भाषा

ENहिગુ
ग्रंथ पाठ

शाङ्खायनश्रौतसूत्र · भाग 81100

श्श्स्_13.3.4: यदि.च.कामयेत.आर्ति.विमथितार.ऋच्छेयुर्.इति.कुविद्.अङ्ग.यवम्.अन्त.यवमन्त.इत्य्.आग्नीध्रीये.जुहुयात् ।
श्श्स्_13.3.5: अष्टा.पद्याम्.वशायाम्.अनूबन्ध्यायाम्.गर्भस्य.त्वचो.वपा.रूपम्.फली.करणानाम्.फाली.करणान्.गर्भम्.इति.शामित्रे.श्रपयित्वा.इतरस्य.वषट्.कारेषु.शामित्र.एव.जुहुयात् ।
श्श्स्_13.4.1: यूपे.विरूळ्हे.अनपवृत्ते.त्वाष्ट्रम्.बहु.रूपम्.आलभेत ।
श्श्स्_13.4.2: पिशङ्ग.रूपः.सुभरो.वयोधास्.तन्.नस्.तुरीपम्.अध.पोषयित्नु.देवस्.त्वष्टा.सविता.विश्व.रूप.इति.पुरोनुवाख्याः ।
श्श्स्_13.4.3: प्र.सू.महे.सुशरणाय.प्रथम.भाजम्.देव.त्वष्टर्.यद्द्.ह.चारुत्वम्.आनऌ.इति.याज्याः ।
श्श्स्_13.5.1: ज्ञान.विषये.विद्विषाणयोः.सुत्ययोर्.अह्नोः.सम्निपातनम्.संसव.इत्य्.आचक्षते ।
श्श्स्_13.5.2: पूर्वे.प्रातर्.अनुवाकम्.उपाकृत्य.पूर्वे.संस्थापयेयुः ।
श्श्स्_13.5.3: सुसमिद्धे.जुहुयुः ।
श्श्स्_13.5.4: संवेशाय.उपवेशाय.गायत्र्यै.छन्दसे.अभिभृत्यै.स्वाहा.इति.प्रातः.सवने ।
श्श्स्_13.5.5: त्रिष्टुभे.छन्दस.इति.माध्यंदिने ।
श्श्स्_13.5.6: जगत्यै.छन्दस.इति.तृतीय.सवने ।
श्श्स्_13.5.7: अध्वर्युम्.मृतम्.इच्छन्.प्राजापत्याभिस्.तिसृभिर्.अध्वर्युः.प्रातः.सवने.जुहुयात् ।
श्श्स्_13.5.8: होतारम्.होता.माध्यंदिने ।
श्श्स्_13.5.9: उद्गातारम्.उद्गाता.तृतीय.सवने ।
श्श्स्_13.5.10: ब्रह्माणम्.ब्रह्म.अनुसवनम् ।
श्श्स्_13.5.11: यजमानम्.यजमानो.अनुसवनम् ।
श्श्स्_13.5.12: सर्वान्.मृतान्.इच्छन्तः.सर्वे.अनुसवनम् ।
श्श्स्_13.5.13: बृहद्.रथन्तरे.कुर्युः ।
श्श्स्_13.5.14: आभीकम्.आभीशवम्.अभिनिधनम्.अभीवर्तम्.च ।
श्श्स्_13.5.15: कया.शुभीयम्.मरुत्वतीयम् ।
श्श्स्_13.5.16: सजनीयम्.निष्केवल्यम् ।
श्श्स्_13.5.17: विहव्यो.वैश्वदेवम् ।
श्श्स्_13.5.18: पूर्वेषु.संस्थापयत्सु.उत्तराम्.संस्थाम्.कुर्वीत ।
श्श्स्_13.5.19: अतिरात्रम्.कुर्वाणेषु.द्विरात्रम् ।
श्श्स्_13.5.20: द्विरात्रम्.कुर्वाणेषु.त्रिरात्रम् ।
श्श्स्_13.5.21: तस्याम्.वा.संस्थायाम्.भूयसीर्.दक्षिणा.दद्यात् ।
श्श्स्_13.5.22: स्रवन्त्यो.वा.विहरन्ति.वायुर्.आकाशश्.च ।
श्श्स्_13.6.1: क्रीते.सोमे.अपहृते.अनतिनयन्.कालन्.अन्यम्.आहृत्य.अभिषुणुयात् ।
श्श्स्_13.6.2: सोम.आहाराय.सोम.विक्रयिणे.वा.किंचिद्.दद्यात् ।
श्श्स्_13.6.3: अनधिगम्यमाने.पूतीकान्.श्वेत.पुष्पाण्य्.अर्जुनानि.कुशान्.वा.भिषुत्य.प्रतिदुहा.प्रातः.सवने.श्रीणीयात्.श्वेतेन.माध्यन्दिने.दध्ना.तृतीय.सवने ।
श्श्स्_13.6.4: एकाम्.गाम्.दक्षिणाम्.दत्त्वा.अवभृथाद्.उदेत्य.पुनर्.दीक्षेत ।
श्श्स्_13.6.5: तत्र.क्रतु.दक्षिणा.दद्यात् ।
श्श्स्_13.6.6: एतद्.एव ।
श्श्स्_13.6.7: अभिदग्धे.पञ्च.गा.दक्षिणा.दद्यात् ।
श्श्स्_13.7.1: प्रातः.सवनात्.सोमे.अतिरिक्ते ।
श्श्स्_13.7.2: अस्ति.सोमो.अयम्.सुत.इति.स्तोत्रिय.अनुरूपौ.होतुः ।
श्श्स्_13.7.3: ऐन्द्रा.वैष्णवीभिः.स्तोमम्.अतिशंसेत् ।
श्श्स्_13.7.4: ऐन्द्रा.वैष्णवी.याज्या ।
श्श्स्_13.7.5: इन्द्रम्.इद्.गाथिनो.बृहद्.अतो.देवा.अवन्तु.न.इति.षट् ।
श्श्स्_13.7.6: उत्तमया.परिधाय.विष्णोः.कर्माणि.पश्यत.इति.यजति ।

श्श्स्_13.8.1: माध्यंदिनाद्.अतिरिक्ते ।
श्श्स्_13.8.2: बण्.महान्.उद्.उ.त्यद्.दर्शतम्.इति.स्तोत्रिय.अनुरूपौ.प्रगाथौ ।
श्श्स्_13.8.3: ऐन्द्रा.वैष्णवीभिः.स्तोमम्.अतिशंसेत् ।
श्श्स्_13.8.4: ऐन्द्रा.वैष्णवी.याज्या ।
श्श्स्_13.9.1: तृतीय.सवनाद्.अतिरिक्ते ।
श्श्स्_13.9.2: प्र.तत्.ते.अद्य.शिपिविष्ट.प्र.तद्.विष्णुर्.इति.स्तोत्रिय.अनुरूपौ ।
श्श्स्_13.9.3: ऐन्द्रा.वैष्णवीभिः.स्तोतम्.अतिशंसेत् ।
श्श्स्_13.9.4: ऐन्द्रा.वैष्णवी.याज्या ।
श्श्स्_13.10.1: आश्विनाद्.अतिरिक्ते ।
श्श्स्_13.10.2: आश्विनीभिः.स्तोमम्.अतिशंसेत् ।
श्श्स्_13.10.3: आश्विनी.याज्या ।
श्श्स्_13.10.4: अस्तुतम्.चेत्.पर्यायैर्.अभिव्युच्छेत.पञ्चभिः.स्तोमैर्.होत्रकेभ्यः.स्तुवते ।
श्श्स्_13.10.5: ते.स्तोत्रिय.अनुरूपान्.शस्त्वा.उक्थ.मुखानाम्.जगतीनाम्.च.द्वे.द्वे.शंसेयुः ।
श्श्स्_13.10.6: नित्याः.परिधानीयाः ।
श्श्स्_13.10.7: कृत्स्नैर्.वा.प्रथमैः.पर्यायैः ।
श्श्स्_13.10.8: होत्रे.वा.प्रथमानाम्.पर्यायाणाम् ।
श्श्स्_13.10.9: मैत्रावरुणाय.ब्राह्मणाच्छंसिने.च.मध्यमानाम् ।
श्श्स्_13.10.10: अच्छावाकाय.उत्तमानाम् ।
श्श्स्_13.10.11: त्रीण्य्.आश्विनम्.षष्टि.शतानि ।
श्श्स्_13.11.1: यदि.दीक्षितः.प्रमीयेत.दग्ध्वा.अस्थीन्य्.उपनह्य.पुत्रम्.भ्रातरम्.वा.दीक्षयित्वा.सह.यजेरन् ।
श्श्स्_13.11.2: अभिषुत्य.वा.राजानम्.अगृहीत्वा.ग्रहान्.दक्षिणा.परस्याम्.वेदि.श्रोण्याम्.अस्थि.कुम्भम्.निधाय.तस्मिन्.देशे.सार्पराज्ञीभिः.पराचीभिः.स्तुवते ।
श्श्स्_13.11.3: मार्जालीय.देशे.वा ।
श्श्स्_13.11.4: त्रिः.प्रसव्यम्.मार्जालीयम्.परियन्ति.सव्यान्.ऊरून्.अपाघ्नाताः ।
श्श्स्_13.11.5: सार्पराज्ञीर्.होता.निगदेत् ।
श्श्स्_13.11.6: असम्मितम्.स्तोत्रम् ।
श्श्स्_13.11.7: ऐन्द्रवायव्याद्.या.ग्रहाः ।
श्श्स्_13.11.8: संवत्सरे.अस्थीनि.याजयेयुः ।
श्श्स्_13.11.9: स्तोत्रे.स्तोत्रे.अस्थि.कुम्भम्.उपनिदधति ।
श्श्स्_13.11.10: मार्जलीये.भक्षान्.निनयन्ति ।
श्श्स्_13.12.1: कलशे.दीर्णे.विधुम्.दद्राणम्.इति.वषट्.कार.निधनेन.ब्राह्मणाच्छंसिने.स्तुवते ।
श्श्स्_13.12.2: पूर्वस्.तृचो.अनुरूपः ।
श्श्स्_13.12.3: ग्राव्णि.दीर्णे.वृत्रस्य.त्वा.श्वसथाद्.ईषमाणा.इति.द्युतानेन.मारुतेन.ब्राह्मणाच्छंसिने.स्तुवते ।
श्श्स्_13.12.4: उत्तरो.अनुरूपः ।
श्श्स्_13.12.5: ऐन्द्रा.वैष्णवीभिः.स्तोमम्.अतिशंसेत् ।
श्श्स्_13.12.6: ऐन्द्रा.वैष्णवी.याज्या ।
श्श्स्_13.12.7: अभ्युन्नीतम्.नाराशंसम्.।.हुत.अहुतस्य.तृम्पतम्.हुतस्य.च.अहुतस्य.च.।.अहुतस्य.हुतस्य.च.इन्द्र.अग्नी.अस्य.सोमस्य.।.स्वाहा.इत्य्.अन्तः.परिधि.भस्मनि.जुहोति ।
श्श्स्_13.12.8: उपवाते.नाराशंसे.यम्.जघन्यम्.ग्रहम्.गृह्णीयात्.तस्य.हुतस्य.अल्पकम्.अवनयेत्.प्रजापतये.स्वाहा.इति ।
श्श्स्_13.12.9: दुष्टम्.सोमम्.प्राजापत्याभिश्.चतसृभिर्.अध्वर्युर्.उत्तर.अर्ध.पूर्व.अर्ध.उपरवे.अवनयेत् ।
श्श्स्_13.12.10: कृत्स्नम्.वेदम्.अमृतम्.अन्न.अद्य.भागम्.इति.ध्यायन्न्.अववृष्टस्य.भक्षयेद्.इन्दुर्.इन्द्रम्.अवागात्.तस्य.तु.इन्द्रव्.इन्द्र.पीतस्य.उपहूतस्य.उपहूतो.भक्षयामि.इति ।
श्श्स्_13.12.11: हिरण्य.गर्भ.इत्य्.अभ्युपाकृते.चमसे.जुहुयात् ।

श्श्स्_13.12.12: अवच्छाद्य.च.निर्हरेत् ।
श्श्स्_13.12.13अ: य.ऋते.चिद्.इति.तृचेन.महा.वीरम्.भिन्नम्.अनुमन्त्र्य.।.त्रयस्.त्रिंशत्.तन्तवो.ये.वित्निरे.य.इमम्.यज्ञम्.स्वधया.भजन्ते.।.तेषाम्.छिन्नम्.सम्.इमम्.दधामि.स्वाहा.घर्मो.अप्येतु.देवान् ।
श्श्स्_13.12.13ब्: यज्ञस्य.दोहो.विततः.पुरुत्रा.सो.अष्टधा.दिवम्.अन्वाततान.।.स.यज्ञ.धुक्ष्व.महि.मे.प्रजायै.रायस्.पोषम्.विश्वमायुर्.अशीय.।.स्वाहा.इति.च.आहुती.जुहोति ।
श्श्स्_13.13.1: यदि.सत्राय.दीक्षितो.अथ.साम्युत्तिष्ठेत्.सोमम्.अपभज्य.राजानम्.विश्वजिता.अतिरात्रेण.यजेत.सर्व.स्तोमेन.सर्व.पृष्ठेन.सर्व.वेदस.दक्षिणेन ।
श्श्स्_13.13.2: आगुर्.य.वा ।
श्श्स्_13.14.1: आहित.अग्नय.इष्ट.प्रथम.यज्ञा.दीक्षिता.गृहपति.सप्तदशाः.सत्रम्.आसीरन्.होता.मैत्रावरुणो.अच्छावाको.ग्रावस्तुद्.ब्रह्मा.ब्राह्मणाच्छंसी.पोता.आग्नीध्र.उद्गाता.प्रस्तोता.प्रतिहर्ता.सुब्रह्मण्यो.अध्वर्युः.प्रतिप्रस्थाता.नेष्टा.उन्नेता ।
श्श्स्_13.14.2: आर्त्विज्यस्य.अविप्रतिषेधेन.अशक्ये.यौगपद्ये ।
श्श्स्_13.14.3: दीक्षण.आनुपूर्व्येण.सर्वेषाम्.याजमानम् ।
श्श्स्_13.14.4: मुख्यः.कुर्यात्.पर.अर्थानि ।
श्श्स्_13.14.5: कल्प.विप्रतिषेधे.भूयसाम्.साधर्म्यम् ।
श्श्स्_13.14.6: हुतेषु.दाक्षिणेषु.दक्षिणा.पथेन.कृष्ण.अजिनानि.धुन्वन्तो.अहर्.अहर्.इत्य्.आव्रजेयुर्.इदम्.अहम्.माम्.कल्याण्यै.कीर्त्यै.स्वर्गाय.लोकाय.अमृतत्वाय.दक्षिणाम्.नयानि.इति ।
श्श्स्_13.14.7: उक्थाय.च.अग्निष्टोमः.सहस्र.दक्षिणः.पृष्ठ.शमनीयः ।
श्श्स्_13.14.8: साधारणम्.ह.एके.पृष्ठ.शमनीयम् ।
श्श्स्_13.14.9: द्वादश.अह.प्रभृतीन्या.चत्वारिंशद्.रात्राद्.एक.उत्तराणि.रात्रि.सत्राणि.तेषु.नित्यः ।
श्श्स्_13.14.10: द्वादश.अहो.यैर्.अहोभिर्.विवर्धते.तान्य्.उदाहरिष्यामः ।
श्श्स्_13.15.1: एक.अह.अर्थे.महा.व्रतम्.आहरन्ति ।
श्श्स्_13.15.2: सर्व.स्तोमम्.वा.अतिरात्रम् ।
श्श्स्_13.15.3: अन्तरेण.पृष्ठ्यम्.छन्दोमांश्.च ।
श्श्स्_13.15.4: द्व्य्.अह.अर्थे.गो.आयुषी ।
श्श्स्_13.15.5: द्वितीयम्.तृतीयम्.च.अभिप्लविके.प्रतीयेत.एतस्याम्.चोदनायाम् ।
श्श्स्_13.15.6: त्र्य्.अह.अर्थे.त्रीणि.पूर्वाण्य्.आभिप्लविकानि ।
श्श्स्_13.15.7: चतुर्.अह.अर्थे.महा.व्रत.चतुर्थानि ।
श्श्स्_13.15.8: पञ्च.अह.अर्थे.पञ्च ।
श्श्स्_13.15.9: षऌ.अह.अर्थे.षट् ।
श्श्स्_13.15.10: सप्त.अह.अर्थे.महा.व्रत.सप्तमानि ।
श्श्स्_13.15.11: एतेन.न्यायेन.ताम्.ताम्.संख्याम्.पूरयन्ति ।
श्श्स्_13.15.12: अन्तरेण.प्रायणीयम्.पृष्ठ्यम्.च.एतेषाम्.स्थानम् ।
श्श्स्_13.15.13: ऊर्ध्वम्.तु.दशमाद्.अह्नो.महा.व्रतस्य.स्थानम् ।
श्श्स्_13.16.1: अथ.एतान्य्.अपवदन्ति ।
श्श्स्_13.16.2: अभिप्लवो.अभिजिद्.विश्वजितौ.च.आगन्तूनि.विंशति.रात्रे ।
श्श्स्_13.16.3: अभिप्लवो.अतिरात्रो.द्वाव्.अभिप्लवाव्.इत्य्.एक.विंशति.रात्रः.पूर्वः ।
श्श्स्_13.16.4: पृष्ठ्यः.स्वर.सामानो.विषुवान्.आवृत्ताः.स्वर.सामानस्.त्रयस्.त्रिंश.आरम्भणः.पृष्ठ्य.इत्य्.उत्तरः ।
श्श्स्_13.16.5: पृष्ठ्य.सोत्मः.षऌ.अहः.।.त्रयस्.त्रिंशम्.अहर्.अनिरुक्तम्.।.त्रयस्.त्रिंश.आरम्भणः.पृष्ठ्य.स्तोमः.षऌ.अहः.।.त्रिवृद्.अहर्.अनिरुक्तम्.।.ज्योतिष्टोमो.अग्निष्टोम.इति.चतुर्.विंशति.रात्रः.संसदाम्.अयनम्.इत्य्.आचक्षते ।
श्श्स्_13.17.1: पञ्च.आभिप्लविकानि.त्रिर्.उपेत्य.विश्वजिद्.अतिरात्र.एष.एव.पञ्च.अहो.दश.रात्र.इति.त्रयस्.त्रिंशद्.रात्रः ।
श्श्स्_13.17.2: चतुर्विंशम्.अभिप्लवः.पृष्ठ्यो.नव.अहो.गो.आयुषी.दश.रात्रो.महा.व्रतम्.इति.सप्त.त्रिंशद्.रात्रः ।
श्श्स्_13.17.3अ: चतुर्.विंशम्.त्रयो.अभिप्लवाः.।.अभिजित्.स्वर.सामानो.विषुवान्.आवृत्ताः.स्वर.सामानो.विश्वजिच्.च.।.अभिजित्.प्रभृति.नव.रात्र.इत्य्.आचक्षते ।
श्श्स्_13.17.3ब्: अभिप्लवो.गो.आयुषी.दश.रात्रो.महा.व्रतम्.।.इत्य्.एनान्न.पञ्चाशद्.रात्रः.।.संवत्सर.सम्मितः ।
श्श्स्_13.18.1: अथ.एक.षष्टि.रात्रे ।
श्श्स्_13.18.2: अभितो.नव.रात्रम्.षष्ठ्यौ ।
श्श्स्_13.18.3: तयोर्.आवृत्त.उत्तरः ।

श्श्स्_13.18.4: न्याय.क्लृप्तः.शत.रात्रः ।
श्श्स्_13.18.5: अर्ध.पञ्चदश.अभिप्लवास्.तेषाम्.प्रथमस्.त्र्यहो.दशरात्रो.महा.व्रतम्.इति ।
श्श्स्_13.19.1: सप्तदश.गवाम्.अयनस्य.दीक्षा ।
श्श्स्_13.19.2: द्वादश.वा ।
श्श्स्_13.19.3: तैषस्य.अमावास्याया.एकाह.उपरिष्टाद्.दीक्षेरन्.माघस्य.वा ।
श्श्स्_13.19.4: तेषाम्.माघस्य.अमावास्यायाम्.उपवसथः.फाल्गुनस्य.वा ।
श्श्स्_13.19.5: द्वादश.दीक्षाः.कुर्वाणाश्.चतुर्.अहे.पुरस्तात्.पौर्णमास्या.दीक्षेरन् ।
श्श्स्_13.19.6: तेषाम्.ज्यौत्स्नस्य.पञ्चम्याम्.प्रसवः ।
श्श्स्_13.19.7: प्रायणीयम्.अतिरात्रम्.उपेत्य.चतुर्विंशम्.च.पृष्ठ्य.पञ्चमांश्.चतुरो.अभिप्लवान्.उपयन्ति ।
श्श्स्_13.19.8: स.मासः ।
श्श्स्_13.19.9: तथा.युक्तान्.पञ्च.मासान्.उपेत्य.पृष्ठ्य.चतुर्थान्.अभिप्लवान्.उपयन्ति ।
श्श्स्_13.19.10: नव.रात्रम्.च ।
श्श्स्_13.19.11: ऊर्ध्वम्.विश्वजितः.पृष्ठ्य.आरम्भणान्.मासान्.उपयन्ति ।
श्श्स्_13.19.12: प्ष्ठ्य.अभिप्लवौ.च.अन्वहम्.आवर्तेत ।
श्श्स्_13.19.13: वैश्वदेव.सूक्तानि.च.उत्तमानाम्.आभिप्लविकानाम् ।
श्श्स्_13.19.14: पृष्ठ्यम्.उपेत्य.त्रीन्.अभिप्लवान् ।
श्श्स्_13.19.15: स.मासः ।
श्श्स्_13.19.16: पृष्ठ्यम्.उपेत्य.चतुरो.अभिप्लवान्.।.तथा.युक्तांश्.चतुरो.मासान्.उपेत्य.त्रीन्.अभिप्लवान्.उपयन्त्य्.आयुर्.गाम्.दशरात्रम्.महा.व्रतम्.अतिरात्रम्.च ।
श्श्स्_13.19.17: इति.गवाम्.अयनस्य.अहर्.योगः ।
श्श्स्_13.19.18: तत्.प्रकृतीनि.संवत्सर.सत्त्राणि ।
श्श्स्_13.19.19: तेषु.विकारो.अन्यत्र.दशरात्रात् ।
श्श्स्_13.19.20: पृष्ठ्यस्य.अभिप्लवः.स्थाने.तद्.अभिप्लव.अयनम् ।
श्श्स्_13.20.1: उत्सर्गिणाम्.अयने ।
श्श्स्_13.20.2: यानि.पौर्णमासीभिः.सुत्यान्य्.अहानि.सम्निपतेयुस्.तान्य्.उत्सृजेरन् ।
श्श्स्_13.20.3: उभाभ्याम्.वा.दर्श.पूर्ण.मासाभ्याम् ।
श्श्स्_13.20.4: एक.त्रिकम्.वा.स्तोमम्.कुर्वीरन् ।
श्श्स्_13.20.5: एक.एकाम्.वा.स्तोत्रियाणाम्.उत्सृजेरन् ।
श्श्स्_13.20.6: शस्त्राणाम् ।
श्श्स्_13.20.7: यजुषाम्.च ।
श्श्स्_13.20.7: अहर्.उत्सृजमानाः.प्राजापत्येन.तद्.अहः.पशुना.यजेरन् ।
श्श्स्_13.20.9: यद्.देवतो.वा.सवनीयः.स्यात् ।
श्श्स्_13.20.10: तत्र.पशु.तन्त्रे.हवींष्य्.अन्वायातयन्ति ।
श्श्स्_13.20.11: तेषाम्.स.धर्मो.यः.पशु.तन्त्रे.चोद्यमानानाम् ।
श्श्स्_13.20.12: परस्य.अह्नः.स्तोत्रियान्.अनुरूपान्.कुर्वीरन् ।
श्श्स्_13.20.13: यथा.अर्थम्.अतिप्रैषैः ।
श्श्स्_13.20.14: उत्थाय.च.द्वादश.अहम्.आसीरन् ।
श्श्स्_13.20.15: उभयीर्.उत्सृज्यमानाः.संसदाम्.अयनम् ।
श्श्स्_13.21.1: आदित्यानाम्.अयने ।
श्श्स्_13.21.2: त्रिवृत्.पञ्चदशाव्.अभिप्लव.स्तोमौ.पूर्वस्मिन्.पटले ।
श्श्स्_13.21.3: पञ्चदश.त्रिवृता.उत्तरस्मिन् ।

श्श्स्_13.21.4: मध्ये.पृष्ठ्याश्.च.मासाः ।
श्श्स्_13.21.5: षष्ठे.मासि.त्रीन्.अभिप्लवान्.उपेत्य.पृष्ठ्यम्.उपयन्ति.नव.रात्रम्.च ।
श्श्स्_13.21.6: अभिजितः.स्थाने.बृहस्पति.सवम् ।
श्श्स्_13.21.7: इन्द्र.स्तोमम्.विश्वजितः ।
श्श्स्_13.21.8: पृष्ठ्यम्.उपेत्य.अभिप्लवम्.च.व्यूळ्ह.छन्दसम्.दशरात्रम् ।
श्श्स्_13.21.9: त्रिवृति.स्तोमम्.अग्निष्टोम.संस्थम् ।
श्श्स्_13.21.10: उद्भिद्.बलभिदौ.च ।
श्श्स्_13.21.11: मध्ये.पृष्ठ्यांश्.चतुरो.मासान्.उपेत्य.मध्ये.पृष्ठ्याव्.अभिप्लवा.उपयन्ति ।
श्श्स्_13.21.12: गो.आयुषी ।
श्श्स्_13.21.13: छन्दोम.दश.अहम्.च ।
श्श्स्_13.22.1: अङ्गिरसाम्.अयने ।
श्श्स्_13.22.2: त्रिवृद्.अभिप्लव.स्तोमः ।
श्श्स्_13.22.3: पृष्ठ्य.आरम्भणान्.मासान्.उपयन्ति.पूर्वस्मिन्.पटले ।
श्श्स्_13.22.4: पृष्ठ्य.उदयान्.उत्तरस्मिन् ।
श्श्स्_13.22.5: आयुर्.गाम् ।
श्श्स्_13.22.6: समानम्.अन्यद्.आदित्यानाम्.अयनेन ।
श्श्स्_13.23.1: दृति.वातवतोर्.अयने ।
श्श्स्_13.23.2: पृष्ठ्य.स्तोमानाम्.एक.एकेन.मासम् ।
श्श्स्_13.23.3: महा.व्रतम्.विषुवान् ।
श्श्स्_13.23.4: आवृत्तानाम्.पृष्ठ्य.स्तोमानाम्.एक.एकेन.मासम् ।
श्श्स्_13.23.5: अतिरात्राव्.अभितः ।
श्श्स्_13.23.6: अग्निष्टोमा.मध्ये ।
श्श्स्_13.23.7: दशदशी.संवत्सरः ।
श्श्स्_13.23.8: द्वादशी.विषुवान्.सर्प.सत्त्रस्य ।
श्श्स्_13.24.1: मासम्.दीक्षाः.कौण्डपायिनाम्.अयनम् ।
श्श्स्_13.24.2: क्रीत्वा.राजानम्.उपनह्य.उपसद.उपेत्य.अग्निहोत्रेण.मासम् ।
श्श्स्_13.24.3: दर्श.पूर्ण.मासाभ्याम्.मासम् ।
श्श्स्_13.24.4: चातुर्मास्य.पर्वणाम्.एक.एकेन.मासम् ।
श्श्स्_13.24.5: त्रिवृत्.प्रभृतीनाम्.पञ्चानाम्.पृष्ठ्य.स्तोमानाम्.एक.एकेन.मासम् ।
श्श्स्_13.24.6: अष्टादश.अहम्.त्रयस्.त्रिंशेन.दश.रात्रम्.महा.व्रतम्.अतिरात्रम्.च.इति ।
श्श्स्_13.24.7: यो.होता.सो.अध्वर्युः.स.पोता ।
श्श्स्_13.24.8: यो.मैत्रावरुणः.स.ब्रह्मा.स.प्रतिहर्ता ।
श्श्स्_13.24.9: य.उद्गाता.सो.अच्छावाकः.स.नेष्टा ।
श्श्स्_13.24.10: यः.प्रस्तोता.स.ब्राह्मणाच्छंसी.स.ग्रावस्तुत् ।
श्श्स्_13.24.11: य.प्रतिप्रस्थाता.यो.अग्नीत्.स.उन्नेता ।
श्श्स्_13.24.12: सुब्रह्मण्यः.सुब्रह्मण्यः ।
श्श्स्_13.24.13: गृहपतिर्.गृहपतिः ।
श्श्स्_13.24.14: देश.काल.सम्निकर्षे.अवैदेश्या.प्रधानस्य.वशम्.नयेत् ।
श्श्स्_13.24.16: यथा.देशम्.इतराणि ।
श्श्स्_13.24.17: सांघातिकाद्.एकाही.भवतो.निवर्तेरन् ।

श्श्स्_13.24.18: अयम्.यज्ञीय.अतिप्रैषः.सपुरोनुवाक्यः.श्वः.स्तोत्रिया.होत्रकाणाम्.कद्वन्त.उक्थ.मुखीयाश्.च.अभितष्टीयम्.इति.तायमान.रूपाणि ।
श्श्स्_13.24.19: गवाम्.एव.अयनस्य.अहर्.योगः ।
श्श्स्_13.25.1: चतुरो.मासान्.दीक्षाः ।
श्श्स्_13.25.2: चतुर.उपसदः ।
श्श्स्_13.25.3: चतुरः.सुन्वन्ति.इति ।
श्श्स्_13.25.4: गवाम्.अयनस्य.प्रथम.उत्तमौ.मासौ ।
श्श्स्_13.25.5: अष्टा.विंशिनौ.च.विषुवांश्.च ।
श्श्स्_13.25.6: तत्.क्षुल्लक.तापश्चितम्.इत्य्.आचक्षते ।
श्श्स्_13.26.1: संवत्सरम्.दीक्षाः ।
श्श्स्_13.26.2: संवत्सरम्.उपसदः ।
श्श्स्_13.26.3: संवत्सरम्.स्न्वन्ति.इति ।
श्श्स्_13.26.4: तत्.तापश्चितम्.इत्य्.आचक्षते ।
श्श्स्_13.27.1: त्रीन्.संवत्सरान्.दीक्षाः ।
श्श्स्_13.27.2: त्रीन्.उपसदः ।
श्श्स्_13.27.3: त्रीन्.सुन्वन्ति ।
श्श्स्_13.27.4: इति.महा.तापश्चितम् ।
श्श्स्_13.27.5: अभ्यासो.बहु.संवत्सरे.गवाम्.अयनस्य ।
श्श्स्_13.27.6: संहार्यान्.वा.परिहाप्य ।
श्श्स्_13.27.7: अतिरात्रः.सहस्रम्.अहान्य्.अतिरात्रो.अग्नेः.सहस्र.साव्यम् ।
श्श्स्_13.28.1: गवाम्.अयनम्.प्रथमः.संवत्सरः ।
श्श्स्_13.28.2: अथ.आदित्यानाम् ।
श्श्स्_13.28.3: अथ.अङ्गिरसाम् ।
श्श्स्_13.28.4: त्रि.सांवत्सरम्.प्रजाति.कामानाम् ।
श्श्स्_13.28.5: त्रिवृत्.प्रभृतीनाम्.चतुर्णाम्.पृष्ठ्य.स्तोमानाम्.एक.एकेन.त्रींस्.त्रीन्.संवत्सरान्.प्रजापते.द्वादश.संवत्सरम् ।
श्श्स्_13.28.6: एतेषाम्.एव.एक.एकेन.नव.नव.शक्त्यानाम्.षट्.त्रिंशत्.संवत्सरम् ।
श्श्स्_13.28.7: एतेषाम्.एव.एक.एकेन.पञ्च.विंशतिः.पञ्च.विंशतिः.साध्यानाम्.शत.संवत्सरम् ।
श्श्स्_13.28.8: एतेषाम्.एव.एक.एकेन.पञ्च.पञ्च.पञ्चाशतो.विश्वसृजाम्.सहस्र.संवत्सरम् ।
श्श्स्_13.29.1: सरस्वत्या.विनशने.दीक्षा.सारस्वतानाम् ।
श्श्स्_13.29.2अ: क्रीत्वा.राजानम्.उपनह्य.उपसद.उपेत्य.।.प्रायणीयम्.अतिरात्रम्.उपेत्य.।.इष्ट्वा.साम्नाय्येन.अध्वर्युः.शम्याम्.परास्य ।
श्श्स्_13.29.2ब्: तत्र.गार्हपत्यम्.निधाय.षट्.क्त्रिंशत्.प्रक्रमेष्व्.आहवनीयम्.अभ्यादधाति ।
श्श्स्_13.29.3: चक्रीवत्.सदः ।
श्श्स्_13.29.4: तथा.आग्नीध्रम् ।
श्श्स्_13.29.5: उलूखल.बुध्नो.यूपः ।
श्श्स्_13.29.6: न.उपरवान्.खनन्ति ।
श्श्स्_13.29.7: तम्.एतम्.आपूर्यमाण.पक्षम्.आमावास्येन.यन्ति ।
श्श्स्_13.29.8: तेषाम्.पौर्णमास्याम्.गौर्.उक्थ्यो.बृहत्.सामा ।
श्श्स्_13.29.9: तम्.एतम्.अपक्षीयमाण.पक्षम्.पौर्णमास्येन.यन्ति ।
श्श्स्_13.29.10: तेषाम्.अमावास्यायाम्.आयुर्.उक्थ्यो.रथन्तर.सामा ।
श्श्स्_13.29.11: प्रतीपम्.पूर्वेण.पक्षसा.यन्ति ।
श्श्स्_13.29.12: अपोनपुत्रियम्.चरुम्.निरुप्य ।

श्श्स्_13.29.13: तद्.अस्य.अनीकम्.अस्मिन्.पद.इत्य्.अपोनपुत्रियस्य ।
श्श्स्_13.29.14: अप्यये.दृषद्वत्याः ।
श्श्स्_13.29.15: सरस्वतीम्.अपि.यन्ति ।
श्श्स्_13.29.16: शते.गोष्व्.ऋषभम्.अप्य्.उत्सृजन्ति ।
श्श्स्_13.29.17: यदा.सहस्रम्.सम्पद्यते.अथ.उत्थानम् ।
श्श्स्_13.29.18: सर्वेषु.वा.उपहतेषु ।
श्श्स्_13.29.19: गृहपतौ.वा.मृते ।
श्श्स्_13.29.20: क्लाक्षम्.वा.प्रस्रवणम्.प्राप्य.अग्नये.कामाय.इष्टिम्.निर्वपन्ति ।
श्श्स्_13.29.21: तस्याम्.अश्वाम्.च.पौरुषीम्.च.धेनुके.दत्त्वा.कार.पचवम्.प्रति.यमुनाम्.अवभृथम्.अभ्यवयन्ति ।
श्श्स्_13.29.22: इति.मित्रा.वरुणयोर्.अयनम् ।
श्श्स्_13.29.23: अतिरात्रो.अभिजिद्.विश्वजितौ.गो.आयुषी.इन्द्र.कुक्षी.अतिरात्रः ।
श्श्स्_13.29.24: इति.इन्द्र.अग्न्योः ।
श्श्स्_13.29.25: अतिरात्रो.ज्योतिर्.गौर्.आयुर्.विश्वजिद्.अभिजिताव्.इन्द्र.कुक्षी.अतिरात्रः ।
श्श्स्_13.29.26: इत्य्.अर्यम्नः ।
श्श्स्_13.29.27: संवत्सरम्.ब्राह्मणस्य.गा.रक्षेत् ।
श्श्स्_13.29.28: संवत्सरम्.व्यर्णे.नैतंधवे.अग्निम्.इन्धीत ।
श्श्स्_13.29.29: संवत्सरे.परीणह्य्.अग्नीन्.आधाय.दृषद्वत्या.दक्षिणेन.तीरेण.आग्नेयेन.अष्टा.कपालेन.शम्या.परासे.शम्या.परासे.यजमान.एति ।
श्श्स्_13.29.30: त्रिः.प्रक्षाम्.प्रति.यमुनाम्.अवभृथम्.अभ्यवयन्ति ।
श्श्स्_13.29.31: इति.दार्षद्वतम् ।
श्श्स्_13.29.32: अतिरात्रः.सहस्रम्.त्रिवृतः.संवत्सरा.अतिरात्रः.प्रजापतेः.सहस्र.संवत्सरम्.सहस्र.संवत्सरम् ।
श्श्स्_14.1.1: एकाहेष्व्.अहीनेषु.च.प्रकृतेर्.विकारः ।
श्श्स्_14.1.2: यस्मिन्न्.अहनि.यद्.अहः.प्रदिश्येत.सवनम्.वा.सहौत्रम्.तत् ।
श्श्स्_14.1.3: ऐकाहिकम्.अनादेशे ।
श्श्स्_14.2.1: अग्न्य्.आधेयेन.ब्रह्म.वर्चस.कामो.यजेत ।
श्श्स्_14.2.2: तस्य.अष्टास्व्.अष्टासु.स्तोत्राणि ।
श्श्स्_14.2.3: अष्ट.अक्षरा.गायत्री ।
श्श्स्_14.2.4: तेजो.ब्रह्म.वर्चसम्.गायत्री ।
श्श्स्_14.2.5: रथन्तरम्.पृष्ठम् ।
श्श्स्_14.2.6: ब्रह्म.रथन्तरम् ।
श्श्स्_14.2.7: अग्निष्टोमो.यज्ञः ।
श्श्स्_14.2.8: ब्रह्म.वा.अग्निष्टोमः ।
श्श्स्_14.2.9: एतेन.त्रिः.समृद्धेन.ब्रह्मणा.तेजो.ब्रह्म.वर्चसम्.आप्नोति ।
श्श्स्_14.2.10: तृच.क्लृप्तम्.शस्त्रम् ।
श्श्स्_14.2.11: त्रिवृद्.वा.अन्नम्.अन्नम्.पानम्.खादयन्ति.तस्य.सर्वस्य.आप्त्यै ।
श्श्स्_14.2.12: चतुर्.विंशतिर्.दक्षिणा ।
श्श्स्_14.2.13: चतुर्.विंशतिर्.वै.संवत्सरस्य.अर्ध.मासाः.संवत्सरस्य.एव.आप्त्यै ।
श्श्स्_14.2.14: तस्य.अग्नये.पवमानाय.पावकाय.शुचय.इति.पशव.उपालम्भ्याः.सवनीयस्य ।
श्श्स्_14.2.15: आदित्या.वशा.अनुबन्ध्याया.उपालम्भ्य.एवम्.विधा ।
श्श्स्_14.2.16: तद्.यद्.एवम्.पशवो.नियुक्ता.भवन्ति.न.इद्.अग्न्य्.आधेयाद्.अयानि.इति ।
श्श्स्_14.2.17: तस्य.प्रातः.सवनीयान्.अनु.पुरोळाशान्.अग्नये.पवमानाय.अष्ट.कपालम् पुरोळाशम् निर्वपति ।

श्श्स्_14.2.18: माध्यंदिनीयान् अनु.पुरोळाशान्.अग्नये.पावकस्य ।
श्श्स्_14.2.19: तृतीय.सवनीयान्.अनु.पुरोळाशान्.अग्नये.शुचये ।
श्श्स्_14.2.20: आवपनम्.वै.सवनीयाः.पुरोळाशाः.।.आवपन.एव.तद्.आवपति ।
श्श्स्_14.2.21: अथ.यद्.आदित्या.वशा.अनुबन्ध्याया.उपालम्भ्या.भवत्य्.अदितिम्.वा.अन्वग्न्य्.आधेयम्.संतिष्ठते ।
श्श्स्_14.2.22: या.अन्वग्न्य्.आधेयस्य.संस्था.ताम्.एव.तद्.यज्ञस्य.संस्थाम्.करोति ।
श्श्स्_14.3.1: एवम्.पशवः.पुरोळाशाश्.च.अन्वायात्य्.अन्ते.हविर्.यज्ञेषु.सोमेषु ।
श्श्स्_14.3.2: तस्य.शस्त्रम् ।
श्श्स्_14.3.3: यद्.वाहिष्ठम्.इति.तृचम्.आज्यम् ।
श्श्स्_14.3.4: माधुच्छन्दसः.प्रौगः ।
श्श्स्_14.3.5: त्रयस्.त्रयस्.तृचा.होत्रकाणाम्.प्रातः.सवने.स्तोत्रिय.अनुरूपौ.पर्यासश्.च ।
श्श्स्_14.3.6: इन्द्र.मरुत्व.इह.पाहि.सोमम्.इति.तृचम्.मरुत्वतीयम् ।
श्श्स्_14.3.7: नृणाम्.उ.त्वा.नृतमम्.गीर्भिर्.उक्थैर्.इति.तृचम्.निष्केवल्यम् ।
श्श्स्_14.3.8: अध्वर्यो.वीर.प्र.महे.सुतानाम्.इति.तृचम्.मैत्रा.वरुणस्य.उक्थ.मुखीयम् ।
श्श्स्_14.3.9: पूर्वम्.ब्राह्मणाच्छंसिनः ।
श्श्स्_14.3.10: उत्तरम्.अच्छावाकस्य ।
श्श्स्_14.3.11: पर्यासानाम्.उत्तमान् ।
श्श्स्_14.3.12: उद्.उ.ष्य.देवः.सविता.हिरण्यया.।.घृतवती.भुवनानाम्.।.इन्द्र.ऋभुभिर्.वाजवद्भिः.।.स्वस्ति.नो.मिमीताम्.।.वैश्वानरम्.मनसा.।.प्र.यन्तु.वाजाः.।.समिद्धम्.अग्निम्.समिधा.गिरा.गृण.इति.तृचानि.वैश्वदेव.आग्नि.मारुतयोः.सूक्तानाम्.स्थाने ।
श्श्स्_14.3.13: तृच.क्लृप्तम्.इत्य्.एतस्याम्.चोदनायाम्.एतत्.शस्त्रम्.प्रतीयेत ।
श्श्स्_14.3.14: ऐकाहिकम्.वा.तृच.क्लृप्तम् ।
श्श्स्_14.3.15: एतेन.अग्निहोत्रौ.व्याक्यातौ ।
श्श्स्_14.3.16: आग्नेयम्.पयः.पूर्वस्मिन् ।
श्श्स्_14.3.17: सौर्यम्.उत्तरस्मिन् ।
श्श्स्_14.3.18: पशू.च ।
श्श्स्_14.3.19: प्राजापत्या.वशा.अनुबन्ध्याया.उपालभ्य.एवम्.विधा ।
श्श्स्_14.4.1: पुनर्.आधेयेन.तेजस्.कामो.यजेत ।
श्श्स्_14.4.2: तस्य.पञ्चसु.पञ्चसु.स्तोत्राणि ।
श्श्स्_14.4.3: पञ्च.पदा.पङ्क्तिः ।
श्श्स्_14.4.4: पाङ्क्तो.वै.यज्ञः ।
श्श्स्_14.4.5: यज्ञस्य.एव.आप्त्यै ।
श्श्स्_14.4.6: सर्व.आग्नेयाद्.अग्नि.ष्टुतः.शस्त्रम् ।
श्श्स्_14.5.1: दर्श.पूर्ण.मासाव्.अन्न.अद्य.कामस्य ।
श्श्स्_14.5.2: इळादधाव्.आग्रयणः.सोम.इष्टिश्.च.अप्रवर्ग्यः ।
श्श्स्_14.5.3: दाक्षायण.यज्ञाश्.चत्वारः.सर्व.कामस्य ।
श्श्स्_14.5.4: महा.यज्ञश्.च ।
श्श्स्_14.5.5: तस्मिंश्.चातुर्मास्य.हवींष्य्.अन्वायात्य्.अन्ते ।
श्श्स्_14.5.6: पशवश्.च.पर्व.देवताभ्यः ।
श्श्स्_14.5.7: एक.कपाल.देवताभ्यश्.च.अनुबन्ध्याया.उपालम्भ्या.एवम्.विधाः ।
श्श्स्_14.5.8: अतिरात्रो.यज्ञः ।
श्श्स्_14.6.1: प्रजापतिर्.ह.प्रजाति.कामस्.तपस्.तप्त्वा.एतम्.यज्ञ.क्रतुम्.अपश्यद्.वैश्वदेवम्.।.तम्.आहरत्.।.तेन.अयजत.।.तेन.इष्ट्वा.प्राजायत.।.तेन.प्रजाति.कामो.यजेत ।
श्श्स्_14.6.2: वैश्वदेवः.पशुर्.उपालम्भ्यः.सवनीयस्य ।

श्श्स्_14.6.3: द्यावा.पृथिवीया.वशा.अनुबन्ध्याया.उपालम्भ्या.एवम्.विधा ।
श्श्स्_14.6.4: त्रिवृतः.शस्त्रम् ।
श्श्स्_14.6.5: तृच.क्लृप्तम्.वा ।
श्श्स्_14.6.6: अवभृथाद्.उदेत्य.उदवसानीयया.इष्ट्वा.मुनि.सत्त्र.इष्ट्या.यजमान.आस्ते.अहर्.अहश्.चतुरो.मासान्.आग्नेय्या.आग्ना.वैष्णव्या.वा.अन्तरालेषु ।
श्श्स्_14.6.7: सा.एव.तत्र.दीक्षा ।
श्श्स्_14.7.1-1: वैश्वदेवेन.वै.प्रजापतिः.प्रजा.असृजत ।
श्श्स्_14.7.1-2: ताः.सृष्टा.अप्रसूता.वरुणस्य.यवान्.जक्षुः ।
श्श्स्_14.7.1-3: ताः.वरुणो.वरुण.पाशैः.प्रत्यमुञ्चत् ।
श्श्स्_14.7.1-4: ताः.प्रजाः.प्रजापतिम्.पितरम्.एत्य.उपाधावन् ।
श्श्स्_14.7.1-5: उप.तम्.यज्ञ.क्रतुम्.जानीहि.येन.इष्ट्वा.वरुण.पाशेभ्यः.सर्वस्माच्.च.पाप्मनः.सम्प्रमुच्येमहि.इति ।
श्श्स्_14.7.1-6: तत.एतम्.प्रजापतिश्.चतुर्थे.मासि.द्विरात्रम्.यज्ञ.क्रतुम्.अपश्यद्.वरुण.प्रगासम् ।
श्श्स्_14.7.1-7: तम्.आहरत्.।.तेन.अयजत ।
श्श्स्_14.7.1-8: तेन.इष्ट्वा.वरुणम्.अप्रीणात् ।
श्श्स्_14.7.1-9: स.प्रीतो.वरुणो.वरुण.पाशेभ्यः.सर्वस्माच्.च.पाप्मनः.प्रजा.प्रामुञ्चत् ।
श्श्स्_14.7.1-10: प्र.ह.वा.अस्य.प्रजा.वरुण.पाशेभ्यः.सर्वस्माच्.च.पाप्मनः.सम्प्रमुच्यते.य.एवंविद्वान्.वरुण.प्रघासैर्.यजते ।
श्श्स्_14.7.2: उक्थ्यौ.भवतः ।
श्श्स्_14.7.3: वारुणः.पशुर्.उपालम्भ्यः.सवनीयस्य.पूर्वस्मिन् ।
श्श्स्_14.7.4: मारुत.उत्तरस्मिन् ।
श्श्स्_14.7.5: कायी.वशा.अनूबन्ध्याया.उपालम्भ्या.एवम्.विधा ।
श्श्स्_14.8.1-1: ताः.प्रजाः.प्रजापतिम्.अब्रुवन्.कस्मै.नु.नो.अन्न.अद्याय.असृष्ठा.इति ।
श्श्स्_14.8.1-2: तत.एतम्.प्रजापतिश्.चतुर्थे.मासि.त्रिरात्रम्.यज्ञ.क्रतुम्.अपश्यत्.साक.मेधम् ।
श्श्स्_14.8.1-3: तम्.आहरत् ।
श्श्स्_14.8.1-4: तेन.अयजत ।
श्श्स्_14.8.1-5: तेन.इष्ट्वा.अन्न.अद्यम्.आप्नोत् ।
श्श्स्_14.8.1-6: तेन.अन्न.अद्य.कामो.यजेत ।
श्श्स्_14.8.2: अग्निष्टोम.उक्थ्यो.अतिरात्रः ।
श्श्स्_14.8.3: अग्नये.अनीकवते.प्रथमे.पशुर्.उपालम्भ्यः.सवनीयस्य ।
श्श्स्_14.8.4: मरुद्भ्यः.सांतपनेभ्यो.द्वितीये ।
श्श्स्_14.8.5: माहेन्द्रस्.तृतीये ।
श्श्स्_14.8.6: वैश्वकर्मणी.वशा.अनूबन्ध्याया.उपालम्भ्या.एवम्.विधा ।
श्श्स्_14.8.7: ऐकाहिकम्.यथा.पृष्ठ्यम्.शस्त्रम् ।
श्श्स्_14.8.8: पृष्ठ्यो.वा.विहृतः ।
श्श्स्_14.8.9: विश्वजितो.वा.बृहत्.पृष्ठात्.तृतीये.अहनि.शस्त्रम् ।
श्श्स्_14.8.10: सौत्रामणे.च ।
श्श्स्_14.8.11: आयुष्.काम.यज्ञे.महा.यज्ञे ।
श्श्स्_14.8.12: विनुत्त्य्.अभिभूत्योः ।
श्श्स्_14.8.13: स्वर्जिति ।
श्श्स्_14.8.14: इन्द्र.वज्रे.च ।
श्श्स्_14.9.1-1: ताः.प्रजाः.प्रजापतिम्.अब्रुवन्.कस्यै.नु.नः.प्रतिष्ठाया.असृष्ठा.इति ।
श्श्स्_14.9.1-2: तत.एतम्.प्रजापतिर्.यज्ञ.क्रतुम्.अपश्यत्.शुनासीरीयम् ।

श्श्स्_14.9.1-3: तम्.आहरत्.।.तेन.अयजत ।
श्श्स्_14.9.1-4: तेन.इष्ट्वा.प्रत्यतिष्ठत ।
श्श्स्_14.9.1-5: तेन.प्रतिष्ठा.कामो.यजेत ।
श्श्स्_14.9.2: शुनासीरीयः.पशुर्.उपालम्भ्यः.सवनीयस्य ।
श्श्स्_14.9.3: सौरी.वशा.अनूबन्ध्याया.उपालम्भ्या.एवम्.विधा ।
श्श्स्_14.9.4: विंशतिम्.वैश्वदेवे.ददाति ।
श्श्स्_14.9.5: त्रिंशतम्.वरुण.प्रघासेषु ।
श्श्स्_14.9.6: पञ्चाशतम्.साक.मेधेषु ।
श्श्स्_14.9.7: विंशतिम्.शुनासीरीये ।
श्श्स्_14.9.8: तद्.विंशति.शतम् ।
श्श्स्_14.9.9: विंशति.शतम्.वा.ऋतोर्.अहानि ।
श्श्स्_14.9.10: तद्.ऋतुम्.आप्नोति ।
श्श्स्_14.9.11: ऋतुना.संवत्सरम् ।
श्श्स्_14.9.12: ये.च.संवत्सरे.कामाः ।
श्श्स्_14.10.1: पशुमत्सु.चातुर्मास्येषु ।
श्श्स्_14.10.2: पूर्वे.द्युः.पाशुकम्.कर्म ।
श्श्स्_14.10.3: अपरे.द्युर्.वैश्वदेवः.पशुः ।
श्श्स्_14.10.4: पशु.पुरोळाशम्.अनु.चातुर्मास्य.देवता.यथा.पर्व ।
श्श्स्_14.10.5: पाशुकः.स्विष्टकृत् ।
श्श्स्_14.10.6: निगम.स्थान.वर्जम् ।
श्श्स्_14.10.7: यथा.स्थानम्.वाजिनम् ।
श्श्स्_14.10.8: हृदय.शूल.अन्तम्.संतिष्ठते ।
श्श्स्_14.10.9: वारुण.मारुतौ.वरुण.प्रघासेषु ।
श्श्स्_14.10.10: उत्तरे.यूपम्.उच्छ्रियन्ति ।
श्श्स्_14.10.11: माहेन्द्र.शुनासीरीया.उत्तरयोः ।
श्श्स्_14.10.12: यथा.स्थाना.इष्टयः ।
श्श्स्_14.10.13: पित्र्या.च ।
श्श्स्_14.10.14: यथा.देवतम्.वा.पशवः ।
श्श्स्_14.10.15: तद्.व्याख्यातम्.एकादशिन्या ।
श्श्स्_14.10.16: आनीकवतः.सांतपनो.गृह.मेधीयः.क्रीलिनो.मैत्रश्.च.महा.हविषि ।
श्श्स्_14.10.17: पर्वणि.पर्वणि.वा.संस्थित.ऐन्द्राग्नः ।
श्श्स्_14.10.18: समानम्.अनन्यत् ।
श्श्स्_14.10.19: अथवा.अप्य्.एक.पर्वण्य्.एक.पशौ.च.ऐन्द्राग्ने.पराञ्चि.हवींषि ।
श्श्स्_14.10.20: उपहूय.इळाम्.पित्र्या ।
श्श्स्_14.10.21: त्र्यम्बकाद्.ऊर्ध्वम्.अनुयाज.प्रभृति.।.मनोता.आदि.पशुना.वा ।
श्श्स्_14.10.22: सौमिकैः.समान.दक्षिणानि.सर्व.पशूनि ।
श्श्स्_14.10.23: चातुर्मास्य.पशु.दक्षिणैः.पाशुकानि ।
श्श्स्_14.11.1: प्रत्यवरोहणीयः.प्रतिष्ठा.कामस्य ।
श्श्स्_14.11.2: संकल्प.विकृतो.ज्योतिष्टोमः ।
श्श्स्_14.11.3: पशु.बन्धः.पशु.कामस्य ।

श्श्स्_14.11.4: एकादश.स्तोमः ।
श्श्स्_14.11.5: एकादश.अक्षरा.त्रिष्टुप् ।
श्श्स्_14.11.6: त्रैष्टुभाः.पशवः ।
श्श्स्_14.11.7: पशूनाम्.एव.आप्त्यै ।
श्श्स्_14.11.8: पिबा.सोमम्.अभि.यम्.उग्र.तर्द.एतायाम.उप.गव्यन्त.इन्द्रम्.इति.निविद्धाने ।
श्श्स्_14.11.9: ऊर्ध्वम्.गव्यम्.महि.गृणान.इन्द्र.एतायाम.उप.गव्यन्त.इन्द्रम्.इति.गो.संस्तवे.तद्.एतस्य.अह्नो.रूपम् ।
श्श्स्_14.11.10: उद्भिद्.बलभिदोर्.गो.सवे.च ।
श्श्स्_14.12.1: अथ.अतः.सौत्रामणः ।
श्श्स्_14.12.2अ: इन्द्रो.ह.आयुष्.कामस्.तपस्.तेपे.।.स.तपस्.तप्त्वा.एतम्.यज्ञ.क्रतुम्.अपश्यत्.सौत्रामणम्.।.तम्.आहरत्.।.तेन.अयजत.।.तेन.इष्ट्वा.दीर्घ.आयुत्वम्.अगच्छत् ।
श्श्स्_14.12.2ब्: तम्.उ.ह.भरद्वाजाय.जीर्णाय.प्रोवाच.।.अनेन.वा.अहम्.इष्ट्वा.दीर्घ.आयुत्वम्.अगच्छम्.अनेन.अपि.त्वम्.यज.इति.।.तेन.ह.भरद्वाज.इष्ट्वा.सर्व.आयुत्वम्.अगच्छत्.।.सर्वम्.आयुर्.एति.य.एवम्.वेद.य.उ.च.एतेन.यजते ।
श्श्स्_14.12.3: तस्य.रथन्तरम्.पृष्ठम् ।
श्श्स्_14.12.4: अग्निष्टोमो.यज्ञः ।
श्श्स्_14.12.5: यथा.श्रद्धम्.दक्षिणा ।
श्श्स्_14.12.6: तत्र.त्रीणि.त्रिवृन्ति.स्तोत्राणि ।
श्श्स्_14.12.7: त्रीणि.पञ्चदशानि ।
श्श्स्_14.12.8: त्रीणि.सप्त.दशानि ।
श्श्स्_14.12.9: त्रीण्य्.एकविंशानि.इति ।
श्श्स्_14.12.10: उत्तर.उत्तरितायै ।
श्श्स्_14.12.11: उत्तर.उत्तरावद्.दीर्घ.आयुत्वम्.अश्रवामहा.इति ।
श्श्स्_14.13.1: तस्य.अश्विनो.लोहो.अजः.सारस्वती.मेषी.इति.पशू.उपलम्भ्यौ.सवनीयस्य ।
श्श्स्_14.13.2: इन्द्राय.सुत्राम्णे.वशा.अनूबन्ध्याया.उपालम्भ्या.एवम्.विधा ।
श्श्स्_14.13.3: तद्.यद्.एवम्.पशवो.नियुका.भवन्ति.नेत्.सौत्रामण्या.अयानि.इति ।
श्श्स्_14.13.4: तस्य.प्रातः.सवनीयान्.अनु.पुरोळाशान्.बाह्यतो.अग्निम्.उपसमाधाय.सुरा.सोमेन.चरन्ति ।
श्श्स्_14.13.5: तृतीय.सवनीयान्.अनु.पुरोळाशान्.सावित्रम्.द्वादश.कपालम्.पुरोळाशम्.निर्वपति ।
श्श्स्_14.13.8: आवपनम्.वै.सवनीयाः.पुरोळाशा.आवपन.एव.तद्.आवपति ।
श्श्स्_14.13.9: अथ.यद्.इन्द्राय.सुत्राम्णे.वशा.अनूबन्ध्याया.उपालम्भ्या.भवति.इन्द्रम्.वा.अनु.सुत्रामाणम्.सौत्रामणी.संतिष्ठते ।
श्श्स्_14.13.10: या.एव.सौत्रामण्याः.संस्था.ताम्.एव.तद्.यज्ञस्य.संस्था.करोति ।
श्श्स्_14.13.11: तम्.ह.एके.अतिरात्रम्.कुर्वन्ति ।
श्श्स्_14.13.12: एक.विंशति.स्तोमम्.बृहत्.पृष्ठम्.उभय.सामानम् ।
श्श्स्_14.13.13: तस्य.यद्.विश्वजितो.बृहत्.पृष्ठस्य.शस्त्रम्.तत्.शस्त्रम् ।
श्श्स्_14.13.14: अत्र.हविर्.यज्ञाः.सोमाः.संतिष्ठन्ते ।
श्श्स्_14.14.1: देवा.ह.पशु.कामाश्.चतुरो.मासान्.व्रतम्.चरित्वा.एतम्.उद्भिदम्.यज्ञ.क्रतुम्.अपश्यन्.।.तेन.पशून्.आपुः.।.तेन.पशु.कामो.यजेत.।.उद्भिदा.इष्ट्वा.यदि.मन्येत.चिरान्.मा.पशव.आगुर्.इति.चतुरो.मासान्.व्रतम्.चरित्वा.बलभिदा.यजेत.।.क्षिप्रम्.ह.एनम्.पशव.आयन्ति ।
श्श्स्_14.15.1: गो.सवेन.पशु.कामो.यजेत ।
श्श्स्_14.15.2: षट्.त्रिंशत्.स्तोमेन ।
श्श्स्_14.15.3: षट्.त्रिंशद्.अक्षरा.बृहती ।
श्श्स्_14.15.4: बार्हताः.पशवः ।
श्श्स्_14.15.5: पशूनाम्.एव.आप्त्यै ।
श्श्स्_14.15.6: षट्.त्रिंशत्.सहस्रा.दक्षिणा.गोसवस्य ।
श्श्स्_14.15.7: अयुतम्.वा ।
श्श्स्_14.15.8: उक्थ्यो.यज्ञः ।

श्श्स्_14.16.1: ऋत.पेयेन.तेजस्.कामो.यजेत ।
श्श्स्_14.16.2: द्वादश.दीक्षा.द्वादश.उपसदः ।
श्श्स्_14.16.3: मध्यमेन.अङ्गुष्ठ.पर्वणा.औदुम्बरम्.चमसम्.मितम्.घृतस्य.व्रतयेत् ।
श्श्स्_14.16.4: अयुजासु.क्षीर.ओदनम्.दीक्षासु ।
श्श्स्_14.16.5: सोम.चमसो.दक्षिण.अभिषुतस्य ।
श्श्स्_14.16.8: ऋतम्.सत्यम्.वदन्तो.भक्षयेयुः ।
श्श्स्_14.16.9: जनिष्ठा.उग्रः.सहसे.तुराय.कथा.महाम्.अवृधत्.कस्य.कस्य.होतुर्.इति.निविद्धाने ।
श्श्स्_14.16.10: मन्दमान.ऋताद्.अधि.प्रजाया.ऋतस्य.हि.शुरुधः.सन्ति.पूर्वीर्.इत्य्.ऋतवती.तद्.एतस्य.अह्नो.रूपम् ।
श्श्स्_14.17.1: प्रजापतिर्.इमम्.लोकम्.ईप्संस्.तपस्.तप्त्वा.एतम्.यज्ञ.क्रतुम्.अपश्यद्.भूः.।.तेन.इष्ट्वा.इमम्.लोकम्.आप्नोत्.।.तेन.इमम्.लोकम्.ईप्सन्.यजेत ।
श्श्स्_14.18.1: प्रजापतिर्.अन्तरिक्ष.लोकम्.ईप्संस्.तपस्.तप्त्वा.एतम्.यज्ञ.क्रतुम्.अपश्यद्.भुवः.।.तेन.इष्ट्वा.अन्तरिक्ष.लोकम्.आप्नोत्.।.तेन.अन्तरिक्ष.लोकम्.ईप्सन्.यजेत ।
श्श्स्_14.19.1: प्रजापतिर्.अमुम्.लोकम्.ईप्संस्.तपस्.तप्त्वा.एतम्.यज्ञ.क्रतुम्.अपश्यत्.स्वः.।.तेन.इष्ट्वा.अमुम्.लोकम्.आप्नोत्.।.तेन.अमुम्.लोकम्.ईप्सन्.यजेत ।
श्श्स्_14.19.2: एक.विंशतिः.श्वेत.अश्वा.दक्षिणा ।
श्श्स्_14.19.3: वैषुवतम्.अहः ।
श्श्स्_14.20.1: सूर्यो.ह.तेजस्.कामस्.तपस्.तप्त्वा.एतम्.यज्ञ.क्रतुम्.अपश्यत्.शुक्र.स्तोमम्.।.तेन.इष्ट्वा.तेज.आप्नोत्.।.तेन.तेजस्.कामो.यजेत ।
श्श्स्_14.20.2: एक.विंशतिः.श्वेत.अश्वा.दक्षिणा ।
श्श्स्_14.20.3: वैषुवतम्.अहः ।
श्श्स्_14.21.1: तीव्र.सवः.प्रजया.पशुभिस्.तीव्रस्य.बुभूषतः ।
श्श्स्_14.21.2: अयम्.तीव्रस्.तीव्रसुद्.इद्र.सोमो.वृत्रहत्याय.हरिवो.अस्य.पाहि.।.वज्रम्.शिशानो.जठरम्.पृणस्व.अनाधृष्यम्.वृषभम्.तुंरम्.इन्द्रम्.।.इति.पुरस्तान्.मरुत्वतीयस्य.निविद्धानस्य ।
श्श्स्_14.21.3: तीव्रस्य.अभिवयस.इति.निष्केवल्ये ।
श्श्स्_14.22.1: ज्योतिः.सूत.सवः ।
श्श्स्_14.22.2: गौः.स्थपति.सवः ।
श्श्स्_14.22.3: आयुर्.ग्रामणी.सवः ।
श्श्स्_14.22.4: संदंश.अनुस्तोमाव्.इषु.वज्रौ.श्येन.अजिरौ.मृत्यु.अन्तकौ.क्षुरवपि.(.क्षुरपवि.).शीर्षच्छिदौ.महः.श्येनश्.च.अभिचरणीयः ।
श्श्स्_14.22.5: मन्यु.सूक्ते.निविद्धाने.लिङ्ग.क्लृप्ते ।
श्श्स्_14.22.6: यत्.पृष्ठेन.अभिचरेयुस्.तत्.पृष्ठः.प्राकृतो.अभिचर्यमाणस्य ।
श्श्स्_14.22.7: इषौ.बृहद्.ब्रह्म.साम ।
श्श्स्_14.22.8: अभीवर्त.इतरेषु ।
श्श्स्_14.22.9: शिखरैः.सदश्.छन्नम्.भवति ।
श्श्स्_14.22.10: कार्मुकाण्य्.उपशेरते ।
श्श्स्_14.22.11: बाणवद्भिर्.आग्नीध्रम् ।
श्श्स्_14.22.12: धान्वनान्य्.उपशेरते ।
श्श्स्_14.22.13: शरमयम्.बर्हिः ।
श्श्स्_14.22.14: बाधक.इध्मः.परिधयश्.च ।
श्श्स्_14.22.15: वैभीदको.यूपः ।
श्श्स्_14.22.16: उपतापिनीनाम्.गवाम्.आज्यम् ।
श्श्स्_14.22.17: अनुस्तरण्या.गोश्.चर्म.अधिषवणम् ।
श्श्स्_14.22.18: शवनभ्ये.अधिषवण.फलके ।
श्श्स्_14.22.19: शव.चंवाम्.आपः.संस्रुतास्.ताभिर्.वसतीवरीः.पृञ्चन्ति ।
श्श्स्_14.22.20: उपोत.परुषा.अधिज्य.धन्वानो.लिहित.उष्णीषा.असि.बद्धाः.प्रचरेयुः ।
श्श्स्_14.22.21: न.ह.एतम्.कश्चन.ईशीत.इयत्.सो.अद्वादश.अहम्.जीवेत् ।

श्श्स्_14.22.22: न.ह.विअ.तम्.कश्चन.स्तृणुते.य.एतैः.प्रत्यभिचरति ।
श्श्स्_14.22.23: सदः.पाप्मानम्.द्विषतश्.च.अपजिघांसमानस्य ।
श्श्स्_14.22.24: उपोत्तमाश्.च.शस्त्राणाम्.उत्सृज्यन्ते ।
श्श्स्_14.22.25: उपसदः.प्रजा.कामस्य.पशु.कामस्य.च ।
श्श्स्_14.22.26: उपोत्तमाश्.च.शस्त्राणाम्.उपजायन्ते ।
श्श्स्_14.23.1: देव.असुराः.समयतन्त.।.ते.देवा.बृहस्पतिम्.पुरोहितम्.उपाधावन्न्.उप.तम्.यज्ञ.क्रतुम्.जानीहि.येन.इष्ट्वा.असुरान्.अभिभवेमहि.इति.।.स.एतम्.ऋषभम्.यज्ञ.क्रतुम्.अपश्यत्.।.तेन.इष्ट्वा.असुरान.अभ्यभवत्.।.तेन.द्विषतो.भ्रातृव्यान्.अभिबुभूषन्.यजेत ।
श्श्स्_14.23.2: पञ्चदश.स्तोमस्य.सप्तदशो.माध्यंदिनः.पवमानस्.तद्.अस्य.ऋषभ.रूपम् ।
श्श्स्_14.23.3: पिबा.सोमम्.अभि.यम्.उग्र.तर्दस्.तम्.उ.ष्टुहि.यो.अभिबूत्य्.ओजा.इति.निविद्धाने ।
श्श्स्_14.23.4: यः.शिप्रवान्.वृषभो.यो.मतीनाम्.गीर्भिर्.वर्ध.वृषभम्.चर्षणीनाम्.इत्य्.ऋषभवती.तद्.एतस्य.अह्नो.रूपम् ।
श्श्स्_14.24.1: सूर्यो.ह.तेजस्.कामस्.तपस्.तप्त्वा.एतम्.यज्ञ.क्रतुम्.अपश्यद्.व्योमानम्.।.तेन.इष्ट्वा.तेज.आप्नोत्.।.तेन.तेजस्.कामो.यजेत ।
श्श्स्_14.24.2: सप्तदश.स्तोमस्य.एकविंश.आर्भवः.पवमानः ।
श्श्स्_14.24.3: एकविंशो.वा.एष.य.एष.तपति.तद्.एनम्.स्वेन.रूपेण.समर्धयति ।
श्श्स्_14.24.4: इमा.उ.त्वा.पुरुतमस्य.इन्द्रम्.स्तव.इति.निविद्धाने ।
श्श्स्_14.24.24: सूर्येण.वयुनवच्.चकार.स.सूर्यः.पर्य्.उरू.वरांसि.इति.सूर्य.अभिव्याहारे.तद्.एतस्य.अह्नो.रूपम् ।
श्श्स्_14.25.1: वसिष्ठो.ह.अन्न.अद्य.कामस्.तपस्.तप्त्वा.एतम्.यज्ञ.क्रतुम्.अपश्यद्.विराजम्.।.तेन.इष्ट्वा.अन्न.अद्यम्.आप्नोत्.।.तेन.अन्न.अद्य.कामो.यजेत ।
श्श्स्_14.25.2: पञ्चदशौ.पूर्वौ.पवमानौ.त्रिवृन्ति.इतराणि ।
श्श्स्_14.25.3: स.विराजम्.अभिसम्पद्यते ।
श्श्स्_14.25.4: श्रीर्.विराऌ.अन्न.अद्यम्.श्रियो.विराजो.अन्न.अद्यस्य.उपाप्त्यै ।
श्श्स्_14.25.5: महश्चित्.त्वम्.इन्द्र.यत.एतांस्.त्वम्.राज.इन्द्र.ये.च.देवा.इत्य्.अक्षर.वैराजे.निविद्धाने.तद्.एतस्य.अह्नो.रूपम् ।
श्श्स्_14.26.1: इन्द्रो.ह.स्वाराज्य.कामस्.तपस्.तप्त्वा.एतम्.यज्ञ.क्रतुम्.अपश्यत्.स्वराजम्.।.तेन.इष्ट्वा.स्वाराज्यम्.आप्नोत्.।.तेन.स्वाराज्य.कामो.यजेत ।
श्श्स्_14.26.2: सप्तदशौ.पूर्वौ.पवमानौ.त्रिवृन्ति.इतरानि ।
श्श्स्_14.26.3: ताश्.चतस्रः.स्तोत्रिया.विराजम्.अतियन्ति ।
श्श्स्_14.26.4: ताभिः.स्वाराज्यम्.आप्नोति ।
श्श्स्_14.26.5: अक्षर.वैराजे.च ।
श्श्स्_14.27.1: उशना.ह.काव्यो.असुराणाम्.पुरोहित.आस.।.स.ह.देवानाम्.अन्नम्.अशित्वा.परिदद्रे.।.स.ह.ऐक्षत.।.कथम्.नु.तेन.यज्ञ.क्रतुना.यजेयम्.येन.इष्ट्वा.पाप्मानम्.अपहन्याम्.इति.।.स.एतम्.उशन.स्तोमम्.यज्ञ.क्रतुम्.अपश्यत्.।.तेन.इष्ट्वा.पाप्मानम्.अपाहत.।.तेन.पाप्मानम्.अपजिघांसमानो.यजेत ।
श्श्स्_14.27.2: उदर.व्याधितश्.च ।
श्श्स्_14.27.3: त्रिवृत्.प्रातः.सवनम् ।
श्श्स्_14.27.4: ब्रह्म.वै.त्रिवृत् ।
श्श्स्_14.27.5: त्रिवृता.एव.तद्.ब्रह्मणा.पुरस्तात्.पाप्मानम्.अपाहत ।
श्श्स्_14.27.6: सदशो.माध्यंदिनः ।
श्श्स्_14.27.7: सा.विराट् ।
श्श्स्_14.27.8: विराजा.एव.तन्.मध्यतः.पाप्मानम्.अपाहत ।
श्श्स्_14.27.9: त्रिवृत्.तृतीय.सवनम् ।
श्श्स्_14.27.10: ब्रह्म.वै.त्रिवृत् ।
श्श्स्_14.27.11: त्रिवृता.एव.तद्.ब्रह्मणा.उपरिष्टात्.पाप्मानम्.अपाहत ।
श्श्स्_14.27.12: त्र्य्.अर्यमा.द्यौर्.न.य.इन्द्र.इति.निविद्धाने ।
श्श्स्_14.27.13: उशना.यत्.सहस्रैर्.अयातम्.वरिवस्यन्न्.उशने.काव्याय.इत्य्.उशनवती.तद्.एतस्य.अह्नो.रूपम् ।
श्श्स्_14.28.1: स.ह.ऐक्षत.।.पाप्मानम्.अपहत्य.कथम्.नु.तेन.यज्ञ.क्रतुना.यजेयम्.येन.इष्ट्वा.अन्न.अद्यम्.आप्नुयाम्.इति.।.स.एतम्.उत्तरम्.उशन.स्तोमम्.यज्ञ.क्रतुम्.अपश्यत्.।.तेन.इष्ट्वा.अन्न.अद्यम्.आप्नोति.।.तेन.अन्न.अद्य.कामो.यजेत ।
श्श्स्_14.28.2: त्रिवृत्.प्रातः.सवनम् ।
श्श्स्_14.28.3: ब्रह्म.वै.त्रिवृत् ।

श्श्स्_14.28.4: सदशो.माध्यंदिनः ।
श्श्स्_14.28.5: स.विराऌ.अन्न.अद्यम् ।
श्श्स्_14.28.6: त्रिवृत्.तृतीय.सवनम् ।
श्श्स्_14.28.7: ब्रह्म.वै.त्रिवृत् ।
श्श्स्_14.28.8: त्रिवृता.एव.तद्.ब्रह्मणा.उभयतो.अन्न.अद्यम्.परिगृह्य.आत्मन्न्.अदधत ।
श्श्स्_14.28.9: तथा.एव.एतद्.यजमानस्.त्रिवृता.एव.तद्.ब्रह्मणा.उभयतो.अन्न.अद्यम्.परिगृह्य.आत्मन्.धत्ते ।
श्श्स्_14.28.10: उशनवती.च ।
श्श्स्_14.28.11: विविधश्.च.एवम्.स्तोमो.अन्न.अद्य.कामस्य ।
श्श्स्_14.28.12: अक्षर.वैराजे.च ।
श्श्स्_14.28.13: सहस्रम्.शत.अश्वम्.दक्षिणा ।
श्श्स्_14.29.1: इन्द्र.अग्नी.वै.देवेष्व्.अहम्.श्रेयसे.विवदेयाताम्.।.ते.देवा.ऊचुः.।.यदि.वा.इमाव्.एवम्.विवदिष्येते.अभि.नो.असुरा.भविष्यन्ति.।.उप.तम्.यज्ञ.क्रतुम्.जानीम.येन.एनौ.संशमयेमहि.इति.।.त.एतम्.यज्ञ.क्रतुम्.अपश्यन्न्.इन्द्र.अग्न्योः.कुलायम्.।.तेन.एनौ.समशमयन् ।
श्श्स्_14.29.2: तेन.ब्राह्मणश्.च.क्षत्रियश्.च.सम्यजेयाताम्.यम्.पुरो.धास्यमानः.स्यात् ।
श्श्स्_14.29.3: ब्रह्म.क्षत्रे.एव.तत्.तन्वौ.संसृजेते ।
श्श्स्_14.29.4: त्रिवृत्.पञ्चदशौ.स्तोमौ ।
श्श्स्_14.29.5: अग्निर्.वै.त्रिवृद्.इन्द्रः.पञ्चदशः ।
श्श्स्_14.29.6: इन्द्र.अग्नी.एव.तत्.तन्वौ.समसृजताम् ।
श्श्स्_14.29.7: तिष्ठा.हरी.तम्.उ.ष्टुहि.इति.निविद्धाने ।
श्श्स्_14.29.8: अग्नेः.पिब.जिह्वया.सोमम्.इन्द्र.अग्निर्.न.शुष्कम्.वनम्.इन्द्र.हेतिर्.इत्य्.ऐन्द्रे.अग्निमती.तद्.एतस्य.अह्नो.रूपम् ।
श्श्स्_14.30.1: मित्रा.वरुणयोर्.वै.वैराज्यम्.अन्यतर.ऐच्छत्.स्वाराज्यम्.अन्यतरः.।.ताव्.एतम्.यज्ञ.क्रतुम्.अपश्यताम्.विराट्.स्वराजम्.।.तेन.इष्ट्वा.वैराज्यम्.अन्यतर.आप्नोत्.स्वाराज्यम्.अन्यतरः ।
श्श्स्_14.30.2: अक्षर.वैराजे.च ।
श्श्स्_14.31.1: ज्येष्ठ.स्तोमः.कनिष्ठ.कुलीनस्य.ज्यैष्ठ्यम्.कामयमानस्य ।
श्श्स्_14.31.2: सप्तदशो.बहिष्.पवमानः ।
श्श्स्_14.31.3: एष.वै.स्तोमानाम्.ज्येष्ठः ।
श्श्स्_14.31.4: तम्.एव.तद्.यज्ञ.मुखे.युनक्ति ।
श्श्स्_14.31.5: जनिष्ठा.उग्रः.सहस्रे.तुराय.प्र.वः.सताम्.ज्येष्ठतमाय.सुष्टुतिम्.इति.ज्येष्ठ.अभिव्याहारे.निविद्धाने.तद्.एतस्य.अह्नो.रूपम् ।
श्श्स्_14.32.1: देव.असुराः.समयन्त.।.ते.देवा.बृहस्पतिम्.पुरोहितम्.उपाधावन्.।.उप.तम्.यज्ञ.क्रतुम्.जानीहि.येन.इष्ट्वा.असुरा.न.अन्ववेयुर्.इति.।.स.एतम्.दुराशम्.यज्ञ.क्रतुम्.अपश्यत्.।.तेन.इष्ट्वा.असुरा.न.अन्ववायन्.।.ततो.वै.देवा.अभवन्.परा.असुराः.।.भवत्य्.आत्मना.परा.अस्य.द्वेष्यो.य.एवम्.वेद ।
श्श्स्_14.32.2: अपर.पक्षे.सौरि.इष्टिः.पूर्व.अह्णे ।
श्श्स्_14.32.3: चान्द्रमसी.सायम् ।
श्श्स्_14.32.4: विधुम्.दद्राणम्.नवो.नवः ।
श्श्स्_14.32.5: सौवर्णः.शत.वलो.दक्षिणा.पूर्वस्याम् ।
श्श्स्_14.32.6: राजत.उत्तरस्याम् ।
श्श्स्_14.32.7: भारद्वाजम्.पृष्ठम् ।
श्श्स्_14.32.8: तथा.सूक्ते ।
श्श्स्_14.32.9: स्तोत्रे.स्तोत्रे.स्तुते.त्रिंशतम्.त्रिंशत्म.शत.वलान्.ददाति ।
श्श्स्_14.32.10: यावद्.वा.यजमानो.हिरण्यस्य.इच्छेत् ।
श्श्स्_14.33.1: इन्द्रो.ह.अपचिति.कामस्.तपस्.तप्त्वा.एतम्.यज्ञ.क्रतुम्.अपश्यद्.अपचितिम्.।.तेन.इष्ट्वा.अपचितिम्.आप्नोत्.।.तेन.अपचिति.कामो.यजेत ।
श्श्स्_14.33.2: चतुर्विंशौ.पूर्वौ.पवमानौ ।
श्श्स्_14.33.3: त्रिवृत्.पञ्चदशान्य्.आज्यानि ।
श्श्स्_14.33.4: सप्तदश.एक.विंशानि.पृष्ठानि ।
श्श्स्_14.33.5: त्रिणव.आर्भवः.पवमानः ।

श्श्स्_14.33.6: एकविंशम्.अग्निष्टोम.साम ।
श्श्स्_14.33.7: तस्य.गायत्रीम्.अभि.प्रातः.सवनम्.संतिष्ठते ।
श्श्स्_14.33.8: गायत्रच्.छन्दसो.वसवः.।.तेन.इन्द्रो.वसुष्व्.अपचितिम्.आश्नुत ।
श्श्स्_14.33.9: गायत्रच्.छन्दसो.ब्राह्मणाः.।.तेन.अयम्.ब्राह्मणेष्व्.अपचितिम्.अश्नुते ।
श्श्स्_14.33.10: त्रिष्टुभम्.माध्यंदिनम्.सवनम् ।
श्श्स्_14.33.11: त्रिष्टुप्.छन्दसो.रुद्राः.।.तेन.इन्द्रो.रुद्रेष्व्.अपचितिम्.आश्नुत ।
श्श्स्_14.33.12: त्रिष्टुप्.छन्दसः.क्षत्रियाः.।.तेन.अयम्.क्षत्रियेष्व्.अपचितिम्.अश्नुते ।
श्श्स्_14.33.13: जगतीम्.तृतीय.सवनम् ।
श्श्स्_14.33.14: जगत्.छन्दस.आदित्याः.।.तेन.इन्द्र.आदित्येष्व्.अपचितिम्.आश्नुत ।
श्श्स्_14.33.15: जगत्.छन्दसो.विशः.।.तेन.अयम्.विक्ष्व्.अपचितिम्.अश्नुते ।
श्श्स्_14.33.16: वाचा.अन्वाह.वाचा.शंसति.वाचा.यजति ।
श्श्स्_14.33.17: वाग्.अनुष्टुप् ।
श्श्स्_14.33.18: अनुष्टुप्.छन्दसो.विश्वे.देवाः.।.तेन.इन्द्रो.विश्वेषु.देवेष्व्.अपचितिम्.आश्नुत ।
श्श्स्_14.33.19: अनुष्टुप्.छन्दसः.शूद्राः.।.तेन.अयम्.शूद्रेष्व्.अपचितिम्.अश्नुते ।
श्श्स्_14.33.20: अश्व.रथः.खाड्ग.कवचो.वैयाघ्र.परिच्छद.आर्क्ष.उपासङ्गो.द्वैप.धन्वधिः.श्याव.अश्वो.दक्षिणा ।
श्श्स्_14.33.21: अपचितिमता.रूपेण.अपचितिम्.आप्नवानि.इति ।
श्श्स्_14.33.22: इन्द्र.सोमम्.सोम.पत.इन्द्रम्.स्तव.इति.निविद्धाने.इन्द्र.अभिव्याहारे.।.तद्.एतस्य.अह्नो.रूपम् ।
श्श्स्_14.34.1: सूर्यो.ह.त्विषि.कामस्.तपस्.तप्त्वा.एतम्.यज्ञ.क्रतुम्.अपश्यत्.त्विषिम्.।.तेन.इष्ट्वा.त्विषिम्.आप्नोत्.।.तेन.त्विषि.कामो.यजेत ।
श्श्स्_14.34.2: अश्व.रथः.कांस्य.कवचः.श्वेत.अश्वो.दक्षिणा ।
श्श्स्_14.34.3: त्विषिमता.रूपेण.त्विषिम्.आप्नवानि.इति ।
श्श्स्_14.34.4: सूर्य.अभिव्याहारे.निविद्धाने.।.तद्.एतस्य.अह्नो.रूपम् ।
श्श्स्_14.35.1: वरुणो.ह.वृष्टि.कामस्.तपस्.तप्त्वा.एतम्.यज्ञ.क्रतुम्.अपश्यद्.वृष्टिम्.।.तेन.इष्ट्वा.वृष्टिम्.आप्नोत्.।.तेन.वृष्टि.कामो.यजेत ।
श्श्स्_14.35.2: उद्.वाम्.चक्षुर्.वरुण.सुप्रतीकम्.इन्द्रा.वरुणा.युवम्.अध्वराय.न.इति.इन्द्रा.वरुण.अभिव्याहारे.निविद्धाने.।.तद्.एतस्य.अह्नो.रूपम् ।
श्श्स्_14.36.1: भानुमती.ह.तेजस्.कामस्.तपस्.तप्त्वा.एतम्.यज्ञ.क्रतुम्.अपश्यद्.आदित्यम्.।.तेन.इष्ट्वा.तेज.आप्नोत्.।.तेन.तेजस्.कामो.यजेत ।
श्श्स्_14.36.2: यम्.वै.सूर्यम्.स्वर्.भानुः.स्वर्.भानोर्.अध.यद्.इत्य्.आदित्य.अभिव्याहारे.निविद्धाने.।.तद्.एतस्य.अह्नो.रूपम् ।
श्श्स्_14.37.1: इन्द्रा.विष्णुर्.ह.स्वर्ग.कामस्.तपस्.तप्त्वा.एतम्.यज्ञ.क्रतुम्.अपश्यत्.स्वर्गम्.।.तेन.इष्ट्वा.स्वर्गम्.आप्नोत्.।.तेन.स्वर्ग.कामो.यजेत ।
श्श्स्_14.37.2: इन्द्र.अभिव्याहारे.निविद्धाने.।.तद्.एतस्य.अह्नो.रूपम् ।
श्श्स्_14.38.1: देव.असुराः.समयतन्त.।.ते.देवा.बृहस्पतिम्.पुरोहितम्.उपाधावन्.।.उप.तौ.यज्ञ.क्रतू.जानीहि.याभ्याम्.इष्ट्वा.असुरान्.विनुत्त्या.अभिभवेमहि.इति.।.स.एतौ.यज्ञ.क्रतू.अपश्यद्.विनुत्त्य्.अभिभूती.।.तान्.विनुत्तिना.विनुत्त्या.अभिभूतिना.अभ्यभवन् ।
श्श्स्_14.38.2: तस्य.विनुत्तेः.षऌ.ऊर्ध्वाः.पृष्ठ्य.स्तोमाः.षऌ.आवृत्ता.विष्वञ्चः.स्तोमाः ।
श्श्स्_14.38.3: विष्वञ्चो.वै.भूत्वा.विनुदन्ति.इति ।
श्श्स्_14.38.4: तद्.विनुत्ते.रूपम् ।
श्श्स्_14.38.5: अथ.अभिभूतेः.षऌ.ऊर्ध्वाः.पृष्ठ्य.स्तोमाः.षऌ.आवृत्ताः.सम्यञ्चः.स्तोमाः ।
श्श्स्_14.38.6: सम्यञ्चो.वै.भूत्वा.अभिभवन्ति.इति ।
श्श्स्_14.38.7: तद्.अभिभूते.रूपम् ।
श्श्स्_14.38.8: यद्.विश्वजितो.बृहत्.पृष्ठस्य.तद्.एनयोः.शस्त्रम् ।
श्श्स्_14.39.1: राशि.मरायाव्.अन्न.अद्य.कामस्य ।
श्श्स्_14.39.2: उत्तमौ.छन्दोमौ.समूळ्हात् ।
श्श्स्_14.39.3: स्त्रीणाम्.गवाम्.सहस्रम्.दक्षिणे.ददाति ।
श्श्स्_14.39.4: पुंसाम्.उत्तरे ।
श्श्स्_14.39.5: तन्त्रम्.दीक्षा.उपसदः ।

श्श्स्_14.39.6: तथा.उदयनीया ।
श्श्स्_14.39.7: यमाव्.अनूचीन.गर्भौ.वा.सम्यजेयाताम् ।
श्श्स्_14.39.8: विघनः.पाप्मानम्.द्विषतश्.च.अपजिघांसमानस्य ।
श्श्स्_14.39.9: कया.शुभीय.तद्.इद्.आसीये.वा.निविद्धाने ।
श्श्स्_14.39.10: भ्रातृव्यम्.द्विषतश्.च.अपजिघांसमानस्य ।
श्श्स्_14.40.1अ: आदित्याश्.च.ह.वा.अङ्गिरसश्.च.अस्पर्धन्त.।.वयम्.पूर्वे.स्वर्गम्.लोकम्.एष्याम.इत्य्.आदित्या.वयम्.इत्य्.अङ्गिरसः.।.ते.अङ्गिरस.आदित्येभ्यः.प्रोचुः.।.श्वः.सुत्या.नो.याजयत.न.इति.।.तेषाम्.ह.अग्निर्.दूत.आस ।
श्श्स्_14.40.1ब्: त.आदित्या.ऊचुः.।.यदि.वा.एते.पूर्वे.यक्ष्यन्त्य्.एते.पूर्वे.स्वर्गम्.लोकम्.गमिष्यन्ति.।.अभि.नो.असुरा.भविष्यन्ति.।.उप.तम्.यज्ञ.क्रतुम्.जानीम.येन.वयम्.पूर्वे.यजेमहि.इति ।
श्श्स्_14.40.1च्: त.एतम्.साद्यह्क्रम्.यज्ञ.क्रतुम्.अपश्यन्.।.तेन.इष्ट्वा.पूर्वे.स्वर्गम्.लोकम्.आयन्.।.तेन.स्वर्ग.कामो.यजेत ।
श्श्स्_14.40.2: त्रिवृत्.स्तोमः ।
श्श्स्_14.40.3: रथन्तर्म.पृष्ठम् ।
श्श्स्_14.40.4: तृच.क्लृप्तम्.शस्त्रम् ।
श्श्स्_14.40.5: अग्निष्टोमो.यज्ञः ।
श्श्स्_14.40.6: यवोर्.वरा.वेदिः ।
श्श्स्_14.40.7: यव.खल.उत्तर.वेदिः ।
श्श्स्_14.40.8: लाङ्गलेषा.यूपः ।
श्श्स्_14.40.9: यव.कलापिश्.चषालम् ।
श्श्स्_14.40.10: ईजानस्य.कुलाद्.वसतीवर्यः ।
श्श्स्_14.40.11: दृतिषु.दधि.वनीवाह्यन्ते ।
श्श्स्_14.40.12: ततो.यत्.सर्पिर्.उदैति.तेन.प्रचरन्ति ।
श्श्स्_14.40.13: अश्व.रथः.सोम.प्रवाकः ।
श्श्स्_14.40.14: योजने.अन्ततः ।
श्श्स्_14.40.15: अश्वो.दक्षिणा ।
श्श्स्_14.40.16: पूर्व.अह्णे.दीक्षणीया ।
श्श्स्_14.40.17: अभ्यग्रम्.कर्माणि.वर्तन्ते ।
श्श्स्_14.40.18: अर्थ.लुप्तः.प्रवर्ग्यः ।
श्श्स्_14.40.19: तिस्रः.पराचीर्.उपसदः ।
श्श्स्_14.40.20: पुरोळाशो.अग्नीषोमीयः ।
श्श्स्_14.40.21: सवनीय.काले.समान.तन्त्रा.पशवः ।
श्श्स्_14.40.22: आश्विनी.वशा.अनूबन्ध्यायाः.स्थाने ।
श्श्स्_14.40.23: मैत्रावरुण्या.वा.पयस्यया.यजेत ।
श्श्स्_14.40.24: अथो.पूर्व.क्रान्तम्.अन्वैच्छन् ।
श्श्स्_14.41.1: एषा.एव.उत्तरस्य.विधा ।
श्श्स्_14.41.2: स्तोमा.एव.अन्यथा ।
श्श्स्_14.41.3: अष्टादशाः.पवमानास्.त्रिवृन्ति.इतराणि ।
श्श्स्_14.41.4: स.एष.उक्थ्यः.प्रत्याहृतः ।
श्श्स्_14.41.5: यो.अगिष्टोमे.कामो.य.उक्थ्ये.तयोर्.उभयोर्.आप्त्यै ।
श्श्स्_14.41.6: गो.धूमा.उर्वरा ।
श्श्स्_14.41.7: गो.धूमम्.अखलः ।
श्श्स्_14.41.8: गो.धूम.कलापिश्.चषालम् ।
श्श्स्_14.41.9: कुम्भ्या.आपो.वसतीवर्यः ।

श्श्स्_14.41.10: अश्वः.सोम.प्रवाकः ।
श्श्स्_14.41.11: त्रैपदे.अन्ततः ।
श्श्स्_14.41.12: वडवा.दक्षिणा ।
श्श्स्_14.42.1: एषा.एव.उत्तरस्य.विधा ।
श्श्स्_14.42.2: स्तोमा.एव.अन्यथा ।
श्श्स्_14.42.3: चतुर्विंशाः.पवमानास्.त्रिवृन्ति.इतराणि ।
श्श्स्_14.42.4: स.एष.वाजपेयः.प्रत्याहृतः ।
श्श्स्_14.42.5: यः.षोळशिनि.कामो.यो.वाजपेये.तयोर्.उभयोर्.आप्त्यै ।
श्श्स्_14.42.6: यद्य्.अस्य.द्विषन्.भ्रातृव्यो.अनुक्रिया.यजेत.परिक्रिया.यजेत.।.यदि.परिक्रिया.उत्क्रिया ।
श्श्स्_14.42.7: एक.त्रिक.त्रिक.एकाभ्याम्.ब्रह्म.वर्चस.कामो.यजेत ।
श्श्स्_14.42.8: एकस्याम्.तिसृष्व्.इति.प्रथमस्य.स्तोत्राणि.भवन्ति ।
श्श्स्_14.42.9: तिसृष्व्.एकस्याम्.इत्य्.उत्तरस्य ।
श्श्स्_14.42.10: ताश्.चतुर्विंशतिः.स्तोत्रियाः ।
श्श्स्_14.42.11: चतुर्विंशत्य्.अक्षरा.गायत्री ।
श्श्स्_14.42.12: तेजो.ब्रह्म.वर्चसम्.गायत्री ।
श्श्स्_14.42.13: तद्.आभ्याम्.तेजो.ब्रह्म.वर्चसम्.आपोति ।
श्श्स्_14.42.14: तृच.क्लृप्त.शस्त्रौ ।
श्श्स्_14.42.15: अभिजिद्.अभिजिगीषतः ।
श्श्स्_14.42.16: विश्वजिद्.विश्वम्.जिगीषतः ।
श्श्स्_14.42.17: त्रिसंस्थौ.च.तौ ।
श्श्स्_14.42.18: अग्निष्टोमौ.भूत्वा.अन्योन्यस्मिन्.प्रत्यतिष्ठताम् ।
श्श्स्_14.42.19: उक्थ्यौ.भूत्वा.अन्योन्यस्मिन् ।
श्श्स्_14.42.20: अतिरात्रौ.भूत्वा.अन्योन्यस्मिन् ।
श्श्स्_14.43.1: इन्द्रो.वै.वॄन्.जिगीषंस्.तपस्.तप्त्वा.एतम्.यज्ञ.क्रतुम्.अपश्यन्.नृजितम्.।.तेन.इष्ट्वा.नॄन्.अजयत्.।.तेन.नॄन्.जिगीषन्.यजेत ।
श्श्स्_14.44.1: इन्द्रो.वै.पृतनाजम्.जिगीषंस्.तपस्.तप्त्वा.एतम्.यज्ञ.क्रतुम्.अपश्यत्.पृतनाजितम्.।.तेन.इष्ट्वा.पृतनाजम्.अजयत्.।.तेन.पृतनाजम्.जिगीषन्.यजेत ।
श्श्स्_14.45.1: इन्द्रो.वै.सत्राजम्.जिगीषंस्.तपस्.तप्त्वा.एतम्.यज्ञ.क्रतुम्.अपश्यत्.सत्राजितम्.।.तेन.इष्ट्वा.सत्राजम्.अजयत्.।.तेन.सत्राजम्.जिगीषन्.यजेत ।
श्श्स्_14.45.2: प्रथमात्.त्र्यहान्.मध्यंदिनेषु.निविद्धानानि ।
श्श्स्_14.46.1: इन्द्रो.वै.धनम्.जिगीषंस्.तपस्.तप्त्वा.एतम्.यज्ञ.क्रतुम्.अपश्यद्.धनजितम्.।.तेन.इष्ट्वा.धनम्.अजयत्.।.तेन.धनम्.जिगीषन्.यजेत ।
श्श्स्_14.46.2: चतुर्विंशम्.अहः ।
श्श्स्_14.47.1: इन्द्रो.वै.स्वर्.जिगीषंस्.तपस्.तप्त्वा.एतम्.यज्ञ.क्रतुम्.अपश्यत्.स्वर्.जितम्.।.तेन.इष्ट्वा.स्वर्.अजयत्.।.तेन.स्वर्.जिगीषन्.यजेत ।
श्श्स्_14.47.2: उत्सन्न.यज्ञ.इव.वा.एष.यत्.स्वर्जित् ।
श्श्स्_14.48.1: इन्द्रो.वै.सर्वम्.जिगीषंस्.तपस्.तप्त्वा.एतम्.यज्ञ.क्रतुम्.अपश्यत्.सर्वजितम्.।.तेन.इष्ट्वा.सर्वम्.अजयत्.।.तेन.सर्वम्.जिगीषन्.यजेत ।
श्श्स्_14.48.2: महाव्रतीयम्.अहः ।
श्श्स्_14.49.1: इन्द्रो.वै.सर्वम्.उज्जिगीषंस्.तपस्.तप्त्वा.एतम्.यज्ञ.क्रतुम्.अपश्यद्.उज्जितम्.।.तेन.इष्ट्वा.सर्वम्.उदजयत्.।.तेन.सर्वम्.उज्जिगीषन्.यजेत ।
श्श्स्_14.49.2: जनिष्ठा.उग्रः.सहसे.तुराय.तम्.उ.ष्टुहि.यो.अभिभूत्य्.ओजा.इति.निविद्धाने ।
श्श्स्_14.49.3: धान्तात्.प्रपित्वाद्.उदरन्त.गर्भा.उत्तुर्वयाणम्.धृषता.निनेथ.इत्य्.उद्वती.तद्.एतस्य.अह्नो.रूपम् ।
श्श्स्_14.50.1अ: इन्द्रो.वै.त्रिशीर्षाणम्.त्वाष्ट्रम्.अहनत्.।.अरुन्मुखान्.यतीन्.सालावृकेभ्यः.प्रायच्छत्.।.तम्.सर्वाणि.भूतान्य्.अभ्याक्रोशन्.।.स.देवेभ्यः.पार्श्वत.इव.चचार.।.ते.देवा.ऊचुः.।.यदि.वा.अयम्.एवम्.चरिष्यत्य्.अभि.नो.असुरा.भविष्यन्ति ।
श्श्स्_14.50.1ब्: उप.तम्.यज्ञ.क्रतुम्.जानीम.येन.एनम्.उपाह्वयेमहि.इति.।.त.एतम्.उअफव्यम्.यज्ञ.क्रतुम्.अपश्यन्.।.तेन.एनम्.उपाह्वयन्त.।.तेन.अवरुद्धो.राजा.यजेत.राष्ट्रम्.अवजिगीषन्.।.अह.वा.एव.गच्छति ।
श्श्स्_14.50.2: इमा.उ.त्वा.पुरुतमस्य.कारोर्.हव्यम्.वीर.हव्या.हवन्ते.य.एक.इद्धव्यश्.चर्षणीनाम्.इति.हूतवती.निविद्धाने.।.तद्.एतस्य.अह्नो.रूपम् ।
श्श्स्_14.51.1अ: तम्.अभ्य्.एव.आक्रोशन्न्.अनहर्.जाततया.वा.एतत्.पाप्या.वा.अलक्ष्म्या.।.सो.अग्नये.सर्वाणि.सवनानि.प्रायच्छत्.।.तस्य.अग्निः.सर्वाम्.अनहर्.जातताम्.सर्वाम्.पापीम्.अलक्ष्णीम्.निरदहत् ।

श्श्स्_14.51.1ब्: स.यो.अनहर्.जातः.स्याद्.यम्.वा.पापी.वाग्.अभिवदेत्.सो.अग्नि.ष्टुता.यजेत.।.तस्य.अग्निः.सर्वाम्.अनहर्.जातताम्.सर्वाम्.पापीम्.अलक्ष्मीम्.निर्दहति.य.एवम्.वेद.य.उ.च.एनेन.यजते ।
श्श्स्_14.51.2: त्रिवृत्.स्तोमेन.त्रिष्टोमेन.वा.ब्रह्म.वर्चस.कामः ।
श्श्स्_14.51.3: चतुष्टोमेन.प्रतिष्ठा.कामः ।
श्श्स्_14.51.4: प्रातर्.अनुवाक.प्रभृति.हारियोजन.अन्तम्.सर्वम्.आग्नेयम् ।
श्श्स्_14.51.5: यथा.अर्थम्.ऊहः ।
श्श्स्_14.51.6: वचनात्.प्रत्याम्नायः ।
श्श्स्_14.51.7: अग्निम्.मन्ये.पितरम्.इत्.प्रतिपत्.प्रातर्.अनुवाकस्य ।
श्श्स्_14.51.8: लिङ्ग.ईप्सुर्.उत्तरयोः.क्रत्वोर्.अग्नि.शब्दम्.कुर्वीत ।
श्श्स्_14.51.9: प्र.देवत्र.इत्य्.उद्धृत्य.सोमस्य.मा.इति.चतुर्दश ।
श्श्स्_14.51.10: तम्.ओषधीर्.इत्य्.अवनीयमानासु ।
श्श्स्_14.51.11: और्वभृगुवद्.इति.तिस्रो.अम्बय.इत्य्.उद्धृत्य ।
श्श्स्_14.51.12: उपप्रयन्तस्.त्रीणि.शत.इति.प्रथमे.उत्तमा.च.अग्नि.मन्थनीयानाम् ।
श्श्स्_14.51.13: अग्ने.जुषस्व.नो.हविर्.इति.प्रथमा.चतुर्थी.पञ्चमी.च.सवनीयानाम् ।
श्श्स्_14.51.14: दूतम्.वो.विश्व.वेदसम्.इति.द्वि.देवत्यानाम् ।
श्श्स्_14.52.1: अग्निम्.ईळे.पुरोहितम्.इत्य्.उन्नीयमानेभ्यः ।
श्श्स्_14.52.2: अग्निम्.दूतम्.इति.सप्त.प्रस्थितानाम् ।
श्श्स्_14.52.3: उत्तराश्.चरस्रो.अच्छावाक.सूक्तस्य.स्थाने ।
श्श्स्_14.52.4: अग्ने.दिव.इति.याज्या.आज्यस्य ।
श्श्स्_14.52.5: उप.त्वा.जामय.ऐभिर्.अग्ने.कस्.ते.जामिर्.न.योर्.उपब्दिर्.अग्निर्.वृत्राण्य्.अग्ने.सुतस्य.अग्ने.धृत.व्रताय.इति.प्रौग.तृचानि ।
श्श्स्_14.52.6: अग्ने.विश्वेभिर्.अग्निभिर्.इति.यजति ।
श्श्स्_14.52.7: कस्.ते.जामिः.कया.ते.अग्ने.अङ्गिर.इति.स्तोत्रिय.अनुरूपौ.मैत्रावरुणस्य ।
श्श्स्_14.52.8: विपर्यस्तौ.तु.माध्यंदिने ।
श्श्स्_14.52.9: अग्निर्.वृत्राणि.इति.ब्राह्मणाच्छंसिनः ।
श्श्स्_14.52.10: अग्निर्.मूर्धा.इत्य्.अच्छावाकस्य ।
श्श्स्_14.52.11: अर्चन्तस्.त्वा.इति.मैत्रावरुणस्य ।
श्श्स्_14.52.12: उत्तरम्.ब्राह्मणाच्छंसिनः ।
श्श्स्_14.52.13: अग्ने.धृत.व्रताय.इति.षऌ.अच्छावाकस्य ।
श्श्स्_14.52.14: उत्तमाभिर्.यजन्ति ।
श्श्स्_14.53.1: अग्निम्.वो.देवम्.इत्य्.उन्नीयमानेभ्यः ।
श्श्स्_14.53.2: प्र.वः.शुक्राय.इति.सप्त.प्रस्थितानाम् ।
श्श्स्_14.53.3: उत्तरे.मरुत्वतीय.ग्रहस्य ।
श्श्स्_14.53.4: विशो.विशो.वस्.त्वम्.अग्ने.यज्ञानाम्.इति.प्रतिपद्.अनुचरौ.मरुत्वतीयस्य ।
श्श्स्_14.53.5: अग्न.आ.याह्य्.अग्निभिः.प्र.वो.यह्वम्.इति.प्रगाथौ ।
श्श्स्_14.53.6: अग्निम्.न.मा.मथितम्.त्वम्.अग्ने.प्रथमो.अङ्गिरा.ऋषिर्.इत्य्.एक.पातिनीनाम् ।
श्श्स्_14.53.7: अग्ने.स.क्षेषद्.इति.निविद्धानम् ।
श्श्स्_14.53.8: उत्तमा.याज्या ।
श्श्स्_14.54.1: पाहि.नो.अग्न.एकया.पहै.नो.अग्ने.रक्षस.इति.स्तोत्रिय.अनुरूपौ.प्रगाथौ.निष्केवल्यस्य ।
श्श्स्_14.54.2: प्र.ते.अग्ने.हविष्मतीम्.इति.धाय्या ।
श्श्स्_14.54.3: एना.वो.अग्निम्.इति.प्रगाथः ।
श्श्स्_14.54.4: यथा.होतर्.इति.निविद्धानम् ।

श्श्स्_14.54.5: अग्निम्.नर.इति.याज्या ।
श्श्स्_14.55.1: अग्निम्.अग्निम्.वो.अध्रिगुम्.अग्ने.जरितर्.इति.स्तोत्रिय.अनुरूपौ.प्रगाथौ.ब्राह्मणाच्छंसिनः ।
श्श्स्_14.55.2: अच्छा.नः.शीर.शोचिषम्.इत्य्.अच्छावाकस्य ।
श्श्स्_14.55.3: अग्ने.विवस्वत्.त्वम्.अग्ने.गृहपतिस्.त्वम्.इत्.सप्रथा.इत्य्.अनुपूर्वम्.प्रगाथाः ।
श्श्स्_14.55.4: यजस्व.होतर्.इति.च.सूक्तानि ।
श्श्स्_14.55.5: उत्तमाभिर्.यजन्ति ।
श्श्स्_14.56.1: अगन्म.महा.इत्य्.आदित्य.ग्रहस्य.पुरोनुवाक्या.उत्तरा.याज्या ।
श्श्स्_14.56.2: ऊर्ध्वम्.ऊ.षु.णो.अध्वरस्य.होतर्.इति.नव.उन्नीयमानेभ्यः ।
श्श्स्_14.56.3: उत्तरे.हारियोजनस्य ।
श्श्स्_14.56.4: त्वाम्.अग्न.ऋतायव.इति.सप्त.प्रस्थितानाम् ।
श्श्स्_14.56.5: एति.प्र.होता.इति.सावित्र.ग्रहस्य.पुरोनुवाक्या.उत्तरा.याज्या ।
श्श्स्_14.56.6: इयम्.ते.नव्यस्य्.अश्वम्.न.त्वा.इति.प्रतिपद्.अनुचरौ.वैश्वदेवस्य ।
श्श्स्_14.56.7: त्वम्.अग्ने.द्रविणोदा.इति.तिस्रः.सावित्रस्य ।
श्श्स्_14.56.8: आर्भवस्य.उत्तरास्.तिस्रः ।
श्श्स्_14.56.9: चतस्रो.द्यावा.पृथिवीयस्य ।
श्श्स्_14.56.10: षऌ.आदितो.वैश्वदेवस्य ।
श्श्स्_14.56.11: अबोधि.जार.इति.वायव्यायाः ।
श्श्स्_14.56.12: जुषस्व.सप्रथस्तमम्.इति.सुरूप.कृत्नोः ।
श्श्स्_14.56.13: समिद्धो.अग्निर्.दिवि.इति.तिस्र.एक.पातिनीनाम् ।
श्श्स्_14.56.14: तद्.अद्य.वाच.इति.पञ्च.जनीयायाः ।
श्श्स्_14.56.15: यज्ञेन.वर्धत.इति.याज्या ।
श्श्स्_14.57.1: अभि.प्रवन्त.इति.घृतस्य ।
श्श्स्_14.57.2: उत्तरा.सौम्यस्य ।
श्श्स्_14.57.3: आ.वो.राजानम्.इति.रौद्र्याः ।
श्श्स्_14.57.4: वसुम्.न.चित्र.महसम्.इति.मारुतस्य ।
श्श्स्_14.57.5: आ.नो.यज्ञम्.दिवि.स्पृशम्.आ.नो.वायव्.इत्य्.अग्निष्टोम.साम्नः.स्तोत्रिय.अनुरूपौ.प्रगाथौ ।
श्श्स्_14.57.6: नित्यौ.वा ।
श्श्स्_14.57.7: अप्स्व्.अग्न.इत्य्.आपो.हि.ष्ठीयानाम् ।
श्श्स्_14.57.8: तम्.देवा.बुध्न.इति.वैश्वदेव्याः ।
श्श्स्_14.57.9: इमम्.ऊ.षु.वो.अतिथिम्.उषर्.बुधम्.इति.चतस्रो.देवानाम्.पत्नीनाम्.राकायाश्.च ।
श्श्स्_14.57.10: हुवे.वः.सुद्योत्मानम्.इति.तिस्रो.अक्षर.पङ्क्तीनाम् ।
श्श्स्_14.57.11: त्रि.मूर्धानम्.इति.तिस्रः.पैत्रीणाम् ।
श्श्स्_14.57.12: कथा.ते.अग्ने.शुचयन्त.आयोर्.इति.तिस्रो.यामीनाम् ।
श्श्स्_14.57.13: मथीद्.यद्.ईम्.इति.तिस्रः.स्वादुष्किलीयानाम् ।
श्श्स्_14.57.14: उत्तरयोर्.उत्तरे ।
श्श्स्_14.57.15: एवाग्निर्.गोतमेभिर्.इति.परिधानीया ।
श्श्स्_14.57.16: ग्रहेष्व्.अविकृतेषु.तिष्ठा.हरी.तम्.उ.ष्टुहि.इति.निविद्धाने ।
श्श्स्_14.57.17: अनड्वान्.हिरण्यम्.वा.दक्षिणा ।
श्श्स्_14.57.18: एतद्द्.ह्य्.आग्नेयम्.रूपम् ।
श्श्स्_14.57.19: उत्थाय.च.अग्निष्टोमः ।

श्श्स्_14.57.20: आ.ह.वा.एष.सर्वाभ्यो.देवताभ्यो.वृश्च्यते.यो.अग्नि.ष्टुता.यजते ।
श्श्स्_14.58.1: इन्द्रो.ह.बल.कामस्.तपस्.तप्त्वा.एतम्.यज्ञ.क्रतुम्.अपश्यद्.इन्द्र.स्तुतम्.।.तेन.इष्ट्वा.बलम्.आप्नोति.।.तेन.बल.कामो.यजेत ।
श्श्स्_14.58.2: इन्द्र.अभिव्याहारे.निविद्धाने.तद्.एतस्य.अह्नो.रूपम् ।
श्श्स्_14.59.1: सूर्यो.ह.तेजस्.कामस्.तपस्.तप्त्वा.एतम्.यज्ञ.क्रतुम्.अपश्यत्.सूर्य.स्तुतम्.।.तेन.इष्ट्वा.तेज.आप्नोत्.।.तेन.तेजस्.कामो.यजेत ।
श्श्स्_14.59.2: सूर्य.अभिव्याहारे.निविद्धाने.तद्.एतस्य.अह्नो.रूपम् ।
श्श्स्_14.60.1: विश्वे.ह.देवाः.प्रजाति.कामास्.तपस्.तप्त्वा.एतम्.यज्ञ.क्रतुम्.अपश्यन्.वैश्वदेव.स्तुतम्.।.तेन.इष्ट्वा.प्राजायन्त.।.तेन.प्रजाति.कामो.यजेत ।
श्श्स्_14.60.2: इमा.उ.त्वा.पुरुतमस्य.वृषा.मद.इन्द्र.इति.निविद्धाने ।
श्श्स्_14.60.3: प्रोतये.वरुणम्.मित्रम्.इन्द्रम्.मित्रो.नो.अत्र.वरुणश्.च.पूषा.इति.वैश्व.देव.अभिव्याहारे.तद्.एतस्य.अह्नो.रूपम् ।
श्श्स्_14.61.1: गोतमो.ह.ब्रह्म.वर्चस.कामस्.तपस्.तप्त्वा.एतम्.यज्ञ.क्रतुम्.अपश्यद्.गोतमस्य.चतुर्.उत्तर.स्तोमम्.।.तेन.इष्ट्वा.ब्रह्म.वर्चसम्.आप्नोत्.।.तेन.ब्रह्म.वर्चस.कामो.यजेत ।
श्श्स्_14.61.2: चतसृषु.बहिष्.पवमानः ।
श्श्स्_14.61.3: अष्टास्व्.अष्टास्व्.आज्यानि ।
श्श्स्_14.61.4: द्वादशसु.माध्यंदिनः.पवमानः ।
श्श्स्_14.61.5: षिळशसु.षिळशसु.पृष्ठानि ।
श्श्स्_14.61.6: विंशत्याम्.आर्भवः.पवमानः ।
श्श्स्_14.61.7: चतुर्.विंशम्.अग्निष्टोम.साम ।
श्श्स्_14.61.8: साम.अन्तर्.उक्थ्यः ।
श्श्स्_14.62.1: पञ्च.शारदीयः ।
श्श्स्_14.62.2: मरुतो.ह.अग्रे.अनपिसोम.पीथा.आसुः.।.ते.यत्र.इन्द्रम्.मरुतः.पुपुवुस्.तद्.एनान्.इन्द्रः.सोम.पीथे.अन्वाभेजे.।.स.यो.अनपिसोम.पीथः.स्याद्.यो.वा.मरुताम्.सलोकताम्.सायुज्यम्.ईप्सेत.सो.अनेन.यजेत ।
श्श्स्_14.62.3: पञ्च.उक्षाणः.पञ्च.शरदो.मरुद्भ्यः.प्रोक्षिताश्.चरन्ति.।.ते.सवनीयस्य.उपालम्भ्याः ।
श्श्स्_14.63.1: ऋषि.स्तोमाः ।
श्श्स्_14.63.2: गोतमो.ह.ब्रह्म.वर्चस.कामस्.तपस्.तप्त्वा.एतम्.यज्ञ.क्रतुम्.अपश्यत्.।.तेन.इष्ट्वा.ब्रह्म.वर्चसम्.आप्नोत्.।.तेन.ब्रह्म.वर्चस.कामो.यजेत ।
श्श्स्_14.64.1: भरद्वाजो.ह.बल.कामस्.तपस्.तप्त्वा.एतम्.यज्ञ.क्रतुम्.अपश्यत्.।.तेन.इष्ट्वा.बलम्.आप्नोत्.।.तेन.बल.कामो.यजेत ।
श्श्स्_14.65.1: अत्रिर्.ह.प्राजाति.कामस्.तपस्.तप्त्वा.एतम्.यज्ञ.क्रतुम्.अपश्यत्.।.तेन.इष्ट्वा.प्राजायत.।.तेन.प्रजाति.कामो.यजेत ।
श्श्स्_14.66.1: वसिष्ठो.ह.अन्न.अद्य.कामस्.तपस्.तप्त्वा.एतम्.यज्ञ.क्रतुम्.अपश्यत्.।.तेन.इष्ट्वा.अन्न.अद्यम्.आप्नोत्.।.तेन.अन्न.अद्य.कामो.यजेत ।
श्श्स्_14.67.1: जमदग्निर्.ह.पशु.कामस्.तपस्.तप्त्वा.एतम्.यज्ञ.क्रतुम्.अपश्यत्.।.तेन.इष्ट्वा.पशून्.आप्नोत्.।.तेन.पौश्.कामो.यजेत ।
श्श्स्_14.68.1: प्रजापतिर्.ह.प्रजाति.कामस्.तपस्.तप्त्वा.एतम्.यज्ञ.क्रतुम्.अपश्यत्.।.तेन.इष्ट्वा.प्राजायत.।.तेन.प्रजाति.कामो.यजेत ।
श्श्स्_14.68.2: पृष्ठ्य.अहान्य्.अनुपूर्वम् ।
श्श्स्_14.69.1: व्रात्य.स्तोमाः ।
श्श्स्_14.69.2: वसवो.ह.स्वर्ग.कामास्.तपस्.तप्त्वा.एतान्.यज्ञ.क्रतून्.अपश्यन्.व्रात्य.स्तोमान्.।.तैर्.इष्ट्वा.स्वर्गम्.आपुः.।.तैः.स्वर्ग.कामो.यजेत ।
श्श्स्_14.70.1: मित्रा.वरुणयोर्.अश्विनोर्.वसूनाम्.मरुताम्.विश्वेषाम्.देवानाम् ।
श्श्स्_14.70.2: समूळ्हात्.पृष्ठ्यात्.शस्त्रम् ।
श्श्स्_14.71.1: उत्क्रान्तिर्.अतिरात्रः ।
श्श्स्_14.71.2: इन्द्रा.विष्णू.वै.स्वर्ग.कामौ.तपस्.तप्त्वा.एतम्.यज्ञ.क्रतुम्.अपश्यताम्.उत्क्रान्तिम्.।.तेन.इष्ट्वा.स्वर्गम्.लोकम्.उदाक्रामताम्.।.तेन.स्वर्ग.कामो.यजेत ।
श्श्स्_14.71.3: इमा.उ.त्वा.पुरुतमस्य.द्यौर्.न.य.इन्द्र.इति.निविद्धाने ।
श्श्स्_14.71.4: प्र.पूषणम्.विष्णुम्.अग्निम्.पुरंधिम्.हन्न्.ऋजीषिन्.विष्णुना.सचान.इति.विष्णु.न्यङ्गे.तद्.एतस्य.अह्नो.रूपम् ।
श्श्स्_14.72.1: मित्रा.वरुणयोर्.अश्विनोर्.वसूनाम्.मरुताम्.साध्यानाम्.आप्यानाम्.विश्वसृजाम्.भूतकृताम्.ज्येष्ठानाम्.मध्यमानाम्.कनिष्ठानाम्.च ।
श्श्स्_14.72.2: चतुर्दशः.स्तोमः ।
श्श्स्_14.72.3: विपृथुः.सप्रतोदः.स.इषुधन्वा.दक्षिणा ।
श्श्स्_14.72.4: एतेषाम्.देव.गणानाम्.समूळ्हाद्.दश.रात्रात्.शस्त्रम् ।
श्श्स्_14.73.1: व्रात्य.स्तोमानाम् ।

मूल पाठ: Śāṅkhāyanaśrautasūtra · Edition: Alfred Hillebrandt Calcutta 1885-1899 (Bibliotheca Indica, 99) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc