस्.तिस्रस्.तिस्रो.देवीर्.वसुवने.वसुधेयस्य.व्यन्तु ।
श्श्स्_3.13.28: समानम्.वाजिनम् ।
श्श्स्_3.13.29: संस्थितायाम्.पौर्णमासम् ।
श्श्स्_3.13.30: मांस.अनशनम्.ब्रह्मचर्यम्.प्रान्.अधः.शेत.ऋतु.काले.वा.जायाम्.उपेयात्.सत्य.वदनम्.च.अन्तराल.व्रतानि ।
श्श्स्_3.14.1: आषाढ्याम्.वरुण.प्रघासाः.फाल्गुनी.प्रयोगस्य ।
श्श्स्_3.14.2: चैत्री.प्रयोगस्य.श्रवणायाम् ।
श्श्स्_3.14.3: पौष्ण.अन्तानि.वैश्वदेविकानि ।
श्श्स्_3.14.4: ऐन्द्राग्नो.वारुणी.पयस्या.मारुती.कायश्.च ।
श्श्स्_3.14.5: इमम्.मे.वरुण.तत्.त्वा.यामि ।
श्श्स्_3.14.6: मरुतो.यद्द्.ह.यूयम्.अस्मान् ।
श्श्स्_3.14.7: हिरण्य.गर्भो.यः.प्राणत.इति ।
श्श्स्_3.14.8: आहवनीयाच्.च.अग्नौ.प्रणयन्ति ।
श्श्स्_3.14.9: प्र.देवम्.देव्या.इति.तिसृणाम्.आसीनः.प्रथमाम् ।
श्श्स्_3.14.10: उत्तरे.अनुसम्यन् ।
श्श्स्_3.14.11: इळायास्.त्वा.इति.साद्यमानयोर्.इध्मयोः ।

श्श्स्_3.14.12: अग्ने.विश्वेभिः.स्वनीक.सीद.होतर्.नि.होता.त्वम्.दूतः ।
श्श्स्_3.14.13: इत्य्.अग्नि.प्रणयनीयाः ।
श्श्स्_3.14.14: यत्र.च.आसीनः.प्रथमाम्.अन्ववोचत्.तत्.स्थित्वा.उत्सृज्यते ।
श्श्स्_3.14.15: उत्तरस्याम्.वेदौ.होतृ.कर्म ।
श्श्स्_3.14.16: उपांशु.कायः ।
श्श्स्_3.14.17: गो.मिथुनौ.दक्षिणा ।
श्श्स्_3.14.18: अध्वर्योर्.वेदम्.स्तृणाति ।
श्श्स्_3.14.19: वारुण्या.निष्काषेण.अवभृथम्.अवैति.यथा.सोमे ।
श्श्स्_3.14.20: उरुम्.हि.राजा.शतम्.ते ।
श्श्स्_3.14.21: समानम्.अन्यद्.वैश्वदेवेन ।
श्श्स्_3.15.1: कार्त्तिक्याम्.साक.मेधाः.फाल्गुनी.प्रयोगस्य ।
श्श्स्_3.15.2: आग्रहायण्याम्.चैत्री.प्रयोगस्य ।
श्श्स्_3.15.3: अग्नये.अनीकवते.पूर्वस्याम्.पौर्णमास्याम्.इष्टिः.पूर्व.अह्णे ।
श्श्स्_3.15.4: अनीकैर्.द्वेषो.अर्दय.अग्ने.विश्वाभिर्.ऊतिभिः.।.रयिम्.नो.देहि.जीवसे.।.सैनानीकेन ।
श्श्स्_3.15.5: मध्यंदिने.मरुद्भ्यः.सांतपनेभ्यः ।
श्श्स्_3.15.8: अग्निना.रयिम्.गयस्फान.इत्य्.आज्य.भागौ ।
श्श्स्_3.15.9: गृह.मेधास.आ.गत.प्र.बुध्न्या.वः ।
श्श्स्_3.15.10: त्वाम्.चित्र.श्रवस्तम.यद्.वाहिष्ठम्.इति.स्विष्टकृतः ।
श्श्स्_3.15.11: न.निगदम्.आह ।
श्श्स्_3.15.12: न.सामिधेनीर्.अन्वाह ।
श्श्स्_3.15.13: आज्य.भाग.प्रभृती.इज्या.इळा.अन्ता ।
श्श्स्_3.15.14: तस्य.निष्काषम्.प्रातः.पूर्ण.दर्व्यम्.हुत्वा.इष्टिम्.मरुद्भ्यः.क्रीळिभ्यः ।
श्श्स्_3.15.15: क्रीळम्.वः.पर्वतश्चित् ।
श्श्स्_3.15.16: महा.हविषि ।
श्श्स्_3.15.17: ऐन्द्राग्न.अन्तानि.वारुण.प्रघासिकानि ।
श्श्स्_3.15.18: माहेन्द्रो.वैश्व.कर्मणश्.च ।
श्श्स्_3.15.19: वाचस्.पतिम्.या.ते.धामानि.परमाणि.इति ।
श्श्स्_3.15.18: उपांशु.वैश्वकर्मणश्.च ।
श्श्स्_3.15.21: एकश्.च.अग्निः.प्रणीयते ।
श्श्स्_3.15.22: ऋषभो.दक्षिणा ।
श्श्स्_3.15.23: न.वाजिनम्.न.अवभृथो.भवति ।
श्श्स्_3.15.24: समानम्.अन्यद्.वरुण.प्रघासैः ।
श्श्स्_3.16.1: अपर.अह्णे.पित्र्या.त्रि.हविर्.इष्टिः ।
श्श्स्_3.16.2: सोमाय.पितृमते.पितृभ्यो.वा.सोमवद्भ्यः.पितृभ्यो.बर्हिषद्भ्यः.पितृभ्यो.अग्निष्वात्तेभ्यः ।
श्श्स्_3.16.3: अग्निश्.च.कव्य.वाहनः.स्विष्टकृद्.भवति ।
श्श्स्_3.16.4: त्वम्.सोम.प्र.चिकितः.सोमो.धेनुम्.त्वम्.सोम.पितृभिर्.इति.सोमस्य.पितृमतः ।
श्श्स्_3.16.5: उदीरताम्.अङ्गिरसो.ये.नः.पूर्व.इति.सोमवताम् ।
श्श्स्_3.16.6: उपहूता.आहम्.पितॄन्.बर्हिषद.इति.बर्हिषदाम् ।
श्श्स्_3.16.7: अव.सृज.ये.च.इह.अग्निष्वात्ता.इत्य्.अग्निष्वात्तानाम् ।
श्श्स्_3.16.8: एक.एका.याज्या.द्वे.द्वे.पूर्वे.पुरोनुवाक्ये ।

श्श्स्_3.16.9: असंतते.नाना.प्रणवे ।
श्श्स्_3.16.10: ये.तातृषुस्.त्वम्.अग्न.ईळित.इत्य्.अग्नेः.कव्य.वाहनस्य ।
श्श्स्_3.16.11: प्राचीन.अपवीत्य्.(.उपवीत्य्.?).एता.देवता.यजति ।
श्श्स्_3.16.12: निगम.स्थानेषु.च.अनुवर्तयति ।
श्श्स्_3.16.13: पितृमन्तम्.परिहाप्य ।
श्श्स्_3.16.14: यज्ञ.उपवीती.इति.जातूकर्ण्यः ।
श्श्स्_3.16.15: सम्प्रैषेषु.स्वधा.शब्दे.क्रियमाणे.ये.स्व्धामहे.स्वधा.नम.इति.ये.यजामह.वषट्.कारयोः.स्थाने ।
श्श्स्_3.16.16: दक्षिण.अन्वाहार्य.पचनात्.परिश्रिते.चरन्ति ।
श्श्स्_3.16.17: अग्रेण.वेदिम्.दक्षिणा.तिष्ठति ।
श्श्स्_3.16.18: न.च.बर्हिर्.आक्रामति ।
श्श्स्_3.16.19: उर्सर्गो.जपानाम् ।
श्श्स्_3.16.20: कर्माणि.तूष्णीम्.जप.मन्त्राणि ।
श्श्स्_3.16.21: उपसदि.च.इत्य्.आचार्याः ।
श्श्स्_3.16.22: कर्म.तु.न्यायः ।
श्श्स्_3.16.23: उशन्तस्.त्वा.इत्य्.एकाम्.सामिधेनीम्.त्रिर्.अनूच्य.न.आर्षेयम्.आह ।
श्श्स्_3.16.24: अपबर्हिषः.प्रयाजान्.इष्ट्वा.नो.अग्ने.सुचेतुना.त्वम्.सोम.महे.भगम्.इति.जीवनवन्ताव्.आज्य.भागौ ।
श्श्स्_3.16.25: उपहूय.इळाम्.न.प्राश्नन्ति ।
श्श्स्_3.16.26: अवघ्राय.भागान्.प्रास्यन्ति ।
श्श्स्_3.16.27: पितृभ्यो.दत्ते ।
श्श्स्_3.17.1: अया.विष्ठा.जनयन्.कर्वराणि.स.हि.घृणिरु.उरुर्.वराय.गातुः.।.स.पत्युदैद्.धरुणम्.मध्वो.अग्रम्.स्वाम्.यत्.तनूम्.तन्वाम्.ऐरयत.।.इति.जपन्त.उत्तरेण.अन्वाहार्य.पचनम्.गत्वा ।
श्श्स्_3.17.2: सुसंदृशम्.त्वा.वयम्.अक्षन्न्.अमीमदन्त.उप.ऊ.षु.शृणुहि.इत्य्.आहवनीयम्.उपस्थाय ।
श्श्स्_3.17.3: मनो.न्व्.आ.हुवामह.इति.तृचेन.दक्षिण.अग्निम् ।
श्श्स्_3.17.4: आ.म.एतु.मनः.पुनर्.इति.ब्रूयुः ।
श्श्स्_3.17.5: अग्निम्.तम्.मन्य.इति.तृचेन.अग्ने.त्वम्.न.इति.च.द्वैपदेन.गार्हपत्यम् ।
श्श्स्_3.17.6: तच्.चक्षुर्.इत्य्.आदित्यम्.उपस्थाय ।
श्श्स्_3.17.7: अपबर्हिषाव्.अनुयाजाव्.इष्ट्वा ।
श्श्स्_3.17.8: न.सूक्त.वाके.यजमानस्य.नाम.गृह्णाति ।
श्श्स्_3.17.9: शम्य्व्.अन्ता.च ।
श्श्स्_3.17.10: त्र्यम्बकान्.संस्थाप्य.मैत्रश्.चरुः ।
श्श्स्_3.17.11: अदितये.वा ।
श्श्स्_3.17.12: मित्रस्य.चर्षणी.धृतो.महान्.आदित्यः ।
श्श्स्_3.17.13: संस्थितायाम्.पौर्णमासम् ।
श्श्स्_3.18.1: शुना.सीर्ये ।
श्श्स्_3.18.2: पौष्ण.अन्तानि.वैश्वदेविकानि ।
श्श्स्_3.18.3: शुना.सीर्यो.वायव्यम्.पयः.सौर्यश्.च ।
श्श्स्_3.18.4: शुना.सीराव्.इमाम्.शुनम्.नः.फालाः ।
श्श्स्_3.18.5: तव.वायव्.ऋतस्पते.अध्वर्यवश्.चकृवांसः ।
श्श्स्_3.18.6: तरणिर्.विश्व.दर्शतो.दिवो.रुक्म.इति ।
श्श्स्_3.18.7: उपांशु.सौर्यः ।
श्श्स्_3.18.8: अश्वः.श्वेतो.दक्षिणा ।

श्श्स्_3.18.9: गौर्.वा ।
श्श्स्_3.18.10: सीरम्.वा.द्वादशा.योगम् ।
श्श्स्_3.18.11: न.वाजिनम् ।
श्श्स्_3.18.12: समान.अन्यद्.वैश्वदेवेन ।
श्श्स्_3.18.13: पौर्णमासम्.त्व्.अमथ्यमाने ।
श्श्स्_3.18.14: इन्द्रश्.च.नः.शुना.सीराव्.इमम्.यज्ञम्.मिमिक्षताम्.।.गर्भान्.धत्तम्.स्वस्तये.।.ययोर्.इदम्.(.विश्वम्.).भुवनम्.आ.विवेश.ययोर्.आनन्दो.निहोतो.महश्.च.।.शुना.सीराव्.ऋतुभिः.संविदाना.इन्द्रवन्ता.हविर्.इदम्.जुषेथाम् ।
श्श्स्_3.18.15: इन्द्राय.शुना.सीराय.स्रुचा.जुहुतना.हविः.।.जुषताम्.प्रति.मेधिरः.।.प्र.हव्यानि.घृतवन्त्य्.अस्मै.हर्यश्वाय.भरता.सजोषाः.।.इन्द्र.ऋभुभिर्.ब्रह्मणा.संविदानः.शुना.सीरी.हविर्.इदम्.जुषस्व ।
श्श्स्_3.18.16: शुनम्.हुवेम.अश्वायन्तः ।
श्श्स्_3.18.17: साक.मेधैर्.इष्ट्वा.अन्वक्षम्.शुना.सीर्यम् ।
श्श्स्_3.18.18: माघ्याम्.वा.पौर्णमास्याम् ।
श्श्स्_3.18.19: सोमेन.उत्सर्गः.पशुना.इष्ट्या.वा ।
श्श्स्_3.18.20: पञ्च.वर्षेषु.पूर्वे.द्युः.शुना.सीर्यम्.अपरे.द्युर्.वैश्वदेवम् ।
श्श्स्_3.19.1: विध्य्.अपराधे.प्रायश्चित्तम् ।
श्श्स्_3.19.2: अर्थ.लोपे.प्रतिनिधिः ।
श्श्स्_3.19.3: भूर्.भुवः.स्वः.स्वाहा.।.आयाश्.च.अग्ने.अस्य्.अनभिशस्तिश्.च.सत्यम्.इत्त्वम्.अया.असि.।.अयासा.मनसा.कृतो.अयाः.सन्.हव्यम्.ऊहिषे.।.अया.नः.कृणुहि.भेषजम्.।.स्वाहा.।.इति.प्रायश्.चित्त.आहुती.सर्वेषु.दोषेषु ।
श्श्स्_3.19.4: आहवनीयः.सर्व.आहुतीनाम् ।
श्श्स्_3.19.5: उहूश्.च.पात्रम् ।
श्श्स्_3.19.6: चतुर्.गृहीतम्.प्रायश्.चित्तेषु ।
श्श्स्_3.19.7: अनन्तरम्.दोषात्.प्रायश्.चित्तम्.न.ह्य्.अनिर्हते.दोषे.प्रवृत्तिर्.उत्तरस्य.अस्ति ।
श्श्स्_3.19.8: प्रत्यक्ष.विहितम्.च.एकेषु.दोषेषु.प्रायश्.चित्तम्.तत्र.उभे.कुर्यात्.सर्व.प्रायश्.चित्तम्.च.आधिकारिकम्.च ।
श्श्स्_3.19.9: अनुद्धृतम्.चेद्.आहवनीयम्.अभ्यस्तम्.इयाद्.बहुविदा.ब्राह्मणेन.उद्धरणम्.।.जात.रूपम्.च.कुशे.प्रबध्य.अग्रतो.हरन्ति.।.रजतम्.अभ्युदिते.।.वरो.दक्षिणा ।
श्श्स्_3.19.10: आहवनीये.अनुगते.गार्हपत्याद्.उद्धरणम्.अग्नये.च.इष्टिर्.ज्योतिष्मते ।
श्श्स्_3.19.11: उद्.अग्ने.शुचयो.वि.ज्योतिषा ।
श्श्स्_3.19.12: गार्हपत्ये.अनुगते.पूर्वम्.अध्यवसाय.आहवनीयम्.अन्यम्.प्रणीय.जुहुयात् ।
श्श्स्_3.19.13: समारोह्य.वा.उदन्न्.उदवस्येत् ।
श्श्स्_3.19.14: उभयोर्.अनुगतयोर्.गार्हपत्य.उल्मुकाद्.उत्तर.अरण्या.मन्थनम् ।
श्श्स्_3.19.15: उल्मुके.अविद्यमाने.अरणी.भस्मना.संस्पृश्य.अग्नये.च.तपस्वते.जनद्वते.पावकवत.इष्टिः ।
श्श्स्_3.19.16: आ.याहि.तपसा.जनेष्व्.आ.अग्ने.पावको.अर्चिषा.।.उप.इमाम्.सुष्टुतिम्.मम.।.आ.नो.याहि.तपसा.जनेष्व्.आ.अग्ने.पावक.दीद्यत्.।.हव्या.देवेषु.नो.दधत् ।
श्श्स्_3.19.17: इत्य्.अभ्युदितयोस्.त्व्.अभ्यस्तमितयोर्.वा.अन्येन.वा.नष्टयोः.कारणेन.अग्न्य्.आधेयेन.उत्पादयेत् ।
श्श्स्_3.20.1: उपसृष्टा.चेद्.अग्निहोत्री.वाश्येत.सूयवसाद्.इति.यव.समुष्टिम्.प्रयच्छेत् ।
श्श्स्_3.20.2: उप्विशेच्.चेत्.।.यस्माद्.भीषा.निषीदसि.ततो.नो.अभयम्.कृधि.।.प्रजाभ्यः.सर्वाभ्यो.म्ळ.नमो.रुद्राय.मीळ्हुषे.।.इत्य्.आर्द्र.दण्डेन.उत्थाप्य.उदस्थाद्.देव्य्.अदितिर्.आयुर्.यज्ञ.पताव्.अधात्.।.इन्द्राय.कृण्वती.भागम्.मित्राय.वरुणाय.च.।.इत्य्.अनुमन्त्रयेत् ।
श्श्स्_3.20.3: द्वेष्याय.वा.दद्यात् ।
श्श्स्_3.20.4: हविषि.स्कन्ने.अच्छायम्.वो.ययोर्.ओजसा.स्कभिता.रजांसि.वीर्येभिर्.वीरतमा.शविष्ठा.।.या.पत्येते.(?).अप्रतीता.सहोभिर्.विष्णू.अगन्.व्रुणा.पूर्व.हूतौ.।.इत्य्.अद्भिर्.उपनीय.अस्कान्.अधित.प्राजनि.।.दिवम्.देवांस्.तृतीयम्.यज्ञो.अगात्.ततो.मा.द्रविणम्.अष्ट्व्.अन्तरिक्षम्.पितॄंस्.तृतीयम्.यज्ञो.अगात्.ततो.मा.द्रविणम्.अष्टु.पृथिवीम्.मनुष्यांस्.तृतीयम्.यज्ञो.अगात्.ततो.मा.द्रविणम्.अष्ट्व्.इत्य्.अनुमन्त्रयेत ।
श्श्स्_3.20.5: यद्.ब्राह्मणो.जुगुप्सुर्.न.भक्षयेद्.एतद्.दुष्टस्य.लक्षणम् ।
श्श्स्_3.20.6: तस्य.आपः.पतिपत् ।
श्श्स्_3.20.7: शेषे.विद्यमाने.तेन.समापनम् ।
श्श्स्_3.20.8: शेष.अभावे.अन्यद्.उत्पादयेत् ।
श्श्स्_3.20.9: तस्मिन्.द्रव्ये.अविद्यमाने.यत्.साम.अन्यतमम्.मन्येत.तत्.प्रतिनिदध्यात् ।
श्श्स्_3.20.10: एष.प्रतिनिधीनाम्.धर्मः ।
श्श्स्_3.20.11: अविकारश्.च.शब्दानाम् ।

मूल पाठ: Śāṅkhāyanaśrautasūtra · Edition: Alfred Hillebrandt Calcutta 1885-1899 (Bibliotheca Indica, 99) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc