शाङ्खायनश्रौतसूत्र · भाग 101120
श्श्स्_14.73.2: नवानाम्.नाकसदाम्.च ।
श्श्स्_14.73.3: चषाल.मुख.तरस.पुरोळाशो.वनिष्टु.सव.ब्रह्म.सव.क्षत्र.सव.भूमि.सव.ओषधि.सव.ओदन.सव.वनस्पति.सवानाम्.च ।
श्श्स्_14.74.1: प्रजापतिर्.ह.परमेष्ठी.प्रतिष्ठा.कामस्.तपस्.तप्त्वा.एतम्.यज्ञ.क्रतुम्.अपश्यद्.दशमम्.अहः.।.तेन.इष्ट्वा.प्रत्यतिष्ठत.।.तेन.प्रतिष्ठा.कामो.यजेत ।
श्श्स्_14.75.1: ऋतु.स्तोमाः ।
श्श्स्_14.75.2: ऋतवो.ह.स्वर्ग.कामास्.तपस्.तप्त्वा.एतान्.यज्ञ.क्रतून्.अपश्यन्.षट्.।.तैर्.इष्ट्वा.स्वर्गम्.आपुः.।.तैः.स्वर्ग.कामो.यजेत ।
श्श्स्_14.76.1: मास.स्तोमाः ।
श्श्स्_14.76.2: मासा.ह.अन्न.अद्य.कामास्.तपस्.तप्त्वा.एतान्.यज्ञ.क्रतून्.अपश्यन्.द्वादश.।.तैर्.इष्ट्वा.अन्न.अद्यम्.आपुः.।.तैर्.अन्न.अद्य.कामो.यजेत ।
श्श्स्_14.77.1: अर्ध.मास.स्तोमाः ।
श्श्स्_14.77.2: अर्ध.मासा.ह.अन्न.अद्य.कामास्.तपस्.तप्त्वा.एतान्.यज्ञ.क्रतून्.अपश्यंश्.चतुर्विंशतिम्.।.तैर्.इष्ट्वा.अन्न.अद्यम्.आपुः.।.तैर्.अन्न.अद्य.कामो.यजेत ।
श्श्स्_14.78.1: नक्षत्र.स्तोमाः ।
श्श्स्_14.78.2: नक्षत्राणि.ह.तेजस्.कामानि.तपस्.तप्त्वा.एतान्.यज्ञ.क्रतून्.अपश्यन्.सप्त.विंशतिम्.।.तैर्.इष्ट्वा.तेज.आपुः.।.तैस्.तेजस्.कामो.यजेत ।
श्श्स्_14.79.1: अहोरात्र.स्तोमाः ।
श्श्स्_14.79.2: अहोरात्रा.ह.अन्न.अद्य.कामास्.तपस्.तप्त्वा.एतान्.यज्ञ.क्रतून्.अपश्यन्.सप्त.विंशति.शतानि.।.तैर्.इष्ट्वा.अन्न.अद्यम्.आपुः.।.तैर्.अन्न.अद्य.कामो.यजेत ।
श्श्स्_14.80.1: मुहूर्त.स्तोमाः ।
श्श्स्_14.80.2: मुहूर्ता.ह.अन्न.अद्य.कामास्.तपस्.तप्त्वा.एतान्.यज्ञ.क्रतून्.अपश्यन्.दश.सहस्राण्य्.अष्टौ.च.शतानि.।.तैर्.इष्ट्वा.अन्न.अद्यम्.आपुः.।.तैर्.अन्न.अद्य.कामो.यजेत ।
श्श्स्_14.81.1: निमेष.स्तोमाः ।
श्श्स्_14.81.2: निमेषा.ह.अक्षिति.कामास्.तपस्.तप्त्वा.एतान्.यज्ञ.क्रतून्.अपश्यन्.दश.अयुतान्य्.अष्टौ.च.सहस्राणि.।.तैर्.इष्ट्वा.अक्षितिम्.आपुः.।.तैर्.अक्षिति.कामो.यजेत ।
श्श्स्_14.82.1: ध्वंसि.स्तोमाः ।
श्श्स्_14.82.2: ध्वंसयो.ह.अनन्त.कामास्.तपस्.तप्त्वा.एतान्.यज्ञ.क्रतून्.अपश्यन्.दश.प्रयुतान्य्.अष्टौ.च.अयुतानि.।.तैर्.इष्ट्वा.अनन्तम्.आपुः.।.तैर्.अनन्त.कामो.यजेत ।
श्श्स्_14.83.1: दिशाम्.स्तोमाः ।
श्श्स्_14.83.2: दिशो.ह.अनन्त.कामास्.तपस्.तप्त्वा.एतान्.यज्ञ.क्रतून्.अपश्यंश्.चतुरः.।.तैर्.इष्ट्वा.अनन्तम्.आपुः.।.तैर्.अनन्त.कामो.यजेत ।
श्श्स्_14.84.1: अवान्तर.दिशाम्.स्तोमाः ।
श्श्स्_14.84.2: अवान्तर.दिशो.ह.अनन्त.कामास्.तपस्.तप्त्वा.एतान्.यज्ञ.क्रतून्.अप्श्यंश्.चतुरः.।.तैर्.इष्ट्वा.अनन्तम्.आपुः.।.तैर्.अनन्त.कामो.यजेत ।
श्श्स्_14.84.3: त.एते.बृहद्.रथन्तर.पृष्ठाः.स्युः ।
श्श्स्_14.84.4: ऐकाहिक.शस्त्राः ।
श्श्स्_14.84.5: कया.शुभीय.तद्.इद्.आसीये.वा.निविद्धाने ।
श्श्स्_14.84.6: दिक्षु.दिशाम्.स्तोमा.अवान्तर.दिक्ष्व्.अवान्तर.दिशाम्.अवान्तर.दिशाम् ।
श्श्स्_15.1.1: शरदि.वाज.पेयः ।
श्श्स्_15.1.2: अन्न.अद्य.कामस्य ।
श्श्स्_15.1.3: वाजेन.यक्ष्यमाणः.पुरस्तात्.संवत्सरम्.पेयैर्.यज्ञ.क्रतुभिर्.यजते ।
श्श्स्_15.1.4: पानम्.वै.पेयाः.।.अन्नम्.वाजः ।
श्श्स्_15.1.5: पानम्.वै.पूर्वम्.अथ.अन्नम् ।
श्श्स्_15.1.6: तयोर्.उभयोर्.आप्त्यै ।
श्श्स्_15.1.7: द्वादश.अग्निष्टोमाः ।
श्श्स्_15.1.8: गोतमस्य.वा.चतुर्.उत्तर.स्तोमो.व्यत्यासम्.प्राकृतेन ।
श्श्स्_15.1.9: अपरियज्ञम्.एके ।
श्श्स्_15.1.10: इन्द्रो.ह.एतेन.यज्ञ.क्रतुना.इष्ट्वा.बृहस्पतिश्.च.अन्न.अद्यम्.आपतुः ।
श्श्स्_15.1.11: तेन.अन्न.अद्य.कामो.यजेत ।
श्श्स्_15.1.13: अथो.ह.एतेन.दीक्षास्.तिस्र.उपसदः.सुत्यम्.सप्तदशम्.अहः ।
श्श्स्_15.1.14: सप्तदशो.वै.प्रजापतिर्.वाजपेयः ।
श्श्स्_15.1.15: तद्.एनम्.स्वेन.रूपेण.समर्धयति ।
श्श्स्_15.1.16: चतुर्.अश्रो.गो.धूम.चषालो.बैल्वो.यूपः.सप्तदश.अरत्निः ।
श्श्स्_15.1.17: सप्तदशो.वै.प्रजापतिर्.वाजपेयः ।
श्श्स्_15.1.18: तद्.एनम्.स्वेन.रूपेण.समर्धयति ।
श्श्स्_15.1.19: सप्तदश.आग्नी.षोमीयाः ।
श्श्स्_15.1.20: तेषाम्.समानम्.चरणम् ।
श्श्स्_15.1.21: आ.य.ऐन्द्राग्न.ऐन्द्रो.वृष्णिः.।.सारस्वती.मेषी.।.मरुद्भ्य.उज्जेषेभ्यो.वशा.पृश्निः.पञ्चमी.क्रतु.पशूनाम् ।
श्श्स्_15.1.22: सप्तदश.प्राजापत्याः.श्यामास्.तूपरा.लप्सुदिन.उपालम्भ्याः ।
श्श्स्_15.1.23: सवनीयानाम्.तन्त्रम्.पर्यग्निअक्रण.अन्तम् ।
श्श्स्_15.1.24: ब्रह्म.साम्ना.आलभ्यन्ते ।
श्श्स्_15.1.25: आध्रिगुर्.आवर्तेत.स्तोक्याश्.च ।
श्श्स्_15.1.26: प्र.अस्मा.अग्निम्.भरत.ऊवध्य.गोहम्.इति.तन्त्रम्.उत्तमः.प्रयाजः.परिवाप्यौ.(.परिवप्यौ.).च ।
श्श्स्_15.1.27: ऊर्ध्वम्.प्रदानम्.हारियोजनात् ।
श्श्स्_15.1.28: वनस्पति.प्रभृतीन्य्.अङ्गान्य्.उत्कृष्येरन् ।
श्श्स्_15.1.29: इष्टेषु.वा.अनुयाजेषु ।
श्श्स्_15.1.30: स्व.काला.वा ।
श्श्स्_15.1.31: सप्तदश.स्तोमः ।
श्श्स्_15.1.32: वैराजम्.आज्यम् ।
श्श्स्_15.1.33: घृत.स्तोमीयम्.वा ।
श्श्स्_15.1.34: माधुच्छन्दसः.प्रौगः ।
श्श्स्_15.1.35: अन्नम्.वै.विराट्.।.घृत.अन्नम् ।
श्श्स्_15.1.36: रसो.माधुच्छन्दसः.प्रौगः ।
श्श्स्_15.1.37: अन्नेन.तद्.रसम्.दधाति ।
श्श्स्_15.1.38: ऐकाहिकम्.वा ।
श्श्स्_15.1.39: प्रतिष्ठा.वा.एकाहः ।
श्श्स्_15.1.40: प्रतिष्ठित्या.एव ।
श्श्स्_15.2.1: त्रिकद्रुकेषु.महिषो.यवाशिरम्.तुविशुष्म.इत्य्.अतिच्छन्दसा.मरुत्वतीयम्.प्रतिपद्यते ।
श्श्स्_15.2.2: प्रजापत्यम्.वै.छन्दो.अतिच्छन्दाः ।
श्श्स्_15.2.3: प्रजापतिर्.वाजपेयः ।
श्श्स्_15.2.4: तद्.एनम्.स्वेन.रूपेण.समर्धयति ।
श्श्स्_15.2.5: आ.त्वा.रथम्.यथा.ऊतय.इत्य्.एव.प्रतिपद्येत ।
श्श्स्_15.2.6: प्राजापत्यम्.वै.छन्दो.अनुष्टुप् ।
श्श्स्_15.2.7: प्रजापतिर्.वाजपेयः ।
श्श्स्_15.2.8: तद्.एनम्.स्वेन.रूपेण.समर्धयति ।
श्श्स्_15.2.9: कया.शुभा.सवयसः.सनीळा.इति.मरुत्वतीयम्.।.कद्वत्.कया.शुभीयम् ।
श्श्स्_15.2.10: को.वै.प्रजापतिर्.वाजपेयः ।
श्श्स्_15.2.11: तद्.एनम्.स्वेन.रूपेण.समर्धयति ।
श्श्स्_15.2.12: बार्हस्पत्यो.नैवारः.सप्तदश.शरावः ।
श्श्स्_15.2.13: सप्तदशो.वै.प्रजापतिर्.वाजपेयः ।
श्श्स्_15.2.14: तद्.एनम्.स्वेन.रूपेण.समर्धयति ।
श्श्स्_15.2.15: सो.अन्तरेण.निष्केवल्य.मरुत्वतीये.।.बृहस्पति.सवे.च ।
श्श्स्_15.2.16: तत्र.अभिषिच्यते.प्राक्.स्विष्टकृतः ।
श्श्स्_15.2.17: तस्य.प्रदानम्.स्विष्टकृद्.इळम्.च ।
श्श्स्_15.2.18: तद्.इद्.आस.भुवनेषु.ज्येष्ठम्.इति.निष्केवल्यम् ।
श्श्स्_15.2.19: यज्ञो.वै.भुवनेषु.ज्येष्ठः ।
श्श्स्_15.2.20: यज्ञ.उ.वै.प्रजापतिर्.वाजपेयः ।
श्श्स्_15.2.21: तद्.एनम्.स्वेन.रूपेण.समर्धयति ।
श्श्स्_15.2.22: अनुचर.प्रभृति.षष्ठात्.तृतीय.सवनम् ।
श्श्स्_15.2.23: प्राजापत्यम्.वै.षष्ठम्.अहः ।
श्श्स्_15.2.24: प्रजापतिर्.वाजपेयः ।
श्श्स्_15.2.25: तद्.एनम्.स्वेन.रूपेण.समर्धयति ।
श्श्स्_15.2.26: विषुवतो.वा ।
श्श्स्_15.2.27: रोहो.वै.विषुवान् ।
श्श्स्_15.2.28: रोहो.वाजपेयः ।
श्श्स्_15.2.29: तद्.एनम्.स्वेन.रूपेण.समर्धयति ।
श्श्स्_15.2.30: ऐकाहिकम्.वा ।
श्श्स्_15.2.31: प्रतिष्ठा.वा.एकाहः ।
श्श्स्_15.2.32: प्रतिष्ठित्या.एव ।
श्श्स्_15.3.1: तत्र.पुरस्ताद्.आ.नो.भद्रीयस्य.मधु.नाड्यौ.विहरेद्.इति.पैङ्ग्यम् ।
श्श्स्_15.3.2: इमम्.महे.विदथ्याय.उषसः.पूर्वा.इत्य्.ऋक्च्छः ।
श्श्स्_15.3.3: ते.यदि.चित्रवतीष्व्.अग्निष्तोम.साम.कुर्युस्.त्वम्.नश्.चित्र.ऊत्या.अग्ने.विवस्वद्.इति.स्तोत्रिय.अनुरूपौ.प्रगाथौ ।
श्श्स्_15.3.4: ऊर्ध्वम्.षोळशिनो.अतिरिक्त.उक्थ्यम् ।
श्श्स्_15.3.5: प्र.तत्.ते.अद्य.शिपिविष्ट.प्र.तद्.विष्णुर्.इति.स्तोत्रिय.अनुरूपौ ।
श्श्स्_15.3.6: ब्रह्म.जज्ञानम्.प्रथमम्.पुरस्ताद्.इति.द्वे ।
श्श्स्_15.3.7: धीती.वा.ये.अनयन्.वाचो.अग्रम्.मनसा.वा.ये.अवदन्न्.ऋतानि.।.तृतीयेन.ब्रह्मणा.संविदानास्.तुरीयेण.मन्वत.नाम.धेनोः ।
श्श्स्_15.3.8: वेनस्.तत्.पश्यद्.इति.पञ्च ।
श्श्स्_15.3.9: अयम्.वेन.इति.वा ।
श्श्स्_15.3.11: तम्.प्रत्नथा.इति.त्रयोदशानाम्.उत्तमाम्.परिशिष्य.आहूय.परिधाय.प्रजापत.ति.यजति ।
श्श्स्_15.3.12: सप्तदश.गवाम्.शतानि.ददाति ।
श्श्स्_15.3.13: सप्तदश.वाससाम् ।
श्श्स्_15.3.14: सप्तदश.यानानि.युक्तानि.रथान्.हस्तिनो.निष्कान्.दुन्दुभीन् ।
श्श्स्_15.3.15: तानि.सप्त.सतदशानि.भवन्ति ।
श्श्स्_15.3.16: स.आप्तो.वाजपेयः ।
श्श्स्_15.3.17: वयसो.वयसः.सप्तदश.सप्तदश.इति.कुरु.वाजपेयः ।
श्श्स्_15.4.1: वाज.पेयेन.इष्ट्वा.बृहस्पति.सवः ।
श्श्स्_15.4.2: तेजस्.कामस्य.ब्रह्म.वर्चस.कामस्य.च ।
श्श्स्_15.4.3: रोहो.वै.वाज.पेयस्.तेजो.ब्रह्म.वर्चसम्.बृहस्पति.सवः ।
श्श्स्_15.4.4: तत्.तेजसि.ब्रह्म.वर्चसे.प्रतितिष्ठति ।
श्श्स्_15.4.5: त्रिवृत्.स्तोमः ।
श्श्स्_15.4.6: रथन्तरम्.पृष्ठम् ।
श्श्स्_15.4.7: तृच.क्लृप्तम्.शस्त्रम् ।
श्श्स्_15.4.8: अग्निष्टोमो.यज्ञः ।
श्श्स्_15.4.9: यस्.तस्तम्भ.इति.चतस्रो.अनुपूर्वम्.पुरस्तात्.सूक्तानाम्.एक.एकाम्.निष्केवल्य.प्रभृतिषु ।
श्श्स्_15.4.10: त्रयस्त्रिंशद्.दक्षिणा ।
श्श्स्_15.4.11: अनुसवनम्.एकादश.एकादश ।
श्श्स्_15.4.12: अनूबन्ध्यस्य.वपायाम्.संस्थितायाम्.वडवाम्.ब्रह्मणे.अनुशिशुम् ।
श्श्स्_15.5.1: प्रजापतिर्.ह.देवान्.सृष्ट्वा.तेभ्य.एतद्.अन्न.पानम्.ससृजे.एतान्.यज्ञान्.।.अग्निष्टोमम्.प्रथमम्.।.स.एनान्.न.अन्वभवत्.।.अथ.अत्यग्निष्टोमम्.।.स.एनान्.न.अन्वभवत्.।.अथ.उक्थ्यम्.।.स.एनान्.न.अन्वभवत्.।.अथ.षोळशिनम्.।.स.एनान्.न.अन्वभवत्.।.अथ.वाजपेयम्.।.स.एनान्.न.अन्वभवत्.।.अथ.अतिरात्रम्.।.स.एनान्.न.अन्वभवत्.।.अथ.आप्तोर्यामाणम्.।.स.एनान्.अन्वभवत् ।
श्श्स्_15.5.2: तस्य.त्रयस्.त्रिंशत्.स्तोत्राणि ।
श्श्स्_15.5.3: त्रयस्.त्रिंशत्.शस्त्राणि ।
श्श्स्_15.5.5: त्रयस्.त्रिंशद्.उक्थ्य.आहुतयः ।
श्श्स्_15.5.5: त्रयस्.त्रिंशद्.वै.सर्वे.देवाः ।
श्श्स्_15.5.6: तद्.एनान्.स्तोत्रैः.शस्त्रैर्.उक्थ्य.आहुतिभिर्.इति.प्रत्येकम्.सर्वान्.प्रीणाति ।
श्श्स्_15.5.7: तस्य.नव.स्तोमाः ।
श्श्स्_15.5.8: नव.पृष्ठानि ।
श्श्स्_15.5.9: षट्.संस्थाः ।
श्श्स्_15.5.10: परिग्रहेण.तानि.चतुर्.विंशतिः ।
श्श्स्_15.5.11: चतुर्.विंशतिर्.वै.संवत्सरस्य.अर्ध.मासाः ।
श्श्स्_15.5.12: संवत्सरस्य.एव.आप्त्यै ।
श्श्स्_15.5.13: आप्तो.वै.ब.अयम्.यामो.यो.देवांश्.च.संवत्सरम्.च.अनुभवति.इति.।.तस्माद्.आप्तोर्यामः ।
श्श्स्_15.6.1: छन्दोमाः.पवमानाः ।
श्श्स्_15.6.2: त्रिवृत्.पञ्चदशे.सप्तदश.एकविंशे.च.आज्यानि ।
श्श्स्_15.6.3: त्रिणवानि.पृष्ठानि ।
श्श्स्_15.6.4: त्रयस्.त्रिंशम्.अग्निष्टोम.साम ।
श्श्स्_15.6.5: य.आज्यानाम्.स्तोमास्.ते.अतिरिक्त.उक्थानाम् ।
श्श्स्_15.6.6: एतैर्.वै.प्रजापतिर्.उभयतो.अग्निष्टोम.स्तोमैः.सर्वान्.कामान्.अनुभवतः.परिगृह्य.आत्मन्न्.अधत ।
श्श्स्_15.6.7: तथो.एव.एतद्.यजमान.एतैर्.एव.उभयतो.अग्निष्टोम.स्तोमैः.सर्वान्.कामान्.उभयतः.परिगृह्य.आत्मन्.धत्ते ।
श्श्स्_15.6.8: विश्वजितः.सर्व.पृष्ठात्.सहौत्रम्.प्रातः.सवनम् ।
श्श्स्_15.7.1: कया.शुभीयम्.चातुर्थ.आह्निके.च.ऐकाहिकात्.पूर्वाणि.इति.मरुत्वतीयम् ।
श्श्स्_15.7.2: बृहद्.वैराज.गर्भम्.होतुः.पृष्ठम्.भवति.रथन्तरम्.वा ।
श्श्स्_15.7.3: वामदेव्यम्.शाक्वर.गर्भम्.मैत्रावरुणस्य ।
श्श्स्_15.7.4: श्यैतम्.वैरूप.गर्भम्.ब्राह्मणाच्छंसिनो.नौधसम्.वा ।
श्श्स्_15.7.5: कालेयम्.रैवत.गर्भम्.अच्छावाकस्य ।
श्श्स्_15.7.6: गर्भम्.पूर्वम्.शंसेद्.इति.ह.एक.आहुर्.अथ.आत्मानम्.इति ।
श्श्स्_15.7.7: आत्मानम्.त्व्.एव.पूर्वम्.शंसेत् ।
श्श्स्_15.7.8: आत्मानम्.वा.अनू.गर्भः ।
श्श्स्_15.7.9: ऐकाहिकान्.स्तोत्रियान्.शस्त्वा.विश्वजितः.सर्व.पृष्ठात्.स्तोत्रियान्.शंसन्ति ।
श्श्स्_15.7.10: तथा.अनुरूपान् ।
श्श्स्_15.7.11: साम.प्रगाथांश्.च ।
श्श्स्_15.8.1: तद्.इद्.आसीयम्.चारुथ.आह्निके.च.ऐकाहिकात्.पूर्वाणि.इति.निष्केवल्यम् ।
श्श्स्_15.8.2: यानि.पाञ्चम.आह्निकानि.मध्यतस्.त्रीणि.मैत्रावरुणस्य.ऐकाहिताभ्याम्.पूर्वाणि ।
श्श्स्_15.8.3: तार्तीय.आह्निके.ब्राह्मणाच्छंसिनः ।
श्श्स्_15.8.4: अच्छावाकस्य.षष्ठ.आह्निके ।
श्श्स्_15.8.5: अनुचर.प्रभृति.षष्ठात्.तृतीय.सवनम् ।
श्श्स्_15.8.6: आश्विनाद्.ऊर्ध्वम्.अतिरिक्त.उक्थानि ।
श्श्स्_15.8.7: जरा.बोध.जरमाण.इति.स्तोत्रिय.अनुरूपौ.होतुः ।
श्श्स्_15.8.8: त्यम्.उ.वः.सत्रासाहम्.इति.मैत्रावरुणस्य ।
श्श्स्_15.8.9: कम्.ते.दाना.असक्षत.यद्.अद्य.कश्.च.वृत्रहन्न्.इति.ब्राह्मणाच्छंसिनः ।
श्श्स्_15.8.10: तद्.वो.गाय.स्तोत्रम्.इन्द्राय.गायत.इति.वा ।
श्श्स्_15.8.11: इदम्.विष्णुर्.इत्य्.अच्छावाकस्य ।
श्श्स्_15.8.12: उत्तरे.च.पूर्वा.च.अनुरूपः ।
श्श्स्_15.8.13: एषो.उषा.दूराद्.इह.एव.उदीराथाम्.आ.मे.हवम्.इत्य्.अनुपूर्वम्.नवर्चानि ।
श्श्स्_15.8.14: आ.भाति.इति.होतुः ।
श्श्स्_15.8.15: उत्तरम्.मैत्रावरुणस्य ।
श्श्स्_15.8.16: आ.गोमत.इति.ब्राह्मणाच्छंसिनः ।
श्श्स्_15.8.17: उत्तरम्.अच्छावाकस्य ।
श्श्स्_15.8.18: क्षेत्रस्य.पतिना.इति.त्रयाणाम्.तिस्रः.परिधानीयाः ।
श्श्स्_15.8.19: शम्.नो.देवः.सविता.त्रायमाण.इत्य्.अच्छावाकस्य ।
श्श्स्_15.8.20: इमे.सोमास.इमे.मन्द्रासो.अत्या.यातम्.निवत.आ.नो.गच्छतम्.हवन.इति.याज्याः ।
श्श्स्_15.8.21: पुराणम्.ओकः.सक्यम्.शिवम्.वाम्.इति.वा.अनुपूर्वम्.चतस्रः ।
श्श्स्_15.9.1: यम.स्तोमः ।
श्श्स्_15.9.2: योअमो.ह.स्वर्ग.कामस्.तपस्.तप्त्वा.एतम्.यज्ञ.क्रतुम्.अपश्यद्.यम.स्तोमम्.।.तम्.आहरत्.।.तेन.अयजत.।.तेन.इष्ट्वा.स्वर्गम्.आप्नोत्.।.तेन.स्वर्ग.कामो.यजेत ।
श्श्स्_15.9.3: स्तोत्रिय.अनुरूपान्.शस्त्राणाम्.उद्धृत्य.साम.आतानांश्.च ।
श्श्स्_15.9.4: यावत्यस्.ता.भवन्ति.तावत्यस्.तद्.देवतास्.तत्.छन्दस.उपजायन्ते ।
श्श्स्_15.9.5: परेयिवांसम्.इति.पञ्चानाम्.पुरस्तात्.सूक्तानाम्.एक.एकाम्.मध्यंदिने ।
श्श्स्_15.10.1: गायत्रः.सर्व.स्वारो.मरण.कामस्य.स्वर्ग.कामस्य.च ।
श्श्स्_15.10.2: त्रैष्टुभः.सर्व.निधनः.प्रतिष्ठा.कामस्य ।
श्श्स्_15.10.3: जागतः.सर्व.इळः.पशु.कामस्य.च ।
श्श्स्_15.10.4: आनुष्टुभः.सर्व.वान्.निधनः.श्रुत.कामस्य ।
श्श्स्_15.10.5: प्रत्यक्षम्.सम्पदा.वा ।
श्श्स्_15.10.6: नृजित्.प्रभृतिभ्यो.निविद्धानानि ।
श्श्स्_15.11.1: वाग्.अकामयत.।.सर्वेषाम्.भूतानाम्.श्रैष्ठ्यम्.स्वाराज्यम्.आधिपत्यम्.परीयाम्.इति.।.सा.एतम्.यज्ञ.क्रतुम्.अपश्यद्.वाचः.स्तोमम्.।.तम्.आहरत्.।.तेन.अयजत.।.तेन.इष्ट्वा.सर्वेषाम्.भूतानाम्.श्रैष्ठ्यम्.स्वाराज्यम्.आधिपत्यम्.पर्यैत्.।.तथो.एव.एतद्.यजमानो.यद्.वाचः.स्तोमेन.यजते.सर्वेषाम्.भूतानाम्.श्रैष्ठ्यम्.स्वाराज्यम्.आधिपत्यम्.पर्येति ।
श्श्स्_15.11.2: शते.बहिष्.पवमानः ।
श्श्स्_15.11.3: सहस्रम्.आज्यम् ।
श्श्स्_15.11.4: अयुते.प्रयुते.नियुते.अर्बुदे.न्यर्बुदे.निखर्वादे.समुद्रे.सलिले.अन्त्ये.अनन्त्य.इति.स्तोत्राणि ।
श्श्स्_15.11.5: सर्वा.ऋचः.प्रयुज्यन्ते.अभ्यावर्तम्.स्तोम.अतिशंसनाय ।
श्श्स्_15.11.6: सामानि.यजूंषि.च ।
श्श्स्_15.11.7: उत्थाप्य.च.अग्निष्टोमः ।
श्श्स्_15.11.8: सहस्रम्.दक्षिणा.वाचः.स्तोमस्य ।
श्श्स्_15.11.9: महा.यज्ञे ।
श्श्स्_15.11.10: विउत्त्य्.अनुभूत्योः ।
श्श्स्_15.11.11: सर्वजिद्.धनजितोः ।
श्श्स्_15.11.12: विश्वजिद्.अभिजितोः ।
श्श्स्_15.11.13: सर्वजिद्.इन्द्र.वज्रयोः ।
श्श्स्_15.11.14: आप्तोर्यामे.च ।
श्श्स्_15.11.15: अनादेशे.प्रकृतिर्.दक्षिणानाम् ।
श्श्स्_15.12.1: वरुणो.अकामयत.।.सर्वेषाम्.राज्यानाम्.श्रैष्ठ्यम्.स्वाराज्यम्.आधिपत्यम्.परीयाम्.इति.।.स.एतम्.यज्ञ.क्रतुम्.अपश्यद्.राज.सूयम्.।.तम्.आहरत्.।.तेन.अयजत.।.तेन.इष्ट्वा.सर्वेषाम्.राज्यानाम्.श्रैष्ठ्यम्.स्वाराज्यम्.आध्पत्यम्.पर्यैत्.।.तथो.एव.एतद्.यजमानो.यद्.राज.सूयेन.यजते.सर्वेषाम्.राज्यानाम्.श्रैष्ठ्यम्.स्वाराज्यम्.आधिपत्यम्.पर्येति ।
श्श्स्_15.12.2: भार्गवो.होता ।
श्श्स्_15.12.3: ऐन्द्रापौष्णेन.बस्तेन.इष्ट्वा.माघ्या.अमावास्याया.एकाह.उपरिष्टाद्.दीक्षेत.पवित्राय ।
श्श्स्_15.12.4: स.एव.अयम्.चतुष्टोमो.रथन्तर.पृष्ठो.अग्निष्टोमः ।
श्श्स्_15.12.5: एष.एव.पवित्रः.।.एतेन.ह.पूतः.सवम्.अश्नुते ।
श्श्स्_15.12.6: अष्टम्याम्.सुत्यम्.अहः ।
श्श्स्_15.12.7: इष्टिभिह्ः.पक्ष.शेषम् ।
श्श्स्_15.12.8: फाल्गुन्याम्.प्रयुज्य.चातुर्मास्यानि ।
श्श्स्_15.12.9: षण्.मास्यम्.च.पशुम् ।
श्श्स्_15.12.10: माघ्याम्.शुना.सीरीयम् ।
श्श्स्_15.12.11: उत्तरम्.मासम्.इष्टिभिः ।
श्श्स्_15.12.12: फाल्गुन्याम्.दीक्षते.अभिषेचनीय.दशपेयाभ्याम् ।
श्श्स्_15.12.13: द्वादश.दीक्षास्.तिस्र.उपसदः ।
श्श्स्_15.12.14: सुत्यम्.षोळशम्.अहः ।
श्श्स्_15.12.15: षोळश.कलम्.वा.इदम्.सर्वम् ।
श्श्स्_15.12.16: अस्य.एव.सर्वस्य.आप्त्यै ।
श्श्स्_15.13.1: सह.सोमौ.क्रीणन्ति ।
श्श्स्_15.13.2: दशपेयस्य.च.तन्त्रम्.आतिथ्या.पर्यन्तम्.ऊर्ध्वम्.च.अवभृथात् ।
श्श्स्_15.13.3: त्वम्.अग्ने.वरुण.इत्य्.आज्यम्.वरुण.न्यङ्गम् ।
श्श्स्_15.13.4: वरुणम्.ह्य्.अभिषिञ्चन्ति ।
श्श्स्_15.13.5: चतुर्विंशान्.मध्यंदिनः ।
श्श्स्_15.13.6: मैत्रावरुण्य्.अन्तरेण.निष्केवल्य.मरुत्वतीये ।
श्श्स्_15.13.7: तत्र.अभिषिच्यते.प्राक्.स्विष्टकृतः ।
श्श्स्_15.13.8: तस्याः.प्रदानम्.स्विष्टकृद्.इळम्.च ।
श्श्स्_15.13.9: द्वितीयाद्.अह्नस्.तृतीय.सवनम् ।
श्श्स्_15.13.10: तद्.उक्थ्यम्.संतिष्ठते ।
श्श्स्_15.13.11: पशवो.वा.उक्थ्यानि ।
श्श्स्_15.13.12: पशूनाम्.एव.आप्त्यै ।
श्श्स्_15.13.13: यन्त्य्.अवभृथम् ।
श्श्स्_15.13.14: क्रियते.अवभृथ.कर्म.।.न.स्नाति ।
श्श्स्_15.13.15: कृष्ण.अजिनस्य.दक्षिणम्.पूर्व.पादम्.उदके.अवधाय.प्रत्याहरन्ति.वसनस्य.वा.दशाम् ।
श्श्स्_15.14.1: अथ.उत्तरम्.देव.यजनम्.अध्यवस्य्ति ।
श्श्स्_15.14.2: तत्.संसृपाम्.इष्टिभिर्.यजते ।
श्श्स्_15.14.3: दशभिर्.दश.रात्रम् ।
श्श्स्_15.14.4: अथ.सवित्रे.प्रसवित्रे.।.सवित्रे.आसवित्रे.।.सवित्रे.सत्य.प्रसवाय.इति.।.सरस्वत्यै.वाचे.।.त्वष्ट्रे.रूपेभ्यः.।.पूष्णे.पथिभ्यः.।.इन्द्राय.अस्मै.।.बृहस्पतये.तेजसे.।.सोमाय.राज्ञे.।.विष्णवे.शिपिविष्टाय.इति ।
श्श्स्_15.14.5: दशम्याम्.दशपेयः ।
श्श्स्_15.14.6: अपि.वा.एताभिर्.दशभिर्.देवताभिः.प्रसर्पेयुर्.वा.भक्षयेयुर्.वा ।
श्श्स्_15.14.7: सवित्रे.प्रसवित्रे.प्रसर्पाणि.इति.वा.सवित्र.आसवित्रे.भक्षयामि.इति.वा ।
श्श्स्_15.14.8: येषाम्.उभयतः.श्रोत्रिया.दश.पुरुषम्.ते.याजयेयुः ।
श्श्स्_15.14.9: शतम्.ब्राह्मणाः.सोमम्.भक्षयन्ति ।
श्श्स्_15.14.10: दश.दश.एक.एकम्.चमसम् ।
श्श्स्_15.14.11: तस्माद्.दशपेयः ।
श्श्स्_15.14.12: उत्थाय.पञ्च.बिलश्.चरुः ।
श्श्स्_15.14.13: समाप्ते.श्येनी.पृषनीभ्याम्.पष्ठौहीभ्याम्.गर्भिणीभ्याम्.आदित्या.पूर्वा.वैश्वदेवी.वा.मारुत्य्.उत्तरा ।
श्श्स्_15.15.1: अथ.सौत्रामणी ।
श्श्स्_15.15.2: आश्विनो.लोहो.अजः ।
श्श्स्_15.15.3: सारस्वती.मेषी ।
श्श्स्_15.15.4: इन्द्राय.सुत्राम्ण.ऋषभः ।
श्श्स्_15.15.5: पर्यग्नि.कृतेषु.सुरा.सोमेन.चरन्ति ।
श्श्स्_15.15.6: पवित्रेण.पुनीहि.मा.शुक्रेण.देव.दीद्यत्.।.अग्ने.क्रवा.क्रतूंर्.अभि.।.इति.सुराम्.स्रवन्तीम्.उपतिष्ठन्ते ।
श्श्स्_15.15.7: पितृ.देवत्याभिर्.वा ।
श्श्स्_15.15.8: युवम्.सुरामम्.इति.पुरोनुवाक्या ।
श्श्स्_15.15.9: होता.यक्षद्.अश्विना.सरस्वतीम्.इन्द्रम्.सुत्रामाणम्.इति.प्रैषः ।
श्श्स्_15.15.10: सर्वान्.एके.विकृतान्.आमनन्ति ।
श्श्स्_15.15.11: तद्.उ.तथा.न.कुर्याद्.आसुरम्.तत् ।
श्श्स्_15.15.12: पुत्रम्.इव.इति.याज्या ।
श्श्स्_15.15.13: यम्.अश्विना.नमुचाव्.आसुरे.दधि.सरस्वत्य्.असुनोद्.इन्द्रियाय.।.इमम्.तम्.शुक्रम्.मधुमन्तम्.इन्दुम्.सोमम्.राजानम्.इह.भक्षयामि.।.इति.भक्ष.मन्त्रः.सुरायाः ।
श्श्स्_15.15.14: ब्राह्मणम्.सुरापम्.परिक्रीणीयाद्.इति.भक्ष.उपनीयते ।
श्श्स्_15.16.1: अत.ऊर्ध्वम्.केश.वपनीयः ।
श्श्स्_15.16.2: त्रैधातव्य्.उदवसानीया ।
श्श्स्_15.16.3: आग्नावैष्णव.ऐन्द्रा.वैष्णवो.वा ।
श्श्स्_15.16.4: व्युष्टिर्.अतो.द्विरात्रः ।
श्श्स्_15.16.5: अग्निष्टोमो.अतिरात्रश्.च ।
श्श्स्_15.16.6: वि.वा.एतस्मै.ब्राह्मणाय.उच्छति.यो.वेदम्.अनुब्रूते ।
श्श्स्_15.16.7: व्य्.उ.क्षत्रियाय.उच्छति.यो.अभिषेकम्.प्राप्नोति ।
श्श्स्_15.16.8: अथ.एतेन.क्षत्रस्य.धृतिना.यजते ।
श्श्स्_15.16.9: चतुष्टोमेन.रथन्तर.पृष्ठेन.अग्निष्टोमेन ।
श्श्स्_15.16.10: तेन.उ.ह.त्रिष्टोमेन.वृद्ध.द्युम्न.आभिप्रतारिण.ईजे ।
श्श्स्_15.16.11: तम्.उ.ह.ब्राह्मणो.अनुव्याजहार.।.न.क्षत्रस्य.धृतिना.अयष्ट.इमम्.एव.प्रति.समरम्.कुरवः.कुरु.क्षेत्राच्.च्योष्यन्त.इति ।
श्श्स्_15.16.12: तद्.उ.किल.तथा.एव.आस.यथा.एव.एनम्.प्रोवाच ।
श्श्स्_15.16.13: तस्मात्.तु.चतुष्टोमेन.एव.यजेत ।
श्श्स्_15.16.14: प्रतिष्ठा.वै.यज्ञानाम्.चतुष्टोमः ।
श्श्स्_15.16.15: प्रतिष्ठित्या.एव ।
श्श्स्_15.16.16: अयुतम्.दक्षिणा ।
श्श्स्_15.16.17: न.ह.वा.एतस्माद्.राष्ट्रान्.न.तस्यै.विशो.युवते.यो.अयुतम्.ददाति ।
श्श्स्_15.16.18: तद्.अयुतस्य.अयुतत्वम् ।
श्श्स्_15.16.19: शतम्.वा.सहस्राणि ।
श्श्स्_15.17.1अ: हरिश्.चन्द्रो.ह.वैधस.ऐक्ष्वाको.राजा.अपुत्र.आस.।.तस्य.ह.शतम्.जाया.बभूवुः.।.तासु.ह.पुत्रम्.न.लेभे.।.तस्य.ह.पर्वत.नारदौ.गृह.ऊषतुः.स.ह.नारदम्.पप्रच्छ ।
श्श्स्_15.17.1ब्: यन्.न्व्.इमम्.पुत्रम्.इच्छन्ति.ये.च.जानन्ति.ये.च.न.।.किम्.स्वित्.पुत्रेण.विन्दते.तन्.नः.प्रब्रूहि.नारद.।.इति.।.स.एकया.पृष्टो.दशभिः.प्रत्युवाच ।
श्श्स्_15.17.1च्: ऋणम्.अस्मिन्.सम्नयत्य्.अमृतत्वम्.च.विन्दते.।.पिता.पुत्रस्य.जातस्य.पश्येच्.चेत्.जीवतो.मुखम् ।
श्श्स्_15.17.1द्: यावन्तः.पृथिव्याम्.भोगा.यान्वतो.जात.वेदसि.।.यावन्तो.अप्सु.प्राणिनाम्.भूयान्.पुत्रे.पितुस्.ततः ।
श्श्स्_15.17.1ए: शश्वत्.पुत्रेण.पितरो.अत्यायन्.बहुलम्.तमः.।.आत्मा.हि.जज्ञ.आत्मनः.स.इरावत्य्.अतितारिणी ।
श्श्स्_15.17.1f: किम्.नु.मलम्.किम्.अजिनम्.किम्.उ.श्मश्रूणि.किम्.तपः.।.पुत्रम्.ब्रह्माण.इच्छध्वम्.स.वै.लोको.अवदावदः ।
श्श्स्_15.17.1ग्: अन्नम्.ह.प्राणः.शरणम्.ह.वासो.रूपम्.हिरण्यम्.पशवो.विवाहाः.।.सखा.च.जाया.कृपणम्.ह.दुहिता.ज्योतिर्.ह.पुत्रः.परमे.व्योमन् ।
श्श्स्_15.17.1ह्: पतिर्.जायाम्.प्रविशैत्.गभो.भूत्वा.अथ.मातरम्.।.तस्याम्.पुनर्.नवो.भूत्वा.दशमे.मासि.जायते ।
श्श्स्_15.17.1इ: तज्.जाया.जाया.भवति.यद्.अस्याम्.जायते.पुनः.।.आभूतिर्.एषा.आभूतिर्.बीजम्.एतन्.निधीयते ।
श्श्स्_15.17.1ज्: देवाश्.च.एताम्.ऋषयश्.च.तेजः.समभरन्.महत्.।.देवा.मनुष्यान्.अब्रुवन्न्.एषा.वो.जननी.पुनः ।
श्श्स्_15.17.1क्: एष.पन्था.विततो.देव.यानो.येन.आक्रमन्ते.पुत्रिणो.ये.विशोकाः.।.तम्.पश्यन्ति.पशवो.वयांसि.तस्मात्.ते.मात्रा.अपि.मुथुनम्.चरन्ति ।
श्श्स्_15.17.1ल्: न.अपुत्रस्य.लोको.अस्ति.इति.तत्.सर्वे.पशवो.विदुः.।.तस्मात्.तु.पुत्रो.मातरम्.स्वसारम्.च.अधिरोहति.इति ।
श्श्स्_15.18.1अ: स.ह.उवाच.।.स.वै.मे.ब्रूहि.यथा.मे.पुत्रो.जायेत.इति.।.तम्.ह.उवाच.।.वरुणम्.राजानम्.उपधाव.पुत्रो.मे.जायताम्.तेन.त्वा.यजा.इति.।.तथा.इति.।.स.वरुणम्.राजानम्.उपससार ।
श्श्स्_15.18.1ब्: पुत्रो.मे.जायताम्.तेन.त्वा.यजा.इति.।.तथा.इति.।.तस्य.ह.पुत्रो.जज्ञे.रोहितो.नाम.।.तम्.वरुण.उवाच.।.अजनि.वै.ते.पुत्रो.यजस्व.मानेन.इति.।.स.ह.उवाच ।
श्श्स्_15.18.1च्: यदा.वै.पशुर्.निर्दशो.भवत्य्.अथ.स.मेध्यो.भवति.निर्दशो.न्व्.अस्त्व्.अथ.त्वा.यजा.इति.।.तथा.इति.।.स.ह.निर्दश.आस.।.तम्.ह.उवाच ।
श्श्स्_15.18.1द्: निर्दशो.वा.अभूद्.यजस्व.मानेन.इति.।.स.ह.उवाच.।.यदा.वै.पशोर्.दन्ता.जायन्ते.अथ.स.मेध्यो.भवति.दन्ता.न्व्.अस्य.जायन्ताम्.अथ.त्वा.यजा.इति ।
श्श्स्_15.18.1ए: तथा.इति.।.तस्य.ह.दन्ता.जज्ञिरे.।.तम्.ह.उवाच.।.अज्ञत.वा.अस्य.दन्ता.यजस्व.मानेन.इति.।.स.ह.उवाच.।.यदा.वै.पशोर्.दन्ताः.पुनर्.जायन्ते.अथ.स.मेध्यो.भवति.दन्ता.न्व्.अस्य.पुनर्.जायन्ताम्.अथ.त्वा.यजा.इति ।
श्श्स्_15.18.1f: तथा.इति.तस्य.ह.दन्ताः.पुनर्.जज्ञिरे.।.तम्.ह.उवाच.।.अज्ञत.वा.अस्य.पुनर्.दन्ता.यजस्व.मानेन.इति.।.स.ह.उवाच.।.यदा.वै.क्षत्रियः.सम्नाहम्.प्राप्नोत्य्.अथ.स.मेध्यो.स.मेध्यो.भवति.सम्नाहम्.नु.प्राप्नोत्व्.अथ.त्वा.यजा.इति ।
श्श्स्_15.18.1ग्: तथा.इति.।.स.ह.सम्नाहम्.प्राह.।.तम्.ह.उवाच.।.प्रापद्.वै.सम्नाहम्.यजस्व.मानेन.इति.।.स.तथा.इत्य्.उक्त्वा.पुत्रम्.आमन्त्रयाम्.चक्रे.।.ततायम्.वै.मह्यम्.त्वाम्.अददाद्द्.हन्त.त्वया.अहम्.इमम्.यजा.इति ।
श्श्स्_15.18.1ह्: स.न.इत्य्.उक्त्वा.धनुर्.आदाय.अरण्यम्.उपातस्थौ.।.स.संवत्सरम्.अरण्ये.चचार.।.अथ.ह.ऐक्ष्वाकम्.राजानम्.वरुणो.जग्राह.।.तस्य.ह.उदरम्.जज्ञे.।.तद्.उ.ह.रोहितः.शुश्राव.।.सो.अरण्याद्.ग्राम.एयाय.।.तम्.इन्द्रः.पुरुष.रूपेण.पर्येत्य.उवाच ।
श्श्स्_15.19.1अ: नाना.श्रान्ताय.श्रीर्.अस्ति.इति.रोहित.शुश्रुम.।.पापो.निषद्वरो.जन.इन्द्र.इच्.चरतः.सखा ।
श्श्स्_15.19.1ब्: चर.एव.रोहित.इति.चर.एव.इति.वै.मा.ब्राह्मणो.अवोचद्.इति.।.स.द्वितीयम्.संवत्सरम्.अरण्ये.चचार.।.सो.अरण्याद्.ग्रामम्.एयाय.।.तम्.इन्द्रः.पुरुष.रूपेण.पर्येत्य.उवाच ।
श्श्स्_15.19.1च्: आस्ते.भग.आसीनस्य.ऊर्ध्वस्.तिष्ठति.तिष्ठति.।.शेते.निपद्यमानस्य.चराति.चरतो.भगः ।
श्श्स्_15.19.1द्: चर.एव.रोहित.इति.चर.एव.इति.वै.मा.ब्राह्मणो.अवोचद्.इति.।.स.तृतीयम्.संवत्सरम्.अरण्ये.चचार.।.सो.अरण्याद्.ग्रामम्.एयाय.।.तम्.इन्द्रः.पुरुष.रूपेण.पर्येत्य.उवाच ।
श्श्स्_15.19.1ए: कलिः.शयानः.पुरुषः.संजिहानस्.तु.द्वापरः.।.उत्थितस्.त्रेता.कृतम्.सम्पद्यते.चरन् ।
श्श्स्_15.19.1f: चर.एव.रोहित.इति.चर.एव.इति.मा.ब्राह्मणो.अवोचद्.इति.।.स.चतुर्थम्.संवत्सरम्.अरण्ये.चचार.।.सो.अरण्याद्.ग्रामम्.एयाय.।.तम्.इन्द्रः.पुरुष.रूपेण.पर्येत्य.उवाच ।
श्श्स्_15.19.1ग्: पुष्पिण्यौ.चरतो.जङ्घे.भूष्णुर्.आत्मा.फलेग्रहिः.।.शेरते.अस्य.सर्वे.पाप्मानः.श्रमेण.प्रपथे.हताः ।
श्श्स्_15.19.1ह्: चर.एव.रोहित.इति.चर.एव.इत्.वै.मा.ब्राह्मणो.अवोचद्.इति.।.स.पञ्चमम्.संवत्सरम्.अरण्ये.चचार.।.सो.अरण्याद्.ग्रामम्.एयाय.।.तम्.इन्द्रः.पुरुष.रूपेण.पर्येत्य.उवाच ।
श्श्स्_15.19.1इ: चरन्.वै.मधु.विन्दति.चरन्.पक्वम्.उदुम्बरम्.।.सूर्यस्य.पश्य.श्रमणम्.यो.न.तन्द्रयते.चरन् ।
श्श्स्_15.19.1ज्: चर.एव.रोहित.इति.चर.एव.इति.वै.मा.ब्राह्मणो.अवोचद्.इति.।.स.षष्ठम्.संवत्सरम्.अरण्ये.चचार.।.सो.अरण्याद्.ग्रामम्.एयाय.।.तम्.इन्द्रः.पुरुष.रूपेण.पर्येत्य.उवाच ।
श्श्स्_15.19.1क्: चरन्.वै.मधु.विन्दत्य्.अपचिन्वन्.परूषकम्.।.उत्तिष्ठन्.विन्दते.श्रियम्.न.निषत्.किंचन.अवति ।
श्श्स्_15.19.1ल्: चर.एव.रोहित.इति.चर.एव.इति.वै.मा.ब्राह्मणो.अवोचद्.इति.।.स.सप्तमम्.संवत्सरम्.अरण्ये.चचार.।.सो.अजीगर्तम्.सौयवसम्.ऋषिम्.अशनायापरीतम्.पुत्रम्.भक्षमाणम्.अरण्यम्.उपेयाय ।
श्श्स्_15.20.1अ: तस्य.ह.त्रयः.पुत्रा.आसुः.शुनः.पुच्छः.शुनः.शेपः.शुनो.लाङ्गूल.इति.।.तम्.ह.उवाच.।.ऋषे.हन्त.अहम्.एषाम्.एकेन.आत्मानम्.निष्क्रीणा.अहम्.ते.गवाम्.शतम्.ददानि.इति ।
श्श्स्_15.20.1ब्: स.ज्येष्ठम्.निगृह्णान.उवाच.।.न.न्व्.इमम्.इति.।.नो.एव.इमम्.इति.कनिष्ठम्.माता.।.तौ.मध्यमे.सम्पादयाम्.चक्रतुः.शुनः.शेपे ।
श्श्स्_15.20.1च्: तस्य.ह.शतम्.दत्त्वा.तम्.आदाय.सो.अरण्याद्.ग्रामम्.एयाय.।.पितरम्.एत्य.उवाच.।.तत.हन्त.अहम्.अनेन.आत्मानम्.निष्क्रीणा.इति ।
श्श्स्_15.20.1द्: स्.तथा.इत्य्.उक्त्वा.वरुणम्.राजानम्.आमन्त्रयाम्.चक्रे.।.अनेन.त्वा.यजा.इति.।.तथा.इति.।.श्रेयान्.वै.ब्राह्मणः.क्षत्रियाद्.इति ।
श्श्स्_15.20.1ए: तस्मा.एतम्.राज.सूयम्.यज्ञ.क्रतुम्.प्रोवाच.।.स.एतम्.राज.सूये.पुरुषम्.पशुम्.आलेभे ।
श्श्स्_15.21.1अ: तस्य.ह.विश्वामित्रो.होता.असायास्य.(?).उद्गाता.जमद्.गनिर्.अध्वर्युर्.वसिष्ठो.ब्रह्मा.।.तस्मा.उपाकृताय.नियोक्तारम्.न.विविदुः.।.स.ह.उवाच.अजीगर्तः.सौयवसिः ।
श्श्स्_15.21.1ब्: मह्यम्.अपरम्.शतम्.दत्त.अहम्.एनम्.नियोक्ष्यामि.इति.।.तमा.अपरम्.शतम्.ददुः.।.तम्.स.नियुयोज.।.तस्मा.उपाकृताय.नियुक्ताय.पर्यग्नि.कृताय.विश.आस्तारम्.न.विविदुः ।
श्श्स्_15.21.1च्: स.ह.उवाच.अजीगर्तः.सौयवसिः.।.मह्यम्.अपरम्.शतम्.दत्त.अहम्.एनम्.विशसिष्यामि.इति.।.तस्मा.अपरम्.शतम्.ददुः.।.सो.असिम्.निश्यान.एयाय ।
श्श्स्_15.21.1द्: अथ.ह.शुनः.शेप.ईक्षामास.।.अमानुषम्.इव.वै.मा.विशसिष्यन्ति.हन्त.देवता.उपधावानि.इति ।
श्श्स्_15.22.1अ: स.प्रजापतिम्.एव.प्रथमम्.देवतानाम्.उपससार.कस्य.नूनम्.कतमस्य.अमृतानाम्.इत्य्.एतया.ऋचा.।.तम्.प्रजापतिर्.उवाच.।.अग्नेर्.वै.नेदिष्ठो.असि.तम्.एव.उपधाव.इति ।
श्श्स्_15.22.1ब्: सो.अग्निम्.उपससार.अग्नेर्.वयम्.प्रथमस्य.अमृतानाम्.इत्य्.एतया.ऋचा.।.तम्.अग्निर्.उवाच.।.सविता.वै.प्रसवानाम्.ईशे.तम्.एव.उपधाव.इति.।.स.सवितारम्.उपससार.अभि.त्वा.देव.सवितर्.इत्य्.एतेन.तृचेन ।
श्श्स्_15.22.1च्: तम्.सविता.उवाच.।.वरुणाय.वै.राज्ञे.नियुक्तो.असि.तम्.एव.उपधाव.इति.।.स.सविता.उवाच.।.वरुणाय.वै.राज्ञे.नियुक्तो.असि.तम्.एव.उपधाव.इति ।
श्श्स्_15.22.1द्: स.वरुणम्.राजानम्.उपससार.अत.उत्तराभिर्.एक.त्रिंशता.।.तम्.वरुण.उवाच.।.अग्निर्.वै.देवानाम्.मुखम्.सुहृदयम्.तम्.नु.स्तुह्य्.अथ.त्वा.उत्स्रक्ष्यामि.इति ।
श्श्स्_15.22.1ए: सो.ग्निम्.तुष्टाव.अत.उत्तराभिर्.एव.द्वाविंशत्या.।.तम्.अग्निर्.उवाच.।.विश्वान्.नु.देवान्.स्तुह्य्.अथ.त्वा.उत्स्रक्ष्यामि.इति ।
श्श्स्_15.22.1f: स.विशान्.देवांस्.तुष्टाव.नमो.महद्भ्यो.नमो.अर्भकेभ्य.इत्य्.एतया.ऋचा.।.तम्.विश्वे.देवा.ऊचुः.।.इन्द्रम्.नु.स्तुह्य्.अथ.त्वा.उत्स्रक्ष्याम.इति.।.स.इन्द्रम्.तुष्टाव.यच्.चिद्.धि.सत्य.सोमपा.इत्य्.एतेन.सूक्तेन.उत्तरस्य.पञ्चदशभिः ।
श्श्स्_15.22.1ग्: तस्मा.इन्द्रः.स्तूयमानो.अमन्सा.हिरण्य.रथम्.ददौ.।.तम्.एतया.ऋचा.प्रतीयाय.शश्वद्.इन्द्र.इति.।.तम्.इन्द्र.उवाच.।.अश्विनौ.नु.स्तुह्य्.अथ.त्वा.उत्स्रक्ष्यामि.इति ।
श्श्स्_15.22.1ह्: सो.अश्विनौ.तुष्टाव.अत.उत्तरेण.तृचेन.।.तम्.अश्विना.ऊचतुः.।.उषसम्.नु.स्तुह्य्.अथ.त्वा.उत्स्रक्ष्याव.इति.।.स.उषसम्.तुष्टाव.अत.उत्तरेण.एव.तृचेन ।
श्श्स्_15.22.1इ: तस्य.ह.स्म.ऋच्य्.ऋच्य्.उक्तायाम्.नितराम्.पाशो.मुमुचे.कनीय.ऐक्ष्वाकस्य.उदरम्.बभूव.।.उत्तमायाम्.ह.स्म.ऋच्य्.ऋच्य्.उक्तायाम्.वि.पाशो.मुमुचे.अगद.ऐक्ष्वाको.बभूव.।.अथ.ह.एनम्.ऋत्विज.ऊचुः.।.त्वम्.एव.एतस्य.अह्नः.संस्थाम्.अधिगच्छेः ।
श्श्स्_15.23.1अ: अथ.ह.एनम्.अञ्जः.सवम्.शुनः.शेपो.ददर्श.।.यच्.चिद्.धि.त्वम्.गृहे.गृह.इति.तम्.एताभिश्.चतसृभिर्.अभिषुत्य.(?).उच्छिष्टम्.चंवोर्.भर.इति.द्रोण.कलप्शे.समवनिनाय ।
श्श्स्_15.23.1ब्: अथ.अस्मिन्न्.अन्वारब्ध.एतस्य.एव.सूक्तस्य.पूर्वाभिश्.चतसृभिर्.जुहवाम्.चकार ।
श्श्स्_15.23.1च्: अथ.ह.एनम्.अवभृथम्.अभ्यवनिनाय.स.त्वम्.नो.अग्ने.अवमस्.त्वम्.नो.अग्ने.वरुणस्य.विद्वान्.इत्य्.एताभ्याम्.ऋग्भ्याम्.।.अथ.ह.एनम्.अग्निम्.उपस्थापयामास.शुनश्.चिच्.छेपम्.निदितम्.सहस्राद्.इत्य्.एतया.ऋचा ।
श्श्स्_15.24.1अ: अथ.ह.शुनः.शेपो.विश्वामित्रस्य.उपस्थम्.आससार.।.तम्.ह.उवाच.अजीगर्तः.सौयवसिः.।.पुनर्.मे.पुत्रम्.देहि.इति.।.न.इति.ह.उवाच.विश्वामित्रः.।.देवा.वा.इमम्.मह्यम्.अरासत.इति ।
श्श्स्_15.24.1ब्: स.ह.देव.रातो.नाम.वैश्वामित्र.आस.।.तम्.ह.उवाच.अजीगर्तः.सौयवसिः.।.तम्.वै.विह्वयावहा.इति.।.तथा.इति ।
श्श्स्_15.24.1: आङ्गिरसो.जन्मना.अस्य.अजीगर्तः.श्रुतः.कविः.।.ऋषे.पैतामहात्.तन्तोर्.मा.अपगाः.पुनर्.एहि.माम् ।
श्श्स्_15.24.1च्: इति.।.स.ह.उवाच.शुनः.शेपः ।
श्श्स्_15.24.1द्: अद्राक्षुस्.त्वा.शास.हस्तम्.न.यत्.शूद्रेष्व्.अलिप्सत.।.गवाम्.त्रीणि.शतानि.त्वम्.अवृणीथा.मद्.अङ्गिरः.।.इति ।
श्श्स्_15.24.1ए: तम्.ह.उवाच.अजीगर्तः.सौयवसिः.।.तद्.वै.मा.तात.तपति.पापम्.कर्म.मया.कृतम्.।.तद्.अहम्.निह्नुवे.तुभ्यम्.प्रतियन्तु.शता.गवाम्.।.इति ।
श्श्स्_15.24.1f: स.ह.उवाच.शुनः.शेपः.।.यः.सकृत्.पापकम्.कुर्यात्.कुर्याद्.एनस्.ततो.अपरम्.।.मा.अपगाः.शौद्र्यान्.न्यायाद्.असंधेयम्.त्वया.कृतम्.।.इति ।
श्श्स्_15.24.1ग्: असंधेयम्.इति.वा.अवोचद्.इति.ह.विश्वामित्र.उपपपाद ।
श्श्स्_15.25.1अ: भीम.एव.यथा.नो.ज्ञपया.राज.पुत्र.तथा.वद.।.यथा.एव.अङ्गिरसः.सन्न्.उपेयाम्.तव.पुत्रताम्.।.इति.।.तम्.ह.उवाच.विश्वामित्रः ।
श्श्स्_15.25.1ब्: ज्येष्ठो.मे.त्वम्.पुत्राणाम्.स्यास्.तव.श्रेष्ठा.प्रजा.स्यात्.।.उपेया.दैवम्.मे.दायम्.तेन.वै.त्वा.उपमन्त्रये.।.इति ।
श्श्स्_15.25.1च्: स.ह.उवाच.शुनः.शेपः.।.संजानेषु.वै.ब्रूयाः.मे.सौहार्दाय.मे.श्रियै.।.यथा.अहम्.भरत.ऋषभ.उपेयाम्.तव.पुत्रताम्.।.इति ।
श्श्स्_15.25.1द्: अथ.ह.विश्वामित्रः.पुत्रान्.आमन्त्रयाम्.चक्रे ।
श्श्स्_15.26.1अ: मधुच्छन्दाः.शृणोतन.ऋषभो.रेणुर्.अष्टकः.।.ये.के.च.भ्रातरः.स्था.अस्मै.ज्यैष्ठ्याय.तिष्ठध्वम्.।.इति ।
श्श्स्_15.26.1ब्: तस्य.ह.एक.शतम्.पुत्रा.आसुः.।.पञ्चाअशद्.एव.ज्यायांसो.मधुच्छन्दसः.पञ्चाशत्.कनीयांसः.।.तद्.ये.ज्यायांसो.न.ते.कुशलम्.मेनिरे.।.तान्.अनुव्याजहार.।.अन्तम्.वः.प्रजा.भक्षीष्ट.इति ।
श्श्स्_15.26.1च्: त.एते.।.अन्ध्राः.पुण्ड्राः.शबरा.मूचीपा.इति.।.उदञ्चो.बहु.दस्यवो.वैश्वामित्रा.दस्यूनाम्.भूयिष्ठा.इत्य्.उदाहरन्ति.।.अथ.ये.मधुच्छन्दः.प्रभृतयः.कनीयांसस्.ते.कुशलम्.मेनिरे.।.स.ह.जगौ.मधुच्छन्दाः ।
श्श्स्_15.26.1द्: यम्.नः.पिता.संजाअनीते.तस्मिंस्.तिष्ठामहे.वयम्.।.पुरस्तात्.सर्वे.कुर्महे.त्वाम्.अन्वञ्चो.वयम्.स्मसि.।.इति ।
श्श्स्_15.26.1ए: अथ.ह.विश्वामित्रः.प्रतीतः.पुत्रांस्.तुष्टाव ।
श्श्स्_15.27.1अ: ते.वै.पुत्राः.पशुमन्तः.प्रजाव्नतो.भविष्यथ.।.ये.मानम्.मे.अनुगृह्णन्तो.वीरवन्तम्.अकर्त.मा ।
श्श्स्_15.27.1ब्: पुर.एत्रा.वीरवन्तो.देव.रातेन.गाथिनाः.।.सर्वे.राध्यास्.तु.पुत्रा.एष.वः.सद्विवाचनः ।
श्श्स्_15.27.1च्: एष.वः.कुशिका.वीरो.देव.रातस्.तम्.अन्वित.।.युष्मांश्.च.दायम्.च.उपेताम्.विद्याम्.याम्.उत.विद्मसि ।
श्श्स्_15.27.1द्: ते.सम्यञ्चो.वैश्वामित्राः.सर्वे.साकम्.सरातयः.।.देव.राताय.तस्थिरे.ज्यैष्ठ्ये.श्रैष्ठ्ये.च.गाथिनाः ।
श्श्स्_15.27.1ए: अधीयते.देव.रातो.रिक्थयोर्.उभयोर्.ऋषिः.।.जह्नूनाम्.च.अधितस्थिरे.दैवे.वेदे.च.गाथिनाः ।
श्श्स्_15.27.1f: तद्.एतत्.शौनह्शेपम्.आख्यानम्.परः.शत.ऋग्.गाथम्.अपरिमितम्.।.तद्द्.ह.उत.अभिषिक्ताय.आचष्ट.।.हिरण्य.कशिपाव्.आसीन.आचष्टे.।.हिरण्य.कशिपाव्.आसीनः.प्रतिगृह्णाति ।
श्श्स्_15.27.1ग्: ओम्.इत्य्.ऋचः.प्रतिगरः.।.एवम्.तथा.इति.गाथायाः.।.ओम्.इति.वै.दैवम्.तथा.इति.मानुषम्.।.दैवेन.च.एव.एनम्.तन्.मानुषेण.च.सर्वस्माद्.एनसः.सम्प्रमुञ्चति ।
श्श्स्_15.27.1ह्: तस्माद्.यो.राजा.विजिती.स्याद्.अप्य्.अयजमान.आख्यापयेत.एव.एतत्.शौनह्शेपम्.आख्यानम्.।.न.ह्य्.अस्मिन्न्.अल्पम्.चन.एनः.परिशिष्यते.।.सहस्रम्.आख्यात्रे.शतम्.प्रतिगरित्र.एते.चैव.आसने.।.पुत्र.कामा.ह.अप्य्.आख्यापयन्ते.।.लभन्ते.ह.पुत्रान्.लभन्ते.ह.पुत्रान् ।
श्श्स्_16.1.1अ: प्रजापतिर्.अकामयत.।.सर्वान्.कामान्.आप्नुयाम्.सर्वा.व्यx[ईर्.व्यश्नुवीय.इति.।.स.एतम्.त्रिरात्रम्.यज्ञ.क्रतुम्.अपश्यद्.अश्वमेधम्.।.तम्.आहरत् ।
श्श्स्_16.1.1ब्: तेन.अयजत.तेन.इx[वा.सर्वान्.कामान्.आप्नोत्.सर्वा.व्यx[ईर्.व्यश्नुत.।.तथो.एव.एतद्.यजमानो.यद्.अश्वमेधेन.यजते.सर्वान्.कामान्.आप्नोति.सर्वा.व्यष्टीर्.व्यश्नुते ।
श्श्स्_16.1.2: महा.ऋत्विग्ब्यो.निर्वपति.चतुरः.पात्रान्.अञ्जलीन्.प्रसृतांश्.च ।
श्श्स्_16.1.3: द्वादश.विधम् ।
श्श्स्_16.1.4: द्वादश.वै.मासाः.संवत्सरः ।
श्श्स्_16.1.5: संवत्सरस्य.एव.आप्त्यै ।
श्श्स्_16.1.6: अथ.अस्मा.अध्वर्युर्.निष्कम्.प्रतिमुञ्चति ।
श्श्स्_16.1.7: सायम्.आहुतौ.हुतायाम्.जघनेन.गार्हपत्यम्.उदन्.वावातया.सह.संविशति ।
श्श्स्_16.1.8: अन्तर.ऊरू.असंवर्तमानः.शयीत ।
श्श्स्_16.1.9: अनेन.तपसा.इमम्.स्वस्ति.संवत्सरम्.समश्नवामहा.इति ।
श्श्स्_16.1.10: तम्.प्रातर्.आहुतौ.हुतायाम्.ददाति ।
श्श्स्_16.1.11: अथ.आग्नेयम्.अष्टा.कपालम्.पुरोळाशम्.निर्वपति ।
श्श्स्_16.1.12: अग्निर्.वै.देवानाम्.मुखम्.मुखत.एव.तद्.देवान्.प्रीणाति ।
श्श्स्_16.1.13: अथ.पूष्णे.पथि.कृते.चरुम्.निर्वपति ।
श्श्स्_16.1.14: पूषा.वै.पथीनाम्.अधिपः.।.स्वस्त्ययनम्.एव.तद्.अश्वाय.करोति ।
श्श्स्_16.1.15: सर्व.रूपम्.अश्वम्.जवेन.सम्पन्नम्.संवत्सराय.उत्सृजन्ति.सर्व.कामिनम्.अन्यत्र.अब्रह्मचर्यात् ।
श्श्स्_16.1.16: शतम्.राज.पुत्राः.कवचिनो.राजन्या.निषङ्गिणः.सूत.ग्रामणीनाम्.पुत्रा.उपवीतिनः.क्षत्र.संग्रहीतॄणाम्.पुत्रा.दण्डिना.अनावतयन्तो.अश्वम्.रक्षन्ति ।
श्श्स्_16.1.17: अथ.सवित्रे.प्रसवित्रे.सवित्र.आसवित्रे.सवित्रे.सत्य.प्रसवाय.इति.संवत्सरम्.हवींषि ।
श्श्स्_16.1.18: सविता.वै.प्रसविता.स.म.इमम्.यज्ञम्.प्रसुवा.इति ।
श्श्स्_16.1.19: सविता.वा.आसविता.स.म.इमम्.यज्ञम्.आसुवा.इति ।
श्श्स्_16.1.20: सविता.वै.सत्य.प्रसवः.स.म.इमम्.यज्ञम्.सत्येन.प्रसवेन.प्रसुवा.इति ।
श्श्स्_16.1.21: य.इमा.विश्वा.जातान्य्.आ.देवो.यातु.सविता.सुरत्नो.विश्वानि.देव.सवितः.स.घा.नो.देवः.सविता.विश्व.देवम्.न.प्रमिये ।
श्श्स्_16.1.22: होता.च.पारिप्लवम्.आचष्टे ।
श्श्स्_16.1.23: अध्वर्यो.इत्य्.आमन्त्रितो.होयि.होतर्.इति.सर्वत्र.प्रतिशृणोति ।
श्श्स्_16.1.24: ओम्.होतस्.तथा.होतर्.इत्य्.आचक्षाणे.अनुगृणाति ।
श्श्स्_16.1.25: अथ.अध्वर्युर्.वीणा.गणगिनः.(?).सम्प्रेष्यति.पुराणैर्.एनम्.पुण्यकृद्भी.राजभिः.संगायत.इति ।
श्श्स्_16.2.1: मनुर्.वैवस्वत.इति.प्रथमे ।
श्श्स्_16.2.2: तस्य.मनुष्या.विशस्.त.इम.आसत.इति.गृह.मेधिन.उपदिशति ।
श्श्स्_16.2.3: ऋचो.वेदो.वेदः.सो.अयम्.इति.सूक्तम्.निगदेत् ।
श्श्स्_16.2.4: यमो.वैवस्वत.इति.द्वितीये ।
श्श्स्_16.2.5: तस्य.पितरो.विशस्.त.इम.आसत.इति.स्थविरान्.उपदिशति ।
श्श्स्_16.2.6: यजुर्.वेदो.वेदः.सो.अयम्.इति.याजुषम्.अनुवाकम्.निगदेत् ।
श्श्स्_16.2.7: वरुण.आदित्य.इति.तृतीये ।
श्श्स्_16.2.8: तस्य.गन्धर्वा.विशस्.त.इम.आसत.इति.यूनः.शोभनान्.उपदिशति ।
श्श्स्_16.2.9: अथर्ववेदो.वेदः.सो.अयम्.इति.भेषजम्.निगदेत् ।
श्श्स्_16.2.10: सोमो.वैष्णव.इति.चतुर्थे ।
श्श्स्_16.2.11: तस्य.अप्सरसो.विशस्.त.इमा.आसत.इति.युवतीः.शोभना.उपदिशति ।
श्श्स्_16.2.12: आङ्गिरसो.वेदो.वेदः.सो.अयम्.इति.घोरम्.निगदेत् ।
श्श्स्_16.2.13: अर्बुदः.काद्रवेय.इति.पञ्चमे ।
श्श्स्_16.2.14: तस्य.सर्पा.विशस्.त.इम.आसत.इति.सर्पान्.सर्पविदो.वा.उपदिशति ।
श्श्स्_16.2.15: सर्प.विद्या.वेदः.सो.अयम्.इति.सर्प.विद्याम्.निगदेत् ।
श्श्स्_16.2.16: कुबेरो.वैश्रवण.इति.षष्ठे ।
श्श्स्_16.2.17: तस्य.रक्षांसि.विशस्.तानि.इमान्य्.आसत.इति.सेलगान्.पाप.कृतो.वा.उपदिशति ।
श्श्स्_16.2.18: रक्षो.विद्या.वेदः.सो.अयम्.इति.रक्षो.विद्याम्.निगदेत् ।
श्श्स्_16.2.19: असितो.धान्वन.इति.सप्तमे ।
श्श्स्_16.2.20: तस्य.असुरा.विशस्.त.इम.आसत.इति.कुसीदिन.उपदिशति ।
श्श्स्_16.2.21: असुर.विद्या.वेदः.सो.अयम्.इति.मायाम्.कांचित्.कुर्यात् ।
श्श्स्_16.2.22: मत्स्यः.साम्मद.इत्य्.अष्टमे ।
श्श्स्_16.2.23: तस्य.उदक.चरा.विशस्.त.इअम्.आसत.इति.मस्त्यान्.मत्स्य.विदो.वा.उपदिशति ।
श्श्स्_16.2.24: इतिहास.वेदो.वेदः.सो.अयम्.इति.इतिहासम्.आचक्षीत ।
श्श्स्_16.2.25: तार्क्ष्यो.वैपश्यत.इति.नवमे ।
श्श्स्_16.2.26: तस्य.वयांसि.विशस्.तानि.इमान्य्.आसत.इति.वयांसि.ब्रह्मचारिणो.वा.उपदिशति ।
श्श्स्_16.2.27: पुराण.वेदो.वेदः.सो.अयम्.इति.पुराणम्.आचक्षीत ।
श्श्स्_16.2.28: धर्म.इन्द्र.इति.दशमे ।
श्श्स्_16.2.29: तस्य.देवा.विशस्.त.इम.आसत.इति.यूनो.अप्रतिग्राहकान्.श्रोत्रियान्.उपदिशति ।
श्श्स्_16.2.30: साम.वेदो.वेदः.सो.अयम्.इति.साम.गायात् ।
श्श्स्_16.2.34: सर्वान्.वेदान्.आचष्टे ।
श्श्स्_16.2.35: सर्वेण.सर्वम्.आप्नवानि.इति ।
श्श्स्_16.2.36: तद्.यत्.पुनः.पुनः.परिप्लवते.तस्मात्.पारिप्लवम् ।
श्श्स्_16.3.1: एकविंशतिर्.यूपा.एकविंशत्य्.अरत्नयः ।
श्श्स्_16.3.2: अष्टौ.बैल्वा.दश.खादिराः ।
श्श्स्_16.3.3: पैतुद्रवा.उपस्थावानौ ।
श्श्स्_16.3.4: राज्जुदालो.अग्निष्ठः ।
श्श्स्_16.3.5: एक.विंशतिर्.अग्नी.षोमीयाः ।
श्श्स्_16.3.6: तेषाम्.समानम्.चरणम् ।
श्श्स्_16.3.7: गोतमस्य.चतुर्.उत्तर.स्तोमः.सुत्यानाम्.प्रथमम्.अहः ।
श्श्स्_16.3.8: तेन.इमम्.लोकम्.आप्नोति ।
श्श्स्_16.3.9: एक.विंश.स्तोमम्.द्वितीयम् ।
श्श्स्_16.3.10: एकविंशो.वा.एष.य.एष.तपति.।.तद्.एनम्.स्वेन.रूपेण.समर्धयति ।
श्श्स्_16.3.11: एतस्माद्.अश्वो.निस्तष्टः ।
श्श्स्_16.3.12: तद्.एतद्.ऋचा.अभ्युदितम्.।.सूराद्.अश्वम्.वसवो.निरतष्ट.इति ।
श्श्स्_16.3.13: अश्वो.गो.मृगो.अजस्स्.तूपरस्.ते.प्राजापत्याः ।
श्श्स्_16.3.14: गौरो.गवयः.शरभ.उष्ट्रो.मायुः.किम्पुरुष.इत्य्.अनुस्तरणाः ।
श्श्स्_16.3.15: पशवश्.च.एक.विंशतिर्.एक.विंशतिर्.एक.विंशतये.चातुर्मास्य.देवताभ्यः ।
श्श्स्_16.3.16: एता.वै.सर्वा.देवता.यच्.चातुर्मास्य.देवताः ।
श्श्स्_16.3.17: सर्वासाम्.एव.देवतानाम्.प्रीत्यै ।
श्श्स्_16.3.18: अलम्.कृतम्.अश्वम्.आस्तवम्.अवघ्रापयन्ति ।
श्श्स्_16.3.19: सुगव्यम्.न.इत्य्.अनवजिघ्रति.यजमानम्.वाचयेत् ।
श्श्स्_16.3.20: अग्रेण.यूपम्.तिष्ठन्तम्.यद्.अक्रन्द.इत्य्.एकादशभिर्.अप्रणवाभिः ।
श्श्स्_16.3.21: समिद्धो.अञ्जन्न्.इत्य्.आप्रियः ।
श्श्स्_16.3.22: अध्रिगो3.इति.परिशिष्य.मा.नो.मित्र.इति.सूक्तम् ।
श्श्स्_16.3.23: उत्तमे.च.उत्तरस्य.अप्रणुवन् ।
श्श्स्_16.3.24: चतुस्.त्रिंशद्.इति.पुरस्ताद्.वङ्क्रीणाम् ।
श्श्स्_16.3.25: अथ.अशाय.उपस्तृणन्ति.वासो.अधीवासम्.हिरण्यम्.इति ।
श्श्स्_16.3.26: तद्.एतद्.ऋचा.अभ्युदितम्.।.यद्.अश्वाय.वास.उपस्तृणन्त्य्.अधीवासम्.या.हिरण्यान्य्.अस्मा.इति ।
श्श्स्_16.3.27: अथ.अश्वम्.मेध्यम्.आलभन्ते ।
श्श्स्_16.3.28: पर्यङ्ग्यान्.बहून्.आरण्यान् ।
श्श्स्_16.3.29: पूष्णो.ललाटे ।
श्श्स्_16.3.30: तद्.एतद्.ऋचा.अभ्युदितम्.।.अत्र.पूष्णः.प्रथमो.भाग.एति.इति ।
श्श्स्_16.3.31: ऐन्द्रा.पौष्णः.श्यामो.नाभ्याम् ।
श्श्स्_16.3.34: ताव्.अधीवासेन.सम्प्रोर्णुवते ।
श्श्स्_16.3.35: तौ.यजमानओ.अभिमेथति ।
श्श्स्_16.3.36: उत्सक्थ्योर्.अव.गुदम्.धेह्य्.अर्वाञ्चम्.अञ्जिम्.आ.भर.।.यः.स्त्रीणाम्.जीव.भोजनः.।.इति ।
श्श्स्_16.3.37: तम्.न.कश्.चन.प्रत्यभिमेथति ।
श्श्स्_16.4.1: माता.च.ते.पिता.च.ते.अग्रे.वृक्षस्य.क्रीळतः.।.प्र.तिळामि.इति.ते.पिता.गर्भे.मुष्टिम्.अतंसयत्.।.इत्य्.एनाम्.होता.अभिमेथति ।
श्श्स्_16.4.2: ऊर्ध्वाम्.एनाम्.उच्छ्रयताद्.गिरौ.भारम्.हरन्न्.इव.।.अथ.अस्यै.मध्यम्.एजति.शीते.वाते.पुनन्न्.इव.।.इति.ब्रह्मा.वावाताम् ।
श्श्स्_16.4.3: यद्.अस्या.अंहु.भेद्या.इत्य्.उद्गाता.परिवृक्ताम् ।
श्श्स्_16.4.4: यद्द्.हरिणो.यवम्.अत्ति.न.पुष्टम्.बहु.मन्यते.।.शूद्रा.यद्.अर्य.जारा.न.पोषाय.धनायति.।.इत्य्.अध्वर्युः.पालागलीम् ।
श्श्स्_16.4.5: अश्व.पालानाम्.समान.जातीयाः.शतम्.शतम्.अनुचर्यस्.ताः.प्रत्यभिमेथन्ति ।
श्श्स्_16.4.6: यियप्स्यत.इव.ते.मनो.होतर्.मा.त्वम्.वदो.बहु.।.ऊर्ध्वम्.एनम्.।.यद्.देवासो.ललामगुम्.।.शूद्रो.यद्.अर्य.जायाः.पतिर्.इति.प्रत्यभिमेथने.विकारः ।
श्श्स्_16.4.7: सदसि.ब्रह्म.वद्यम् ।
श्श्स्_16.4.8: होता.अध्वर्युम्.पृच्छति.।.द्वितीयया.प्रत्याह.।.तृतीयया.पृच्छति.।.चतुर्थ्या.प्रत्याह ।
श्श्स्_16.5.1: किम्.स्वित्.सूर्य.समम्.ज्योतिः.किम्.समुद्र.समम्.सरः.।.कः.स्वित्.पृथिव्यै.वर्षीयान्.कस्य.मात्रा.न.विद्यते ।
श्श्स्_16.5.2: ब्रह्म.सूर्य.समम्.ज्योतिर्.द्यौः.समुद्र.समम्.सरः.।.इन्द्रः.पृथिव्यै.वर्षीयान्.गोस्.तु.मात्रा.न.विद्यते ।
श्श्स्_16.5.3: कः.स्विद्.एकाकी.चरति.क.उ.स्विज्.जायते.पुनः.।.किम्.स्विद्द्.हिमस्य.भेषजम्.किम्.स्विद्.आवपनम्.महत् ।
श्श्स्_16.5.4: सूर्य.एकाकी.चरति.चन्द्रमा.जायते.पुनः.।.अग्निर्.हिमस्य.भेषजम्.भूमिर्.आवपनम्.महत् ।
श्श्स्_16.5.5: ब्रह्मा.उद्गातारम्.पृच्छति.।.द्वितीयया.प्रत्याह.।.तृतीयया.पृच्छति.।.चतुर्थ्या.प्रत्याह ।
श्श्स्_16.6.1: पृच्छामि.त्वा.चितये.देव.सख.यदि.त्वम्.अत्र.मनसा.जगन्थ.।.केषु.विष्णुस्.त्रिषु.पदेष्व्.इष्टः.केषु.विश्वम्.भुवनम्.आ.विवेश ।
श्श्स्_16.6.2: अपि.तेषु.त्रिषु.पदेष्व्.अस्मि.येषु.विश्वम्.भुवनम्.आ.विवेश.।.सद्यः.पर्येमि.पृथिवीम्.उत.द्याम्.एकेन.अङ्गेन.दिवो.अस्य.पृष्ठम् ।
श्श्स्_16.6.3: केष्व्.अन्तः.पुरुष.आ.विवेश.कान्य्.अन्तः.पुरुषे.अर्पितानि.।.एतद्.ब्रह्मन्न्.उप.वळ्हाम्.असि.त्वा.किम्.स्विन्.नः.प्रतिवोचास्य्.अत्र ।
श्श्स्_16.6.4: पञ्चस्व्.अन्तः.पुरुष.आ.विवेश.तान्य्.अन्तः.पुरुषे.अर्पितानि.।.एतत्.त्वा.अत्र.प्रति.मन्वानो.अस्मि.न.मायया.भवस्य्.उत्तरो.मत् ।
श्श्स्_16.6.2: पृच्छामि.त्वा.परम्.अन्तम्.पृथिव्या.इत्.यजमानम्.पृच्छति ।
श्श्स्_16.6.3: उत्तरया.प्रत्याह ।
श्श्स्_16.7.1: सुभूः.स्वयम्भूः.प्रथमम्.अन्तर्.महत्य्.अर्णवे.।.दधे.ह.गर्भम्.ऋत्वियम्.यतो.जातः.प्रतपतिः.।.इति.महिम्नः.पुरोनुवाक्या ।
श्श्स्_16.7.2: होता.यक्षत्.प्रजापतम्.इति.प्रैषः ।
श्श्स्_16.7.3: प्रजापते.न.त्वद्.इति.याज्या ।
श्श्स्_16.7.4: प्रजापत्यस्य.वपया.चरित्वा.तद्.अन्व्.अन्या.वपा.जुहुयुर्.इति.ह.एक.आहुः.।.प्रजापतिम्.वा.अन्व्.अस्या.देवतास्.तद्.एना.यथा.यथम्.प्रीणाति.इति ।
श्श्स्_16.7.5: ऐन्द्राग्नस्य.वा ।
श्श्स्_16.7.6: वैश्वदेवस्य.वा ।
श्श्स्_16.7.7: किम्.उत.त्वरेरन्न्.इति.ह.स्म.आह.इन्द्रोतः.शौनकः ।
श्श्स्_16.7.8: नाना.नाना.देवताभिर्.प्रचरेयुः ।
श्श्स्_16.7.9: सह.सह.समान.देवताभिर्.अव्यवस्थिताभिः ।
श्श्स्_16.7.10: नाना.व्यवस्थाभिः ।
श्श्स्_16.7.11: तद्.एना.यथा.यथम्.प्रीणाति.इति ।
श्श्स्_16.7.12: उत्तरस्य.महिम्नो.याज्या.पुरोनुवाक्ये.विपर्यस्येत् ।
श्श्स्_16.7.13: उभे.ऐकाहिकम्.च.पाङ्क्तम्.च.आज्ये.संशंसेत् ।
श्श्स्_16.7.14: य.ऐकाहिके.च.पाङ्क्ते.च.आज्ये.कामस्.तयोर्.उभयोर्.आप्त्यै ।
श्श्स्_16.7.15: उभाव्.ऐकाहिकम्.च.बार्हतम्.च.प्रौगौ.सम्प्रवयेत् ।
श्श्स्_16.7.16: य.ऐकाहिके.च.बार्हते.च.प्रौगे.कामस्.तयोर्.उभयोर्.आप्त्यै ।
श्श्स्_16.8.1: महानाम्न्यः.पृष्ठम्.भवन्ति ।
श्श्स्_16.8.2: सर्वम्.वै.तद्.यन्.महानाम्न्यः ।
श्श्स्_16.8.3: सर्वम्.अश्वमेधः ।
श्श्स्_16.8.4: सर्वेण.सर्वम्.आप्नवानि.इति ।
श्श्स्_16.8.5: यानि.पाञ्चम.आह्निकनै.निष्केवल्य.मरुत्वतीययोः.सूक्तानि.तानि.पूर्वाणि.शस्त्वा.ऐकाहिकयोर्.निविदौ.दधाति ।
श्श्स्_16.8.6: प्रतिष्ठा.वा.एक.अहः ।
श्श्स्_16.8.7: प्रतिष्ठित्या.एव ।
श्श्स्_16.8.8: सहस्रम्.वा.मध्यंदिने ।
श्श्स्_16.8.9: छन्दसश्.छन्दसश्.चत्वारिंशतम्.चत्वारिंशतम्.मरुत्वतीये ।
श्श्स्_16.8.10: ते.द्वे.अशीति.शते ।
श्श्स्_16.8.11: सप्त.विंशति.शतानि.निष्केवल्ये ।
श्श्स्_16.8.12: तत्.सहस्रम् ।
श्श्स्_16.8.13: सर्वम्.वै.तद्.यत्.सहस्रम् ।
श्श्स्_16.8.14: सर्वम्.अश्वमेधः ।
श्श्स्_16.8.15: सर्वेण.सर्वम्.आप्नवानि.इति ।
श्श्स्_16.8.16: यानि.पाञ्चम.आह्निकानि.वैश्वदेव.आग्नि.मरुतयोः.सूक्तानि.तानि.पूर्वाणि.शस्त्वा.ऐकाहिकेषु.निविदो.दधाति ।
श्श्स्_16.8.17: प्रतिष्ठा.वा.एकाहः ।
श्श्स्_16.8.18: प्रतिष्ठित्या.एव ।
श्श्स्_16.8.19: उक्थ्यम्.संतिष्ठते ।
श्श्स्_16.8.20: तेन.अन्तरिक्ष.लोकम्.आप्नोति ।
श्श्स्_16.8.21: सर्व.स्तोमो.अतिरात्र.उत्तमम्.अहः ।
श्श्स्_16.8.22: सर्वम्.वै.सर्व.स्तोमो.अतिरात्रः ।
श्श्स्_16.8.23: सर्वम्.अश्व.मेधः ।
श्श्स्_16.8.24: सर्वेण.सर्वम्.आप्नवानि.इति ।
श्श्स्_16.8.25: तेन.अमुम्.लोकम्.आप्नोति ।
श्श्स्_16.8.26: द्वितीयाद्.आभिप्लविकात्.शस्त्रम् ।
श्श्स्_16.8.27: एतेन.ह.इन्द्रोतः.शौनको.जनमेजयम्.पारिक्षितम्.याजयाम्.चकार ।
श्श्स्_16.8.28: तद्.उत.एषा.अपि.यज्ञ.गाथा.गीयते ।
श्श्स्_16.9.1: आसन्दीवति.धान्यादम्.रुक्मिणम्.हरित.स्रजम्.।.अबध्नाद्.अश्वम्.सारङ्गम्.देवेभ्यो.जनमेजयः ।
श्श्स्_16.9.2: एते.एव.पूर्वे.अहनी.।.ज्योतिर्.अतिरात्रस्.तेन.अग्र.सेनम् ।
श्श्स्_16.9.3: गौस्.तेन.भीम.सेनम् ।
श्श्स्_16.9.4: आयुस्.तेन.श्रुत.सेनम् ।
श्श्स्_16.9.5: सर्वे.पारिक्षितीयाः ।
श्श्स्_16.9.6: तद्.उत.एषा.अपि.यज्ञ.गाथा.गीयते ।
श्श्स्_16.9.7: पारिक्षिता.यजमाना.अश्वमेधैः.परोवरम्.।.अजहुः.पापकम्.कर्म.पुण्याः.पुन्येन.कर्मणा.।.इति ।
श्श्स्_16.9.8: अभिजित्.तेन.ह.ऋषभो.याज्ञतुर.ईजे ।
श्श्स्_16.9.9: तद्.उत.एषा.अपि.यज्ञ.गाथा.गीयते ।
श्श्स्_16.9.10: ऋषभे.अश्वेन.यजति.पुरा.याज्ञतुरे.नृपे.।.अमाद्यद्.इन्द्रः.सोमेन.ब्राह्मणाश्.च.ईप्सितैर्.धनैः.।.इति ।
श्श्स्_16.9.11: विश्वजित्.तेन.ह.पर.आह्णार.ईजे.वैदेहः ।
श्श्स्_16.9.12: तद्.उत.एषा.अपि.यज्ञ.गाथा.गीयते ।
श्श्स्_16.9.13: आह्णारस्य.परस्य.अदो.अश्वम्.मेध्यम्.अबध्नत.।.हिरण्य.नाभः.कौसल्यो.दिशः.पूर्णा.अमन्हत.।.इति ।
श्श्स्_16.9.14: महा.व्रतम्.अतिरात्रस्.तेन.ह.मरुत्त.आविविक्षित.ईजे ।
श्श्स्_16.9.15: तद्.उत.एषा.अपि.यज्ञ.गाथा.गीयते ।
श्श्स्_16.9.16: मरुतः.परिवेष्टारो.मरुत्तस्य.अवसन्.गृहे.।.आविक्षितस्य.अग्निः.क्षत्ता.विश्वे.देवाः.सभासदः.।.इति ।
श्श्स्_16.9.17: ततो.ह.अस्य.तद्.देवताः.सभासदो.बभूवुः ।
श्श्स्_16.9.18: प्राची.दिग्ग्.होतुः ।
श्श्स्_16.9.19: दक्षिणा.ब्रह्मणः ।
श्श्स्_16.9.20: प्रतीच्य्.अध्वर्योः ।
श्श्स्_16.9.21: उदीच्य्.उद्गातुः ।
श्श्स्_16.9.22: यद्.अन्यद्.भूमेः.पुरुषेभ्यश्.च.अब्राह्मणानाम्.स्वम् ।
श्श्स्_16.9.23: अत्र.एव.होत्रकाणाम् ।
श्श्स्_16.9.24: मध्ये.तु.यजेत ।
श्श्स्_16.9.25: पञ्च.पशुर्.विशाख.यूपः ।
श्श्स्_16.9.26: संवत्सरम्.ऋतु.पशवः ।
श्श्स्_16.9.27: षऌ.आग्नेया.वसन्ते ।
श्श्स्_16.9.28: ऐन्द्रा.ग्रीष्मे ।
श्श्स्_16.9.29: मारुताः.पार्जन्या.वा.वर्षासु ।
श्श्स्_16.9.30: मैत्रावरुणाः.शरदि ।
श्श्स्_16.9.31: बार्हस्पत्या.हेमन्ते ।
श्श्स्_16.9.32: ऐन्द्रा.वैष्णवाः.शिशिरे ।
श्श्स्_16.10.1: प्रजापतिर्.अश्वमेधेन.इष्ट्वा.पुरुषमेधम्.अपश्यत्.।.तस्य.यद्.अनाप्तम्.अश्वमेधेन.आसीत्.तत्.सर्वम्.पुरुषमेधेन.आप्नोत्.।.तथो.एव.एतद्.यजमानो.यत्.पुरुषमेधेन.यजते.यद्.अस्य.अनाप्तम्.अश्वमेधेन.भवति.तत्.सर्वम्.पुरुषमेधेन.आप्नोति ।
श्श्स्_16.10.2: सर्वम्.आश्वमेधिकम् ।
श्श्स्_16.10.3: उपजनश्.च ।
श्श्स्_16.10.4: अथ.अग्नये.कामाय.दात्रे.पथिकृत.इति.हवींषि ।
श्श्स्_16.10.5: अग्निर्.वै.कामो.देवानाम्.ईश्वरः ।
श्श्स्_16.10.6: सर्वेषाम्.एव.देवानाम्.प्रीत्यै ।
श्श्स्_16.10.7: अग्निर्.वै.दाता.स.एव.अस्मै.यज्ञम्.ददाति ।
श्श्स्_16.10.8: अग्निर्.वै.पथिकृत्.स.एव.एनम्.पुनर्.यज्ञ.पथम्.अपिपाथयति ।
श्श्स्_16.10.9: ब्राह्मणम्.क्षत्रियम्.वा.सहस्रेण.शत.अश्वेन.अवक्रीय.संवत्सराय.उत्सृजन्ति.सर्व.कामिनम्.अन्यत्रा.ब्रह्मचर्यात् ।
श्श्स्_16.10.10: तथा.चैव.अनुरक्षन्ति ।
श्श्स्_16.10.11: अथ.अनुमतये.पथ्यायै.स्वस्तये.अदितय.इति.संवत्सरम्.हवींषि ।
श्श्स्_16.10.12: सावित्रैर्.विपर्यासम् ।
श्श्स्_16.10.13: पारिप्लवीयैर्.नाराशंसानि ।
श्श्स्_16.10.14: अनुमत्या.अनुमतो.अनेन.यज्ञेन.यजा.इति ।
श्श्स्_16.10.15: वाग्.वै.पथ्या.स्वस्तिः.स्वस्त्ययनम्.एव.तद्.यज्ञे.यजमानाय.करोति ।
श्श्स्_16.10.16: इयम्.वा.अदितिः.प्रतिष्ठा.वा.अदितिर्.अस्याम्.एव.एनम्.तद्.अदीनायाम्.अन्ततः.प्रतिष्ठापयन्ति ।
श्श्स्_16.11.1: शौनह्शेपम्.प्रथमम् ।
श्श्स्_16.11.2: यथा.शुनह्शेप.आजीगर्तिर्.यूपे.नियुक्तो.मुमुचे ।
श्श्स्_16.11.3: प्रथमे.च.सूक्ते.निगदेत् ।
श्श्स्_16.11.4: काक्षीवतम्.द्वितीयम् ।
श्श्स्_16.11.5: यथा.कक्षीवान्.औशिजः.स्वनये.भावयव्ये.सनिम्.ससान ।
श्श्स्_16.11.6: उत्तमे.च.सूक्ते.निगदेत् ।
श्श्स्_16.11.7: श्याव.अश्वम्.तृतीयम् ।
श्श्स्_16.11.8: यथा.श्याव.अश्व.आर्चनानसो.वैददश्वो.सनिम्.ससान ।
श्श्स्_16.11.9: के.ष्ठा.नर.इति.च.सूक्तम् ।
श्श्स्_16.11.10: भारद्वाजम्.चतुर्थम् ।
श्श्स्_16.11.11: यथा.भरद्वाजो.बृबौ.तक्ष्णि.प्रस्तोके.च.सार्ञ्जये.सनिम्.ससान ।
श्श्स्_16.11.12: अधि.बृबुः.प्रस्तोक.इति.चतस्रः ।
श्श्स्_16.11.13: वासिष्ठम्.पञ्चमम् ।
श्श्स्_16.11.14: यथा.वसिष्ठः.सुदासः.पैजवनस्य.पुरोहितो.बभूव ।
श्श्स्_16.11.15: द्वे.नप्तुर्.इति.च.सूक्तम् ।
श्श्स्_16.11.16: मैधातिथम्.षष्ठम् ।
श्श्स्_16.11.17: यथा.आसङ्गः.प्लायोगिः.स्त्री.सती.पुमान्.बभूव ।
श्श्स्_16.11.18: स्तुहि.स्तुहि.इति.च.सूक्तम् ।
श्श्स्_16.11.19: वात्स्यम्.सप्तमम् ।
श्श्स्_16.11.20: यथा.वत्सः.काण्वस्.तिरिन्दिरे.पारशव्यये.सनिम्.ससान ।
श्श्स्_16.11.21: शतम्.अहम्.तिरिन्दिर.इति.च.सूक्तम् ।
श्श्स्_16.11.22: वाशम्.अष्टमम् ।
श्श्स्_16.11.23: यथा.वशो.अश्व्यः.पृथु.श्रवसि.कानीते.सनिम्.ससान ।
श्श्स्_16.11.24: आ.स.एतु.य.ईवदा.इति.च.सूक्तम् ।
श्श्स्_16.11.25: प्रास्कण्वम्.नवमम् ।
श्श्स्_16.11.26: यथा.प्रस्कण्वः.पृषध्रे.मेध्ये.मातरिश्वनि.सनिम्.ससान ।
श्श्स्_16.11.27: भूरि.इद्.इन्द्रस्य.इति.च.सूक्ते ।
श्श्स्_16.11.28: नाभानेदिष्ठम्.दशमम् ।
श्श्स्_16.11.26: यथा.नाभानेदिष्ठो.मानवो.अङ्गिरः.सुसनिम्.ससान ।
श्श्स्_16.11.30: ये.यज्ञेन.इति.च.सूक्तम् ।
श्श्स्_16.11.31: नाराशंसानि.भवन्ति ।
श्श्स्_16.11.32: पुरुषो.वै.नाराशंसः ।
श्श्स्_16.11.33: तद्.एनम्.स्वेन.रूपेण.समर्धयति ।
श्श्स्_16.12.1: पञ्चविंशतिर्.यूपाः ।
श्श्स्_16.12.2: पञ्चविंशत्य्.अरत्नयः ।
श्श्स्_16.12.3: दश.बैल्वा.द्वादश.खादिराः ।
श्श्स्_16.12.4: पैतुद्रवा.उपस्थावानौ ।
श्श्स्_16.12.5: राज्जुदालो.वा.सारलो.अग्निष्ठः ।
श्श्स्_16.12.6: पञ्चविंशतिर्.अग्नी.षोमीयाः ।
श्श्स्_16.12.7: तेषाम्.समानम्.चरणम् ।
श्श्स्_16.12.8: आश्वमेधिकानाम्.सुत्यानाम्.प्रथमे.च.उत्तमे.च ।
श्श्स्_16.12.9: पञ्चविंश.स्तोमम्.द्वितीयम् ।
श्श्स्_16.12.10: पञ्चविंशो.वै.पुरुषः ।
श्श्स्_16.12.11: तद्.एनम्.स्वेन.रूपेण.समर्धयति ।
श्श्स्_16.12.12: पुरुषो.गो.मृगो.अजस्.तूपरस्.ते.प्राजापत्याः ।
श्श्स्_16.12.13: गौरो.गवयः.शरभ.उष्ट्रो.मायुः.किम्पुरुष.इत्य्.अनुस्तरणाः ।
श्श्स्_16.12.14: पशवश्.च.पञ्चविंशतिः.पञ्चविंशतिः.पञ्चविंशतये.चातुर्मास्य.देवताभ्यः ।
श्श्स्_16.12.15: एता.वै.सर्वा.देवता.यच्.चातुर्मास्य.देवताः ।
श्श्स्_16.12.16: सर्वासाम्.एव.देवतानाम्.प्रीत्यै ।
श्श्स्_16.12.17: अलम्.कृतम्.पुरुषम्.आस्तवम्.अवघ्राप्य.उदीरताम्.अवर.इत्य्.एकादशभिर्.अप्रणवाभिः ।
श्श्स्_16.12.18: अग्निर्.मृत्युर्.इत्य्.आप्रियः ।
श्श्स्_16.12.19: मा.एनम्.अग्न.इत्य्.अध्रिगौ.तथैव ।
श्श्स्_16.12.20: अथ.पुरुषाय.उपस्तृणन्ति.कौशम्.तार्प्यम्.आरुणम्.आंशवम्.इति ।
श्श्स्_16.12.21: संज्ञप्तम्.यामेन.साम्ना.उद्गाता.उपतिष्ठते ।
श्श्स्_16.13.1: पुरुषेण.नारायणेन.होता ।
श्श्स्_16.13.2: अथ.ह.एनम्.ऋत्विज.उपतिष्ठन्ते.परेयिवांसम्.इति.द्वाभ्याम्.द्वाभ्याम्.होता.ब्रह्मा.उद्गाता.अध्वर्युः ।
श्श्स्_16.13.3: अतः.यजमानम्.भिषज्यन्ति ।
श्श्स्_16.13.4: उत.देवा.अवहितम्.मुञ्चामि.त्वा.हविषा.जीवनाय.कमक्षीभ्याम्.ते.नासिकाभ्याम्.वात.आ.वातु.भेषजम्.इत्य्.अनुपूर्वम्.सूक्तैः ।
श्श्स्_16.13.5: प्र.तार्य्.आयुर्.इति.नैरृतीनाम्.एक.एकया ।
श्श्स्_16.13.6: तिसृभिस्.तिसृभिः.शंतातीयानाम् ।
श्श्स्_16.13.7: संज्ञप्ताय.महिषीम्.उपनिपातयन्ति ।
श्श्स्_16.13.8: ताव्.अधीवासेन.सम्प्रोणुवते ।
श्श्स्_16.13.9: तौ.तथैव.यजमानो.अभिमेथति ।
श्श्स्_16.13.10: परिवृक्ता.अप्रपाणा.यो.अनाक्त.अक्षो.न.सेशे.यस्य.रोमशम्.इत्य्.अभिमेथिन्यः ।
श्श्स्_16.13.11: उत्तराभिर्.उत्तराभिः.प्रत्यभिमेथन्ति ।
श्श्स्_16.13.12: पूर्वया.अध्वर्युः ।
श्श्स्_16.13.13: उदीर्ष्व.नार्य्.उदीर्ष्व.अतः.पतिवत्य्.उदीर्ष्व.अतो.विश्वावसो.अश्मन्वति.इत्य्.उत्थापिन्यः ।
श्श्स्_16.13.14: मनो.न्व्.असुनीते.यत्.ते.यमम्.यथा.युगम्.इति.तृचैर्.अनुमन्त्रयते ।
श्श्स्_16.13.15: ब्रह्मा.अनुवाचयति ।
श्श्स्_16.13.16: सदशि.ब्रह्म.वद्यम् ।
श्श्स्_16.13.17: गावो.यवम्.इति.होता.अध्वर्युम्.पृच्छति.।.द्वितीयया.प्रत्याह.।.तृतीयया.पृच्छति.।.चतुर्थ्या.प्रत्याह ।
श्श्स्_16.13.18: द्वे.स्रुती.अशृणवम्.पितॄणाम्.इति.ब्रह्मा.उद्गातारम्.पृच्छति.।.द्वितीयया.प्रत्याह.।.एक.अन्तरया.पृच्छति.।.उत्तरया.प्रत्याह ।
श्श्स्_16.14.1: आश्वमेधिकम्.आज्यात् ।
श्श्स्_16.14.2: उभे.ऐकाहिकम्.च.माहाव्रतिकम्.च.आज्ये.संशंसेत् ।
श्श्स्_16.14.3: य.ऐकाहिके.च.माहाव्रतिके.च.आज्ये.कामस्.तयोर्.उभयोर्.आप्त्यै ।
श्श्स्_16.14.4: उभाव्.ऐकाहिकम्.च.माहाव्रतिकम्.च.प्रौगौ.सम्प्रवयेत् ।
श्श्स्_16.14.5: य.ऐकाहिके.च.माहाव्रतिके.च.प्रौगे.कामस्.तयोर्.उभयोर्.आप्त्यै ।
श्श्स्_16.14.6: महा.व्रतान्.मध्यंदिनः ।
श्श्स्_16.14.7: राजनम्.पृष्ठम्.भवति ।
श्श्स्_16.14.8: एतद्.वै.पुरुष.विधम्.साम.यद्.राजनम्.।.तद्.एनम्.स्वेन.साम्ना.समर्धयति ।
श्श्स्_16.14.9: अनुचर.प्रभृति.षष्ठात्.तृतीय.सवनम् ।
श्श्स्_16.14.10: नाराशंसम्.वै.षष्ठम्.अहः ।
श्श्स्_16.14.11: पुरुषो.वै.नाराशंसः ।
श्श्स्_16.14.12: तद्.एनम्.स्वेन.रूपेण.समर्धयति ।
श्श्स्_16.14.13: महा.दिवा.कीर्त्यम्.अग्निष्टोम.साम.भवति ।
श्श्स्_16.14.14: एतद्.वै.पुरुष.विधम्.साम.यन्.महा.दिवा.कीर्त्यम्.।.तद्.एनम्.स्वेन.साम्ना.समर्धयति ।
श्श्स्_16.14.15: षोळश्य्.अन्तम्.संतिष्ठते ।
श्श्स्_16.14.16: षोळश.कलो.वै.पुरुषः.।.तद्.एनम्.स्वेन.रूपेण.समर्धयति ।
श्श्स्_16.14.17: पृष्ठ्यस्य.पञ्चमम्.चतुर्थम्.अहः ।
श्श्स्_16.14.18: सह.पुरुषम्.च.दीयते ।
श्श्स्_16.14.19: दश.पशुर्.विशाख.यूपः ।
श्श्स्_16.14.20: द्वादश.द्वादश.ऋतु.पशवः ।
श्श्स्_16.15.1अ: ब्रह्म.स्वयम्भु.तपो.अतप्यत.।.तत्.तपस्.तप्त्वा.ऐक्षत.।.न.वै.तपस्य्.आनन्त्यम्.अस्ति.हन्ता.सर्वेषु.भूतेष्व्.आत्मानम्.जुहवानि.इति.।.तत्.सर्वेषु.भूतेष्व्.आत्मानम्.हुत्वा.सर्वाणि.भूतानि.सर्व.मेधे.जुहवाम्.चकार.।.ततो.वै.तत्.सर्वेषाम्.भूतानाम्.श्रैष्ठ्यम्.स्वाराज्यम्.आधिपत्यम्.पर्यैत् ।
श्श्स्_16.15.1: तथो.एव.एतद्.यजमानो.यत्.सर्व.मेधेन.यजते.सर्वेषु.भूतेष्व्.आत्मानम्.हुत्वा.सर्वाणि.भूतानि.सर्व.मेधे.जुहवाम्.करोति.।.ततो.वै.स.सर्वेषाम्.भूतानाम्.श्रैष्ठ्यम्.स्वाराज्यम्.आधिपत्यम्.पर्येति ।
श्श्स्_16.15.2: पौरुषमेधिकम्.पुरस्तात्.कर्म ।
श्श्स्_16.15.3: अग्निष्टुद्.इन्द्रस्तुद्.वैश्वदेवस्तुत्.सूर्यस्तुत्य्.अश्वम्.आलभन्ते ।
श्श्स्_16.15.4: पौरुषमेधिकम्.पञ्चमम्.अहः ।
श्श्स्_16.15.5: तत्र.पुरुषम्.आलभन्ते ।
श्श्स्_16.15.6: वाजपेयः.षष्ठम् ।
श्श्स्_16.15.7: आप्तोर्यामः.सप्तमम् ।
श्श्स्_16.15.8: तत्र.सर्वान्.मेधान्.आलभन्ते.ये.के.च.प्राणिनः ।
श्श्स्_16.15.9: वपा.वपावताम्.जुह्वति ।
श्श्स्_16.15.10: त्वचो.अवपाकानाम् ।
श्श्स्_16.15.11: संव्रश्चम्.ओषधि.वनस्पतीनाम्.प्रकिरन्ति ।
श्श्स्_16.15.12: त्रिणव.त्रयस्.त्रिंशे.अष्टम.नवमे.अहनी ।
श्श्स्_16.15.13: विश्वजित्.सर्व.स्तोमः.सर्व.पृष्ठो.अतिरात्र.उत्तमम्.अहः ।
श्श्स्_16.15.13: सर्वम्.वै.विश्वजित्.सर्व.स्तोमः.सर्व.पृष्ठो.अतिरात्र.उत्तमम्.अहः ।
श्श्स्_16.15.14: सर्वम्.वै.विश्वजित्.सर्व.स्तोमः.सर्व.पृष्ठो.अतिरात्रः ।
श्श्स्_16.15.15: सर्वम्.सर्व.मेधः ।
श्श्स्_16.15.16: सर्वेण.सर्वम्.आप्नवानि.इति ।
श्श्स्_16.15.17: विंशति.पशुर्.विशाख.यूपः ।
श्श्स्_16.15.18: चतुर्.विंशतिश्.चतुर्विंशतिर्.ऋतुपशवः ।
श्श्स्_16.15.19: अत्र.सर्व.मेधः.संतिष्ठते ।
श्श्स्_16.15.20: सह.भूमि.च.दीयते ।
श्श्स्_16.16.1: गार्हपत्ये.अधर.अरणिम्.अनुप्रहृत्य.।.आहवनीय.उत्तर.अरणिम्.।.आत्मन्य्.अग्नीन्.समारोप्य.।.अरण्यम्.प्रव्रजेत् ।
श्श्स्_16.16.2: विश्व.कर्मा.ह.भौवनो.अन्तत.ईजे ।
श्श्स्_16.16.3: तम्.ह.भूमिर्.उवाच.।.न.मा.मर्त्यः.कश्चन.दातुम्.अर्हति.विश्व.कर्मन्.भौवन.माम्.दिदासिथ.।.उप.मङ्क्ष्ये.अहम्.सलिलस्य.मध्ये.मृषा.एव.ते.संगरः.कश्यपाय.।.इति ।
श्श्स्_16.16.4: ताम्.कश्यप.उज्जहार ।
श्श्स्_16.17.1: वाज.पेये.ब्रहा.औदुम्बरम्.रथ.चक्रम्.आरोहति.वाजस्य.अहम्.सवितुः.सवे.सत्य.सवस्य.बृहस्पतेर्.उत्तमम्.नाकम्.रोहेयम्.इति ।
श्श्स्_16.17.2: इन्द्रस्य.इति.क्षत्रिये.यजमाने ।
श्श्स्_16.17.3: मरुताम्.इति.वैश्ये ।
श्श्स्_16.17.4: तस्मिन्न्.उपविश्य.आविद्धे.रथ.चक्रे.असम्प्रेषितस्.त्रिः.साम.गायति ।
श्श्स्_16.17.5: अपि.च.जपेत्.त्रिः ।
श्श्स्_16.17.6: आविर्.मर्या.आ.वाजम्.वाजिनो.अग्मन्.।.देवस्य.सवितुः.सवे.स्वर्गान्.अर्वन्तो.जयत्.।.इति.च ।
श्श्स्_16.17.7: तेन.एव.मन्त्रेण.पत्यवरोहति ।
श्श्स्_16.17.8: अरुहम्.इति.प्रत्यवरोहणे.विकारः ।
श्श्स्_16.17.9: हिरण्मयेन.पात्रेण.मधु.ग्रहस्य.प्राण.भक्षम्.भक्षयित्वा.उपयच्छते.पात्रम् ।
श्श्स्_16.17.10: दिवम्.अयम्.यजमानो.रोहति.स्वर्गम्.अयम्.यजमानो.रोहति.इति.वा ।
श्श्स्_16.17.11: यूपम्.रोहन्तम्.ऊष.पुटैर्.अर्पयन्ति ।
श्श्स्_16.18.1: राज.सूये.अभिषिक्तो.यजमानो.ब्रह्मन्न्.इति.पञ्च.कृत्वो.ब्रह्माणम्.आमन्त्रयते ।
श्श्स्_16.18.2: त्वम्.ब्रह्म.असि.इत्य्.एवम्.सर्वत्र.प्रतिशृणोति ।
श्श्स्_16.18.3: सविता.असि.स्त्य.प्रसव.इति.प्रथमे ।
श्श्स्_16.18.4: इन्द्रो.असि.विश्व.ओजा.इति.द्वितीये ।
श्श्स्_16.18.5: वरुणो.असि.धर्म.पतिर्.इति.तृतीये ।
श्श्स्_16.18.6: रुद्रो.असि.सुशेव.इति.चतुर्थे ।
श्श्स्_16.18.7: त्वम्.ब्रह्म.असि.इत्य्.एव.पञ्चमे ।
श्श्स्_16.18.8: मनसा.अस्मै.हिरण्मयौ.प्रवृत्तौ.ददाति ।
श्श्स्_16.18.9: तौ.मनसा.प्रतिगृह्णाति ।
श्श्स्_16.18.10: अश्वमेध.ऋत्विजो.रशना.धारयन्तो.अश्वम्.ह्रदयोः.संस्यन्दिनोः.स्नापयन्ति ।
श्श्स्_16.18.11: अनेन.अयम्.अश्वेन.मेध्येन.राजा.इष्ट्वा..विजयताम्.अब्रह्मण्य्.उञ्जिताया.इति ।
श्श्स्_16.18.12: यदि.च.एनम्.यजमानेन.पृष्ठे.अभिमर्शयेयुर्.अहम्.च.त्वम्.च.इति.जपेत् ।
श्श्स्_16.18.13: संस्थिते.मध्यमे.अहन्य्.आहवनीयम्.अभितो.दिक्षु.प्रासादान्.विमिन्वन्ति ।
श्श्स्_16.18.14: तान्.उपरिष्टात्.सनि.व्याधैः.प्राकारैः.परिघ्नन्ति ।
श्श्स्_16.18.15: सर्व.ओषधिम्.ऋत्विजो.रात्रीम्.जुह्वति ।
श्श्स्_16.18.16: प्रातर्.अनुवाक.वेलायाम्.प्रत्यवरोहन्ति ।
श्श्स्_16.18.17: परिकर्मिण.आरोहन्ति.।.ते.जुह्वत्य्.आ.उदयात् ।
श्श्स्_16.18.18: अत्र.आत्रेयम्.सहस्रेण.अवक्रीय.यः.शुक्रः.पिङ्ग.अक्षो.वलिनस्.तिलकावलो.खण्डो.बण्डः.(.षण्डः.).खलतिस्तम्.आदाय.नरीम्.यन्ति ।
श्श्स्_16.18.19: अथ.एनम्.उदके.अभिप्रगाह्य.यदा.अस्य.उदकम्.मुखम्.आस्यन्देत.अथ.अस्मा.अध्वर्युर्.मूर्धन्य्.अश्व.तेदनिम्.जुहोति.भ्रूणहत्यायै.स्वाहा.इति ।
श्श्स्_16.18.20: अथ.तम्.निह्षेधन्ति ।
श्श्स्_16.18.21: निह्षिद्ध.पाप्मानो.अपग्रामा.भवन्ति.इति ।
श्श्स्_16.19.1: अथ.अत.एक.उत्तरा.अहीनाः ।
श्श्स्_16.19.2: यद्.एक.विधम्.तद्.एक.रात्रेण.आप्नोति ।
श्श्स्_16.20.1: अथ.यद्.द्विविधम्.तद्.द्विरात्रेण ।
श्श्स्_16.20.2: द्वे.वा.अहोरात्रे.द्वे.द्यावा.पृथिवी.द्वे.इमे.प्रतिष्ठे.।.तद्.यत्.किम्.च.द्विविधम्.अधिदैवतम्.अध्यात्मम्.तत्.सर्वम्.एनेन.आप्नोति ।
श्श्स्_16.20.3: अव्यक्तो.अहः.संघातो.दशरात्रम्.अधिकुर्वीत ।
श्श्स्_16.20.4: आदितो.अवच्छेदः ।
श्श्स्_16.20.5: अन्त्यस्य.अतिरात्र.भावः ।
श्श्स्_16.20.6: अन्वहम्.दक्षिणा ।
श्श्स्_16.20.7: अदीक्षिता.दीक्षितम्.याजयन्ति ।
श्श्स्_16.20.8: मास.अपवर्गा.अहीनाः ।
श्श्स्_16.20.9: सुत्य.प्रतिह्रासे.दीक्षा.विवर्धयेयुः ।
श्श्स्_16.20.10: न.असंवत्सर.दीक्षिताय.महा.व्रतम्.शंसेत् ।
श्श्स्_16.20.11: न.असंवत्सर.भृत.उखाय ।
श्श्स्_16.20.13: मुख्यो.वा.एष.यज्ञ.क्रतुर्.यद्.अग्निष्टोमः ।
श्श्स्_16.20.14: यज्ञ.मुखस्य.अनवर.अर्ध्यै ।
श्श्स्_16.20.15: सम्पातौ.तु.निविद्धाने ।
श्श्स्_16.20.16: ततम्.मे.यज्ञेन.वर्धत.इत्य्.आर्भव.जात.वेदसीये.द्वितियस्य ।
श्श्स्_16.20.17: त्रिरात्रे.च ।
श्श्स्_16.20.18: अभिजिद्.विश्वजितौ.चतुर्विंश.महा.व्रते.गो.आयुषी.वा ।
श्श्स्_16.20.19: यद्.द्विविधम्.तद्.द्विरात्रेण.आप्नोति ।
श्श्स्_16.21.1: अथ.यत्.त्रिविधम्.तन्त्रि.रात्रेण ।
श्श्स्_16.21.2: त्रयो.वा.इमे.लोकास्.त्रीणि.ज्योतींषि.त्रि.षवणो.यज्ञः.।.तद्.यत्.किंच.त्रिविधम्.अधिदैवतम्.अध्यात्मम्.तत्.सर्वम्.एनेन.आप्नोति ।
श्श्स्_16.21.3: त्रिवृत्.प्रभृतयस्.त्रयः.स्तोमाः.प्रथमस्य.अह्नः ।
श्श्स्_16.21.4: पञ्च.दश.प्रभृतयो.द्वितीयस्य ।
श्श्स्_16.21.5: षोळशम्.ब्रह्मण.आज्यम् ।
श्श्स्_16.21.6: एकविंश.प्रभृतयस्.तृतीयस्य ।
श्श्स्_16.21.7: अग्निष्टोमः.प्रथमम्.अहः ।
श्श्स्_16.21.8: उक्थ्यम्.द्वितीयम् ।
श्श्स्_16.21.9: अतिरात्रस्.तृतीयम् ।
श्श्स्_16.21.10: रथन्तरम्.पृष्ठम्.प्रथमस्य ।
श्श्स्_16.21.11: वामदेव्यम्.द्वितीयस्य ।
श्श्स्_16.21.12: बृहत्.तृतीयस्य ।
श्श्स्_16.21.13: अयम्.वै.लोको.रथन्तरम् ।
श्श्स्_16.21.14: अन्तरिक्ष.लोको.वामदेव्यम् ।
श्श्स्_16.21.15: असौ.लोको.बृहत् ।
श्श्स्_16.21.16: एतेषाम्.एव.लोकानाम्.आप्त्यै ।
श्श्स्_16.21.17: समूळ्हाद्.आज्यानि ।
श्श्स्_16.21.18: मध्यमात्.छन्दोमात्.त्रैष्टुभः.प्रौगो.द्वितीयस्य.अह्नः ।
श्श्स्_16.21.19: अर्यमा.इति.मरुत्वतीयम् ।
श्श्स्_16.21.21: यद्.द्वितीयस्य.अह्नो.मरुत्वतीयम्.तत्.तृतीये.अहनि.करोति ।
श्श्स्_16.21.21: तद्.इमांल्.लोकान्.सम्भोगिनः.करोति.तस्माद्द्.हि.इमे.लोका.अन्ये.अन्यम्.अबिह्भुञ्जन्ति.इति ।
श्श्स्_16.21.22: अहनी.वा.विपर्यस्येत् ।
श्श्स्_16.21.23: कस्.तम्.इन्द्र.इति.साम.प्रगाथो.निष्केवल्यस्य ।
श्श्स्_16.21.24: मो.षु.त्वा.वाघतश्.चन.इति.स्तोत्रिय.अनुरूपौ.प्रगाथौ.मैत्रा.वरुणस्य.उद्धृत्य.द्विपदाम् ।
श्श्स्_16.21.25: कम्.नव्य.इति.कद्वान् ।
श्श्स्_16.21.26: द्वितीयाद्.अह्नः.सूक्ते ।
श्श्स्_16.21.27: अस्तावि.मन्म.उभयम्.शृणवद्.इति.ब्राह्मणाच्छंसिनः ।
श्श्स्_16.21.28: कद्.ऊ.न्व्.अस्य.इति.कद्वान् ।
श्श्स्_16.21.29: श्रायन्त.इव.सूर्यम्.शग्ध्य्.ऊ.षु.शची.पत.इत्य्.अच्छावाकस्य ।
श्श्स्_16.21.30: यद्.इन्द्र.प्राग्.अपाग्.उदग्.इति.कद्वान् ।
श्श्स्_16.21.31: कया.शुभीय.तद्.इद्.आसीये.व.अनिविद्धाने.द्वितीयस्य ।
श्श्स्_16.21.32: अनुचर.प्रभृति.षष्ठात्.तृतीय.सवनम् ।
श्श्स्_16.22.1: एषो.न्वै.(.नु.वै.?).सहस्र.स्तोत्रियो.येन.प्रजापतिर्.अयजत ।
श्श्स्_16.22.2: एतम्.एव.गर्ग.त्रिरात्र.इत्य्.आचक्षते ।
श्श्स्_16.22.3: द्वितीयो.अश्वि.त्रिरात्रः ।
श्श्स्_16.22.4: मध्यमे.अहन्य्.अश्वम्.आलभन्ते ।
श्श्स्_16.22.5: अघ्रिगाव्.अश्व.स्तोमीयम् ।
श्श्स्_16.22.6: तृतीयश्.छन्दोमः.पवमाह ।
श्श्स्_16.22.7: पराकश्.चतुर्थः ।
श्श्स्_16.22.8: पृष्ठ्य.स्तोमैस्.त्रिष्टोमानि.त्रीणि ।
श्श्स्_16.22.9: एष.उ.पराकः ।
श्श्स्_16.22.10: एतेन.अस्माल्.लोकात्.प्रजिगांसन्.यजेत ।
श्श्स्_16.22.11: प्रतिष्ठा.कामस्य.द्वैपराक.इत्य्.आहुः ।
श्श्स्_16.22.12: आ.ह्य्.एका.जगती.ते.द्वे.गायत्र्यौ ।
श्श्स्_16.22.13: अयम्.लोको.गायत्रस्.तद्.अस्मिंल्.लोके.प्रतितिष्ठति.प्रतिष्ठायाम्.अप्रच्युत्याम् ।
श्श्स्_16.22.14: ज्योतिर्.गौर्.आयुर्.इति.कुसुरु.बिन्दु.त्रिरात्रः ।
श्श्स्_16.22.15: त्रीणि.शतानि.प्रथमे.अहन्.ददाति ।
श्श्स्_16.22.16: त्रयस्.त्रिंशतम्.पञ्च.कलाः ।
श्श्स्_16.22.17: एवम्.द्वितीय.एवम्.तृतीये ।
श्श्स्_16.22.18: तत्.कला.सहस्रतम्या.गो.परिशिष्यते ।
श्श्स्_16.22.19: ताम्.अन्यया.गवा.निष्क्रीयाम्.आकुर्वीत ।
श्श्स्_16.22.22: अमा.कार्या.इत्य्.आहुर्.यजमानस्य.एव.सम्भूत्या.इति ।
श्श्स्_16.22.22: यायन्तीनाम्.प्रथम.उपरमेत्.सा.स्याद्.इत्य्.आहुः ।
श्श्स्_16.22.22: तद्.अप्रच्युत्यै.रूपम् ।
श्श्स्_16.22.25: या.संतिष्ठन्तीनाम्.प्रथम.उपविशेत्.सा.स्याद्.इत्य्.आहुः ।
श्श्स्_16.22.26: तत्.प्रजात्यै.रूपम् ।
श्श्स्_16.22.27: या.सत्तमा.सा.स्याद्.इत्य्.आहुः ।
श्श्स्_16.22.28: सत्तमाम्.अमाकरवा.इति ।
श्श्स्_16.22.29: सर्व.वेद.त्रिरात्रे.त्रिशुक्रियो.ब्रह्मा.यस्य.उभयतः.श्रोत्रियास्.त्रिपुरुषम् ।
श्श्स्_16.22.30: यत्.त्रिविधम्.तत्.त्रिरात्रेण.आप्नोति ।
श्श्स्_16.23.1: अथ.यत्.चतुर्विधम्.तच्.चतूरात्रेण ।
श्श्स्_16.23.2: चतुष्टया.वै.पशवः ।
श्श्स्_16.23.3: अथो.चतुष्पादाः ।
श्श्स्_16.23.4: तद्.यत्.किम्.च.चतुर्विधम्.अधिदैवतम्.अध्यात्मम्.तत्.सर्वम्.एनेन.आप्नोति ।
श्श्स्_16.23.5: त्रिवृत्.प्रथमम्.अहः.पञ्चदशम्.द्वितीयम्.सप्तदशम्.तृतीयम्.एकविंशम्.चतुर्थम् ।
मूल पाठ: Śāṅkhāyanaśrautasūtra · Edition: Alfred Hillebrandt Calcutta 1885-1899 (Bibliotheca Indica, 99) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0