शाङ्खायनश्रौतसूत्र · भाग 4160
श्श्स्_7.5.3: उपहूतौ.मित्रावरुणौ.सह.चक्षुषा.सह.वर्चसा.तयोर्.अहम्.उपहूतः.सह.चक्षुषा.सह.वर्चसा.इति.भक्षयित्वा ।
श्श्स्_7.5.4: आश्विनम्.प्रदक्षिणम्.शिरः.पर्याहृत्य.अवेक्ष्य.प्रतिपर्याहृत्य.अवेक्ष्य ।
श्श्स्_7.5.5: इह.वसुः.सम्यद्.वसुर्.इत्य्.आश्विनम्.प्रगृह्य ।
श्श्स्_7.5.6: उपहूतौ.देवाव्.अश्विनौ.सह.श्रोत्रेण.सह.वर्चसा.तयोर्.अहम्.उपहूतः.सह.श्रोत्रेण.सह.वर्चसा.इति.भक्षयित्वा ।
श्श्स्_7.5.7: उपस्पृश्य.इळाम्.उपह्वयते ।
श्श्स्_7.5.8: उपोद्यच्छन्ति.चमसान् ।
श्श्स्_7.5.9: होतृ.चमसम्.अन्वारभते ।
श्श्स्_7.5.10: असंस्पर्शनम्.सर्वत्र.आज्य.लेपेन.सोमस्य ।
श्श्स्_7.5.11: उपहूय.प्रस्थिता.भक्षयन्ति ।
श्श्स्_7.5.12: तेजसे.त्वा.ब्रह्म.वर्चसाय.भक्षयामि.इति.भक्ष.मन्त्रः.प्रातः.सवने ।
श्श्स्_7.5.13: ओजसे.त्वा.इन्द्रियाय.भक्षयामि.इति.माध्यंदिने ।
श्श्स्_7.5.14: प्रजायै.त्वा.पुष्ट्यै.भक्षयामि.इति.तृतीय.सवने ।
श्श्स्_7.5.15: शम्.नो.भव.हृद.इत्य्.उरो.अभिमर्शनी.भक्षयित्वा ।
श्श्स्_7.5.16: सव्ये.पाणौ.चमसान्.कृत्वा.दक्षिणेन.आप्याययन्ति ।
श्श्स्_7.5.17: आ.प्यायस्व.समेतु.तु.इत्य्.आप्यायनी.प्रातः.सवने ।
श्श्स्_7.5.18: सम्.ते.पयांसि.इत्य्.उत्तरयोः ।
श्श्स्_7.5.19: प्रस्थितान्.आप्याययन्ति ।
श्श्स्_7.5.20: आज्ये.मरुत्वतीये.च ।
श्श्स्_7.5.21: आज्य.प्रौगयोर्.नाराशंसा.निष्केवल्य.मरुत्वतीययोर्.वैश्वदेवे.च ।
श्श्स्_7.5.22: देवो.असि.नराशंसो.यत्.ते.मेधः.स्वर्.ज्योतिस्.तस्य.त.ऊमैः.पितृभिर्.भक्षितस्य.उपहूतस्य.उपहूतो.भक्षयामि.इति.भक्ष.मन्त्रः.प्रातः.सवने.नाराशंसानाम् ।
श्श्स्_7.5.23: ऊर्वैर्.इति.माध्यंदिने.विकारः ।
श्श्स्_7.5.24: काव्यैर्.इति.तृतीय.सवने ।
श्श्स्_7.6.1: अच्छावाकः.सीद.इत्य्.उक्तो.अग्रेण.सद.उत्तरेण.स्रुतिम्.उपविश्य.पुरोळाशम्.प्रतिगृह्य.अच्छावाक.वदस्व.इत्य्.उक्तो.अच्छा.वो.अग्निम्.अवस.इति.तिस्रो.अन्वाह ।
श्श्स्_7.6.2: प्रणवान्.निगदम् ।
श्श्स्_7.6.3: यजमान.होतर्.अध्वर्यो.अग्नीद्.ब्रह्मन्.पोतर्.नेष्टर्.उत.उपवक्तर्.इषेषयध्वम्.ऊर्जोर्.जयध्वम्.नि.वो.जामयो.जिहताम्.न्य्.अजामयो.नि.सपत्ना.यामनि.बाधितासो.जेषथ.अभीत्वरीम्.(?).जेषथ.अभीत्वर्याः.श्रवद्.व.इन्द्रः.शृणवद्.वो.अग्निः.प्रस्थाय.इन्द्र.अग्निभ्याम्.सोमम्.वोचत.उपो.अस्मान्.ब्राह्मणान्.ब्राह्मणा.ह्वयध्वम्.इति ।
श्श्स्_7.6.4: उपहवम्.अयम्.ब्राह्मण.इच्छते.अच्छावाको.वा.इत्य्.अध्वर्युर्.आह.तम्.होतर्.उपह्वयस्व.इति ।
श्श्स्_7.6.5: तम्.होता.उपह्वयते ।
श्श्स्_7.6.6: प्रत्येता.वामा.सूक्तायम्.सुन्वन्.यजमानो.अग्रभीद्.उत.प्रतिष्ठोता.उपवक्त.उत.नो.गाव.उपहूता.उत.उपहूत.इत्य्.उपह्वास्यमानः ।
श्श्स्_7.6.7: उत.नो.गाव.उपहूता.इत्य्.आतो.अनुपह्वास्यमानः ।
श्श्स्_7.6.8: अनुपहूतो.अच्छावाको.निवर्तध्वम्.इति.सूक्तस्य.यावत्.शक्नुयात्.तावद्.अनुद्रवेत् ।
श्श्स्_7.6.9: होता.वा.प्रतिकामिनम्.अच्छावाकम्.प्रत्युपहूय ।
श्श्स्_7.7.1: उन्नीयमानाय.इत्य्.उक्तः.प्रत्य्.अस्मै.पिपीषत.इत्य्.अच्छावाकः.सूत्रम्.अन्वाह ।
श्श्स्_7.7.2: प्रातर्.यावभिर्.इति.यजति ।
श्श्स्_7.7.3: भक्षिता.आप्यायितम्.चमसम्.अध्वर्यवे.प्रदाय.दक्षिण.आवृद्.अपरया.द्वारा.सदः.प्रपद्य.स्वस्य.धिष्ण्यस्य.पश्चाद्.उपविश्य.पुरोळाशम्.प्राश्नाति ।
श्श्स्_7.7.4: पूर्वः.प्रसृप्तश्.चेद्.अच्छावाकीयाम्.कुर्यात्.स्वेन.विसंस्थित.संचरेण.निष्क्रम्य.अच्छावाकस्य.बहिष्.कर्म.कृत्वा.स्व.कर्म.कुरुते ।
श्श्स्_7.7.5: स्वे.तु.होता.धिष्ण्ये ।
श्श्स्_7.7.6: विकल्पो.होत्रकाणाम्.याज्यासु ।
श्श्स्_7.7.7: प्रातः.सवने.अन्वाअनन्तो.यजन्त्य्.अर्धर्चशो.वा ।
श्श्स्_7.7.8: अत्र.व्रतयन्ति ।
श्श्स्_7.7.9: ऊर्ध्वम्.च.उपासनेभ्यः ।
श्श्स्_7.8.1: अथ.ऋतु.जायैश्.चरन्ति ।
श्श्स्_7.8.2: होता.यक्षद्.इन्द्र्म.होत्राद्.इत्य्.ऋतु.प्रैषैर्.अनवानम्.प्रेष्यति ।
श्श्स्_7.8.3: तथा.यजति ।
श्श्स्_7.8.4: येन.प्रेष्यति.सा.याज्या.उद्धृत्य.होता.अयक्षम्.असौ.यजम्.च ।
श्श्स्_7.8.5: मैधातिथ्यो.वा.इन्द्र.सोमम्.पिब.ऋतुना.इति ।
श्श्स्_7.8.6: यो.यः.प्रैष.अन्ते.श्रूयते.स.स.यजति ।
श्श्स्_7.8.7: होतर्.एतद्.यज.इत्य्.अध्वर्युर्.आह ।
श्श्स्_7.8.8: गृह.पतिश्.च ।
श्श्स्_7.8.9: तयोर्.यजति ।
श्श्स्_7.8.10: यथा.वषट्.कृतम्.भक्षयन्ति ।
श्श्स्_7.8.11: द्विर्.अन्ततो.होता ।
श्श्स्_7.8.12: लिम्पेद्.इव.एव.जिघ्रेद्.अत्र.द्विदेवत्येषु.च.इति ।
श्श्स्_7.9.1: आज्यम्.शंसिष्यन्.पिता.मातरिश्वा.अच्छिद्रा.पद.उशिग्.असीयान्.उतक्षिषत्.सोमो.नीथविन्.नीथानि.नेषद्.बृहस्पतिर्.उक्थामदानि.शंसिषद्.इति.जपित्वा.शोंसावो.इत्य्.आहावः.शस्त्र.आदौ.प्रातः.सवने.तेन.आहूय.उपांशु.तूष्णीम्.शंसम् ।
श्श्स्_7.9.2: अग्निर्.ज्योतिर्.ज्योतिर्.अग्निर्.इत्य्.अवसाय.इन्द्रो.ज्योतिर्.ज्योतिर्.इन्द्र.इत्य्.अवसाय.सूर्यो.ज्योतिर्.ज्योतिः.सूर्य.इत्य्.अवसाय.पच्छो.अवस्यन्.पुरोरुचम् ।
श्श्स्_7.9.3: अग्निर्.देव.इद्धः.।.अग्निर्.मन्व्.इद्धः.।.रथीर्.अध्वराणाम्ण्.।.अतूर्तो.होता.।.तूर्णिर्.हव्यवाट्.।.आ.देवो.देवान्.वक्षत्.।.यक्षद्.अग्निर्.देवो.देवान्.।.सो.अध्वरा.करति.जात.वेदो.प्र.वो.देवाय.इत्य्.आज्यम् ।
श्श्स्_7.9.4: तस्य.प्रथमम्.अर्धर्चम्.पच्छो.अनुवानम् ।
श्श्स्_7.9.5: मरुत्वतीय.वैश्वदेवयोश्.च ।
श्श्स्_7.9.6: सूक्त.शेषम्.शस्त्वा.आहूय.उत्तमया.परिधाय.उक्थ.वीर्यम्.जपति.भा.विभा.उषाः.स्वर्.ज्योतिः.श्लोकाय.त्वा.उक्थम्.अवाचि.इति ।
श्श्स्_7.9.7: उक्थशा.इत्य्.अध्वर्युर्.आह.सर्वासु.शस्त्र.याज्यासु ।
श्श्स्_7.9.8: अग्न.इन्द्रश्.च.इति.यजति ।
श्श्स्_7.10.1: आज्ये.संस्थिते.स्तुवते ।
श्श्स्_7.10.2: स्तोत्रवताम्.शस्त्राणाम्.एषा.इति.प्राह.उत्तमात्.प्रतीहाराद्.ऊर्ध्वम्.आहूय.शंसन्ति ।
श्श्स्_7.10.3: प्रौगे.अन्तरेण.माधुच्छन्दसांस्.तृचान्.ऋचो.व्यवयन्ति.ताः.पुरोरुच.इत्य्.आचक्षते ।
श्श्स्_7.10.4: तासाम्.पुरस्ताद्.आहावः ।
श्श्स्_7.10.5: परिधानीयायै.च ।
श्श्स्_7.10.6: षट्पदा.वैश्वदेवी ।
श्श्स्_7.10.7: तस्याम्.द्वाभ्याम्.द्वाभ्याम्.अवसाय.द्वाभ्याम्.प्रणौति ।
श्श्स्_7.10.8: सारस्वत्याम्.विकल्पः.।.शंसेन्.न.वा.।.नित्यस्.त्व्.आहावः ।
श्श्स्_7.10.9: वायुर्.अग्रेगा.यज्ञप्रीः.साकम्.गन्.मनसा.यज्ञम्.।.शिवो.नियुद्भिः.शिवाभिः.।.इति.सकृत्.शस्त्वा.वायव्.आ.याहि.दर्शत.इति.तिसृणाम्.त्रिः.प्रथमाम् ।
श्श्स्_7.10.10: हिरण्य.वर्तनी.नरा.देवा.पती.अभिष्टये.।.वायुश्.च.इन्द्रश्.च.सुमखौ.।.इन्द्र.वायू.इम.इति.तिस्रः ।
श्श्स्_7.10.11: काव्ययोर्.आजानेषु.क्रत्वा.दक्षस्य.दुरोणे.।.रिशादसा.सधस्य.आ.।.मित्रम्.हुव.इति.तिस्रः ।
श्श्स्_7.10.12: दैव्याव्.अध्वर्यू.आ.गतम्.रथेन.सूर्य.त्वचा.।.मध्वा.यज्ञम्.समञ्जाथे.।.अश्विना.यज्वरीर्.इष.इति.तिस्रः ।
श्श्स्_7.10.13: इन्द्र.उक्थेभिर्.भिअन्दिष्ठो.वाजानाम्.च.वाज.पतिः.।.हरिवान्.सुतानाम्.सखा.।.इन्द्रा.याहि.चित्र.भानो.इति.तिस्रः ।
श्श्स्_7.10.14: विश्वान्.देवान्.हवामहे.अस्मिन्.यज्ञे.सजोषसः.।.त.इमम्.यज्ञम्.आगमन्.देवासो.देव्यो.धिया.।.ये.यज्ञस्य.तनू.कृतो.विश्व.आ.सोम.पीतये.।.ओमासश्.चर्षणीधृत.इति.तिस्रः ।
श्श्स्_7.10.15: वाचाम्.अहम्.देवीम्.वाचम्.अस्मिन्.यज्ञे.सुपेशसम्.।.सरस्वतीम्.हवामहे.।.पावका.नः.सरस्वती.इति.तिसृणाम्.उत्तमया.परिधाय.उक्थ.वीर्यम्.जपति.वाचम्.मे.जिन्व.।.प्राणम्.मे.तृम्प.।.चक्षुर्.मे.पाहि.।.श्रोत्रम्.मे.अव.।.वर्णम्.मे.यच्छ.।.तन्वम्.मे.पाहि.।.यशो.मे.धेहि.।.घोषाय.त्वा.उक्थम्.अवाचि.इति ।
श्श्स्_7.10.16: विश्वेभिः.सोम्यम्.मध्व्.इति.यजति ।
श्श्स्_7.11.1: तृचाः.स्तोत्रिय.अनुरूपाः.प्रगाथान्.परिहाप्य ।
श्श्स्_7.11.2: आ.नो.मिता.वरुणा.नो.गन्तम्.इति.स्तोत्रिय.अनुरूपौ.मैत्रावरुणस्य ।
श्श्स्_7.11.3: प्र.वो.मित्राय.इत्य्.उक्थ.मुखम् ।
श्श्स्_7.11.4: प्र.मित्रयोर्.इति.नवानाम्.उत्तमया.परिधाय.उप.नः.सुतमा.गतम्.इति.यजति ।
श्श्स्_7.12.1: आ.याहि.सुषुम.इति.ब्राह्मणाच्छंसिनः.स्तोत्रिय.अनुरूपौ ।
श्श्स्_7.12.2: शेषः.सूक्तस्य.उक्थ.मुखम्.उत्तमे.परिहाप्य ।
श्श्स्_7.12.3: इन्द्र.त्वा.वृषभम् ।
श्श्स्_7.12.4: उद्.घेद्.अभि.इति.तिसृणाम्.उत्तमया.परिधाय.इन्द्र.क्रतुविदम्.इति.यजति ।
श्श्स्_7.13.1: इन्द्र.अग्नी.आ.गतम्.सुतम्.इत्य्.अच्छावाकस्य.स्तोत्रिय.अनुरूपौ ।
श्श्स्_7.13.2: शेषः.सूक्तस्य.उक्थ.मुखम् ।
श्श्स्_7.13.3: इह.इन्द्र.अग्नी.उप.ह्वय.इति.पञ्च ।
श्श्स्_7.13.4: इयम्.वामस्य.मन्मन.इति.नवानाम्.उत्तमया.परिधाय.इन्द्र.अग्नी.आ.गतम्.सुतम्.इति.यजति ।
श्श्स्_7.14.1: मित्रम्.वयम्.इन्द्रम्.इद्.गाथिन.इन्द्र.अग्न.इति.स्तोत्रिया.बृहत्.पृष्ठस्य ।
श्श्स्_7.14.2: राथन्तरम्.अच्छावाकः.स्तोत्रियम्.अनुरूपम्.कुरुते ।
श्श्स्_7.14.3: अनुरूपम्.उक्थ.मुखम् ।
श्श्स्_7.14.4: चतुर्.आहावा.होत्रकाः ।
श्श्स्_7.14.5: होता.च.अतिरिक्त.उक्थेषु ।
श्श्स्_7.14.6: स्तोत्रिय.अनुरूपाभ्याम्.यच्.च.अनन्तरम्.अनुरूपात्.परिधानीयायै.च ।
श्श्स्_7.14.7: अनुरूपाद्.अनन्तरः.प्रगाथस्.तस्माद्.ऊर्ध्वम्.पञ्चमम्.मध्यंदिने ।
श्श्स्_7.14.8: उक्थ.मुखात्.सर्वेषाम्.रात्रौ ।
श्श्स्_7.14.9: यदा.अध्वर्युर्.आह.प्रशास्तः.प्रसुहि.इत्य्.ओम्.सर्पत.इति.प्रशास्त.आह ।
श्श्स्_7.14.10: दक्षिण.आवृतो.अपरया.द्वारा.निह्सर्पन्त्य्.उत्तरेण.उदुम्बरीम्.दक्षिणेन.ब्रह्मा ।
श्श्स्_7.14.11: अग्रेण.शालाम्.उदञ्चः ।
श्श्स्_7.14.12: माध्यंदिनाय.सवनाय.यथा.निह्सृप्तम्.प्रसृप्य.यथा.आसनम्.उपविशन्ति ।
श्श्स्_7.15.1: आदौ.माध्यंदिनस्य.सवनस्य.राजानम्.अभिषुण्वन्ति ।
श्श्स्_7.15.2: ग्रावस्तुत्.पूर्वया.द्वारा.हविर्.धाने.प्रपद्य.उत्तरस्य.हविर्.धानस्य.दक्षिणम्.चक्रम्.अग्रेण.दक्षिणा.तिष्ठन्.सोम.उपनहनेन.मुखम्.परिवेष्ट्य.ग्राव.घोषम्.श्रुत्वा.असम्प्रेषितो.अभिष्टौत्य्.असंतन्वन्न्.अर्धर्चशो.अनवानम्.वा ।
श्श्स्_7.15.3: अभि.त्वा.देव.सवितर्.युञ्जते.मन.उत.युञ्जते.धिय.आ.तू.न.इन्द्र.क्षुमन्तम्.आ.नो.भर.दक्षिणेन.उप.क्रमस्व.आ.भर ।
श्श्स्_7.15.4: आ.प्यायस्व.समेतु.त.इत्य्.आप्यायितवतीनाम्.तिसृणाम्.प्रथमाम्.अभिष्टुत्य.अर्बुदस्य.द्वे ।
श्श्स्_7.15.5: द्वितीयाम्.अभिष्टुत्य.अर्बुदस्य.द्वे ।
श्श्स्_7.15.6: तृतीयाम्.अभिष्टुत्य.अर्बुदस्य.एकाम् ।
श्श्स्_7.15.7: मृजन्ति.त्वा.दश.क्षिप.एतम्.उ.त्यम्.दश.क्षिप.एतम्.मृजन्ति.मर्ज्यम्.इति.मृष्टवतीर्.अभिष्टुत्य ।
श्श्स्_7.15.8: आ.कलशा.अनूषता.कलशेषु.धावति.परि.प्र.सोम.ते.रस.इति.कलशवतीर्.अभिष्टुत्य ।
श्श्स्_7.15.9: आप्यायितवती.प्रभृत्य्.एवम्.विहृतो.द्वितीयो.अपि.सवः.।.षष्ठी.प्रभृतयः.पञ्च.अर्बुदस्य ।
श्श्स्_7.15.10: एवम्.विहृतस्.तृतीयो.अपि.सवः.।.तिस्रो.अर्बुदस्य.एकादशी.प्रभृतयः ।
श्श्स्_7.15.11: यस्मिन्.सवे.बृहत्.शब्दम्.कुर्युर्.बृहद्.वदन्ती.इति.तत्र ।
श्श्स्_7.15.12: षष्ठीम्.प्रथमे ।
श्श्स्_7.15.13: वितते.पवित्रे.पवित्रम्.त.इति.द्वे.वि.यत्.पवित्रम्.इत्य्.एका ।
श्श्स्_7.15.14: प्रास्य.धाराः.प्र.धारा.अस्य.प्र.ते.धारा.इति.प्रक्षरन्तीषु.धारासु ।
श्श्स्_7.15.15: ग्रहेषु.गृह्यमाणेषु.याः.कामयेत.पावमानीम् ।
श्श्स्_7.15.16: इन्द्राय.इन्दो.मरुत्वत.इति.तिस्रो.नियच्छति ।
श्श्स्_7.15.17: उत्तमे.ग्रहे.गृहीते.अर्बुदस्य.उत्तमया.परिधाय.आदाय.उष्णीषम्.उत्सृज्यते ।
श्श्स्_7.15.18: सत्र.अहीनानाम्.त्व्.अन्त्ये.अहनि ।
श्श्स्_7.15.19: अर्बुदम्.वा.शुद्धम्.अभिष्टुयात् ।
श्श्स्_7.16.1: माध्यंदिने.स्तुते.पवमानेन.दधि.घर्मेण.चरन्ति.यदि.प्रवर्ग्यवान् ।
श्श्स्_7.16.2: होतर्.वदस्व.इत्य्.उक्त.उत्तिष्ठत.अव.पश्यत.इति.प्रथमाम्.अभिष्टौति ।
श्श्स्_7.16.3: श्रातम्.हविर्.इत्य्.उक्ते.द्वितीयाम्.सूक्तस्य ।
श्श्स्_7.16.4: दधि.घर्मस्य.यज.इत्य्.उक्तस्.तृतीयया.यजति ।
श्श्स्_7.16.5: अनवानम्.एक.एकाम्.सप्रणवाम्.अभिष्टौति ।
श्श्स्_7.16.6: तथा.यजति ।
श्श्स्_7.16.7: दधि.घर्मस्य.अग्ने.वीहि.इत्य्.अनुवषट्.कारः ।
श्श्स्_7.16.8: मयि.त्यद्.इन्द्रियम्.बृहन्.मयि.दक्षो.मयि.क्रतुः.।.घर्मस्.त्रिशुग्.विरोचत.आकूत्या.मनसा.सह.।.विराजा.ज्योतिषा.सह.तस्य.दोहम्.अशीमहि.।.इति.भक्ष.मन्त्रः ।
श्श्स्_7.16.9: पशु.पुरोळाशेन.चरित्वा.अतः.पुरोळाशैः.सवनीयैश्.चरन्ति ।
श्श्स्_7.17.1: माध्यन्दिनस्य.सवनस्य.इति.पुरोनुवाक्या ।
श्श्स्_7.17.2: माध्यंदिने.सवन.इति.स्विष्टकृतः ।
श्श्स्_7.17.3: असावि.देवम्.इत्य्.उन्नीयमान.सूक्तम् ।
श्श्स्_7.17.4: होता.यक्षद्.इन्द्रम्.माध्यंदिनस्य.सवनस्य.इति.प्रैषः ।
श्श्स्_7.17.5: पिबा.सोमम्.अभि.यम्.उग्र.इति.यजति ।
श्श्स्_7.17.6: द्वितीया.मैत्रावरुणस्य ।
श्श्स्_7.17.7: तृतीया.ब्राह्मणाच्छंसिनः ।
श्श्स्_7.17.8: अर्वान्.एहि.इति.पोतुः ।
श्श्स्_7.17.9: तव.अयम्.सोम.इति.नेष्टुः ।
श्श्स्_7.17.10: इन्द्राय.सोमाः.प्रदिवो.विदाना.इत्य्.अच्छावाकस्य ।
श्श्स्_7.17.11: आपूर्णो.अस्य.इत्य्.आग्नीध्रस्य ।
श्श्स्_7.17.12: न.द्विदेवत्य.ऋतु.याजा.उत्तरयोः.सवनयोः ।
श्श्स्_7.17.13: न.बहिष्.कर्म.अच्छावाकस्य ।
श्श्स्_7.17.14: समानम्.अन्यत्.प्रातः.सवनेन ।
श्श्स्_7.17.15: इळाम्.उपहूय.प्रस्थितान्.भक्षयित्वा ।
श्श्स्_7.17.16: एष.दक्षिणा.कालः ।
श्श्स्_7.17.17: द्वादशम्.शतम्.गवाम्.दद्यात् ।
श्श्स्_7.17.18: एकविंशति.प्रभृति.वा.यथा.उपपादम् ।
श्श्स्_7.18.1: अग्नये.त्वा.मह्यम्.वरुणो.ददातु.सो.अमृतत्वम्.अशीय.।.आयुर्.दात्र.एधि.मयो.मह्यम्.पतिगृह्णत.इति.हिरण्यम्.प्रतिगृह्णाति ।
श्श्स्_7.18.2: रुद्राय.त्वा.मह्यम्.वरुणो.ददातु.सो.अमृतत्वम्.अशीय.।.गौर्.दात्र.एधि.मयो.मह्यम्.पतिगृह्णत्.इति.गाः ।
श्श्स्_7.18.3: बृहस्पतये.त्वा.मह्यम्.वरुणो.ददातु.सो.अमृतत्वम्.अशीय.।.त्वग्.दात्र.एधि.मयो.मह्यम्.प्रतिगृह्णत.इति.वासः ।
श्श्स्_7.18.4: यमाय.त्वा.मह्यम्.वरुणो.ददातु.सो.अमृतत्वम्.अशीय.।.हयो.दात्र.एधि.मयो.मह्यम्.प्रतिगृह्णत.इत्य्.एक.शफम् ।
श्श्स्_7.18.5: प्रजापतये.त्वा.मह्यम्.वरुणो.ददातु.सो.अमृतत्वम्.अशीय.।.प्राणो.दात्र.एधि.मयो.मह्यम्.प्रतिगृह्णत.इत्य्.अन्यत् ।
श्श्स्_7.18.6: ओम्.इति.वा.सर्वम् ।
श्श्स्_7.18.7: को.अदात्.कस्मा.अदाद्.इत्य्.अनुमन्त्रयते.प्राणि ।
श्श्स्_7.18.8: उपस्पृशति.इतरत् ।
श्श्स्_7.18.9: अस्मद्.राता.मधुमतीर्.देवत्रा.गच्छत.प्रदातारम्.आ.विशत.इति.दत्त्वा.जपति ।
श्श्स्_7.19.1: इन्द्राय.मरुत्वत.इत्य्.उक्तः ।
श्श्स्_7.19.2: इन्द्र.मरुत्व.इति.पुरोनुवाक्या ।
श्श्स्_7.19.3: होता.यक्षद्.इन्द्रम्.मरुत्वन्तम्.इति.प्रैषः ।
श्श्स्_7.19.4: सजोषा.इन्द्र.सगण.इति.यजति ।
श्श्स्_7.19.5: तम्.भक्षयित्वा.मरुत्वतीयम्.शंसति ।
श्श्स्_7.19.6: अध्वर्यो.शोंशावो.इत्य्.आहावः.शस्त्र.आदौ.माध्यंदिने.सवने ।
श्श्स्_7.19.7: प्रातः.सवनिको.अन्तः.शस्त्रम् ।
श्श्स्_7.19.8: आ.त्वा.रथम्.यथा.ऊतय.इति.प्रातिपदम्.तृचम्.शस्त्वा.आहूय ।
श्श्स्_7.19.9: इद्म.वसो.सुतम्.अन्ध.इत्य्.अनुचरम्.तृचम्.शस्त्वा.आहूय ।
श्श्स्_7.19.10: इन्द्र.नेदीय.एद्.इहि.इति.इन्द्र.निहवम्.प्रगाथम्.शस्त्वा.आहूय ।
श्श्स्_7.19.11: प्र.नूनम्.ब्रह्मणस्पतिर्.इति.ब्राह्मणस्पत्यम्.प्रगाथम्.शस्त्वा.आहूय ।
श्श्स्_7.19.12: अग्निर्.नेता.इत्य्.एकाम्.शस्त्वा.आहूय ।
श्श्स्_7.19.13: त्वम्.सोम.क्रतुभिर्.इत्य्.एकाम्.शस्त्वा.आहूय ।
श्श्स्_7.19.14: पिन्वन्त्य्.अप.इत्य्.एकाम्.शस्त्वा.आहूय ।
श्श्स्_7.19.15: जनिष्ठा.उग्र.इति.षट्.शस्त्वा.आहूय.निविदम् ।
श्श्स्_7.19.16: मद्वान्.अस्मिन्.प्रथमः.प्रतिगरः ।
श्श्स्_7.19.17: एकया.भूयसीः.शस्त्वा.विषम.ऋचानाम् ।
श्श्स्_7.19.18: मध्ये.समर्चानाम् ।
श्श्स्_7.19.19: एकाम्.शस्त्वा.तृचानाम् ।
श्श्स्_7.19.20: सूक्त.विवृधाव्.अन्त्ये ।
श्श्स्_7.19.21: प्रथमे.त्व्.आहावः ।
श्श्स्_7.19.22: उत्तमाः.परिशिष्य.तृतीय.सवने ।
श्श्स्_7.19.23: वियतम्.पच्छो.निविदः.शंसति ।
श्श्स्_7.19.24: उत्तमे.प्रणवः.पदे ।
श्श्स्_7.19.25: सूक्त.शेषम्.शस्त्वा.आहूय.उत्तमया.परिधाय.उक्थ.वीर्यम्.जपित्वा.ये.त्वाहिहत्य.इति.यजति ।
श्श्स्_7.20.1: रथन्तरम्.पृष्ठम्.निष्केवल्यस्य ।
श्श्स्_7.20.2: बृहद्.वा ।
श्श्स्_7.20.3: अभि.त्वा.शूर.अभि.त्वा.पूर्व.पीतय.इति.स्तोत्रिय.अनुरूपौ.प्रगाथौ.रथन्तरस्य ।
श्श्स्_7.20.4: त्वाम्.इद्धि.हवामहे.त्वम्.ह्य्.एहि.चेरव.इति.बृहतः ।
श्श्स्_7.20.5: यद्.वावाना.इति.धाय्या ।
श्श्स्_7.20.6: पिबा.सुतस्य.रसिन.इति.प्रगाथो.रथन्तरस्य ।
श्श्स्_7.20.7: उभयम्.शृणवद्.इति.बृहतः ।
श्श्स्_7.20.8: इन्द्रस्य.नु.वीर्याणि.इति.रथन्तर.पृष्ठे ।
श्श्स्_7.20.9: तम्.उ.ष्टुहि.इति.बृहत्.पृष्ठे ।
श्श्स्_7.20.10: नितराम्.परिधानीयाम्.शंसेत् ।
श्श्स्_7.20.11: उक्थ.वीर्यम्.जपित्वा.पिबा.सोमम्.इन्द्र्.अमन्दतु.त्वा.इति.यजति ।
श्श्स्_7.21.1: उभय.साम्नि ।
श्श्स्_7.21.2: रथन्तर.पृष्ठे.यः.सूक्तात्.पूर्वः.प्रगातस्.तम्.उद्धृत्य.बृहतो.योनिम्.शंसति ।
श्श्स्_7.21.3: बृहत्.पृष्ठे.रथन्तरस्य ।
श्श्स्_7.21.4: ऊर्ध्वम्.साम.प्रगाथाद्.उत्तरासु.संस्थासु ।
श्श्स्_7.21.5: एतद्.योन्य्.अनुशंसनम्.इत्य्.आचक्षते ।
श्श्स्_7.21.6: बृहद्.रथन्तरयोर्.एव.अनुशंसेद्.इति.ह.स्म.कौषीतकिः ।
श्श्स्_7.21.7: परिमित.शस्यः.प्राकृतो.अग्निष्टोमस्.तस्मात्.प्रगाथम्.उद्धरति ।
श्श्स्_7.21.8: स्तोत्रियाय.आहावो.अनुरूपाय.धाय्यायै.प्रगाथाय.सूक्ताय.निविदे.परिधानीयायै.च ।
श्श्स्_7.21.9: अश्वो.निविद्.वरो.वरो.वा ।
श्श्स्_7.22.1: वामदेव्यम्.मैत्रावरुणस्य ।
श्श्स्_7.22.2: कया.नश्.चित्रः.कया.त्वम्.न.ऊत्या.इति.स्तोत्रिय.अनुरूपौ ।
श्श्स्_7.22.3: कस्.तम्.इन्द्र.इति.साम.प्रगाथः ।
श्श्स्_7.22.4: सद्यो.ह.जातः ।
श्श्स्_7.22.5: एवा.त्वम्.इन्द्र.वज्रिन्न्.अत्र ।
श्श्स्_7.22.22: उशन्.नु.षु.ण.इति.यजति ।
श्श्स्_7.23.1: नौधसम्.ब्राह्मणाच्छंसिनो.रथन्तर.पृष्ठे ।
श्श्स्_7.23.2: श्यैतम्.बृहत्.पृष्ठे ।
श्श्स्_7.23.3: तम्.वो.दस्मम्.तत्.त्वा.यामि.सुवीर्यम्.इति.स्तोत्रिय.अनुरूपौ.प्रगाथौ.नौधसस्य ।
श्श्स्_7.23.4: अभि.प्र.वः.प्र.सु.श्रुतम्.इति.श्यैतस्य ।
श्श्स्_7.23.5: उद्.उ.त्ये.मधुमत्तमा.इति.साम.प्रगाथः ।
श्श्स्_7.23.6: इन्द्रः.पूर्भिद्.इति.नौधसे ।
श्श्स्_7.23.7: असावि.सोमः.पुरु.हूत.इति.श्यैते ।
श्श्स्_7.23.8: उद्.उ.ब्रह्माणि.इति.समानम् ।
श्श्स्_7.23.9: ऋजीषी.वज्री.इति.यजति ।
श्श्स्_7.24.1: कालेयम्.अच्छावाकस्य ।
श्श्स्_7.24.2: तरोभिर्.वस्.तरणिर्.इत्.सिषासति.इति.स्तोत्रिय.अनुरूपौ.प्रगाथौ ।
श्श्स्_7.24.3: उद्.इन्व्.अस्य.रिच्यत.इति.साम.प्रगाथः ।
श्श्स्_7.24.4: भूय.इद्.वावृधे ।
श्श्स्_7.24.5: इमाम्.ऊ.षु ।
श्श्स्_7.24.6: पिबा.वर्धस्व.इति.यजति ।
श्श्स्_7.25.1: शस्त्रेषु ।
श्श्स्_7.25.2: प्रायेण.अयथा.समाम्नातम् ।
श्श्स्_7.25.3: बृहती.पूर्वा.ककुब्.वा.सतो.बृहत्य्.उत्तरा.तम्.प्रगातः.इत्य्.आचक्षते ।
श्श्स्_7.25.4: बार्हतो.बृहत्याम्.पूर्वस्याम् ।
श्श्स्_7.25.5: काकुभः.ककुभि ।
श्श्स्_7.25.6: बृहतीम्.शस्त्वा.उत्तमम्.पादम्.प्रत्यादाय.उत्तरस्याः.प्रथमेन.अवसाय.द्वितीयेन.प्रणुत्य.तम्.प्रत्यादाय.तृतीयेन.अवसाय.उत्तमेन.प्रणौति ।
श्श्स्_7.25.7: तास्.तिस्रो.भवन्ति.बृहती.पूर्व.उत्तरे.ककुभौ ।
श्श्स्_7.25.8: बृहद्.रथन्तरयोः ।
श्श्स्_7.25.9: होत्रकाणाम्.च.यत्र.एते.पृष्ठे.प्रगाथस्थे ।
श्श्स्_7.25.10: सर्वत्र.यज्ञायज्ञीयस्य ।
श्श्स्_7.25.11: इन्द्र.निहव.ब्राह्मणस्पत्यानाम्.च ।
श्श्स्_7.25.12: अतो.अन्यत्र.बार्हतानाम् ।
श्श्स्_7.25.13: बृहतीम्.शस्त्वा.उत्तमम्.पादम्.द्विः.प्रत्यादाय.अवसाय.अर्धर्चेन.उत्तरस्याः.प्रणुत्य.द्वितीयम्.पादम्.द्विः.प्रत्यादाय.अवसाय.उत्तमेन.अर्धर्चेन.प्रणौति ।
श्श्स्_7.25.14: तास्.तिस्रो.बृहत्यः ।
श्श्स्_7.25.14: उत्तमम्.ककुभः.प्रत्यादत्ते ।
श्श्स्_7.25.15: सतो.बृहत्या.द्वितीयम् ।
श्श्स्_7.25.16: तास्.तिस्रः.ककुभः ।
श्श्स्_7.25.17: स्तोत्रियत्वाद्.अनुरूपत्वाद्.वा.।.एतम्.धर्मम्.प्रगाथा.लभन्ते ।
श्श्स्_7.26.1: इन्द्र.निहवो.अस्तोत्रियः ।
श्श्स्_7.26.2: ब्राह्मणस्पत्याश्.च ।
श्श्स्_7.26.3: द्वाभ्याम्.अवसाय.द्वाभ्याम्.अवसाय.एकेन.प्रणौति.पङ्क्तीनाम् ।
श्श्स्_7.26.4: अप्च्छस्.त्रिष्टुब्.जगतीनाम्.अक्षर.पङ्क्तीनाम्.द्विपदानाम्.च ।
श्श्स्_7.26.5: सप्रणवो.द्वितीयश्.च.चतुर्थश्.च ।
श्श्स्_7.26.6: यास्.तु.पञ्च.पदास्.त्रैष्टुभे.प्राये.जागते.वा.यत्र.पुनः.पदम्.स्यात्.तौ.तत्र.समस्येन्.न.पदेन.पुनः.पदस्य.विप्रयोगो.अस्ति ।
श्श्स्_7.26.7: उत्तमाव्.अपुनः.पदे ।
श्श्स्_7.26.8: द्वाभ्याम्.अवसाय.द्वाभ्याम्.अवसाय.द्वाभ्याम्.प्रणौति.षट्.पदानाम्.पुनः.पदानाम् ।
श्श्स्_7.26.9: द्वाभ्याम्.अवसाय.अपुनः.पदानाम्.एकेन.प्रणौति.द्वाभ्याम्.अवसाय.एकेन ।
श्श्स्_7.26.10: अष्ट.अक्षरस्.तु.प्रणवनीयः ।
श्श्स्_7.26.11: एकेन.अवसाय.सप्त.पदानाम्.द्वाभ्याम्.प्रणौति.द्वाभ्याम्.अवसाय.द्वाभ्याम् ।
श्श्स्_7.26.12: प्रथमेषु.रात्रि.पर्यायेषु.गायत्राणाम्.स्तोत्रिय.अनुरूपाणाम्.प्रथमान्.पादान्.अभ्यस्यन्ति ।
श्श्स्_7.26.13: मध्यमन.मध्यमेषु ।
श्श्स्_7.26.14: उत्तमान्.उत्तमेषु ।
श्श्स्_7.26.15: अर्धर्चशो.वा.प्रातः.सवनम् ।
श्श्स्_7.26.16: स्तोत्रिय.अनुरूपांश्.च.प्रगाथान्.परिहाप्य ।
श्श्स्_7.27.1: त्रि.पदा.गायत्री ।
श्श्स्_7.27.2: उष्णिक् ।
श्श्स्_7.27.3: पुर.उष्णिक् ।
श्श्स्_7.27.4: ककुप् ।
श्श्स्_7.27.5: विराट्.च.पूर्वा ।
श्श्स्_7.27.6: चतुष्.पद.उत्तरा.विराट् ।
श्श्स्_7.27.7: बृहती ।
श्श्स्_7.27.8: सतो.बृहती ।
श्श्स्_7.27.9: जगती ।
श्श्स्_7.27.10: अनुष्टुप् ।
श्श्स्_7.27.11: त्रिष्टुप्.च ।
श्श्स्_7.27.12: पञ्च.पङ्क्तेः ।
श्श्स्_7.27.13: षट्.सप्त.इत्य्.अतिच्छन्दसाम् ।
श्श्स्_7.27.14: स.हि.शर्धो.न.मारुतम्.इत्य्.अष्टौ ।
श्श्स्_7.27.15: द्वौ.द्वि.पदायाः ।
श्श्स्_7.27.16: ते.अष्ट.अक्षराः.प्रायेण ।
श्श्स्_7.27.17: द्वादश.अक्षरा.जगत्याः ।
श्श्स्_7.27.18: तृतीया.च.उष्णिग्.बृहत्योः ।
श्श्स्_7.27.19: सतो.बृहत्याश्.च.प्रथम.तृतीयौ ।
श्श्स्_7.27.20: मध्यमः.ककुभः ।
श्श्स्_7.27.21: प्रथमः.पुर.उष्णिहः ।
श्श्स्_7.27.22: एकादश.अक्षरास्.त्रिष्टुब्.विराजोः ।
श्श्स्_7.27.27: उत्तरस्या.दश.अक्षराः ।
श्श्स्_7.27.27: ताम्.अक्षर.पङ्क्तिर्.इत्य्.अप्य्.आचक्षते ।
श्श्स्_7.27.27: पञ्चभिः.पञ्च.अक्षरैः.पद.पङ्क्तिः ।
श्श्स्_7.27.27: षऌ.अप्य्.अष्ट.अक्षरा.जगत्याः ।
श्श्स्_7.27.27: एकेन.द्वाभ्याम्.इत्य्.ऊनके.निचृत् ।
श्श्स्_7.27.28: अतिरिक्ते.भुरिक् ।
श्श्स्_7.27.29: सम्पाद्य.पाद.भागेन.आहार्यस्य.ऋचः.सम्मितास्.तस्य.पाद.भागेन.सम्पन्नाः ।
श्श्स्_7.27.30: गायत्र्य्.उष्णिहाव्.अनुष्टुब्.बृहत्यौ.पङ्क्तिश्.च.त्रिष्टुब्.जगत्याव्.इत्य्.आनुपूर्व्यम्.छन्दसाम्.चतुर्.विंशत्य्.अक्षर.आदीनाम्.चतुर्.उत्तराणाम्.चतुर्.उत्तराणाम् ।
श्श्स्_8.1.1: यथा.मध्यंदिनाय.एवम्.ऊर्ध्वम्.मध्यंदिनात्.प्रसर्पन्ति ।
श्श्स्_8.1.2: आदौ.तृतीय.सवनस्य.आदित्य.ग्रहेण.चरन्ति ।
श्श्स्_8.1.3: आदित्येभ्य.इत्य्.उक्तः ।
श्श्स्_8.1.4: आदित्यानाम्.अवसा.इति.पुरोनुवाक्या ।
श्श्स्_8.1.5: होता.यक्षद्.आदित्यान्.इति.प्रैषः ।
श्श्स्_8.1.6: आदित्यासो.अदितिर्.इति.यजति ।
श्श्स्_8.1.7: न.आहुतिम्.अन्वीक्षते.न.भक्षयति ।
श्श्स्_8.1.8: सावित्र.ग्रहे.च ।
श्श्स्_8.1.9: आर्भवेन.स्तुते.पवमानेन.मनोताद्.इळा.अन्तम्.पौश्.कर्म.कृत्वा.अतः.पुरोळाशैः.सवनीयैश्.चरन्ति ।
श्श्स्_8.2.1: तृतीये.धानाः.सवन.इति.पुरोनुवाक्या ।
श्श्स्_8.2.2: अग्ने.तृतीये.सवन.इति.स्विष्टकृतः ।
श्श्स्_8.2.3: इह.उप.यत.इत्य्.उन्नीयमान.सूक्तम् ।
श्श्स्_8.2.4: होता.यक्षद्.इन्द्रम्.तृतीयस्य.सवनस्य.इति.प्रैषः ।
श्श्स्_8.2.5: इन्द्र.ऋभुभिर्.वाजवद्भिर्.इति.यजति ।
श्श्स्_8.2.6: इन्द्रा.वरुणा.सुतपाव्.इति.मैत्रा.वरुणः ।
श्श्स्_8.2.7: इन्द्रश्.च.सोमम्.इति.ब्राह्मणाच्छंसी ।
श्श्स्_8.2.8: आ.वो.वहन्त्व्.इति.पोता ।
श्श्स्_8.2.9: अमा.इव.न.इति.नेष्टा ।
श्श्स्_8.2.10: इन्द्रा.विष्णू.पिबतम्.इत्य्.अच्छावाकः ।
श्श्स्_8.2.11: इमम्.स्तोमम्.इत्य्.आग्नीध्रः ।
श्श्स्_8.2.12: समानम्.अन्यत्.प्रातः.सवनेन ।
श्श्स्_8.2.13: इळाम्.उपहूय.प्रस्थितान्.भक्षयित्वा.पुरोळाशस्य.परिवाप.मिश्रस्य.नाराशंसानाम्.सन्नानाम्.यथा.चमसम्.दक्षिणतस्.त्रींस्.त्रीन्.पिण्डान्.उपास्यन्त्य्.अत्र.पितरो.मादयध्वम्.यथा.भागम्.पितर.आवृषायध्वम्.इति.प्ण्डे.पिण्डे ।
श्श्स्_8.3.1: देवाय.सवित्र.इत्य्.उक्तः ।
श्श्स्_8.3.2: अभूद्.देव.इति.पुरोनुवाक्या ।
श्श्स्_8.3.3: होता.यक्षद्.देवम्.सवितारम्.इति.प्रैषः ।
श्श्स्_8.3.4: दमूना.देवः.सविता.वरेण्यो.दधद्.रत्नम्.दक्ष.पितृभ्य.आयुनि.।.पिबात्.सोमम्.अमदन्न्.एनम्.इष्टयः.परिज्मा.चिद्.रमते.अस्य.धर्मणि.।.इति.यजति ।
श्श्स्_8.3.5: अध्वर्यो.शोशोंसावो.इत्य्.आहावः.शस्त्र.आदौ.तृतीय.सवने.स.उक्थे ।
श्श्स्_8.3.6: प्रातः.सवनिको.अन्तः.शस्त्रम् ।
श्श्स्_8.3.7: षोळशि.प्रभृतौ.च ।
श्श्स्_8.3.8: तत्.सवितुर्.वृणीमहे.अद्या.नो.देव.सवितर्.इति.तृचौ.प्रतिपद्.अनुचरौ.वैश्वदेवस्य ।
श्श्स्_8.3.9: अभूद्.देव.इति.सावित्रम् ।
श्श्स्_8.3.10: एकया.च.दशभिश्.च.स्वभूते.द्वाभ्याम्.इष्टये.विंशती.च.।.तिसृभिश्.च.वहसे.त्रिंशता.च.नियुद्भिर्.वायव्.इह.ता.मुञ्चः ।
श्श्स्_8.3.11: प्र.द्यावा.यज्ञैः.पृथिवी.ऋतावृध.इति.द्यावा.पृथिवीयम् ।
श्श्स्_8.3.12: मद्वान्.अस्मिन्.प्रतिगरः ।
श्श्स्_8.3.13: सुरूपकृत्नुम्.इत्य्.एका ।
श्श्स्_8.3.14: तक्षन्.रथम्.इत्य्.आर्भवम् ।
श्श्स्_8.3.15: अयम्.वेनो.येभ्यो.माता.एवा.पित्र.इत्य्.एक.पातिन्यः ।
श्श्स्_8.3.16: आ.नो.भद्रा.इति.वैश्वदेवस्य.उत्तमे.शिष्ट्वा.निविदम् ।
श्श्स्_8.3.17: परिधानीया.उत्तमा ।
श्श्स्_8.3.18: पच्छो.द्विर्.अर्धर्चशस्.तृतीयम् ।
श्श्स्_8.3.19: उक्थ.वीर्यम्.जपित्वा.विश्वे.देवाः.शृणुत.इमम्.इति.यजति ।
श्श्स्_8.4.1: घृतस्य.यज.इत्य्.उक्तो.घृतम्.मिमिक्ष.इत्य्.उपांशु.यजति ।
श्श्स्_8.4.2: सौम्यस्य.यज.इत्य्.उक्तस्.त्वम्.सोम.पितृभिर्.इति.यजति ।
श्श्स्_8.4.3: घृतस्य.यज.इत्य्.उक्त.।.उरु.विष्णो.वि.क्रमस्व.उरु.क्षयाय.नस्.कृधि.।.घृत.घृत.योने.पिब.प्र.प्र.यज्ञ.पतिम्.तिर.।.इत्य्.उपांशु.यजति ।
श्श्स्_8.4.4: विकल्पः.परीज्यायाम् ।
श्श्स्_8.4.5: सौम्यम्.होता.अवेक्ष्य.अङ्गुलिभ्याम्.सर्पिर्.उपस्पृशति ।
श्श्स्_8.4.6: चक्षुष्पा.असि.चक्षुर्.मे.पाहि.इति.चक्षुषी.विमार्ष्टि ।
श्श्स्_8.5.1: अग्नीत्.पात्नीवतस्य.यज.इत्य्.उक्त.ऐभिर्.अग्ने.सरथम्.इत्य्.उपांशु.यजति ।
श्श्स्_8.5.2: अभक्षयित्वा.ग्रहम्.आदाय.पूर्वया.द्वारा.सदः.प्रपद्य ।
श्श्स्_8.5.3: उत्तरतो.नेष्टारम्.उप.उपविश्य ।
श्श्स्_8.5.4: उपस्थे.वा ।
श्श्स्_8.5.5: नेष्टर्.उपह्वयस्व.इत्य्.उक्त्वा ।
श्श्स्_8.5.6: भक्षयित्वा.उपस्पृश्य ।
श्श्स्_8.5.7: यथा.इतम्.प्रत्येत्य ।
श्श्स्_8.6.1: यज्ञायज्ञीयम्.स्तोत्रम्.आग्निमारुतस्य ।
श्श्स्_8.6.2: वैश्वानराय.पृथु.पाजस.इति.वैश्वानरीयम् ।
श्श्स्_8.6.3: आ.ते.पितर्.इत्य्.एका ।
श्श्स्_8.6.4: प्रत्वक्षस.इति.मारुतम् ।
श्श्स्_8.6.5: यज्ञा.यज्ञा.वो.अग्नये.देवो.वो.द्रविणोदा.इति.स्तोत्रिय.अनुरूपौ.प्रगाथौ.यज्ञायज्ञीयस्य ।
श्श्स्_8.6.6: प्र.तव्यसीम्.इति.जातवेदसीयम् ।
श्श्स्_8.6.7: आपो.हि.ष्ठीयास्.तिस्रः ।
श्श्स्_8.6.8: उत.नो.अहिर्.बुध्न्यः.शृणोत्व्.इत्य्.एका ।
श्श्स्_8.6.9: देवानाम्.पत्नीर्.इति.द्वे ।
श्श्स्_8.6.10: राकाम्.अहम्.इति.द्वे ।
श्श्स्_8.6.11: अविदद्.दक्षम्.इत्य्.अक्षर.पङ्क्तयस्.तिस्रः ।
श्श्स्_8.6.12: उद्.ईरताम्.इत्.पैत्र्यस्.तिस्रः ।
श्श्स्_8.6.13: इमम्.यम.मातली.कव्यैर्.अङ्गिरोभिर्.इति.याम्यः ।
श्श्स्_8.6.14: स्वादुष्किलीयास्.तिस्रः ।
श्श्स्_8.6.15: मद्वान्.आसु.प्रतिगरः ।
श्श्स्_8.6.16: ययोर्.ओजसा.विष्णोर्.नु.कम्.तन्तुम्.तन्वन्न्.इत्य्.एक.पातिन्यः ।
श्श्स्_8.6.17: एवा.न.इन्द्रो.मघवा.इति.परिधाय.उक्थ.वीर्यम्.जपित्वा.अग्ने.मरुद्भिः.शुभयद्भिर्.इति.यजति ।
श्श्स्_8.7.1: प्रथमा.निविन्.मरुत्वतीयस्य ।
श्श्स्_8.7.2: द्वितीया.निष्केवल्यस्य ।
श्श्स्_8.7.3: तृतीया.प्रभृतयो.वैश्वदेव.आग्निमारुतयोः ।
श्श्स्_8.7.4: उत्तमा.षोळशिनः ।
श्श्स्_8.7.5: यावन्ति.सूक्तानि.तावत्यो.निविदः ।
श्श्स्_8.7.6: सूक्तस्य.सूक्तस्य.आहावः.पुरस्तात् ।
श्श्स्_8.7.7: निविदो.निविदश्.च ।
श्श्स्_8.7.8: एक.एकस्याश्.च.एक.पातिन्याः ।
श्श्स्_8.7.9: परिधानीयायै.च ।
श्श्स्_8.7.10: वैश्वदेवे.प्रतिपद्.अनुचरयोः ।
श्श्स्_8.7.11: आग्निमारुते.स्तोत्रिय.अनुरूपयोः ।
श्श्स्_8.7.12: आपो.हि.ष्ठीयानाम् ।
श्श्स्_8.7.13: देवानाम्.पत्नीनाम् ।
श्श्स्_8.7.14: राकायाश्.च ।
श्श्स्_8.7.15: अक्षर.पङ्क्तीनाम् ।
श्श्स्_8.7.16: पैत्रीणाम् ।
श्श्स्_8.7.17: यामीनाम् ।
श्श्स्_8.7.18: स्वादुष्किलीयानाम्.च ।
श्श्स्_8.7.19: वियतम्.शस्त्रम्.वैश्वदेवस्य ।
श्श्स्_8.7.20: अभ्यग्रम्.आग्निमारुतस्य.आपो.हि.ष्ठीयाः.परिहाप्य ।
श्श्स्_8.7.21: अप्सु.सोमान्.सादयित्वा.अनुयाज.आदि.शम्य्व्.अन्तम्.पशु.कर्म.कृत्वा.हारियोजनेन.चरन्ति ।
श्श्स्_8.8.1: तिष्ठा.सु.कम्.इति.पुरोनुवाक्या ।
श्श्स्_8.8.2: धानाः.सोमानाम्.इन्द्र.इत्.प्रैषः ।
श्श्स्_8.8.3: युनज्मि.त.इति.याज्या ।
श्श्स्_8.8.4: धानाः.सोमानाम्.अग्ने.वीहि.इत्य्.अनुवषट्.कारः ।
श्श्स्_8.8.5: सोमस्य.अग्न.इति.वा ।
श्श्स्_8.8.6: अप्षु.धूतस्य.देव.सोम.ते.मतिविदो.नृभि.(?).ष्टुत.स्तोत्रस्य.शस्त.उक्थस्य.इष्ट.यजुषो.यो.अश्वसनिर्.गोसनिर्.भक्षस्.तस्य.त.उपहूतस्य.उपहूतो.भक्षयामि.इति.प्राण.भक्षान्.भक्षयित्वा.धाना.व्यादधते ।
श्श्स्_8.8.7: भूयिष्ठा.होता.लिप्सेत ।
श्श्स्_8.8.9: यथा.ह.त्यद्.वसव.इति.धिष्ण्यान्.समीक्ष्य.आग्नीध्रीयम्.उत्तरेण.आहवनीयम्.आयन्ति ।
श्श्स्_8.8.10: भूर्.भुवः.स्वः.स्वाहा.स.त्वम्.नो.अग्ने.अवमस्.त्वम्.नो.अग्ने.वरुणस्य.तद्.अस्तु.मित्रा.वरुणा.इत्य्.आग्नीध्रीये.प्रायश्.चित्त.आहुतीर्.जुह्वति ।
श्श्स्_8.8.11: आपुर.स्ता.मा.प्रजया.पशुभिः.पूरयत.इत्य्.आहवनीयस्य.भस्म.अन्ते.धाना.न्युप्य.पञ्च.पञ्च.शकलान्.आदधते ।
श्श्स्_8.9.1: आत्म.कृतस्य.एनसो.अवयजनम्.असि.मनुष्य.कृतस्य.एनसो.अवयजनम्.असि.पितृ.कृतस्य.एनसो.अवयजनम्.असि.देव.कृतस्य.एनसो.अवयजनम्.असि.यच्.च.अहम्.एनो.विद्वांश्.चकार.यच्.च.अविद्वांस्.तस्य.सर्वस्य.अवयजनम्.असि.इति ।
श्श्स्_8.9.2: सव्य.आवृत.उत्तरेण.आहवनीयम्.अप्सु.सोमान्.यथा.चमसम्.पश्चाद्.उपोपविश्य.पवित्राण्य्.अवधाय.चेष्टयन्ते.।.सम्.आपो.अद्भिर्.अग्मत.सम्.ओषधयो.रसेन.।.सम्.रेवतीर्.जगतीभिः.पृच्यन्ताम्.स्म.मधुमतीर्.मधुमतीभिः.पृच्यन्ताम्.इति ।
श्श्स्_8.9.3: समुपहूताः.स्म.इति ।
श्श्स्_8.9.4: अप्सु.धूतस्य.देव.सोम.ते.मतिविदो.यो.अश्वसनिर्.गोसनिर्.भक्षस्.तस्य.त.उपहूतस्य.उपहूतो.भक्षयामि.इति.प्राण.भक्षान्.भक्षयित्वा ।
श्श्स्_8.9.5: अच्छायम्.वो.ययोर्.ओजसा.इति.प्राचीर्.निनीय.उदीचीर्.वा ।
श्श्स्_8.9.6: समुद्र्म.व.इत्य्.अभिमन्त्र्य ।
श्श्स्_8.9.7: शम्.नो.देवीयाभिश्.चतसृभिर्.उरो.अभिमृश्य ।
श्श्स्_8.9.8: समानम्.प्राण.सम्मर्शनम्.मुख.विमार्जनम्.च ।
श्श्स्_8.9.9: दक्षिण.आवृत.आग्नीध्रीये.दधि.प्राश्य.यथा.दधि.भक्षम् ।
श्श्स्_8.9.10: पत्नी.सम्याजान्.संस्थाप्य.हुतेषु.समिष्ट.यजुह्षु.अवभृतम्.अवैति ।
श्श्स्_8.10.1अ: पुनर्.माम्.ऐत्व्.इन्द्रियम्.पुनर्.आत्मा.द्रविणम्.ब्राह्मणम्.च.।.पुनर्.अग्नयो.धिष्ण्यासो.यथा.स्थानम्.धारयन्ताम्.इह.एव ।
श्श्स्_8.10.1ब्: इति.यजमानो.धिष्ण्यान्.समीक्ष्य.अत्र.अनूबन्ध्यायाम्.वा.संस्थितायाम्.ऋत्विजः.समीक्षेत ।
श्श्स्_8.10.1च्: उभा.कवी.युवाना.सत्यादा.धर्मणा.सत्यस्य.धर्मणस्.पती.वि.सख्यानि.सृजामहै.।.इति ।
श्श्स्_8.10.2: उरुम्.हि.राजा.इत्य्.अनुसम्यन् ।
श्श्स्_8.10.3: सर्वे.साम्नो.निधनम्.उपयन्ति ।
श्श्स्_8.10.4: नमो.वरुणाय.अह्बिष्ठितो.वरुणस्य.पाश.इत्य्.अप्सु.पादम्.अवधाय ।
श्श्स्_8.11.1: वारुणी.इष्टिः ।
श्श्स्_8.11.2: पौर्णमासी.विकारः ।
श्श्स्_8.11.3: अप्ष्व्.अग्ने.अप्षु.मे.सोम.इति.वा.अप्सुमन्तौ ।
श्श्स्_8.11.4: तिष्ठन्.यजति ।
श्श्स्_8.11.5: उद्.उत्तमम्.वरुण.अव.ते.हेळः ।
श्श्स्_8.11.6: स.त्वम्.नो.अग्ने.अवमस्.त्वम्.नो.अग्ने.वरुणस्य.विद्वान्.इत्य्.अग्नी.वरुणाव्.आदिशति ।
श्श्स्_8.11.7: न.निगदम्.आह ।
श्श्स्_8.11.8: ब्रूयाद्.वा ।
श्श्स्_8.11.9: अपबर्हिषः.प्रयाज.अनुयाजान्.यजति ।
श्श्स्_8.11.10: प्रयाज.आदिर्.अनुयाज.अन्ता ।
श्श्स्_8.11.11: स्विष्टकृद्.अन्ता.वा ।
श्श्स्_8.11.12: आज्य.भागौ.वा.परिहाप्य.अनुयाजौ.च ।
श्श्स्_8.11.13: येन.स्त्रियाव्.अकुरुतम्.येन.अपामृशतम्.सुराम्.येना.क्षाम्.अभ्यषिञ्चतम्.येन.इमाम्.पृथिवीम्.महीम्.यद्.वाम्.तद्.अश्विना.यशस्.तेन.माम्.अभिषिञ्चतम्.।.इति.होता.अभ्युक्षते ।
श्श्स्_8.11.14: उप.उच्छिवेन.चक्षुषा.गृहान्.परैमि.मानुषः.।.इत्य्.आगच्छन्.यजमानः ।
श्श्स्_8.11.15: इहो.सहस्र.दक्षिणो.अपि.पूषा.नि.षीदतु.।.इत्य्.उपविश्य.आहवनीये.समिधाव्.आदधाति.देवानाम्.समिद्.असि.इति.पूर्वाम्.तूष्णीम्.उत्तराम् ।
श्श्स्_8.11.16: तूष्णीम्.पत्नी.गार्हपत्ये ।
श्श्स्_8.12.1: प्रायणीयया.उदयनीया.व्याख्याता ।
श्श्स्_8.12.2: विपर्यासो.याज्या.पुरोनुवाक्यानाम्.स्विष्टकृतः.परिहाप्य ।
श्श्स्_8.12.3: पथ्याम्.स्वस्तिम्.चतुर्थीम्.यजति ।
श्श्स्_8.12.4: तृतीयम्.सवितारम् ।
श्श्स्_8.12.5: मैत्रावरुणी.च.वशा.अनुबन्ध्या ।
श्श्स्_8.12.6: पयस्या.वा ।
श्श्स्_8.12.7: आ.वाम्.मित्रा.वरुणा.तत्.सु.वाम्.मित्रा.वरुणा.ओ.मित्रा.वरुणा.इति.पुरोनुवाक्याः ।
श्श्स्_8.12.8: युवम्.वस्त्राणि.यद्.बन्हिष्ठम्.प्र.बाहव.इति.याज्याः ।
श्श्स्_8.12.10: दीक्षणीया.प्रभृत्या.अनुबन्ध्यायाः.संस्थानान्.न.वेदे.पत्नीम्.वाचयति.न.स्तृणाति ।
श्श्स्_8.12.10: अनुबन्ध्यायाम्.वाचयित्वा.अग्रेण.आग्नीध्रीयम्.धिष्ण्यम्.स्तृणाति ।
श्श्स्_8.12.11अ: मा.आपो.मा.ओषधीर्.हिंसीः.शुग्.असि.यम्.द्विष्मस्.तम्.ते.शुग्.ऋच्छतु ।
श्श्स्_8.12.11ब्: धाम्नो.धाम्नो.राजंस्.ततो.वरुण.नो.मुञ्च.।.यद्.आपो.अघ्न्या.इति.वरुण.इति.शपामहे.ततो.वरुण.नो.मुञ्च ।
श्श्स्_8.12.11च्: इति.हृदय.शूलम्.उपस्थाय.सुमित्रिया.न.आप.ओषधयः.सन्त्व्.इत्य्.उपस्पृश्य.दुर्मित्रियास्.तस्मै.सन्तु.यो.अस्मान्.द्वेष्टि.यम्.च.वयम्.द्विष्म.इति.दक्षिणा.निरुक्षन्ति ।
श्श्स्_8.12.12: आज्य.भाग.प्रभृति.वा.पयस्या ।
श्श्स्_8.12.13: अमावास्या.विकारः ।
श्श्स्_8.12.14: अनिगदा.इळा.अन्ता ।
श्श्स्_8.13.1: उदन्न्.उदवसाय.वैष्णव्या.ऋचा.पूर्ण.आहुतिम्.हुत्वा.उदवसानीयया.यजति ।
श्श्स्_8.13.2: आग्नेयी.इष्टिः ।
श्श्स्_8.13.3: पौर्णमासी.विकारः ।
श्श्स्_8.13.4: याः.पुनर्.आधेये.ता.हविषः.स्विष्ट्कृतश्.च ।
श्श्स्_8.13.5: पञ्च.कपाले.पौनराधेयिकी.इष्टिः ।
श्श्स्_8.13.6: संस्थितायाम्.सायम्.अग्नि.होत्रम्.जुहोति ।
श्श्स्_8.14.1: मन्द्रया.वाचा.प्रातः.सवनम् ।
श्श्स्_8.14.2: उच्चैस्तराम्.आज्यात्.प्रौगम् ।
श्श्स्_8.14.3: मध्यमया.माध्यंदिनम् ।
श्श्स्_8.14.4: उच्चैस्तराम्.मरुत्वतीयान्.निष्केवल्यम् ।
श्श्स्_8.14.5: उत्तमया.तृतीय.सवनम् ।
श्श्स्_8.14.6: उच्चैस्तराम्.वैश्वदेवाद्.आग्निमारुतम् ।
श्श्स्_8.14.7: उत्तमया.वा.माध्यंदिनम् ।
श्श्स्_8.14.8: मन्द्रया.तृतीय.सवनम् ।
श्श्स्_8.14.9: मध्यमया.वा ।
श्श्स्_8.15.1: यस्मै.प्रेष्यत्या.तस्य.अपवर्गाद्.वाचम्.यच्छति ।
श्श्स्_8.15.2: आहाव.प्रभृति.च.अनुवषट्.कारात् ।
श्श्स्_8.15.3: प्रातर्.अनुवाके.ब्रह्मा ।
श्श्स्_8.15.4: भक्षयित्वा.च.आ.स्तोत्र.प्रसवात् ।
श्श्स्_8.15.5: प्रसव.प्रभृति.च.आ.अनुवषट्.कारात् ।
श्श्स्_8.15.6: अतिप्रैष.अन्तम्.श्रुत्वा.वसतीवरीणाम्.परिहरणात् ।
श्श्स्_8.15.7: यस्.ते.द्रप्सः.स्कन्दति.द्रप्सश्.चस्कन्द.इति.विप्रुषाम्.होमः.पुरस्तात्.पवमानानाम् ।
श्श्स्_8.15.8: सर्पतश्.च.अनुसर्पति ।
श्श्स्_8.15.9: मैत्रा.वरुणश्.च ।
श्श्स्_8.15.10: अग्नि.चित्यायाम्.च.अग्नौ.प्रणीयमाने.अप्रतिरथम्.जपति ।
श्श्स्_8.15.11: विश्वा.आशा.दक्षिणतः.सर्वान्.देवान्.अयाऌ.इह.।.स्वाहा.कृतस्य.घर्मस्य.मध्वः.पिबतम्.अश्विना.।.इति.महा.वीरम्.अनुसम्यन् ।
श्श्स्_8.15.12: अश्विना.घर्मम्.पातम्.हार्द्वानम्.अहर्.दिवाभिर्.ऊतिभिः.।.तन्त्रायिणे.नमो.द्यावा.पृथिवीभ्याम्.।.इति.वषट्.कृते ।
श्श्स्_8.15.15: अपाताम्.अश्विना.घर्मम्.अनु.द्यावा.पृथिवी.अमंसाताम्.।.इह.एव.रातयः.सन्तु.इति.अनुवषट्.कृते ।
श्श्स्_8.15.15: समानम्.अनिर्दिष्टम् ।
श्श्स्_8.15.15: इति.सोमे.ब्रह्म.कर्म ।
श्श्स्_8.16.1अ: इन्द्रो.मरुत्वान्.सोमस्य.पिबतु.।.मरुत्.स्तोत्रो.मरुद्.गणः.।.मरुद्.वृधो.मरुत्.सखा.।.य.ईम्.एनम्.देवा.अन्वमदन्.।.अप्.तूर्ये.वृत्र.तूर्ये.।.शम्बर.हत्ये.गविष्टौ.।.अर्चन्तम्.गुह्या.पदा ।
श्श्स्_8.16.1ब्: परमस्याम्.परावति.।.वधीद्.वृत्रम्.सृजद्.अपः.।.मरुताम्.ओजसा.सह.।.आदीम्.ब्रह्माणि.वर्धयन्.।.अनाधृष्टान्य्.ओजसा ।
श्श्स्_8.16.1च्: कृण्वन्.देवेभ्यो.दुवः.।.मरुद्भिः.सखिभिः.सह.।.इन्द्रो.मरुत्वान्.इह.श्रवद्.इह.सोमस्य.पिबतु.।.प्र.इमाम्.देवो.देव.हूतिम्.अवतु.देव्या.धिया.।.प्र.इदम्.ब्रह्म.प्र.इदम्.क्षत्रम्.।.प्र.इमम्.सुन्वन्तम्.यजमानम्.अवतु ।
श्श्स्_8.16.1द्: चित्रश्.चित्राभिर्.ऊतिभिः.।.श्रवद्.ब्रह्माण्य्.आ.अवसा.गमत् ।
श्श्स्_8.16.2: अथ.उक्थ.वीर्यम् ।
श्श्स्_8.16.3: रूपम्.अनुरूपम्.प्रतिरूपम्.सुरूपम्.इह.उपोयो.भद्रम्.आशृण्वते.त्वा.उक्थम्.अवाचि.इन्द्राय.इति ।
श्श्स्_8.17.1अ: इन्द्रो.देवः.सोमम्.पिबतु.।.एकजानाम्.वीरतमः.।.भूरिजानाम्.तवस्तमः.।.हर्यो.स्थाता.।.पृश्नेः.प्रेताः.।.वज्रस्य.भर्ता.।.पुराम्.भेत्ता ।
श्श्स्_8.17.1: पुराम्.दर्मा.।.अपाम्.नेता.।.सत्वानाम्.नेता.।.निजघ्निर्.दूरे.श्रेवाः.।.उपमातिकृद्.दंसनावान्.।.इह.ऊशन्.देवो.बभूवान्.।.इन्द्रो.देव.इह.श्रवद्.इह.सोमम्.पिबतु.।.प्र.इमाम्.देव.इति.समानम् ।
श्श्स्_8.17.2: अथ.उक्थ.वीर्यम् ।
श्श्स्_8.17.3: संराऌ.असि.स्वराऌ.असि.विराऌ.असि.राजा.अस्य्.अभिभूर्.अस्य्.अभिभूयास्म.वयम्.यम्.द्विष्मो.अपशृण्वते.त्वा.उक्थम्.अवाचि.इन्द्राय.इति ।
श्श्स्_8.18.1अ: सविता.देवः.सोमस्य.मत्सत्.।.हिरण्य.पाणिः.सुजिह्वः.।.सुबाहुः.स्वङ्गुरिः.।.त्रिर्.अहन्.सत्य.सवनः.।.यः.प्रासुवद्.वसुधिती.।.उभे.जोष्ट्री.सवीमनि.।.श्रेष्ठम्.सावित्रम्.आसुवम्.।.दोग्ध्रीम्.धेनुम्.।.वोळ्हारम्.अनड्वाहम् ।
श्श्स्_8.18.1: आशुम्.सप्तिम्.।.जिष्णुम्.रथेष्ठाम्.।.पुरंधिम्.योषाम्.।.सभेयम्.युवानम्.।.सविता.देवः.परामीवाम्.साविषत्.पराघ.शंसम्.।.इह.श्रवद्.इह.सोमस्य.मत्सत्.।.प्र.इमाम्.देव.इति.समानम् ।
श्श्स्_8.19.1अ: द्यावा.पृथिवी.सोमस्य.मत्सताम्.।.पिता.च.माता.च.।.धेनुश्.च.ऋषभश्.च.।.धन्या.च.धिषणा.च.।.सुरेताश्.च.सुदुघा.च.।.शम्भूश्.च.मयोभूश्.च.।.ऊर्जस्वती.च.पयस्वती.च.।.द्यावा.पृथिवी.इह.श्रुताम्.इह.सोमस्य.मत्सताम् ।
श्श्स्_8.19.1ब्: प्र.इमाम्.देवी.देव.हूतिम्.अवताम्.देव्या.धिया.।.प्र.इदम्.ब्रह्म.प्र.इदम्.क्षत्रम्.।.प्र.इमम्.सुन्वन्तम्.यजमानम्.अवताम्.।.चित्रे.चित्राभिर्.ऊतिभिः.।.श्रुताम्.ब्रहाण्य्.आ.अवसा.गताम् ।
श्श्स्_8.20.1अ: ऋभवो.देवाः.सोमस्य.मत्सन्.।.विष्ट्वी.स्वपसः.।.कर्मणा.सुहस्ताः.।.धन्या.धनिष्ठाः.।.शम्या.शमिष्ठाः.।.शच्या.शचिष्ठाः.।.ये.धेनुम्.विश्व.जुवम्.विश्व.रूपाम्.अतक्षन्.।.अतक्षन्.धेनुम्.अभवद्.विश्व.रूपी ।
श्श्स्_8.20.1ब्: अबुध्रन्सम्.कनीना.मदन्तः.।.अयुञ्जत.हरी.अयुर्.देवान्.उप.।.संवत्सरे.स्वपसो.यज्ञियम्.भागम्.आयन्.।.ऋभवो.देवा.इह.श्रवन्न्.इह.सोमस्य.मत्सन्.।.प्र.इमाम्.देवा.देव.हूतिम्.अवन्तु.देव्या.धिया ।
श्श्स्_8.20.1च्: प्र.इदम्.ब्रह्म.प्र.इदम्.क्षत्रम्.।.प्र.इमम्.सुन्वन्तम्.यजमानम्.अवन्तु.।.चित्राश्.चित्राभिर्.ऊतिभिः.।.श्रवन्.ब्रह्माण्य्.आ.अवसा.गमन् ।
श्श्स्_8.21.1अ: विश्वे.देवाः.सोमस्य.मत्सन्.।.विश्वे.वैश्वानराः.।.महि.महान्तः.।.पक्व.अन्ना.नेमतिथीवानः.(?).।.आस्क्राः.पचत.वाहसः.।.ये.द्याम्.च.पृथिवीम्.च.अतस्थुः.।.अपश्.च.स्वश्.च ।
श्श्स्_8.21.1ब्: ब्रह्म.च.क्षत्रम्.च.।.बर्हिश्.च.वेदिम्.च.।.यज्ञम्.च.उरु.च.अन्तरिक्षम्.।.वात.आत्मानो.अग्नि.दूताः.।.ये.स्थ.त्रय.एकादशासः ।
श्श्स्_8.21.1च्: त्रयश्.च.त्रिंशच्.च.।.त्रयश्.च.त्री.च.शता.।.त्रयश्.च.त्री.च.सहस्रा.।.तावन्त.उदरणे.।.तावन्तो.निवेशने.।.तावतीः.पत्नीः ।
श्श्स्_8.21.1द्: तावतीर्.ग्नाः.।.तावन्तो.अभिषाचः.।.तावन्तो.रातिषाचः.।.अतो.वा.देवा.भूयांस.स्थ.।.मा.वो.देवो.अविशसा.मा.विशसायुर्.आ.वृक्षि.।.विश्वे.देवा.इह.श्रवन्न्.इह.सोमस्य.मत्सन्.।.प्र.इमाम्.देवा.इति.समानम् ।
श्श्स्_8.21.2: अथ.उक्थ.वीर्यम् ।
श्श्स्_8.21.3: भूतम्.असि.भविष्यद्.असि.विभूतम्.असि.प्रभूतम्.असि.सद्.असि.चक्षुर्.अस्य्.ओजो..असि.भद्रम्.असि.श्रुतायै.त्वा.अवाचि.इन्द्राय.उक्थम्.देवेभ्यः ।
श्श्स्_8.22.1अ: अग्निर्.वैश्वानरः.सोमस्य.मत्सन्.।.विश्वेषाम्.देवानाम्.समित्.।.अजस्रम्.दैव्यम्.ज्योतिः.।.यो.विड्भ्यो.मनौषीभ्यो.दीदेत्.।.द्युषु.पूर्वासु.दिद्युतानः.।.अजर.उषसाम्.अनीके ।
श्श्स्_8.22.1ब्: आ.यो.द्याम्.भात्या.पृथिवीम्.।.आ.उर्व्.अन्तरिक्षम्.।.ज्योतिषा.यज्ञियाय.शर्म.यंसत्.।.अग्निर्.वैश्वानर.इह.श्रवद्.इह.सोमस्य.मत्सत्.।.प्र.इमाम्.देव.इति.समानम् ।
श्श्स्_8.23.1अ: मरुतो.देवाः.सोमस्य.मत्सन्.।.सुष्टुभः.स्वर्काः.।.अर्क.स्तुभो.बृहद्.वयसः.।.नभस्या.वर्षनिर्णिजः.।.त्वेषासः.पृश्नि.मातरः.।.शुभ्रा.हिरण्य.खादयः ।
श्श्स्_8.23.1ब्: तवसो.भन्ददिष्टयः.।.शुरा.अनाधृष्ट.रथाः.।.मरुतो.देवा.इह.श्रवन्न्.इह.सोमस्य.मत्सन्.।.प्र.इमाम्.देवा.इति.समानम् ।
श्श्स्_8.24.1अ: अग्निर्.जात.वेदाः.सोमस्य.मत्सन्.।.स्वनीकश्.चित्र.भानुः.।.अप्रोषिवान्.गृह.पतिः.।.तिरस्.तमांसि.दर्शतः.।.घृताहवन.ईड्यः.।.बहुल.वर्मा.आस्तृत.यज्वा.।.प्रतीत्या.शत्रून्.जेता.अपराजितः.।.अग्ने.जात.वेदो.अभि.द्युम्नम्.अभि.सह.आयच्छस्व ।
श्श्स्_8.24.1ब्: स्तुशो.अस्तुशः.।.समेद्धारम्.अंहसः.पाहि.।.अग्निर्.जात.वेदा.इह.श्रवद्.इह.सोमस्य.मत्सत्.।.प्र.इमाम्.देव.इति.समानम् ।
श्श्स्_8.24.2: अथ.उक्थ.वीर्यम् ।
श्श्स्_8.24.3: तेजो.असि.धृष्टिर्.असि.विधृष्टिर्.असि.प्रधृष्टिर्.असि.विधृतिर्.असि.धरुणम्.असि.धर्त्रम्.असि.धर्यो.अस्य्.आश्रुत्यै.त्वा.अवाचि.इन्द्राय.उक्थम्.देवेभ्यः ।
श्श्स्_8.25.1अ: अस्य.मदे.जरितर्.इन्द्रः.सोमस्य.मत्सत्.।.अस्य.मदे.जरितर्.इन्द्रो.अहिम्.अहन्.।.अस्य.मदे.जरितर्.इन्द्रो.वृत्रम्.अहन्.।.अस्य.मदे.जरितर्.इन्द्र.उद्.द्याम्.अस्तभ्नाद्.अप्रथयत्.पृथिवीम्.।.अस्य.मदे.जरितर्.इन्द्रो.व्य्.अन्तरिक्षम्.अतिरद्.आ.सूर्यम्.दिव्यैर्.अयत्.।.अस्य.मदे.जरितर्.इन्द्र.उदार्यम्.वर्णम्.अतिरद्.अव.दासम्.वर्णम्.अहन् ।
श्श्स्_8.25.1ब्: अस्य.मदे.जरितर्.इन्द्रो.अपिन्वद्.अपितो.अजिन्वद्.अजुवः.।.अस्य.मदे.जरितर्.इन्द्र.ऋष्यान्.इव.पम्फणतः.पर्वतान्.प्रकुपितान्.अरम्णात्.।.अस्य.मदे.जरितर्.इन्द्रो.अपाम्.वेगम्.ऐरयत्.।.अस्य.मदे.जरितर्.इन्द्र.इह.श्रवद्.उप.गिरि.ष्ठात्.।.अस्य.मदे.जरितर्.इन्द्र.इह.श्रवद्.इह.सोमस्य.मत्सत्.।.प्र.इमाम्.देव.इति.समानम् ।
श्श्स्_8.25.2: अथ.उक्थ.वीर्यम् ।
श्श्स्_8.25.3: रोहोभ्याम्.रोहो.ब्रध्नस्य.विष्टपम्.स्वर्ग्या.तनूर्.नाक.इति.नाक.इति ।
श्श्स्_9.1.1: व्याख्यातो.अग्निष्टोमः.प्रकृतिर्.द्वादश.अहस्य.एक.अहानाम्.च ।
श्श्स्_9.1.2: तस्य.विकारम्.व्याख्यास्यामः ।
श्श्स्_9.1.3: श्रूयमाणम्.प्राकृतम्.नाम.धेयम्.अन्यस्मिन्.द्रव्ये.प्रकृतिम्.निवर्तयति ।
श्श्स्_9.1.4: प्रतिषेधः ।
श्श्स्_9.1.5: अर्थः ।
श्श्स्_9.1.6: परिसंख्या ।
श्श्स्_9.1.7: उपजनो.वा ।
श्श्स्_9.1.8: आग्निमारुताद्.ऊर्ध्वम्.आगमात्.त्रयाणाम्.शस्त्राणाम्.उक्थ्यो.भवति ।
श्श्स्_9.1.9: एक.आगमाद्.ऊर्ध्वम्.उक्थ्येभ्यः.षोळशौ ।
श्श्स्_9.1.10: त्रयोदश.आगमाद्.ऊर्ध्वम्.षोळशिनो.अतिरात्रः ।
श्श्स्_9.1.11: अन्तरेण.आग्निमारुतम्.अनुयाजांश्.च.एतेषाम्.स्थानम् ।
श्श्स्_9.2.1: साकम्.अश्वम्.मैत्रावरुणस्य ।
श्श्स्_9.2.2: एह्य्.ऊ.षु.ब्रवाणि.इति.स्तोत्रिय.अनुरूपौ ।
श्श्स्_9.2.3: चर्षणी.धृतम्.अस्तभ्नाद्.द्याम्.इति.तृचौ ।
श्श्स्_9.2.4: इन्द्रा.वरुणा.युवम्.अध्वराय.नः ।
श्श्स्_9.2.5: आ.वाम्.राजानौ ।
श्श्स्_9.2.6: इन्द्रा.वरुणा.मधुमत्तमस्य.इति.यजति ।
श्श्स्_9.3.1: सौभरम्.ब्राह्मणाच्छंसिनः ।
श्श्स्_9.3.2: वयम्.उ.त्वाम्.अपूर्व्य.यो.न.इदम्.इदम्.इति.स्तोत्रिय.अनुरूपौ.प्रगाथौ ।
श्श्स्_9.3.3: प्र.मन्हिष्ठाय.यो.अद्रिभिद्.इति.तृचौ ।
श्श्स्_9.3.4: अस्ता.इव.सु.प्रतरम्.इत्य्.उत्तमाम्.उद्धृत्य.उदप्रुत.इति.शस्त्वा.या.पूर्वस्य.उद्धृता.तया.परिधाय.बृहस्पते.युवम्.इन्द्रश्.च.इति.यजति ।
श्श्स्_9.4.1: नार्मेधम्.अच्छावाकस्य ।
श्श्स्_9.4.2: अधा.हि.इन्द्र.इति.स्तोत्रिय.अनुरूपौ ।
श्श्स्_9.4.4: ऋतुर्.जनित्री ।
श्श्स्_9.4.4: विष्णोर्.नु.कम् ।
श्श्स्_9.4.5: प्र.वः.पान्तम्.अन्धसः ।
श्श्स्_9.4.6: सम्.वाम्.कर्मणा ।
श्श्स्_9.4.7: इन्द्रा.विष्णू.मद.पती.मदानाम्.इति.यजति ।
श्श्स्_9.5.1: षोळशिने.स्तोष्यमाणेषु.।.यस्माज्.जातो.न.परो.अन्यो.अस्ति.य.आ.बभूव.भुवनानि.विश्वा.।.प्रजापतिः.प्रजया.संरराणस्.त्रीणि.ज्योतींषि.सचते.स.षोळशी.।.इति.यजमानः.षोळशि.ग्रहम्.उपतिष्ठते ।
श्श्स्_9.5.2अ: इन्द्र.जुषस्व.प्र.वहा.याहि.शूर.हरिह.।.पिबा.सुतस्य.मतिर्.न.मध्वश्.चकानश्.चारुर्.मदाय ।
श्श्स्_9.5.2ब्: इन्द्र.जठरम्.नव्यम्.न.पृणस्व.मधोर्.दिवो.न.।.अस्य.सुतस्य.स्वर्ण.उप.त्वा.मदाः.सुवाचो.अस्थुः ।
श्श्स्_9.5.2च्: इन्द्रस्.तुराषाण्.मित्रो.न.जघान.वृत्रम्.यतिर्.न.।.बिभेद.वलम्.भृगुर्.न.ससाहे.शत्रून्.मदे.सोमस्य.।.इति.स्तोत्रियम्.शस्त्वा ।
श्श्स्_9.5.3: त्वावतः.पुरूवसो.इत्य्.एका ।
श्श्स्_9.5.4: आ.त्वा.वहन्तु.हरयः.स्वादोर्.इत्था.इति.गायत्रम्.तृचम्.पाङ्क्तम्.च.विहरति ।
श्श्स्_9.5.5: प्रथमेन.गायत्रेण.पादेन.प्रथमम्.पाङ्क्ताम्.पादम्.संधाय.अवस्यति ।
श्श्स्_9.5.6: द्वितीयेन.गायत्रेण.द्वितीयम्.संधाय.प्रणौति ।
श्श्स्_9.5.7: तृतीयेन.गायत्रेण.तृतीयम्.संधाय.अवस्यति ।
श्श्स्_9.5.8: द्वौ.पङ्क्तेः.परिशिष्टौ.ताभ्याम्.प्रणौति ।
श्श्स्_9.5.9: इन्द्राय.साम.गायता.मन्द्रैर्.इन्द्र.हरिभिर्.इत्य्.औष्णिहम्.तृचम्.बार्हतम्.च.विहरति ।
श्श्स्_9.5.10: प्रथमेन.औष्णिहेन.पादेन.प्रथमम्.बार्हतम्.पादम्.संधाय.अवस्यति ।
श्श्स्_9.5.11: द्वितीयेन.औष्णिहेन.द्वितीयम्.संधाय.प्रणौति ।
श्श्स्_9.5.12: अष्ट.अक्षरम्.औष्णिहस्य.पादस्य.अष्ट.अक्षरम्.बार्हतस्य.ताभ्याम्.अवस्यति ।
श्श्स्_9.5.13: चतुर्.अक्षरे.शिष्टे.ते.समस्य.उत्तमम्.बार्हतम्.पादम्.संधाय.प्रणौति ।
श्श्स्_9.6.1: आ.धूर्षु.उरुम्.न.इति.द्विपदाम्.च.विंशत्य्.अक्षराम्.त्रिष्टुभम्.च.विहरति ।
श्श्स्_9.6.2: प्रथमेन.द्वैपदेन.पञ्च.अक्षरेण.प्रथमम्.त्रैष्टुभम्.पादम्.संधाय.अवस्यति ।
श्श्स्_9.6.3: द्वितीयेन.पञ्च.अक्षरेण.द्वितीयम्.संधाय.प्रणौति ।
श्श्स्_9.6.4: तृतीयेन.पञ्च.अक्षरेण.तृतीयम्.संधाय.अवस्यति ।
श्श्स्_9.6.5: चतुर्थेन.पञ्च.अक्षरेण.चतुर्थम्.संधाय.प्रणौति ।
श्श्स्_9.6.6: एष.ब्रह्मा.य.ऋत्विय.इन्द्रो.नाम.श्रुतो.गृणे.।.विश्रुतयो.यथा.पथ.इन्द्र.त्वद्यन्ति.रातयः.।.त्वाम्.इच्छवसस्पते.यन्ति.गिरो.नः.सम्यतः.।.प्र.ते.मह.इति.द्वैपदम्.तृचम्.जागतम्.च.विहरति ।
श्श्स्_9.6.7: प्रथमेन.द्वैपदेन.चतुर्.अक्षरेण.प्रथमम्.जागतम्.पादम्.संधाय.अवस्यति ।
श्श्स्_9.6.8: द्वितीयेन.चतुर्.अक्षरेण.द्वितीयम्.संधाय.प्रणौति ।
श्श्स्_9.6.9: तृतीयेन.चतुर्.अक्षरेण.तृतीयम्.संधाय.अवस्यति ।
श्श्स्_9.6.10: चतुर्थेन.चतुर्.अक्षरेण.चतुर्थम्.संधाय.प्रणौति ।
श्श्स्_9.6.11: इन्द्रो.दधीच.इति.तिसृणाम्.गायत्रीणाम्.द्वाभ्याम्.अवसाय.पादाभ्याम्.द्वाभ्याम्.प्रणौति.द्वाभ्याम्.अवसाय.द्वाभ्याम् ।
श्श्स्_9.6.12: उत्तमेन.गायत्रेण.पादेन.प्रो.ष्व्.अस्मै.पुरोरथम्.इत्य्.एतस्याः.पादम्.संधाय.अवस्यति ।
श्श्स्_9.6.13: द्वाभ्याम्.प्रणौति.द्वाभ्याम्.अवसाय.द्वाभ्याम् ।
श्श्स्_9.6.14: प्र.प्र.वस्.त्रिष्टुभाम्.इति.तृचम् ।
श्श्स्_9.6.15: आ.यत्.पतन्ति.इत्य्.एका ।
श्श्स्_9.6.16: यो.व्यतींर्.इति.(?).तिसृणाम्.उत्तमाम्.परिशिष्य.निविदम् ।
श्श्स्_9.6.17: स्तोत्रिये.च.आहावो.निविदे.परिधानीयायै.च ।
श्श्स्_9.6.18: य्द्.यद्.ब्रध्नस्य.इति.परिधाय.उक्थ.वीर्यम्.जपित्वा.अपाः.पूर्वेषाम्.इति.यजति ।
श्श्स्_9.6.19: एतस्मिन्.स्तोत्रिये.चत्वारिंशत्.सम्पद.आनुष्टुभः ।
श्श्स्_9.6.20: विक्रियमाणे.यथा.समाम्नातम् ।
श्श्स्_9.6.21: इन्द्रश्.च.संराड्.वरुणश्.च.राजा.तौ.ते.भक्षम्.चक्रतुर्.अग्र.एतम्.।.तयोर्.अहम्.भक्षम्.अनुभक्षयामि.वाग्.देवी.जुषाणा.सोमस्य.तृप्यतु.।.इति.ग्रहम्.भक्षयति ।
श्श्स्_9.7.1: पान्तम्.आ.वो.अन्धस.इति.स्तोत्रिय.अनुरूपौ.होतुः.प्रथमेषु.रात्रि.पर्यायेषु ।
श्श्स्_9.7.2: न.प्रथमस्य.प्रथमम्.आंरेळयात् ।
श्श्स्_9.7.3: शेषः.सूक्तस्य.उक्थ.मुखम् ।
श्श्स्_9.7.4: अभि.त्यम्.मेषम्.इति.जागतम् ।
श्श्स्_9.7.5: अध्वर्यवो.भरत.इन्द्राय.इति.यजात् ।
श्श्स्_9.8.1: प्र.व.इन्द्राय.मादनम्.प्रकृतानि.इति.मैत्रावरुणस्य ।
श्श्स्_9.8.2: सुरूप.कृत्नुम्.इत्य्.उक्थ.मुखम् ।
श्श्स्_9.8.3: त्यम्.सु.मेषम्.इति.जागतस्य.नवमीम्.च.उत्तमाम्.च.उद्धृत्य.चतुर्दशीम्.पूर्वाम्.शस्त्वा.त्रयोदश्या.परिधाय.पाता.सुताम्.इन्द्रो.अस्तु.सोमम्.हन्ता.वृत्रम्.इति.यजति ।
श्श्स्_9.9.1: वयम्.उ.त्वा.तद्.इद्.अर्था.वयम्.उ.त्वा.दिवा.सुत.इति.ब्राह्मणाच्छंसिनः ।
श्श्स्_9.9.2: इन्द्र.त्वा.वृषभम्.इत्य्.उक्थ.मुखम् ।
श्श्स्_9.9.3: वार्त्रहत्याय.शवस.इति.वा.उत्तमाम्.उद्धृत्य ।
श्श्स्_9.9.4: न्यू.षु.वाचम्.इति.जागतम् ।
श्श्स्_9.9.5: वृषा.मद.इन्द्र.इति.यजति ।
श्श्स्_9.10.1: इन्द्राय.मद्वने.सुतम्.इन्द्रम्.इद्.गाथिनो.बृहद्.इत्य्.अच्छावाकस्य ।
श्श्स्_9.10.2: शेषः.सूक्तस्य.उक्थ.मुखम् ।
श्श्स्_9.10.3: मा.नो.अस्मिन्न्.इति.जागतम् ।
श्श्स्_9.10.4: इद्म.त्यत्.पात्रम्.इति.यजति ।
श्श्स्_9.11.1: अयम्.त.इन्द्र.सोमो.अयम्.ते.मानुषे.जन.इति.स्तोत्रिय.अनुरूपौ.होतुर्.मध्यमेषु.रात्रि.पर्यायेषु ।
श्श्स्_9.11.2: उद्.घेद्.अभि.इत्य्.उक्थ.मुखम्.उत्तमाम्.उद्धृत्य ।
श्श्स्_9.11.3: अहम्.भुवम्.इति.जागतम् ।
श्श्स्_9.11.4: अपाय्य्.अस्य.इति.यजति ।
श्श्स्_9.12.1: आ.तू.न.इन्द्र.क्षुमन्तम्.आ.तू.न.इन्द्र.वृत्रहन्न्.इति.मैत्रावरुणस्य ।
श्श्स्_9.12.2: आ.इन्द्र.सानसिम्.इत्य्.उक्थ.मुखम् ।
श्श्स्_9.12.3: प्र.वः.सताम्.इति.जागतम् ।
श्श्स्_9.12.4: अस्य.मदे.पुरु.वर्पांसि.इति.यजति ।
श्श्स्_9.13.1: अभि.त्वा.वृषभ.अभि.प्र.गो.पतिम्.इति.ब्राह्मणाच्छंसिनः ।
श्श्स्_9.13.2: आ.तू.न.इन्द्र.मद्र्यग्.इत्य्.उक्थ.मुखम् ।
श्श्स्_9.13.3: तद्.अस्मै.नव्यम्.इति.जागतम् ।
श्श्स्_9.13.4: यस्.ते.रथ.इति.यजति ।
श्श्स्_9.14.1: इदम्.वसो.सुतम्.इन्द्र.इहि.मत्सि.इत्य्.अच्छावाकस्य ।
श्श्स्_9.14.2: शेषः.सूक्तस्य.उक्थ.मुखम् ।
श्श्स्_9.14.3: अजात.शत्रुम्.इति.जागतस्य.उत्तमाम्.उद्धृत्य.उद्.यत्.सह.इति.परिधाय.इदम्.ते.पात्रम्.सनवित्तम्.इन्द्र.इति.यजति ।
श्श्स्_9.15.1: इदम्.ह्य्.अन्व्.ओजसा.महान्.इन्द्रो.य.ओजसा.इति.स्तोत्रिय.अनुरूपौ.होतुर्.उत्तमेषु.रात्रि.पर्यायेषु ।
श्श्स्_9.15.2: शेषः.सूक्तस्य.उक्थ.मुखम्.उत्तमास्.तिस्र.उद्धृत्य ।
श्श्स्_9.15.3: विश्वजित.इति.जागतम् ।
श्श्स्_9.15.4: तिष्ठा.हरी.इति.यजति ।
श्श्स्_9.16.1: आ.त्व्.एता.नि.षीदत.आ.त्व्.अशत्रवा.गहि.इति.मैत्रा.वरुणस्य ।
श्श्स्_9.16.2: यस्य.संस्थ.इति.सप्त.उक्थ.मुखम् ।
श्श्स्_9.16.3: अहम्.दाम्.गृणत.इति.जागतम् ।
श्श्स्_9.16.4: प्र.घा.न्व्.अस्य.इति.यजति ।
श्श्स्_9.17.1: योगे.योगे.युञ्जन्ति.ब्रध्नम्.इति.ब्राह्मणाच्छंसिनः ।
श्श्स्_9.17.2: शेषः.सूक्तस्य.उक्थ.मुखम् ।
श्श्स्_9.17.3: इमाम्.ते.धियम्.इति.जागतस्य.उत्तमाम्.उद्धृत्य.तद्.अस्य.इदम्.पश्यत.इति.परिधाय.प्रो.द्रोण.इति.यजति ।
श्श्स्_9.18.1: इन्द्रः.सुतेषु.सोमेष्व्.इन्द्रम्.वर्धन्त्व्.इत्य्.अच्छावाकस्य ।
श्श्स्_9.18.2: उत्तमानि.चतुर्.अक्षराण्य्.अभ्यस्यन्ति ।
श्श्स्_9.18.3: उप.नः.सुतम्.आ.गहि.सोमम्.इन्द्र.इत्य्.उक्थ.मुखम् ।
श्श्स्_9.18.4: प्र.ते.मह.इति.जागतम् ।
श्श्स्_9.18.5: प्र.उग्राम्.पीतिम्.इति.यजति ।
श्श्स्_9.19.1: अथ.अच्छावाकस्य.आहीनिक्याः ।
श्श्स्_9.19.2: पन्यम्.पन्यम्.इत्.सोतारः.पन्य.इद्.उप.गायत.इति.स्तोत्रिय.अनुरूपौ.प्रथमे ।
श्श्स्_9.19.3: आ.त्वा.विशन्त्व्.इन्दव.आ.त्वा.विशन्त्व्.आशव.इत्य्.उत्तमे ।
श्श्स्_9.20.1: संस्थाप्य.रात्रि.पर्यायान्.आश्विनाय.स्तोष्यमाणेषु.प्रवृत.आहुती.जुहोति ।
श्श्स्_9.20.2: समया.वाचा.शंसेत् ।
श्श्स्_9.20.3: उत्तर.उत्तरिण्या.वा ।
श्श्स्_9.20.4: यः.प्रातर्.अनुवाकस्.तद्.आश्विनम् ।
श्श्स्_9.20.5: तस्य.विकारम्.व्याख्यास्यामः ।
श्श्स्_9.20.6: यथा.छन्दसम्.शस्त्रम् ।
श्श्स्_9.20.7: बार्हतीनाम्.प्रतिपदाम्.प्रथमम्.प्रथमम्.प्रगाथम्.पुनर्.आदायम्.ककुप्.कारम् ।
श्श्स्_9.20.8: अग्निर्.होता.गृहपतिर्.इति.प्रतिपद्.आपो.रेवतीम्.उद्धृत्य ।
श्श्स्_9.20.9: चतुर्दश.गायत्राद्.उद्धरति ।
श्श्स्_9.20.10: आनुष्टुभाद्.द्वे ।
श्श्स्_9.20.11: त्रैष्टुभात्.त्रयोदशम्.शतम् ।
श्श्स्_9.20.12: नित्यानि.काक्षीवतान्य्.आगस्त्यानि.च ।
श्श्स्_9.20.13: प्रथमम्.तु.काक्षीवतम्.शस्त्वा.का.राधद्द्.होत्रिया.नव ।
श्श्स्_9.20.14: ऊर्ध्वम्.आगस्त्येभ्यस्.त्रिशतम्.सुपर्णम् ।
श्श्स्_9.20.15: अन्यासाम्.वा.आश्विनीनाम्.तावत् ।
श्श्स्_9.20.16: समिद्धश्.चिद्.इति.तिस्र.उद्धरति ।
श्श्स्_9.20.17: अयम्.वाम्.मधुमत्तम.इत्य्.अष्टौ.यथा.स्थानम् ।
श्श्स्_9.20.18: एकादश.औष्णिहात् ।
श्श्स्_9.20.19: तथा.आग्नेयाज्.जागतात् ।
श्श्स्_9.20.20: उत्तमेन.पाङ्क्तेन.पादेन.उदयम्.काङ्क्षेत् ।
श्श्स्_9.20.21: उदिते.सौर्याणि ।
श्श्स्_9.20.22: उद्.उ.त्यम्.जातवेदसम्.इति.नव ।
श्श्स्_9.20.23: चित्रम्.देवानाम् ।
श्श्स्_9.20.24: नमो.मित्रस्य ।
श्श्स्_9.20.25: इन्द्र.क्रतुम्.इति.प्रगाथः ।
श्श्स्_9.20.26: मही.द्यौर्.इति.तिस्रः ।
श्श्स्_9.20.27: विश्वस्य.देवी.मृशयस्य.जन्मनो.न.या.रोषाति.न.ग्रभ.इति.द्विपदा ।
श्श्स्_9.20.28: बृहस्पते.अति.यद्.अर्यो.अर्हाद्.इति.परिदधाति ।
श्श्स्_9.20.29: प्रतिपदे.च.आहावः.परिधानीयायै.च ।
श्श्स्_9.20.30: तत्.सम्पदा.बृहती.सहस्रम्.सम्पद्यते ।
श्श्स्_9.20.31: इमे.सोमासस्.तिरो.अह्नानाम्.इति.पुरोनुवाक्या ।
श्श्स्_9.20.32: होता.यक्षद्.अश्विना.सोमानाम्.तिरो.अह्नानाम्.इति.प्रैषः ।
श्श्स्_9.20.33: विराजा.एव.इति.कौषीतकिः ।
श्श्स्_9.20.34: अश्विना.वायुना.इति.वा ।
श्श्स्_9.21.1: त्रिवृद्.बहिष्.पवमानः ।
श्श्स्_9.21.2: संधि.षाम.च ।
श्श्स्_9.21.3: पञ्च.आदिथ.पञ्चदशानि ।
श्श्स्_9.21.4: रात्रिश्.च ।
श्श्स्_9.21.5: पञ्च.सप्तदशानि ।
श्श्स्_9.21.6: पञ्च.एकविंशानि ।
श्श्स्_9.21.7: इति.ज्योतिषः.स्तोमाः ।
श्श्स्_9.21.8: एत.एव.अभिप्लवस्य ।
श्श्स्_9.22.1: अग्निम्.तु.चेष्यमाणस्य.अदीक्षितस्य.इष्टिः ।
श्श्स्_9.22.2: अग्नये.ब्रह्मण्वते.अग्नये.क्षत्रवते.अग्नये.क्षत्रभृते ।
श्श्स्_9.22.3: पौर्णमासी.विकारः ।
श्श्स्_9.22.4: ब्रह्म.प्रजावद्.आ.भर.ब्रह्म.च.ते.जात.वेद.इत्य्.अग्नये.ब्रह्मण्वते ।
श्श्स्_9.22.5: अर्चन्तस्.त्वा.अस्माकम्.अग्ने.अध्वरम्.अग्ने.द्युम्नेन.स्वदस्व.हव्य.इत्य्.उत्तरयोः ।
श्श्स्_9.22.6: बहूनाम्.चेष्यमाणानाम्.सम्निवपनीया ।
श्श्स्_9.22.7: एकस्य.उखा.सम्भरणीया ।
श्श्स्_9.23.1: प्राजापत्यश्.च.पशु.बन्धः ।
श्श्स्_9.23.2: वायव्यो.वा ।
श्श्स्_9.23.3: अग्नये.वा.कामाय ।
श्श्स्_9.23.4: पुरुषो.अजो.अविको.गौर्.अश्व.इति.पञ्च.पशवः ।
श्श्स्_9.23.5: अजो.वा.तूपरः ।
श्श्स्_9.23.6: प्राजापत्ये.च.एके.वायव्यम्.पशु.पुरोळाशम्.कुर्वन्ति ।
श्श्स्_9.23.7: प्राजापत्यम्.वायव्ये ।
श्श्स्_9.23.8: वैश्वानरीयम्.आग्नेये ।
श्श्स्_9.23.9: हिरण्य.गर्भ.इति.पुरोनुवाक्यास्.तिस्र.उत्तरा.याज्याः.प्राजापत्यस्य ।
श्श्स्_9.23.10: उपांशु ।
श्श्स्_9.23.11: एकया.च.राये.नु.कुविद्.अङ्ग.इति.पुरोनुवाक्याः.पीवो.अन्नान्.प्र.याभिर्.यासि.प्रवायुम्.अच्छ.इति.वायव्यस्य ।
श्श्स्_9.23.12: आ.ते.वत्सो.मनो.यमत्.तुभ्यम्.ता.अङ्गिरस्तम.अग्निः.परेषु.धामस्व्.इति.पुरोनुवाक्या.वयम्.ते.अद्य.अश्याम.तम्.ईळे.च.त्वा.इत्य्.आग्नेयस्य ।
श्श्स्_9.23.13: बहुवत्.पशु.निगमाः.पञ्चसु.क्रियमाणेषु.पृथिवीम्.शरीराणि.इत्य्.आतः.(.अतः.?) ।
श्श्स्_9.23.14: एकवद्.अत.ऊर्ध्वम् ।
श्श्स्_9.24.1: त्रि.हविश्.च.दीक्षणीया ।
श्श्स्_9.24.2: आग्नावैष्णवो.वैश्वानरीय.आदित्येभ्यश्.च ।
श्श्स्_9.24.3: त्यान्.नु.क्षत्रियान्.धारयन्तः ।
श्श्स्_9.24.4: पञ्च.हविर्.वा ।
श्श्स्_9.24.5: अदितये.चतुर्थः.पञ्चमः.सरस्वत्यै ।
श्श्स्_9.24.6: पञ्च.हविर्.वा.आतिथ्या ।
श्श्स्_9.24.7: आग्नेय.ऐन्द्रौ.वैश्वदेव.बार्हस्पत्यौ.वैष्णवश्.च ।
श्श्स्_9.24.8: शुचिम्.अर्कैस्.तम्.शग्मासः ।
श्श्स्_9.24.9: चितिभ्यः.प्रणीयमानाभ्य.इत्य्.उक्तः.पुरीष्यासः.(ईइ.22.4).प्रो.त्ये.अग्नयो.अग्निषु.(व्.6.6).विश्वेभिर्.अग्ने.अग्निभिर्.(इ.26.10).अग्ने.विश्वेभिर्.अग्निभिर्.(ईइ.24.4).इत्य्.उपांश्व्.अनुब्रुवन्.पश्चाद्.अनुसमेति ।
श्श्स्_9.25.1: संचिते.परिष्टुते.अग्न्य्.उक्थम्.अनुशंस.इत्य्.उक्तश्.चित्यस्य.पश्चाद्.उपविश्य.आज्येयस्.तूष्णीम्.शंसस्.तेन.अनाहूय.सजपेन.अनुशंसति ।
श्श्स्_9.25.2: वैश्वानराय.इत्य्.उक्तः.पुरोनुवाक्याम्.अनूच्य.याज्यया.यजति.प्रयाज.अनुयाजान्.वा.परिहाप्य ।
श्श्स्_9.26.1: अग्नीषोमीयस्य.पशु.पुरोळाशम्.अन्वञ्चि.देवसूभ्यो.हवींषि ।
श्श्स्_9.26.2: अग्नये.गृह.पतये.सोमाय.वनस्पतये.सवित्रे.सत्य.प्रसवाय.रुद्राय.पशु.पतये.बृहस्पतये.वाचस्पतय.इन्द्राय.ज्येष्ठाय.मित्राय.सत्याय.वरुणाय.धर्म.पतये ।
श्श्स्_9.26.3: अग्निर्.होता.गृह.पतिर्.हव्यवाऌ.अग्निर्.आ.विश्व.देवम्.न.प्रमिय.इन्द्रम्.वयम्.महा.धन.उरुम्.नः ।
श्श्स्_9.26.4: सर्व.पृष्ठा.हवींषि.च ।
श्श्स्_9.27.1: अग्नये.वासन्तिकाय.गायत्राय.त्रिवृते.राथन्तराय.इन्द्राय.ग्रैष्माय.त्रैष्टुभाय.पञ्चदशाय.बार्हताय.विश्वेभ्यो.देवेभ्यो.वार्षिकेभ्यो.जागतेभ्यः.सप्तदशेभ्यो.वैरूपेभ्यो.मित्रा.वरुणाभ्याम्.शारदाभ्याम्.आनुष्टुभाभ्याम्.एकविंशाभ्याम्.वैराजाभ्याम्.बृहस्पतये.हैमन्तिकाय.पाङ्क्ताय.त्रिणवाय.शाक्वराय.सवित्रे.शैशिराय.अतिच्छन्दसाय.त्रयस्.त्रिंशाय.रैवताय.अनुमतये.अग्नये.वैश्वानराय.काअय.अदितये.विष्णु.पत्न्यै ।
श्श्स्_9.27.2अ: अर्चन्तस्.त्व.अस्माकम्.अग्ने.अध्वरम्.ऋतेन.यौ.प्र.बाहवा.बृहस्पते.जुषस्व.एवा.पित्रे.अनागसो.वामम्.अद्य ।
श्श्स्_9.27.2: अन्व्.अद्य.नो.अनुमतिर्.यज्ञम्.देवेषु.मन्यताम्.।.अग्निश्.च.हव्य.वाहनो.भवतम्.दाशुषे.मयः.।.अन्व्.इद्.अनुमते.त्वम्.मन्यासै.शम्.च.नस्.कृधि.।.क्रत्वे.दक्षाय.नो.हिनु.प्र.ण.आयूंषि.तारिषः.।.इति ।
श्श्स्_9.27.3: न.पशु.तन्त्रे.हवींषि.चोद्यमानानि.निगमांल्.लभन्ते ।
श्श्स्_9.27.4: वपाम्.संस्थाप्य.अनूबन्ध्यायास्.त्वाष्ट्रेण.पशुना.उपांशु.पत्नी.शाले.चरन्ति ।
श्श्स्_9.27.5: पर्यग्नि.कृतम्.उत्सृजन्ति.न.संस्थापयन्ति ।
श्श्स्_9.27.6: आज्येन.वा.पशु.धर्मणा.संस्थापयन्ति ।
श्श्स्_9.27.7: शिवस्.त्वष्टः.प्रथम.भाजम् ।
श्श्स्_9.28.1: देविका.हवींषि.च.अन्वञ्चि.पशु.पुरोळाशम् ।
श्श्स्_9.28.2: अनुमत्यै.कुह्वै.राका.सिनीवालीभ्याम्.धात्रे ।
श्श्स्_9.28.3अ: कुहूम्.अहम्.सुवृतम्.विद्मनापसम्.अस्मिन्.यज्ञे.सुहवाम्.जोहवीमि.।.सा.नो.ददातु.श्रवणम्.पितॄणाम्.तस्यै.ते.देवि.हविषा.विधेम ।
श्श्स्_9.28.3ब्: कुहूर्.देवानाम्.अमृतस्य.पत्नीर्.हव्या.नो.अस्य.हविषः.कृणोतु.।.सम्.दाशुषे.किरतु.भूरि.वामम्.रायस्.पोषम्.चिकितुषे.ददातु ।
श्श्स्_9.28.3च्: धाता.ददातु.दाशुषे.प्राचीम्.जीवातुम्.अक्षितिम्.।.वयम्.देवस्य.धीमहि.सुमतिम्.सत्य.धर्मणः ।
श्श्स्_9.28.3द्: धाता.प्रजाया.उत.राय.ईशे.धाता.इदम्.विश्वम्.भुवनम्.जजान.।.धाता.पुत्रम्.यजमानाय.दाता.तस्मा.उ.हव्यम्.घृतवज्.जुहोत.।.इति ।
श्श्स्_9.28.4: देवीभ्यश्.च.हवींषि ।
श्श्स्_9.28.5: अद्भ्य.ओषधीभ्यो.गोभ्य.उषसे.रात्रये.सूर्यायै.दिवे.पृथिव्यै.वाचे.गवे ।
श्श्स्_9.28.6: आपो.हि.ष्ठ.यो.वो.वृताभ्यः ।
श्श्स्_9.28.7: या.ओषधीः.पूर्वा.अति.विश्वाः ।
श्श्स्_9.28.8: यूयम्.गावो.न.ता.अर्वा ।
श्श्स्_9.28.9: प्रति.ष्या.सूनरी.सत्या.सत्येभिः ।
श्श्स्_9.28.10: रात्री.व्यख्यत्.।.ये.ते.रात्रि.नृ.चक्षसो.युक्तासो.नवतिर्.नव.।.अशीतिः.सन्त्व्.अष्टा.उतो.ते.सप्त.सप्ततिः ।
श्श्स्_9.28.11: द्वे.ते.सुकिंशुकम् ।
श्श्स्_9.28.12: आ.इन्द्र.याहि.हरिभिः.सखे.विष्णो ।
श्श्स्_9.28.13: स्योना.पृथिवि.बलित्था.पर्वतानाम् ।
श्श्स्_9.28.14: देवीम्.वाचम्.यद्.वाग्.वदन्ती ।
श्श्स्_9.28.15: माता.रुद्राणाम्.वचोविदम् ।
श्श्स्_9.28.16: दिशाम्.च.अवेष्टीः ।
श्श्स्_9.28.17: अग्नय.इन्द्राय.मित्रा.वरुणाभ्याम्.बृहस्पतये.विश्वेभ्यो.देवेभ्यो.विष्णवे ।
श्श्स्_9.28.18: संस्थितायाम्.च.उदवसानीयायाम्.मैत्रा.वरुण्या.पयस्यया.न.अनिष्ट्वा.अग्निचिन्.मैथुनम्.चरेच्.चरेत् ।
श्श्स्_10.1.1: शुद्ध.पक्षस्य.अष्टम्याम्.द्वादश.अहाय.दीक्षन्ते ।
श्श्स्_10.1.2: द्वादश.दीक्षाः ।
श्श्स्_10.1.3: द्वादश.उपसदः ।
श्श्स्_10.1.4: सुत्यान्य्.अहानि.द्वादश ।
श्श्स्_10.1.5: अतिरात्रः.सुत्यानाम्.प्रथमम्.च.उत्तमम्.च ।
श्श्स्_10.1.6: मध्ये.दश.रात्रः ।
श्श्स्_10.1.7: पृष्ठ्यः.षळहः ।
श्श्स्_10.1.8: त्रयश्.छन्दोमाः ।
श्श्स्_10.1.9: दशमम्.अहः ।
श्श्स्_10.1.10: अयम्.यज्ञ.इति.याज्या.हारियोजनस्य ।
श्श्स्_10.1.11: अननुवषट्.कृत.एव.असम्प्रेषितो.मैत्रा.वरुणः.परा.याहि.मघवन्न्.इत्य्.अनूच्य.जायेद्.अस्तम्.इति.वा.इह.मद.एव.मघवन्न्.इत्य्.अतिप्रैषम्.आह.द्वितीय.प्रभृतिषु ।
श्श्स्_10.1.12: प्रायणीये.वा.यथा.समाम्नातम् ।
श्श्स्_10.1.13: श्वः.सुत्या.वाम्.इन्द्र.अग्नी.ताम्.वाम्.प्रब्रवीमि.विश्वेभ्यो.देवेभ्यो.ब्राह्मणेभ्यः.सोम्येभ्यः.सोमपेभ्यो.ब्रह्मन्.वाचम्.यच्छ.इत्य्.आग्नीध्रः.स्वस्य.धिष्ण्यस्य.पश्चाद्.उपविश्य ।
श्श्स्_10.1.14: नित्यम्.एतत्.प्राग्.उत्तमाद्.अह्नः ।
श्श्स्_10.1.15: पत्नी.सम्याज.अन्तता ।
श्श्स्_10.1.16: आशिषाम्.अनिर्वचनम् ।
श्श्स्_10.1.17: नाम.धेय.अग्रहणम्.च ।
श्श्स्_10.1.18: प्रायणीय.उदयनीययोः.सारस्वतः ।
श्श्स्_10.1.19: माधुच्छन्दसे.वा ।
श्श्स्_10.1.20: द्वि.रात्र.प्रभृतिष्व्.अहः.संघातेषु.यत्र.होता.आश्विनम्.शंसेत्.तत्र.मैत्रा.वरुणः.प्रातर्.अनुवाकम्.अनुब्रूयात् ।
श्श्स्_10.2.1: त्रिवृत्.स्तोमम्.रथन्तर.पृष्ठम्.अग्निष्टोमः.प्रथमम्.दाशरात्रिकम् ।
श्श्स्_10.2.2: उप.प्रयन्तो.अध्वरम्.इत्य्.आज्यम्.व्यूळ्हे.प्र.वो.देवाय.इति.समूळ्हे ।
श्श्स्_10.2.3: माधुच्छन्दसः.प्रौगः ।
श्श्स्_10.2.4: आ.यात्व्.इन्द्रो.अवस.इति.मरुत्वतीयम् ।
श्श्स्_10.2.5: आ.न.इन्द्रो.दूराद्.इति.निष्केवल्यम् ।
श्श्स्_10.2.6: अग्ने.वर्चस्विन्.वर्चस्वी.त्वम्.देवेष्व्.असि.वर्चस्व्य्.अहम्.मनुष्येषु.भूयासम्.इत्य्.अतिग्राह्यम्.भक्षयति ।
श्श्स्_10.2.7: युञ्जते.मन.इह.इह.वो.हयो.न.विद्वान्.इत्य्.उत्तमे.वा.परिहाप्य.इति.वैश्वदेवे.विकारः ।
श्श्स्_10.2.8: पञ्च.जनीया.परिधानीया.सर्वत्र.वैश्वदेवस्य ।
श्श्स्_10.2.9: प्र.शर्धाय.इत्य्.आग्निमारुते ।
श्श्स्_10.2.10: सप्त.अत.ऊर्ध्वम्.उक्थ्यानि ।
श्श्स्_10.2.11: षोळश्य्.अन्तम्.चतुर्थम् ।
श्श्स्_10.3.1: पञ्चदश.स्तोमम्.बृहत्.पृष्ठम्.द्वितीयम् ।
श्श्स्_10.3.2: अग्निम्.दूतम्.वृणीमह.इत्य्.आज्यम्.व्यूळ्हे ।
श्श्स्_10.3.3: त्वम्.हि.क्षैतवद्.इति.समूळ्हे.सर्वत्र.उत्तमाम्.परिहाप्य ।
श्श्स्_10.3.4: गार्त्समदः.प्रौगः ।
श्श्स्_10.3.5: वायो.ये.ते.सहस्रिण.इति.द्वे.तीव्राः.सोमास.आ.गहि.इत्य्.एका.शुक्रस्य.आद्या.इत्य्.एका.उभा.देवा.दिविस्पृश.इति.द्वे.अयम्.वाम्.मित्रा.वरुणा.इति.चत्वारि.तृचान्य्.उत.स्या.नः.सरस्वती.घोरा.इति.प्रौग.तृचानि ।
श्श्स्_10.3.6: विश्वानरस्य.व.इन्द्र.इत्.सोमपा.इति.मरुत्वतीयस्य.प्रतिपद्.अनुचरौ ।
श्श्स्_10.3.7: उत्तिष्ठ.ब्रह्मणस्पत.इति.ब्राह्मणस्पत्यः.प्रगाथः ।
श्श्स्_10.3.8: इन्द्र.सोमम्.सोमपत.इति.मरुत्वतीयम् ।
श्श्स्_10.3.9: या.त.ऊतिर्.इति.निष्केवल्यम् ।
श्श्स्_10.3.10: इन्द्र्.अओजस्विन्न्.ओजस्वी.त्वम्.देवेष्व्.अस्य्.ओजस्व्य्.अहम्.मनुष्येषु.भूयासम्.इत्य्.अतिग्राह्यम्.भक्षयति ।
श्श्स्_10.3.11: विश्वो.देवस्य.इति.वैश्वदेवस्य.प्रतिपत् ।
श्श्स्_10.3.12: अस्य.हि.स्वयशस्तरम्.इत्य्.उत्तरे ।
श्श्स्_10.3.13: आ.विश्व.देवम्.इत्य्.अनुचरः ।
श्श्स्_10.3.14: तद्.देवस्य.ते.हि.द्यावा.पृथिवी.यज्ञस्य.व.इति.वैश्वदेवे.विकारः ।
श्श्स्_10.3.15: पृक्षस्य.वृष्णो.वृष्णे.शर्धाय.नू.चित्.सहोजा.इत्य्.आग्निमारुते ।
श्श्स्_10.4.1: सप्तदश.स्तोमम्.वैरूप.पृष्ठम्.तृतीयम् ।
श्श्स्_10.4.2: युक्ष्वा.हि.देव.हूतमान्.इत्य्.आज्यम्.व्यूळ्हे ।
श्श्स्_10.4.3: त्वम्.अग्ने.वसून्.इति.समूळ्हे.सर्वत्र.उत्तमाम्.परिहाप्य ।
श्श्स्_10.4.4: औष्णिह.आत्रेयः.प्रौगः ।
श्श्स्_10.4.5: वायव्.आ.याहि.वीतय.इत्य्.एका.वायो.याहि.शिव.इति.द्वे.इन्द्रश्.च.वायव्.एषाम्.सुतानाम्.इति.द्वे.अयम्.सोमश्.चमू.सुत.इत्य्.एका.मित्रे.वरुणे.अश्विनाव्.आ.इह.गच्छतम्.आ.याह्य्.अद्रिभिः.सजूर्.विश्वेभिर्.देवेभिर्.उत.नः.प्रिय.इति.प्रौग.तृचानि ।
श्श्स्_10.4.6: तम्.तम्.इत्.त्र्य.इन्द्रस्य.सोमा.इति.मरुत्वतीयस्य.प्रतिपद्.अनुचरौ ।
श्श्स्_10.4.6: इन्द्रस्य.सोमा.इति.मरुत्वतीयस्य.प्रतिपद्.अनुचरौ ।
श्श्स्_10.4.7: प्रैतु.ब्रह्मणस्पतिर्.इति.ब्राह्मणस्पत्यः.प्रगाथः ।
श्श्स्_10.4.8: त्र्य्.अर्यमा.इति.मरुत्वतीयम् ।
श्श्स्_10.4.9: यद्.द्याव.इन्द्र.यद्.इन्द्र.इन्द्र.यावत.इति.वैरूपस्य.स्तोत्रिय.अनुरूपौ.प्रगाथौ ।
श्श्स्_10.4.10: इन्द्र.त्रि.धात्व्.इति.साम.प्रगाथः ।
श्श्स्_10.4.11: अहम्.भुवम्.यो.जात.इति.निष्केवल्यम् ।
श्श्स्_10.4.12: सूर्य.भ्राजस्विन्.भ्राजस्वी.त्वम्.देवेष्व्.असि.भ्राजस्व्य्.अहम्.मनुष्येषु.भूयासम्.इत्य्.अतिग्राह्यम्.भक्षयति ।
श्श्स्_10.4.13: अभि.त्वा.देव.इत्य्.अनुचरः ।
श्श्स्_10.4.14: उद्.उ.ष्य.देवः.सविता.हिरण्यया.घृतवती.भुवनानाम्.इति.तृचाव्.अनश्वो.जातः.परावत.इति.वैश्वदेवे.विकारः ।
श्श्स्_10.4.15: वैश्वानराय.धिषणाम्.धारावरास्.त्वम्.अग्ने.प्रथमो.अङ्गिरा.ऋषिर्.इत्य्.आग्निमारुते ।
श्श्स्_10.5.1: एकविंश.स्तोमम्.वैराज.पृष्ठम्.चतुर्थम् ।
श्श्स्_10.5.2: आग्निम्.न.स्व.वृक्तिभिर्.इत्य्.आज्यम्.व्यूळ्हे.अग्निम्.नर.इति.समूळ्हे ।
श्श्स्_10.5.3: आनुष्टुभः.प्रौगः ।
श्श्स्_10.5.4: वायो.शुक्रो.अयामि.त.इत्य्.एका.वि.हि.होत्रा.इति.द्वे.इन्द्रश्.च.वायव्.एषाम्.सोमानाम्.यश्.चिकेता.नो.विश्वाभिर्.ऊतिभिर्.आ.त्वा.गिरो.अपत्यम्.इत्य्.एका.यूयम्.हि.ष्ठ.इति.द्वे.इयम्.अददाद्.इति.प्रौग.तृचानि ।
श्श्स्_10.5.5: प्र.णो.देवी.इति.समूळ्हे ।
श्श्स्_10.5.6: तम्.त्वा.यज्ञेभिर्.इति.प्रतिपन्.मरुत्वतीयस्य ।
श्श्स्_10.5.7: ये.त्र्यहस्य.प्रथमस्य.त.उत्तरस्य.अनुचराः.सब्राह्मणस्पत्याः ।
श्श्स्_10.5.8: श्रुधी.हवम्.इन्द्र.इन्द्र.मरुत्व.इमम्.नु.मायिनम्.इति.तृचाव्.इति.मरुत्वतीयम् ।
श्श्स्_10.5.9: पिबा.सोमम्.इन्द्र.मन्दतु.त्वा.इति.वैराजस्य.स्तोत्रिय.अनुरूपौ.न्यूङ्खम् ।
श्श्स्_10.5.10: मध्यस्य.पादस्य.द्वितीय.सप्तमयोर्.अक्षरयोर्.द्विष्.पूर्वम्.द्विर्.उत्तरम्.इत्य्.आनुष्टुभः ।
श्श्स्_10.5.11: यम्.तो3.ओ3.सुषाव.हर्यो3.ओ3.श्वाद्रिर्.इति ।
श्श्स्_10.5.12: द्वितीये.अक्षरे.द्वादश.कृत्व.एक.एकम्.दीर्घम्.ह्रस्वांस्.त्रींस्.त्रीन्.अन्तरेण.इति.वैराजः ।
श्श्स्_10.5.13: यम्.तो.सुषाव.इति ।
श्श्स्_10.5.14: द्वितीय.चतुर्थयोर्.अक्षरयोः.प्रतिगरस्य.आनुष्टुभः.प्रतिन्यूङ्खः ।
श्श्स्_10.5.15: द्वितीये.वैराजः ।
श्श्स्_10.5.16: ओथो3.ओ3.मोदो3.एव.इति ।
मूल पाठ: Śāṅkhāyanaśrautasūtra · Edition: Alfred Hillebrandt Calcutta 1885-1899 (Bibliotheca Indica, 99) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0