भाषा

ENहिગુ
ग्रंथ पाठ

शाङ्खायनश्रौतसूत्र · भाग 121135

श्श्स्_16.23.6: ते.वा.एते.चत्वारः.स्तोमा.नाना.वीर्या.यज्ञ.क्रतवस्.तेन.ह.अस्य.चत्वारो.वीरा.नाना.वीर्याः.प्रजायाम्.आजायन्ते.य.एवम्.वेद ।
श्श्स्_16.23.7: एषो.न्वै.जमदग्नेश्.चतूरात्रः ।
श्श्स्_16.23.8: अथैव.अत्रेश्.चतुर्.वीरः ।
श्श्स्_16.23.9: त्रिवृत्.प्रथमस्य.अह्नः.प्रातः.सवनम्.पञ्चदशो.माध्यंदिनः.सप्तदशम्.तृतीय.सवनम् ।
श्श्स्_16.23.10: पञ्चदशम्.द्वितीयस्य.अह्नः.प्रातः.सवनम्.सप्तदशो.माध्यंदिन.एकविंशम्.तृतीय.सवनम् ।
श्श्स्_16.23.11: सप्तदशम्.त्तीयस्य.अह्नः.प्रातः.सवनम्.एकविंशो.माध्यंदिनस्.त्रिणवम्.त्रितीय.सवनम् ।
श्श्स्_16.23.12: एकविंशम्.चतुर्थस्य.अह्नः.प्रातः.सवनम्.त्रिणवो.माध्यंदिनस्.त्रयस्.त्रिंशम्.तृतीय.सवनम् ।
श्श्स्_16.23.13: ते.वा.एक.एकम्.स्तोमम्.उत्सृजन्तो.यन्त्य्.एक.एकम्.प्रजनयन्तः ।
श्श्स्_16.23.14: तेन.ह.अस्य.चत्वारो.वीरा.नाना.वीर्याः.प्रयाजाम्.आजायन्ते.।.वीरो.हि.स्तोमः ।
श्श्स्_16.23.15: तस्य.शस्त्रम् ।
श्श्स्_16.23.16: रथन्तरम्.पृष्ठम्.प्रथमस्य ।
श्श्स्_16.23.17: सजनीयम्.निष्केवल्यम् ।
श्श्स्_16.23.18: कया.शुभीय.तद्.इद्.आसीये.वा.निविद्धाने.द्वितीयस्य ।
श्श्स्_16.23.19: तृतीये.वैरूप.पृष्ठे.वैराजात्.तृतीय.सवनम् ।
श्श्स्_16.23.20: चतुर्थे.वैराज.पृष्ठे.वैरूपात्.तृतीय.सवनम् ।
श्श्स्_16.23.21: प्राकृतो.वा.अतिरात्रः ।
श्श्स्_16.23.22: तम्.वैश्वानर.इत्य्.आचक्षते ।
श्श्स्_16.23.23: अभिजिद्.आभिप्लविकानाम्.चतुर्थः ।
श्श्स्_16.23.24: विश्वजिद्.इतरेषाम् ।
श्श्स्_16.23.25: वैश्वानरो.महा.व्रतम्.वा ।
श्श्स्_16.23.26: यच्.चतुर्विधम्.तच्.चतू.रात्रेण.आप्नोति ।
श्श्स्_16.24.1: अथ.यत्.पञ्चविधम्.तत्.पञ्चरात्रेण ।
श्श्स्_16.24.2: पञ्चपदा.पङ्क्तिः.पाङ्क्तो.वै.यज्ञस्.तद्.यत्.किम्.च.पञ्चविधम्.अधिदैवतम्.अध्यात्मम्.तत्.सर्वम्.एनेन.आप्नोति ।
श्श्स्_16.24.3: त्रिवृत्.प्रथमम्.अहः.पञ्चदशम्.द्वितीयम्.एकविंशम्.तृतीयम्.सप्तदशम्.चतुर्थम्.चतुष्टोमो.अतिरात्र.उत्तमम्.अहः ।
श्श्स्_16.24.4: तद्.वा.इदम्.आसाम्.एव.रूपेण ।
श्श्स्_16.24.5: इयम्.एव.त्रिवृतो.रूपेण ।
श्श्स्_16.24.6: इयम्.पञ्चदशस्य ।
श्श्स्_16.24.7: इयम्.एकविंशस्य ।
श्श्स्_16.24.8: इयम्.सप्तदशस्य ।
श्श्स्_16.24.9: अयम्.चतुष्टोमस्य.अतिरात्रस्य ।
श्श्स्_16.24.10: तद्.यद्.एकविंश.स्तोमानाम्.वर्षिष्ठस्.तस्माद्.इयम्.आसाम्.वर्षिष्ठा ।
श्श्स्_16.24.11: अथ.यच्.चतुष्टोमो.अतिरात्र.उत्तमम्.अहस्.तस्माद्.अयम्.अङ्गुष्ठः.सर्वा.अङ्गुलीः.प्रत्येति ।
श्श्स्_16.24.12: तस्य.शस्त्रम् ।
श्श्स्_16.24.13: त्र्यहश्.चतुर्थम्.आभिप्लविकम् ।
श्श्स्_16.24.14: पञ्चमस्य.च.द्वे.सवने.षष्ठात्.पृष्ठ्यस्य.पञ्चमे.तृतीय.सवनम् ।
श्श्स्_16.24.15: पञ्च.वा.आभिप्लविकानि ।
श्श्स्_16.24.16: उत्तमात्.पञ्चमे.तृतीय.सवनम् ।
श्श्स्_16.24.17: अभिजिद्.आभिप्लविकानाम्.चतुर्थः ।
श्श्स्_16.24.18: विश्वजिद्.इतरेषाम् ।
श्श्स्_16.24.19: वैश्वानरश्.च.महा.व्रतम्.वा ।

श्श्स्_16.24.20: उभयोर्.वा.अभिजिच्.चतुर्थो.विश्वजित्.पञ्चमः ।
श्श्स्_16.24.21: यत्.पञ्चविधम्.तत्.पञ्चरात्रेण.आपोति ।
श्श्स्_16.25.1: अथ.यत्.षड्विधम्.तत्.षड्रात्रेण ।
श्श्स्_16.25.2: षड्.वा.ऋतवः.षट्.स्तोमास्.तद्.यत्.किम्.च.षड्विधम्.अधिदैवतम्.अध्यात्मम्.तत्.सर्वम्.एनेन.आप्नोति ।
श्श्स्_16.25.3: त्र्यहो.अभिजिद्.विश्वजितौ.वैश्वानरश्.च.महा.व्रतम्.वा ।
श्श्स्_16.25.4: अनन्तरम्.वा.अभिजितो.महा.व्रतम् ।
श्श्स्_16.25.5: विश्वजित्.षष्ठः ।
श्श्स्_16.25.6: पृष्ठ्यो.अभिप्लवो.वा ।
श्श्स्_16.25.7: यत्.षड्विधम्.तत्.षड्रात्रेण.आप्नोति ।
श्श्स्_16.26.1: अथ.यत्.सप्तविधम्.तत्.सप्तरात्रेण ।
श्श्स्_16.26.2: सप्त.प्राणाः.सप्त.छन्दांसि.तद्.यत्.किम्.च.सप्तव्धम्.अधिदैवतम्.ध्यात्मम्.तत्.सर्वम्.एनेन.आप्नोति ।
श्श्स्_16.26.3: त्र्यहो.अभिजिद्.विश्वजितौ.महा.व्रतम्.वैश्वानरश्.च ।
श्श्स्_16.26.4: अथ.संवत्सरस्य.प्रवल्हः ।
श्श्स्_16.26.5: प्राकृतो.अग्निष्टोमश्.चतुर्विंशम्.अभिजिद्.विषुवान्.विश्वजिन्.महा.व्रतम्.वैश्वानरश्.च ।
श्श्स्_16.26.6: एषो.न्वै.सप्त.ऋषीणाम्.सप्त.रात्रः ।
श्श्स्_16.26.7: एतम्.एव.जनक.सप्त.रात्र.इत्य्.आचक्षते ।
श्श्स्_16.26.8: अभिजिद्.आभिप्लविकानाम्.सप्तमः ।
श्श्स्_16.26.9: विश्वजिद्.इतरेषाम् ।
श्श्स्_16.26.10: वैश्वानरो.महा.व्रतम्.वा ।
श्श्स्_16.26.11: यत्.सप्त.विधम्.तत्.सप्त.रात्रेण.आप्नोति ।
श्श्स्_16.27.1: अथ.यद्.अष्टविधम्.तद्.अष्ट.रात्रेण ।
श्श्स्_16.27.1: अष्टौ.वसवो.अष्ट.अक्षरा.गायत्री.तद्.यत्.किम्.च.अष्टविधम्.अधिदैवत्म.अध्यात्मम्.तत्.सर्वम्.एनेन.आप्नोति ।
श्श्स्_16.27.3: अभिजिद्.आभिप्लविकानाम्.सप्तमः ।
श्श्स्_16.27.4: विश्वजिद्.इतरेषाम् ।
श्श्स्_16.27.5: वैश्वानरश्.च.महा.व्रतम्.वा ।
श्श्स्_16.27.6: उभयोर्.वा.अभिजित्.सप्तमो.विश्वजिद्.अष्टमः ।
श्श्स्_16.27.7: यद्.अष्टविधम्.तद्.अष्ट.रात्रेण.आप्नोति ।
श्श्स्_16.28.1: अथ.यन्.नव.विधम्.तन्.नव.रात्रेण ।
श्श्स्_16.28.2: चतस्रो.दिशश्.चतस्रो.अवान्तर.दिश.ऊर्ध्वा.इयम्.नवमी.दिन्.नव.अक्षरा.बृहती.तद्.यत्.किम्.च.नवविधम्.अधिदैवतम्.अध्यात्मम्.तत्.सर्वम्.अनेन.आप्नोति ।
श्श्स्_16.28.3: षऌ.अहो.अभिजिद्.विश्वजितौ.वैश्वानरश्.च.महा.व्रतम्.वा.अनन्तरम्.वा.अभिजितो.महा.व्रतम्.विश्वजिन्.नवमः ।
श्श्स्_16.28.4: ज्योतिर्.अग्निष्टोमो.गौर्.उक्थ्य.आयुर्.अतिरात्रस्.त्रिर्.एतम्.उपयन्ति.शलली.पिशङ्ग.इत्य्.आचक्षते ।
श्श्स्_16.28.5: यन्.नवविधम्.तन्.नव.रात्रेण.आप्नोति ।
श्श्स्_16.29.1: अथ.यद्.दशविधम्.तद्.दशरात्रेण ।
श्श्स्_16.29.2: दश.अक्षरा.विलाऌ.अन्नम्.विराट्.तद्.यत्.किम्.च.दशविधम्.अधिदैवतम्.अध्यात्मम्.तत्.सर्वम्.एनेन.आप्नोति ।
श्श्स्_16.29.3: अध्यर्धो.अभिप्लवो.नव.वा.अग्निष्टोमाः ।
श्श्स्_16.29.4: दशरात्रः.संस्था.विकृतिः ।
श्श्स्_16.29.5: वैश्वानरश्.च ।
श्श्स्_16.29.6: एतेन.ह.जलो.जातू.कर्ण्य.इष्ट्वा.त्रयाणाम्.निगुस्थानाम्.पुरोधाम्.प्राप.काश्य.वैदेहयोः.कौसल्यस्य.च ।
श्श्स्_16.29.7: तस्य.ह.तत्.श्वेतकेतुः.श्रियम्.अभिध्याय.पितरम्.अध्यूहे.पलित.यज्ञ.कामान्.यान्.वा.उ.श्रिया.यशसा.समर्धयितुम्.वा.इत्थ.नो.आत्मानम्.इति ।
श्श्स्_16.29.8: तम्.ह.उवाच.।.मा.मा.एवम्.पुत्र.वोचो.यज्ञ.क्रतुर्.एव.मे.विज्ञातो.अभूत्.तम्.एव.एतत्.कृत्स्नके.ब्रह्म.बन्धौ.व्यजिज्ञासिषि ।

श्श्स्_16.29.9: तद्.उ.किल.तथा.एव.आस.यथा.एव.एनम्.प्रोवाच ।
श्श्स्_16.29.10: स.एष.पुरोधा.कामस्य.यज्ञः ।
श्श्स्_16.29.11: प्र.पुरोधाम्.आप्नोति.य.एवम्.वेद ।
श्श्स्_16.29.12: चतुष्टोमात्.समूळ्हात्.त्रिककुदः.शस्त्रम् ।
श्श्स्_16.29.13: अथ.महा.त्रिककुदश्.च ।
श्श्स्_16.29.14: छन्दोम.त्रिककुदश्.च ।
श्श्स्_16.29.15: अग्निष्टुद्.इन्द्रस्तुद्.वैश्वदेव.स्तुत्.पृष्ठ्यो.वैश्वानरश्.च ।
श्श्स्_16.29.16: षळहो.अभिजिद्.अश्वजितौ.महा.व्रतम्.वैश्वानरश्.च ।
श्श्स्_16.29.17: प्राकृतो.अग्निष्टोमो.नवमो.अष्टमो.वा.विश्वजिद्.दशमः ।
श्श्स्_16.29.18: यद्.दशविधम्.तद्.दशरात्रेण.आप्नोति ।
श्श्स्_16.30.1: अथ.यद्.एकादशविधम्.तद्.एकादश.रात्रेण ।
श्श्स्_16.30.2: एकादश.अक्षरा.त्रिष्टुप्.त्रैष्टुभाः.पशवस्.तद्.यत्.किम्.च.एकादशविधम्.अधिदैवतम्.अध्यात्मम्.तत्.सर्वम्.एनेन.आप्नोति ।
श्श्स्_16.30.3: व्यूळ्ह.छन्दा.दशरात्रः ।
श्श्स्_16.30.7: विश्वजिद्.एकादशः ।
श्श्स्_16.30.8: तम्.पौण्डरीक.इत्य्.आचक्षते ।
श्श्स्_16.30.9: अयुतम्.दक्षिणा ।
श्श्स्_16.30.10: अश्व.सहस्रम्.एकादशम्.इत्य्.एके ।
श्श्स्_16.30.11: उक्तो.द्वादशाहः ।
श्श्स्_16.30.12: त.एते.पुरस्ताद्.अग्निष्टोमा.उपरिष्टाद्.अतिरात्रा.उत्तर.उत्तरिण.एक.उत्तरा.अहीनाः ।
श्श्स्_16.30.13: उत्तर.उत्तरिणीम्.एव.तत्.श्रियम्.विराजम्.अन्न.अद्यम्.आप्नोति.य.एवम्.वेद.य.एवम्.वेद ।
श्श्स्_17.1.1: अथ.अतो.महा.व्रतस्य ।
श्श्स्_17.1.2: पुरस्ताद्.एव.कतिपय.अहेन.होता.प्रेङ्ख.फलकम्.उत्पाटयति ।
श्श्स्_17.1.3: तिष्ठत.एव.उदुम्बरस्य ।
श्श्स्_17.1.4: पुरस्ताद्.आदित्यस्य.उदयनतः ।
श्श्स्_17.1.5: यदि.पुरस्तान्.न.विद्येत.अथ.अप्य्.उत्तरतः ।
श्श्स्_17.1.6: यदि.दक्षिणतः ।
श्श्स्_17.1.7: पश्चाद्.वा.स्यात् ।
श्श्स्_17.1.8: मूले.छेदयित्वा.प्रान्.वा.उदन्.वा.तिष्ठन्न्.उत्पाट्य.यद्य्.अणुर्.उदुम्बरः.स्यात् ।
श्श्स्_17.1.9: अपि.दे.वा.त्रीणि.वा.फलकानि.संतृड्युः ।
श्श्स्_17.1.10: तद्.बाहु.मात्रम्.प्राग्.भवति ।
श्श्स्_17.1.11: अरत्नि.मात्रम्.तिर्यक् ।
श्श्स्_17.1.12: संतष्टम् ।
श्श्स्_17.1.13: प्रज्ञात.अग्रम् ।
श्श्स्_17.1.14: तच्.चतुर्धा.अन्तेषु.वितर्दयति ।
श्श्स्_17.1.15: अथ.एतस्य.वै.वा.उदुम्बरस्य.अन्यस्य.वा.विशाख्यौ.छेदयन्ति ।
श्श्स्_17.1.16: परः.पुरुषे ।
श्श्स्_17.1.17: वंशम्.च ।
श्श्स्_17.1.18: यद्य्.उदुम्बरो.न.विद्येत.यो.अन्यो.वृक्षः.फल.ग्रहिष्णुः.कल्याण.अभिव्याहारो.वा.स्यात्.तस्य.एतद्.उपकल्पयेत् ।
श्श्स्_17.2.1: अथ.मौञ्ज्यौ.रज्जू.कारयन्ति ।
श्श्स्_17.2.2: दृढे ।

श्श्स्_17.2.3: त्रिगुणे ।
श्श्स्_17.2.4: परो.द्वि.व्यायामे ।
श्श्स्_17.2.5: एतावद्द्.होतारम्.अभितः ।
श्श्स्_17.2.6: औदुम्बरीम्.आसन्दीम्.उद्गात्रे.संघ्नन्ति ।
श्श्स्_17.2.7: तस्यै.प्रादेश.मात्राः.पादा.भवन्ति ।
श्श्स्_17.2.8: अरत्रि.मात्राणि.शीर्षण्यान्य्.अनूच्यानि ।
श्श्स्_17.2.9: ताम्.संहत्य.मौञ्जीभिः.स्यान्द्याभिर्.विवयन्ति.द्वि.गुणाभिः.प्रसल.विसृष्टाभिः ।
श्श्स्_17.3.1: अथ.एताम्.वीणाम्.शत.तन्त्रीम्.उपकल्पयन्ति ।
श्श्स्_17.3.2: तस्याः.पालाशी.सूना.भवति ।
श्श्स्_17.3.3: औदुम्बरो.दण्डः ।
श्श्स्_17.3.4: अपि.वा.औदुम्बरी.सूना.पालाशो.दण्डः ।
श्श्स्_17.3.5: ताम्.आनडुहेन.सर्व.रोहितेन.चर्मणा.बाह्यतो.लोम्ना.अभिषीव्यन्ति ।
श्श्स्_17.3.6: तस्यै.मूले.दण्डम्.दशधा.अतिविध्यन्ति ।
श्श्स्_17.3.7: तद्.दश.दश.रज्जूः.प्रवयन्ति ।
श्श्स्_17.3.8: ता.अग्रे.नाना.बध्नन्ति ।
श्श्स्_17.3.9: दण्ड.समासा.वीणा.शत.तन्त्री.भवति ।
श्श्स्_17.3.10: वेतस.शाखा.सपलाशा.वादिन्य्.उपक्लृप्ता.भवति ।
श्श्स्_17.3.11: स्वयम्.नता.वा.शा.इषीका ।
श्श्स्_17.3.12: घाट.कर्करीर्.अवघटरिकाः.काण्डवीणाः.पिच्चोरा.इति.पत्न्य.उपकल्पयन्ति ।
श्श्स्_17.3.13: उपमुखेन.पिच्छोराम्.वादयेत् ।
श्श्स्_17.3.14: वादनेन.काण्डवीणाम्ण् ।
श्श्स्_17.3.15: ताम्.घाटरीर्.इत्य्.आचक्षते ।
श्श्स्_17.3.16: या.घाटरी.मृदुम्.वादयेत्.सारातिः.स्यात् ।
श्श्स्_17.3.17: द्विषन्तम्.जनयेत् ।
श्श्स्_17.4.1: चतुरो.दुन्दुभीन्.अध्वर्युः.सहननान्.उपकल्पयति ।
श्श्स्_17.4.2: पूर्वस्यै.द्वार्या.अभितो.द्वार.बाहू.बहिः.सदः.संधौ.सहननाव्.आसञ्जयति ।
श्श्स्_17.4.3: अपरस्यै.द्वार्या.अभितो.द्वार.बाहू.अन्तः.सदः.संधौ.सहननाव्.आसञ्जयति ।
श्श्स्_17.4.4: यदि.षट्.स्युर्.दक्षिण.अर्धे.सदस.एकम्.उत्तर.अर्ध.एकम् ।
श्श्स्_17.4.5: मुञ्जानाम्.च.कुशानाम्.च.कूर्चम्.अध्वर्यवे.संस्कुर्वन्ति ।
श्श्स्_17.4.6: तस्मिंस्.तिष्ठन्.प्रत्यागृणाति ।
श्श्स्_17.4.7: अथ.इतरे.दीक्षिताः.प्रतिपुरुषम्.बृसीः.कुर्वते.यथा.प्रादेश.मात्रेण.उपरि.भूमेः.स्युः ।
श्श्स्_17.4.8: अथ.या.मार्जालीयम्.पर्येष्यन्त्यो.भवन्ति.ताभ्यः.प्रत्येकम्.नवान्.कलशान्.उपकल्पयन्ति ।
श्श्स्_17.5.1: अथ.एतम्.अश्वरथम्.उपकल्पयन्ति.वितत.वरूथम् ।
श्श्स्_17.5.2: धनुश्.च.त्रींश्.च.इषून् ।
श्श्स्_17.5.3: राजानम्.वा.राज.मात्रम्.वाजेर्.अस्तारम् ।
श्श्स्_17.5.4: यदि.राजा.वा.राज.मात्रो.वा.न.विद्येत.य.एताम्.धियम्.विद्यात्.स.एतत्.कुर्यात् ।
श्श्स्_17.5.5: उत्तरेण.आग्नीध्रम्.प्राञ्च्यौ.प्रह्वे.स्थूणे.विमिन्वन्त्य्.आखणाय ।
श्श्स्_17.5.6: तद्.इळ.संवर्तम्.वा.उत्करम्.वा.चर्मणा.अभिवितन्वन्ति ।
श्श्स्_17.5.7: तन्.न.सपत्रेण.अतिविध्येत् ।
श्श्स्_17.5.8: जघनेन.आग्नीध्रम्.बहिर्.वेद्य.वटम्.खनन्ति ।

श्श्स्_17.5.9: तम्.एतस्य.उपालम्भ्यस्य.ऋषभस्य.चर्मणा.प्राचीन.ग्रीवेण.उदीचीन.ग्रीवेण.वा.उत्तरतो.लोम्ना.अभिषीव्यन्ति ।
श्श्स्_17.5.10: तम्.तस्य.एव.लाङ्गूलेन.काले.भूमि.दुन्दुभिम्.आघ्नन्ति ।
श्श्स्_17.6.1: अथ.शूद्र.आर्यौ.स्त्री.पुमांसौ.बण्ड.खलती.इत्य्.उपकल्पयन्ति ।
श्श्स्_17.6.2: तद्.एतत्.पुराणम्.उत्सन्नम्.न.कार्यम्.एतस्मिन्.समुपक्लृप्ते ।
श्श्स्_17.6.3: संस्थिते.दशमे.अहनि.सदो.हविर्.धानानि.समूहन्ति ।
श्श्स्_17.6.4: आग्नीध्रम्.पत्नी.शालम्.च ।
श्श्स्_17.6.5: अथ.नवैः.कुशैर्.बहुलम्.उपस्तृणन्ति ।
श्श्स्_17.6.6: कतिपयान्.कुश.भारान्.निदधति.प्रातर्.बृसीभ्यः ।
श्श्स्_17.7.1: अथ.महा.रात्रे.महा.व्रताय.प्रातर्.अनुवाकम्.उपाकुर्वन्ति ।
श्श्स्_17.7.2: यथा.परिसहस्रम्.अनुब्रूयात् ।
श्श्स्_17.7.3: तस्य.पञ्चविंशः.स्तोमः ।
श्श्स्_17.7.4: राजनम्.पृष्ठम् ।
श्श्स्_17.7.5: अग्निष्टोमो.यज्ञः ।
श्श्स्_17.7.6: अथ.एते.परिष्टवणीया.भवन्ति.तृवृत्.पञ्चदशः.सप्तदश.एकविंश.इति ।
श्श्स्_17.7.7: ऐन्द्राग्नो.वा.ऐकादशिनानाम्.वा.एकः.सवनीयः ।
श्श्स्_17.7.8: ऐन्द्रश्.च.ऋषभः.प्राजापत्यश्.च.अज.उपालम्भ्यौ ।
श्श्स्_17.7.9: निरुक्त.ऐन्द्रः ।
श्श्स्_17.7.10: उपांशु.प्राजापत्यः ।
श्श्स्_17.7.11: ते.यत्र.वपासु.हुताषु.सम्प्रसर्पन्ति.तद्.एतत्.प्रेङ्ख.मिश्रम्.बहिर्.वेदि.प्रक्षाल्य.अन्तरेण.चात्वाल.उत्करौ.तीर्थम्.तेन.प्रपद्य.उत्तरेण.आग्नीध्रीयम्.धिष्ण्यम्.पर्याहृत्य.पूर्वया.द्वारा.सदः.प्रहृत्य.अग्रेण.उत्तरेण.होतुर्.धिष्ण्यम्.प्रान्.उपनिदधति ।
श्श्स्_17.7.12: एवम्.एव.यस्य.यस्य.बहिर्.वेदि.भवति.यथा.संचरः.सम्प्रसर्पणे.भवति.तथा.आहृत्य.उत्तरत.उपनिदधति ।
श्श्स्_17.7.13: तस्य.त्रैष्टुभम्.प्रातः.सवनम्.स्याद्.इति.पैङ्ग्यम्.शुष्क.भृङ्गारीयम् ।
श्श्स्_17.8.1: विशो.विशो.वो.अतिथिम्.इत्य्.आज्यम् ।
श्श्स्_17.8.2: तस्य.द्वादश.अर्धर्चशः.शस्त्वा.अग्निम्.नरो.दीधितिभिर्.अरण्योर्.इत्य्.एतत्.पञ्चविंशत्य्.ऋचम्.उपसंशंसति ।
श्श्स्_17.8.3: तद्.दिष्ट.शस्त्रम् ।
श्श्स्_17.8.4: त्रैष्टुभः.प्रौगः ।
श्श्स्_17.8.5: कुविद्.अङ्ग.नमसा.ये.वृधास.इति.वायव्यम्.च.ऐन्द्रवायवम्.च ।
श्श्स्_17.8.6: मैत्रावरुणम्.च.यथा.विषुवति ।
श्श्स्_17.8.7: क.उ.श्रवत्.कतमो.यज्ञियानाम्.इत्य्.आश्विनम् ।
श्श्स्_17.8.8: कथा.महाम्.अवृधत्.कस्य.होतुर्.इत्य्.ऐन्द्रम् ।
श्श्स्_17.8.10: उत.स्या.नः.सरस्वती.जुषाण.इति.सारस्वतम् ।
श्श्स्_17.8.11: स.तृच.क्लृप्तः ।
श्श्स्_17.8.12: तस्य.पच्छः.शस्त्रम् ।
श्श्स्_17.8.13: ऐकाहिकम्.वा.प्रातः.सवनम् ।
श्श्स्_17.8.14: क्लृप्तम्.प्रातः.सवनम् ।
श्श्स्_17.9.1: अथ.अतो.माध्यंदिनम्.सवनम् ।
श्श्स्_17.9.2: आ.त्वा.रथम्.यथा.ऊतय.इति.मरुत्वतीयस्य.प्रतिपत् ।
श्श्स्_17.9.3: इदम्.वसो.सुतम्.अन्ध.इत्य्.अनुचरः ।
श्श्स्_17.9.4: एष.एव.नित्य.एकाह.आतानः ।
श्श्स्_17.9.5: असत्सु.मे.जरितः.साभिवेग.इति.वासुक्रम्.पूर्वम्.शस्त्वा.महान्.इन्द्रो.नृवदा.चर्षणिप्रा.इत्य्.एतस्मिंस्.त्रैष्टुभे.निविदम्.दधाति ।
श्श्स्_17.9.6: उभे.सूक्ते.पच्चः.संशस्येत् ।

श्श्स्_17.9.7: इति.न्वा.उ.मरुत्वतीयम् ।
श्श्स्_17.10.1: अथ.अतो.निष्केवल्यम् ।
श्श्स्_17.10.2: संस्थिते.प्रातः.सवने.प्रेङ्खावटौ.खानयेद्.इति.सा.स्थितिः ।
श्श्स्_17.10.3: शस्ते.मरुत्वतीय.इति.पैङ्ग्यम् ।
श्श्स्_17.10.4: जघनेन.स्वम्.धिष्ण्यम्.पदम्.च.चतुर्.अङ्गुलम्.च.प्रमाय.तत्.पश्चाद्.उदीचीन.अग्रम्.फलकम्.निधाय.उभयतश्.चतुर्.अङ्गुले.उपधाय.बहिश्.चतुर्.अङ्गुलाभ्याम्.लेखे.लेखयित्वा.प्रेङ्खावटौ.खानयेद्.दक्षिणम्.पूर्वम्.अथ.उत्तरम् ।
श्श्स्_17.10.5: प्राञ्चौ.वा.उदञ्चौ.वा.उत्किरा.उत्किरन्ति ।
श्श्स्_17.10.6: तद्.विशाख्याव्.अवधाय.उदीचीन.अग्रम्.वंशम्.अभ्यादधाति ।
श्श्स्_17.10.7: शीर्ष्णा.होता.मिमीते ।
श्श्स्_17.10.8: यदि.ह्रस्वः.स्याद्.ऊर्ध्व.बाहुर्.मिमीते ।
श्श्स्_17.10.9: दृढ.पर्युष्टे.पर्यृषति.यथा.न.व्यथेयाताम् ।
श्श्स्_17.10.10: अथ.एतत्.प्रेङ्ख.फलकम्.रज्जुभिश्.चतुर्धा.अन्तेषु.परिव्ययति.यथा.न.सम्भ्रश्येत ।
श्श्स्_17.10.11: उत्तरेण.दक्षिणाम्.प्रेङ्ख.स्थूणाम्.दक्षिणाम्.रज्जुम्.बध्नन्ति ।
श्श्स्_17.10.12: दक्षिणेन.उत्तराम्.प्रेङ्ख.स्थूणाम्.उत्तराम्.रज्जुम्.बध्नन्ति ।
श्श्स्_17.10.13: तत्.सम्बाध्य.प्रास्यति.यथा.प्रादेश.मात्रेण.उपरि.भूमेः.स्यात् ।
श्श्स्_17.10.15: तद्.अभि.निवीळ्हम्.पर्यृषति.यथा.न.व्यथेत ।
श्श्स्_17.10.16: तत्.सम्बाध्य.उत्तरस्याम्.प्रेङ्ख.स्थूणायाम्.अपाश्रयति ।
श्श्स्_17.10.17: तत्.शस्ते.मरुत्वतीये.यथा.स्थानम्.स्थापयेत् ।
श्श्स्_17.11.1: अथ.अध्वर्युर्.माहेन्द्रम्.ग्रहम्.गृहीत्वा.इति ।
श्श्स्_17.11.2: अग्रेण.होतुर्.धिष्ण्यम्.प्रान्.उपविशति ।
श्श्स्_17.11.3: तम्.होता.आह.अध्वर्य.उप.नु.रम.इति ।
श्श्स्_17.11.4: स.उत्तरेण.उत्तराम्.प्रेङ्ख.स्थूणाम्.उत्तरेण.अध्वर्युम्.प्रन.उपनिष्क्रम्य.पूर्वया.द्वारा.आग्नीध्रम्.प्रपद्य.उत्तरेण.आग्नीध्रीयम्.धिष्ण्यम्.पर्येत्य.पश्चात्.प्रान्.उपविश्य.दक्षिणम्.जान्व्.आच्य.स्रुवेण.आज्य.स्थाल्या.उपहत्य.जुहोति ।
श्श्स्_17.12.1: आयुष्मद्.गायत्रम्.विश्वायू.रथन्तरम्.सर्व.आयुर्.बृहत्.साम.आयुर्.वामदेव्यम्.अत्यायुर्.यज्ञायज्ञीयम्.तेषाम्.अहम्.आयुषा.अयुष्मान्.भूयासम्.अस्यै.प्राणः.संचरति.प्रजायै.हृदयाय.कम्.सर्वा.विनुड्य.संतृड्यो.मय्य्.अस्तु.शरदः.शतम्.स्वाहा.इति.प्रथमाम् ।
श्श्स्_17.12.1: दिवे.स्वाहा.अन्तरिक्षाय.स्वाहा.पृथिव्यै.स्वाहा.इति.तिस्रः ।
श्श्स्_17.12.3: गवे.स्वाहा.वाचे.स्वाहा.वाचस्पतये.स्वाहा.इत्य्.अपरास्.तिस्रः ।
श्श्स्_17.12.4अ: यद्.इदम्.इति.हैतिहम्.दैव्यम्.सह.उच्चरेत्.।.तद्.वयम्.यजामहे.यद्.अस्मभ्यम्.इति.द्रवत् ।
श्श्स्_17.12.4: वाचो.राजन्.यजामहे.वाचस्पते.सहस्व.मे.।.यो.अस्मान्.अभिदासति.।.स्वाहा.इत्य्.अष्टमीम्.हुत्वा.यथा.आयतनम्.स्रुवम्.निधाय.यथा.प्रपन्नम्.उपनिष्क्रम्य.अग्रेण.सद.उत्तरेण.स्रुतिम्.प्रान्.तिष्ठन्.परिमादान्.जपान्.जपति ।
श्श्स्_17.12.5: वाग्.आयुर्.विश्व.आयुर्.विश्वम्.आयुर्.एह्य्.एवा.हि.इन्द्र.उपेहि.विश्वथ.विदा.मघवन्.विदा.इति ।
श्श्स्_17.12.6: अथ.अत्र.एव.तिष्ठन्न्.अग्निम्.यथा.अङ्गम्.उपतिष्ठते ।
श्श्स्_17.13.1: नमस्.ते.गायत्राय.यत्.ते.शिरो.यत्.ते.पुर.इति.पूर्व.अर्धम् ।
श्श्स्_17.13.2: नमस्.ते.रथन्तराय.यस्.ते.दक्षिणो.बाहुर्.यस्.ते.दक्षिणः.पक्ष.इति.दक्षिणम्.पक्षम् ।
श्श्स्_17.13.3: नमस्.ते.बृहते.यस्.त.उत्तरो.बाहुर्.यस्.त.उत्तरः.पक्ष.इत्य्.उत्तरम्.पक्षम् ।
श्श्स्_17.13.4: नमस्.ते.वामदेव्याय.यत्.ते.मध्यम्.यस्.त.आत्मा.इति.मध्यम् ।
श्श्स्_17.13.5: नमस्.ते.यज्ञायज्ञीयाय.यत्.ते.पुच्छम्.या.प्रतिष्ठा.इति.पुच्छम् ।
श्श्स्_17.13.6: समिद्धस्य.एव.एतान्.भागान्.उपतिष्ठेत.यद्य्.उत्तर.वेदौ.भवति ।
श्श्स्_17.13.7: अथ.अत्र.एव.तिष्ठन्न्.आदित्यम्.उपतिष्ठते ।
श्श्स्_17.13.8: आकाशम्.शालायै.कुर्युर्.इति.ह.एक.आहुः ।
श्श्स्_17.13.9: देशेन.त्व्.एव.उपातिष्ठते ।
श्श्स्_17.13.10: सुभूर्.नामा.असि.श्रेष्ठो.राश्मिर्.देवानाम्.संसद्यया.तन्वा.ब्रह्म.जिन्वसि.तया.मा.जिन्व.तया.मा.जनय.तया.मा.पाहि.ब्रह्म.वर्चसम्.अन्न.अद्यम्.मयि.त्विषिम्.धा.नमस्.ते.अस्तु.मा.मा.हिंसीर्.इति ।
श्श्स्_17.13.11: अथ.दक्षिण.आवृत्.प्रविशति ।
श्श्स्_17.13.12: पश्चात्.प्रेङ्खम्.प्रान्.उपविश्य.तद्.अन्वारभ्यान्.अनुसृजन्.वाग्.यत.आस्त.आधिसर्पणात् ।

श्श्स्_17.14.1: स.पुरस्ताद्.एव.छन्दोगेभ्यः.शीर्षण्यांस्.तृचान्.निगादयेत ।
श्श्स्_17.14.2: स.पुरस्ताद्.एव.अध्वर्युणा.संवादयेत ।
श्श्स्_17.14.3: द्वादश.कृत्वस्.तूष्णीम्.शंसे.प्रत्यागृणीताद्.विहृतम्.आत्मानम्.च.पद.अनुषङ्गांश्.च.संशिष्य.अभ्यवहृतम्.त्वम्.प्रत्यागृणीताद्.इति ।
श्श्स्_17.14.4: अथ.प्रस्तोतारम्.आह.सप्तसु.स्तोत्रियासु.परिशिष्टासु.नः.प्रब्रूतात्.तावद्द्.हि.इदम्.जप्यम्.इति ।
श्श्स्_17.14.5: अथ.अध्वर्युः.स्तोत्रम्.उपाकरोति ।
श्श्स्_17.14.6: यत्र.एव.उद्गाता.आसन्दीम्.अदिह्रोहत्य्.अथ.प्रस्तोता.प्रतिहर्तारौ.बृस्याव्.अधिसर्पतः ।
श्श्स्_17.14.7: उपगातारश्.च ।
श्श्स्_17.14.8: उद्गाता.एव.प्रथमो.वीणाम्.प्रवादयति ।
श्श्स्_17.14.9: तम्.पत्न्यो.अनु.प्रवादयन्ति ।
श्श्स्_17.14.10: आघ्नन्ति.दुन्दुभीन् ।
श्श्स्_17.14.11: आहन्ति.भूमि.दुन्दुभिम् ।
श्श्स्_17.14.12: कुर्वन्ति.घोषम्.घोष.कृतः ।
श्श्स्_17.14.13: अथ.पूर्ण.कुम्भा.अपो.बिभ्रत्यो.मार्जालीयम्.परियन्ति ।
श्श्स्_17.14.14: है.महा3.इदम्.मध्व्.इदम्.मध्व्.इत्य्.एताम्.वाचम्.वदन्ति ।
श्श्स्_17.14.15: अप्रदक्षिणम्.त्रिः ।
श्श्स्_17.14.16: प्रसलवि.तूष्णीम्.तत.ऊर्ध्वम् ।
श्श्स्_17.15.1: अथ.एतम्.अश्व.रथम्.युञ्जन्ति ।
श्श्स्_17.15.2: अग्रेण.दक्षिणम्.वेद्यंसम् ।
श्श्स्_17.15.3: तम्.सम्नद्ध.आतिष्ठति.राजा.वा.राज.मात्रो.वा.धनुश्.च.त्रींश्.च.इषून्.आदाय ।
श्श्स्_17.15.4: सो.अभितो.वेदिम्.त्रिः.प्रसलवि.परिवर्तमान.एतम्.आखणम्.विध्यति ।
श्श्स्_17.15.5: तम्.न.सपत्रेण.अतिविध्येत् ।
श्श्स्_17.15.6: एवम्.द्वितीयम्.एवम्.तृतीयम् ।
श्श्स्_17.15.7: तम्.प्राञ्चम्.उदञ्चम्.श्रथ्नन्ति ।
श्श्स्_17.15.8: तम्.तत्र.एव.विमुञ्चन्ति ।
श्श्स्_17.15.9: अथ.प्रस्तोता.सप्तसु.स्तोत्रियासु.परिशिष्टा.स्वाहा.वेला.इति ।
श्श्स्_17.15.10: अथ.होता.दक्षिणेन.प्रादेशेन.प्रेङ्ख.फलकम्.च.भूमिम्.च.समृशन्.जपति.सम्.महान्.महत्या.दधाद्.इति ।
श्श्स्_17.15.11: अथ.उपरि.प्रेङ्ख.फलके.प्रादेशम्.निधाय.जपति.सम्.देवो.देव्या.दधाद्.इति ।
श्श्स्_17.15.13: अथ.उपरि.प्रेङ्ख.फलकात्.प्रादेश.मात्रे.प्रादेशम्.धारयन्.जपति.सम्.ब्रह्म.ब्राह्मण्या.दधाद्.इति ।
श्श्स्_17.15.13: अथ.उपनिधाय.प्रेङ्ख.फलकम्.त्रिर्.अभ्यन्य.त्रिर्.अभ्यवान्.इति ।
श्श्स्_17.16.1: अथ.एनद्.उरसा.संस्पृश्य.दक्षिणम्.भागम्.आत्मनो.अतिहरन्.जपत्य्.अर्को.असि.वसवस्.त्वा.गायत्रेण.छन्दसा.आरोहन्तु.तान्.अहम्.अन्वारोहामि.राज्याय.इति ।
श्श्स्_17.16.2: अथ.उत्तरम्.भागम्.आत्मनो.अतिहरन्.जपति.रुद्रास्.त्वा.त्रैष्टुभेन.छन्दसा.आरोहन्तु.तान्.अहम्.अन्वारोहामि.स्वाराज्याय.इति ।
श्श्स्_17.16.3: अथ.दक्षिणम्.भागम्.आत्मनो.अतिहरन्.जपत्य्.आदित्यास्.त्वा.जागतेन.छन्दसा.आरोहन्तु.तान्.अहम्.अन्वारोहामि.सांराज्याय.इति ।
श्श्स्_17.16.4: अथ.उत्तरम्.भागम्.आत्मनो.अतिहरन्.जपति.विश्वे.त्वा.देवा.आनुष्टुभेन.छन्दसा.आरोहन्तु.तान्.अहम्.अन्वारोहामि.कामप्राय.इति ।
श्श्स्_17.16.5: अथ.समधिऋप्य.प्राञ्चौ.पादा.उपावहृत्य.भूमौ.प्रतिष्ठापयति ।
श्श्स्_17.16.6: अथ.त्रिर्.अभ्यन्य.त्रिर्.अभ्यवान्.इति ।
श्श्स्_17.16.7: अथ.उपरि.प्रेङ्ख.फलके.दक्षिण.उत्तरिणम्.उपस्थम्.कृत्वा.दक्षिणेन.प्रादेशेन.पश्चात्.प्रेङ्ख.फलकम्.उपस्पृशति.प्रजापतिष्.ट्वा.आरोहतु.वायुः.प्रेङ्खयत्व्.इति ।
श्श्स्_17.16.8: अथ.त्रिर्.अभ्यन्य.त्रिर्.अभ्यवान्.इति ।
श्श्स्_17.16.9: अथ.प्राञ्चो.पाणी.परिगृह्य.जपति ।
श्श्स्_17.17.1: सम्.वाक्.प्राणेन.सम्.अहम्.प्राणेन.सम्.चक्षुर्.मनसा.सम्.अहम्.मनसा.सम्.प्रजापतिः.पशुभिः.सम्.अहम्.पशुभिः.सुपर्षो.असि.गरुत्मान्.प्रेमाम्.वाचम्.वदिष्यामि.बहु.करिष्यन्तीम्.बहु.करिष्यन्.बाहोर्.भूयः.स्वर्गम्.इष्यन्तीम्.स्वर्गम्.इष्यन्न्.इति ।
श्श्स्_17.17.2: अथ.त्रिर्.अभ्यन्य.त्रिर्.अभ्यवान्.इति ।

श्श्स्_17.17.3: स.विसृष्ट.वान्.मत्सरम्.विनिनीषमाण.आस्त.आ.स्तोत्रस्य.प्रवदनात् ।
श्श्स्_17.17.4: यत्र.एव.होता.प्रेङ्खम्.अधिरोहति.तत्.सर्वे.सगृह.पतिका.बृसीर्.अधिसर्पन्ति ।
श्श्स्_17.17.5: उत्तमायाम्.स्तोत्रियायाम्.परिशिष्टायाम्.अवतृणत्ति.दुन्दुभीन् ।
श्श्स्_17.17.6: अवतृणत्ति.भूमि.दुन्दुभिम् ।
श्श्स्_17.17.7: उपरमन्ति.घोषम्.घोष.कृतः ।
श्श्स्_17.17.8: अथ.पूर्ण.कुम्भा.अपो.बिभ्रत्यो.मार्जालीयम्.परियन्ति ।
श्श्स्_17.17.9: मार्जालीये.ताः.कलशान्.अवनिनीय.उपनिधाय.यथा.एतम्.उत्सृज्यन्ते ।
श्श्स्_17.17.10: एषा.इति.प्राह ।
श्श्स्_17.17.11: प्रोक्ते.होता.वाचम्.यच्छत्य्.आ.अनुवषट्.कारात् ।
श्श्स्_17.17.12: उप.प्रथारम्.आहावे.अनुरमति ।
श्श्स्_17.17.13: प्रतिहृत.आह्वयते ।
श्श्स्_17.17.14: अध्वर्यो.शोंसावो3.इत्य्.उच्चैर्.आहूय.यथा.अस्य.वाक्.सर्वा.अन्या.वाचो.अतिवदेत् ।
श्श्स्_17.17.15: उच्चैर्.आहूय.त्रिर्.उपांशु.हिम्.कृत्य.उपांशु.तूष्णीम्.शंसम्.।.तस्य.अतस्.तस्य.अतः ।
श्श्स्_18.1.1: उच्चैर्.आहूय.त्रिर्.उपांशु.हिम्.कृत्य ।
श्श्स्_18.1.2: ब्रह्म.जज्ञानम्.प्रथमम्.पुरस्ताद्.इयम्.पित्रे.राष्ट्र्या.इत्य्.अग्रे.विश्वे.देवा.मम.शृण्वन्तु.यज्ञिया.इत्य्.एतास्.तिस्र.ऋचस्.तूष्णीम्.शंसस्.ता.उपांश्व्.अप्रणुवन्.पच्छः ।
श्श्स्_18.1.3: अथ.आत्मने.वाचम्.उत्सृजति ।
श्श्स्_18.1.4: तद्.इद्.आस.भुवनेषु.ज्येष्ठम्.इति.स्तोत्रियस्.तृचः ।
श्श्स्_18.1.5: तद्.एतन्.नवर्चम् ।
श्श्स्_18.1.6: वने.न.वा.यो.न्यधायि.च.अकन्न्.इत्य्.अष्टौ ।
श्श्स्_18.1.7: शाक्मना.शोका.अरुणः.सुपर्ण.इति.तृचम् ।
श्श्स्_18.1.8: यो.अदधाज्.ज्योतिषि.ज्योतिर्.अन्तर्.महत्.तन्.नाम.गुह्यम्.पुरुस्पृग्.इदम्.त.एकम्.पर.ऊ.त.एकम्.इति.तिस्र.एक.पातिन्यः ।
श्श्स्_18.1.9: तास्.त्रयो.विंशतिः ।
श्श्स्_18.1.10: त्रिः.शस्तया.प्रथमया.सह.पञ्चविंशतिः ।
श्श्स्_18.1.11: स.एष.आत्मा.पञ्च.विंशः ।
श्श्स्_18.1.12: तम्.नदेन.उपसृष्टम्.शंसति ।
श्श्स्_18.1.13: नदम्.व.ओदतीनाम्.इति ।
श्श्स्_18.1.14: त्रैष्टुभानि.पूर्वाणि.पदानि.नदस्य.उत्तराणि ।
श्श्स्_18.1.15: प्रथमेन.त्रैष्टुभेन.पदेन.प्रथमम्.नदस्य.पदम्.उपसंधाय.अवस्यति ।
श्श्स्_18.1.16: द्वितीयेन.त्रैष्टुभेन.द्वितीयम्.संधाय.प्रणौति ।
श्श्स्_18.1.17: तृतीयेन.त्रैष्टुभेन.तृतीयम्.संधाय.अवस्यति ।
श्श्स्_18.1.18: चतुर्थेन.त्रैष्टुभेन.चतुर्थम्.संधाय.प्रणौति ।
श्श्स्_18.1.19: एव्म.विहृताम्.प्रथमाम्.त्रिः.शंसति ।
श्श्स्_18.1.20: पराचीर्.उत्तराः ।
श्श्स्_18.1.21: एवम्.विहृता.एव.या.तृतीया.सूक्तस्य.तस्या.उत्तरम्.अर्धर्चम्.उत्सृजति.नदस्य.च.उत्तरम् ।
श्श्स्_18.1.22: तौ.पुरस्ताद्.द्विपदानाम्.शंसति ।
श्श्स्_18.1.23: आत्मानम्.शस्त्वा.अथ.सूद.दोहसम्.शंसति.।.ता.अस्य.सूद.दोहस.इति.ताम्.अर्धर्चशः ।
श्श्स्_18.2.1: अथ.एतानि.शीर्षण्यानि.तृचानि.शंसति ।
श्श्स्_18.2.2: इन्द्रम्.इद्.गाथिन.इन्द्रेण.सम्.हि.इन्द्रो.दधीच.उत्तिष्ठन्न्.ओजसा.सह.उद्.घेद्.अभि.श्रुताम्.अघम्.उद्.उ.त्यम्.जात.वेदसम्.इत्य्.एतेषाम्.तृचानाम्.येषु.सामगाः.स्तुवीरंस्.तानि.शंसेत् ।
श्श्स्_18.2.3: उद्.उ.त्यम्.जात.वेदसम्.इत्य्.एतस्मिन्न्.उ.ह.एके.नवर्चे.स्तुवते ।
श्श्स्_18.2.4: ते.यदि.तथा.कुर्युर्.एतद्.एव.शंसेत् ।

श्श्स्_18.2.5: उद्.उ.त्यम्.जात.वेदसम्.इत्य्.एतस्य.उ.ह.एके.प्रथमे.तृचे.स्तुवते ।
श्श्स्_18.2.6: ते.यदि.तथा.कुर्युर्.इतरेषाम्.ये.कामयेत.ते.उपाहरेत् ।
श्श्स्_18.2.7: तान्य्.अर्धर्चशः.शस्त्वा.अथ.सूद.दोहसम् ।
श्श्स्_18.3.1: अथ.एतम्.ग्रैवम्.तृचम्.शंसति ।
श्श्स्_18.3.2अ: यस्य.इदम्.ओज.आरुजस्.तुजो.युजो.बलम्.सहः.।.इन्द्रस्य.रन्त्यम्.बृहत् ।
श्श्स्_18.3.2ब्: अनाधृष्टम्.विपन्यया.नाधृष.आदधर्षया.।.धृषाणम्.धृषितम्.शवः ।
श्श्स्_18.3.2च्: स.नो.ददातु.तम्.रयिम्.पुरु.पिशङ्ग.संदृशम्.।.इन्द्रस्पति.स्तव.स्तोमो.जनेषु.इति ।
श्श्स्_18.3.3: तम्.अर्धर्चशः.शस्त्वा.अथ.सूद.दोहसम् ।
श्श्स्_18.4.1: उरुम्.नो.लोकम्.अनु.नेषि.विद्वान्.इत्य्.अक्षा ।
श्श्स्_18.4.2: ताम्.पच्छः.शस्त्वा.अथ.सूद.दोहसम् ।
श्श्स्_18.4.3: अथ.रथन्तरस्य.स्तोत्रियम्.पुनर्.आदायम्.ककुप्.कारम्.अथ.सूद.दोहसम् ।
श्श्स्_18.4.4: अथ.रथन्तरस्य.अनुरूपम्.पुनर्.आदायम्.ककुप्.कारम्.अथ.सूद.दोहसम् ।
श्श्स्_18.4.5: अतः.धाय्याम्.पच्छः.शस्त्वा.अथ.सूद.दोहसम् ।
श्श्स्_18.4.6: अथ.राथन्तरम्.प्रगाथम्.अर्धर्चशः.शस्त्वा.अथ.सूद.दोहसम् ।
श्श्स्_18.4.7: य.एक.इद्द्.हव्यश्.चर्षणीनाम्.इति.सूक्तम्.तत्.पच्छस्.तस्य.द्वितीयाम्.उद्धृत्य.विश्वो.ह्य्.अन्यो.अरिर्.आ.जगाम.इति.या.एतस्य.द्वितीया.ताम्.इह.द्वितीयाम्.करोति.सूक्तम्.शस्त्वा.अथ.सूद.दोहसम् ।
श्श्स्_18.4.8: तम्.इन्द्रम्.जोहवीमि.मघवानम्.उग्रम्.इति.प्रहस्तकस्.तृचः ।
श्श्स्_18.4.9: तम्.पच्छः.शस्त्वा.अथ.सूद.दोहसम् ।
श्श्स्_18.5.1: स.सूर्ये.जनयन्.ज्योतिर्.इन्द्रो.अया.धिया.तरणिर्.अङ्गिरस्वान्.।.ऋतेन.शुष्मी.हवमानो.अर्कैर्.अभि.स्पृध.उस्रो.वेदिम्.ततर्द.।.इत्य्.अक्षा ।
श्श्स्_18.5.2: ताम्.पच्छः.शस्त्वा.अथ.सूद.दोहसम् ।
श्श्स्_18.5.3: अथ.बृहतः.स्तोत्रियम्.पुनर्.आदायम्.ककुप्.कारम्.अथ.सूद.दोहसम् ।
श्श्स्_18.5.4: अथ.बृहतो.अनुरूपम्.पुनर्.आदायम्.ककुप्.कारम्.अथ.सूद.दोहसम् ।
श्श्स्_18.5.5: न.अत्र.धाय्या.भवति ।
श्श्स्_18.5.6: अथ.बार्हतम्.प्रगातह्म्.अर्धर्चशः.शस्त्वा.अथ.सूद.दोहसम् ।
श्श्स्_18.5.7: विश्वो.ह्य्.अन्यो.अरिर्.आ.जगाम.इति.सूक्तम्.तत्.पच्छस्.तस्य.द्वितीयाम्.उद्धृत्य.य.एक.इद्द्.हव्यश्.चर्षणीनाम्.इति.या.एतस्य.द्वितीया.ताम्.इह.द्वितीयाम्.करोति ।
श्श्स्_18.5.8: सूक्तम्.शस्त्वा.अथ.सूद.दोहसम् ।
श्श्स्_18.5.9: विश्वाः.पृतना.अभिभूतरम्.नरम्.इति.प्रहस्तकस्.तृचः ।
श्श्स्_18.5.10: तस्य.पच्छः.प्रथमाम्.शंसत्य्.अर्धर्चश.उत्तरे ।
श्श्स्_18.5.11: प्रहस्तकम्.शस्त्वा.अथ.सूद.दोहसम् ।
श्श्स्_18.6.1: अथ.एतानि.चतुर्.उत्तराणि.तृचानि.शंसति ।
श्श्स्_18.6.2: इन्द्राय.मद्वने.सुतम्.इन्द्रम्.वृत्राय.हन्तवे.गायन्ति.त्वा.गायत्रिणो.न.त्वा.बृहन्तो.अद्रय.इति.चत्वारि.तृचानि ।
श्श्स्_18.6.3: तान्य्.अर्धर्चशः ।
श्श्स्_18.6.4: इत्था.हि.सोम.इन्.मद.इति.पाङ्क्तम्.तृचम्.तत्.पङ्क्ति.शंसम् ।
श्श्स्_18.6.5: सम्.च.त्वे.जग्मुर्.गिर.इन्द्र.पूर्वीर्.आद्.अङ्गिराः.प्रथमम्.दधिरे.वय.इति.त्रैष्टुभ.जागते.तृचे ।
श्श्स्_18.6.6: ते.पच्छः.शस्त्वा.अथ.सूद.दोहसम् ।
श्श्स्_18.7.1: अथ.एता.अशीतीः.शंसति ।
श्श्स्_18.7.2: महान्.इन्द्रो.य.ओजसा.इत्य्.एतया.गायत्रीम्.अशीतिम्.प्रतिपद्यते ।
श्श्स्_18.7.3: तानि.पञ्चदश.तृचानि ।
श्श्स्_18.7.4: इन्द्र.इत्.सोमपा.एक.इत्य्.अष्टौ ।
श्श्स्_18.7.5: एव.इद्.एष.तुवि.कूर्मिर्.इति.त्रीणि ।
श्श्स्_18.7.6: आ.घा.ये.अग्निम्.इन्धत.इति.चतुर्दश ।

श्श्स्_18.7.7: तानि.चत्वारिंशत्.तृचानि ।
श्श्स्_18.7.8: तत्.पूर्वम्.कपलम् ।
श्श्स्_18.7.9: अथ.उत्तरम् ।
श्श्स्_18.7.10: प्र.कृतान्य्.ऋजीषिण.इति.दश.तृचानि ।
श्श्स्_18.7.11: अपाद्.उ.शिप्र्य्.अन्धस.इति.पञ्च ।
श्श्स्_18.7.12: आ.त्वा.विशन्त्व्.इन्दव.इति.चत्वारि ।
श्श्स्_18.7.13: यद्.अद्य.कच्.च.व्त्रहन्न्.इति.पञ्च ।
श्श्स्_18.7.14: पत्नीवन्तः.सुता.इम.इति.चत्वारि ।
श्श्स्_18.7.15: इदम्.ह्य्.अन्व्.ओजसा.उत्तिष्ठन्न्.ओजसा.सह.अभि.प्र.गोपतिम्.इति.त्रीणि.तृचानि ।
श्श्स्_18.7.16: तेषाम्.यत्.पुरस्तात्.कृतम्.स्यात्.तद्.उद्धरेत् ।
श्श्स्_18.7.17: यद्य्.उ.वै.न.कुर्युर्.उद्.एव.हरेत् ।
श्श्स्_18.7.18: य.आनयत्.परावत.इति.दश.तृचानि ।
श्श्स्_18.7.19: तानि.चत्वारिंशत्.तृचानि ।
श्श्स्_18.7.20: तद्.उत्तरम्.कपलम् ।
श्श्स्_18.7.21: अथ.सूद.दोहाः ।
श्श्स्_18.8.1: या.इन्द्र.भुज.आभर.इत्य्.एतया.बार्हतीम्.अशीतिम्.प्रतिपद्यते ।
श्श्स्_18.8.2: ता.नव.प्रत्यक्ष.बृहत्यः ।
श्श्स्_18.8.3: विश्वे.त.इन्द्र.वीर्यम्.इति.तिस्रः ।
श्श्स्_18.8.4: तम्.घेम्.इत्था.नमस्विन.इति.द्वे ।
श्श्स्_18.8.5: न.सीम.देव.आपद्.इति.षट् ।
श्श्स्_18.8.6: ता.विंशतिः.प्रत्यक्ष.बृहत्यः ।
श्श्स्_18.8.7: अथ.प्रगाथाः ।
श्श्स्_18.8.8: यः.सत्राहा.विचर्षणिर्.इति.चत्वारः ।
श्श्स्_18.8.9: मो.षु.त्वा.वाघतश्.चन.इति.चत्वार.उद्धृत्य.द्विपदाम् ।
श्श्स्_18.8.10: उद्.इन्.व्.अस्य.रिच्यत.इति.पञ्च ।
श्श्स्_18.8.11: तत्.त्वा.यामि.सुवीर्यम्.युक्ष्वा.हि.वृत्रहन्तम.इति.द्वौ.द्वौ ।
श्श्स्_18.8.12: यद्.इन्द्र.प्राग्.अपाग्.उदग्.इति.सप्त ।
श्श्स्_18.8.13: आ.वृषस्व.पुरूवसो.इति.द्वौ ।
श्श्स्_18.8.14: अविप्रो.वा.यद्.अविधद्.इति.पञ्च ।
श्श्स्_18.8.15: यः.शक्रो.मृक्षो.अश्व्य.इति.षट् ।
श्श्स्_18.8.16: तेषाम्.त्रीन्.आदत्ते ।
श्श्स्_18.8.17: ते.चत्वारिंशत्.प्रगाथाः ।
श्श्स्_18.9.1: अथ.प्रत्यक्ष.बृहतीः.शंसति ।
श्श्स्_18.9.2: महे.चन.त्वाम्.अद्रिव.इति.पञ्चविंशतिः ।
श्श्स्_18.9.3: तासाम्.विंशतिम्.शस्त्वा.अथ.सूद.दोहसम् ।
श्श्स्_18.9.4: नि.गव्यत.इति.निविद्धानीया ।
श्श्स्_18.9.5: ताम्.पच्छः.शस्त्वा.आहूय.निविदम्.दधाति ।
श्श्स्_18.9.6: ताम्.पच्छो.व्यवग्राहम्.शस्त्वा.सम.सूक्ताम् ।
श्श्स्_18.9.7: उत्तमेन.पदेन.प्रणुत्य.स.जातेभिर्.इति.निविदा.शंसति ।
श्श्स्_18.9.8: ताम्.पच्छः.शस्त्वाअ.थ.सूद.दोहसम् ।

श्श्स्_18.10.1: अथ.प्रत्यक्ष.बृहतीः.शंसति ।
श्श्स्_18.10.2: याः.पञ्चविंशतेः.परिशिष्टास्.ताभिः.प्रतिपद्यते ।
श्श्स्_18.10.3: वयम्.घ.त्वा.सुतावन्त.इति.पञ्चदश ।
श्श्स्_18.10.4: ता.विंशतिः.प्रत्यक्ष.बृहत्यः ।
श्श्स्_18.10.5: अथ.प्रगाथाः ।
श्श्स्_18.10.6: ये.षण्णाम्.त्रयः.परिशिष्टास्.तैः.प्रतिपद्यते ।
श्श्स्_18.10.7: यो.राजा.चर्षणीनाम्.इति.त्रयः ।
श्श्स्_18.10.8: तम्.वो.दस्मम्.ऋतीषहम्.इत्य्.एकः ।
श्श्स्_18.10.9: आ.नो.विश्वासु.हव्य.इति.त्रयः ।
श्श्स्_18.10.10: त्वाम्.इद्.आ.ह्यो.नर.इति.चत्वारः ।
श्श्स्_18.10.11: अथ.वालखिल्यानाम्.सूक्तानि.षट् ।
श्श्स्_18.10.12: तेषाम्.द्वौ.प्रगाथा.उत्सृजति.इन्द्र.निहवम्.च.वैश्वदेवम्.च.आ.नो.विश्वे.सजोषस.इति ।
श्श्स्_18.10.13: ते.चत्वारिंशत्.प्रगाथाः ।
श्श्स्_18.11.1: अथ.प्रत्यक्ष.बृहतीः.शंसति ।
श्श्स्_18.11.2: मत्स्य्.अपायि.ते.महो.अस्मा.अस्मा.इद्.अन्धसो.बलम्.धेहि.तनूषु.नो.युजानो.हरिता.रथे.तव.इद्.इन्द्र.अहम्.आशसा.अमासु.पक्वम्.ऐरय.इयम्.या.नीच्य्.अर्किणी.प्र.ते.रथम्.मिथू.कृतम्.अन्तर्.यच्छ.जिघांसतस्.त्वम्.विश्वस्य.जगत.इति.दश.एक.पातिन्यः ।
श्श्स्_18.11.3: अयम्.ते.अस्तु.हर्यत.आ.मन्द्रैर्.इन्द्र.हरिभिर्.इति.सूक्ते ।
श्श्स्_18.11.4: ते.अर्धर्चशः.शस्त्वा.अथ.सूद.दोहसम् ।
श्श्स्_18.12.1: इन्द्रः.सुतेषु.सोमेष्व्.इत्य्.एतया.औष्णिहीम्.अशीतिम्.प्रतिपद्यते ।
श्श्स्_18.12.2: तान्य्.एकादश.तृचानि ।
श्श्स्_18.12.3: य.इन्द्र.सोमपातम.इत्य्.एकादश.तेषाम्.एकम्.उत्सृजति.इन्द्रम्.वृत्राय.हन्तव.इति ।
श्श्स्_18.12.4: तम्.व्.अभि.प्र.गायत.इति.चत्वारि ।
श्श्स्_18.12.5: सखाय.आ.शिषामहि.इति.नव ।
श्श्स्_18.12.6: य.एक.इद्.विदयत.आ.याह्य्.अद्रिभिः.सुतम्.इति.द्वे.तृचे ।
श्श्स्_18.12.7: तानि.षट्.त्रिंशत्.तृचानि ।
श्श्स्_18.13.1: अथ.चतुः.शतम्.गायत्रीः.शंसति ।
श्श्स्_18.13.2: नकिर्.इन्द्र.त्वद्.उत्तर.इति.षट् ।
श्श्स्_18.13.3: दिवश्.चिद्.घा.दुहितरम्.इति.चतुर्दश ।
श्श्स्_18.13.4: आ.तू.न.इन्द्र.वृत्रहन्न्.इत्य्.एक.विंशतिः ।
श्श्स्_18.13.5: आ.व.इन्द्रम्.क्रिविम्.यथा.यद्.इन्द्र.अहम्.यथा.त्वम्.इति.पञ्चदशर्चे ।
श्श्स्_18.13.6: प्र.संराजम्.चर्षणीनाम्.उत्त्वा.मन्दन्तु.स्तोमा.इति.द्वादशर्चे ।
श्श्स्_18.13.7: आ.प्र.द्रव.परावत.इति.नव ।
श्श्स्_18.13.8: इति.चतुः.शतम्.गायत्रीः ।
श्श्स्_18.13.9: वयम्.उ.त्वाम्.अपूर्व्या.इत्य्.अष्टौ.काकुभाः.प्रगाथाः ।
श्श्स्_18.13.10: इन्द्राय.साम.गायत.इति.सर्वम् ।
श्श्स्_18.13.11: तद्.अर्धर्चशः.शस्त्वा.अतः.सूद.दोहसम् ।
श्श्स्_18.14.1: अथ.एतम्.वशम्.अर्धर्चशः.शंसति ।
श्श्स्_18.14.2: त्वावतः.पुरूवसो.इति ।
श्श्स्_18.14.3: तस्य.सप्तदशी.जगती.ताम्.पच्छः ।
श्श्स्_18.14.4: अथ.एकविंशी.द्वाविंशी.चतुर्विंशी.च.पङ्क्तयस्.ताः.पङ्क्ति.शंसम् ।
श्श्स्_18.14.5: शतम्.दासे.बल्बूथ.इति.पञ्च.पदा.तस्यै.त्रीणि.पदानि.समस्य.अवस्येद्.द्वाभ्याम्.प्रणुयात् ।

श्श्स्_18.14.6: त्रयोदशी.च.त्रिंशत्तमी.च.द्विपदे.ते.पच्छः.शस्त्वा.अथ.सूद.दोहसम् ।
श्श्स्_18.14.7: अथ.एतौ.विहृताव्.अर्धर्चाव्.अथ.सूद.दोहसम् ।
श्श्स्_18.14.8: सा.तत.एव.उत्सृज्यते ।
श्श्स्_18.14.9: अत्र.चतुर्.विंशति.कृत्वः.शस्ता.भवति ।
श्श्स्_18.15.1: अथ.एता.द्विपदाः.शंसति ।
श्श्स्_18.15.2: इमा.नु.कम्.भुवना.सीषधाम.इति.पञ्च ।
श्श्स्_18.15.3: आ.याहि.वनसा.सह.इति.चतस्रः ।
श्श्स्_18.15.4: एष.ब्रह्मा.य.ऋत्विय.इति.तिस्रः ।
श्श्स्_18.15.5अ: प्र.व.इन्द्राय.वृत्रहन्तमाय.विप्रा.गाथम्.गायत.यज्.जुजोषति.।.अर्चन्त्य्.अर्कम्.मरुतः.स्वर्का.आ.स्तोभति.श्रुतो.युवा.स.इन्द्रः ।
श्श्स्_18.15.5ब्: उपप्रक्षे.मधुमति.क्षियन्तः.पुष्येम.रयिम्.धीमहे.त.इन्द्र.।.विश्वतो.दावन्.विश्वतो.न.आ.भर.यम्.त्वा.शविष्ठम्.ईमहे.।.स.सुप्रणीती.नृतमः.स्वराऌ.असि.मंहिष्ठो.वाज.सातये.।.त्वम्.हि.राधस्यत.एक.ईशिषे.सनाद्.अमृक्त.ओजसा.।.इति.षट् ।
श्श्स्_18.15.6: आ.धूर्ष्व्.अस्मै.वज्रम्.एको.अया.वाजम्.देव.हितम्.सनेम.इति ।
श्श्स्_18.15.7: ता.एकविंशतिर्.द्विपदास्.ताः.पच्छः ।
श्श्स्_18.16.1: अथ.एतद्.ऐन्द्राग्नम्.सूक्तम्.गायत्री.शंसम्.शंसति.इन्द्र.अग्नी.युवम्.सु.न.इति ।
श्श्स्_18.16.2: तस्य.द्वितीया.सप्त.पदा.तस्या.अनुष्टुभम्.पूर्वाम्.करोति.शंसम्.गायत्रीम्.उत्तराम् ।
श्श्स्_18.16.3: त्रिष्टुब्.उत्तमा.ताम्.पच्छः ।
श्श्स्_18.17.1: अथ.एतद्.आवपनम्.शंसति ।
श्श्स्_18.17.2: तुभ्य.इदम्.इन्द्र.परि.षिच्यते.मध्व्.इत्य्.एका ।
श्श्स्_18.17.3: विश्वजिते.धन.जिते.स्वर्.जित.इति.षट् ।
श्श्स्_18.17.4: ताः.पच्छः ।
श्श्स्_18.17.5: स्वादोर्.इत्था.विषूवत.इति.पाङ्क्तम्.तृचम्.तत्.पङ्क्ति.शंसम् ।
श्श्स्_18.17.6: प्र.वो.महे.महिवृधे.भरध्वम्.इति.वैराजम्.तृचम्.तद्.अर्धर्चशः ।
श्श्स्_18.17.7: प्रत्य्.अस्मै.पिपीषत.इत्य्.आनुष्टुभम्.तृचम्.तद्.अर्धर्चशः ।
श्श्स्_18.18.1: अथ.एतम्.आनुष्टुभम्.समाम्नायम्.शंसति ।
श्श्स्_18.18.2: एहि.स्तोमान्.अभि.स्वर.इति.नव ।
श्श्स्_18.18.3: इन्द्रम्.विश्वा.अवीवृधन्न्.इत्य्.अष्टौ ।
श्श्स्_18.18.4: असावि.सोम.इन्द्र.त.इति.षट्.।.आ.नस्.ते.गन्तु.मत्सर.इति.चतस्रः ।
श्श्स्_18.18.5: मत्सि.नो.वस्य.इष्टय.इति.पञ्च ।
श्श्स्_18.18.6: यस्.ते.साधिष्ठो.अवस.इति.सप्त ।
श्श्स्_18.18.7: उरोष्.ट.इन्द्र.राधस.इति.द्वे ।
श्श्स्_18.18.8: यद्.इन्द्र.चित्र.मेहन.इति.चतरः ।
श्श्स्_18.18.9: यो.रयिवो.रयिंतम.इति.षट् ।
श्श्स्_18.18.10: आ.इन्द्र.याहि.हरिभिर्.इति.पञ्चदश ।
श्श्स्_18.18.11: स.प्रत्नथा.कविवृध.इति.तृचम् ।
श्श्स्_18.18.12: यज्.जायथा.अपूर्व्या.इति.द्वे ।
श्श्स्_18.18.13: आ.त्वा.गिरो.रथीर्.इव.इति.सर्वम् ।
श्श्स्_18.18.14: शास.इत्था.महान्.असि.इति.सर्वम् ।
श्श्स्_18.18.15: तद्.अर्धर्चशः ।
श्श्स्_18.19.1: अथ.एतम्.त्रिष्टुप्.शतम्.शंसति ।
श्श्स्_18.19.2: हैरण्य.स्तूपीयम्.च ।
श्श्स्_18.19.3: यात.ऊतीयम्.च ।

श्श्स्_18.19.4: सजनीयम्.च ।
श्श्स्_18.19.5: अध्वर्यवो.भरत.इन्द्राय.सोमम्.इति.च ।
श्श्स्_18.19.6: आ.याह्य्.अर्वान्.उप.वन्धुरेष्ठा.युध्मस्य.ते.वृषभस्य.स्वराज.इति.सूक्ते ।
श्श्स्_18.19.7: नृणाम्.उ.त्वा.नृतमम्.गीर्भिर्.उक्थैर्.इति.तृचम् ।
श्श्स्_18.19.8: आ.सत्यो.यातु.मघवान्.ऋजीषी.इति.सर्वम् ।
श्श्स्_18.19.9: योनिष्.ट.इन्द्र.सदने.अकार्य्.उद्.उ.ब्रह्माणि.इति.सूक्ते ।
श्श्स्_18.19.10: तत्र.पुरस्ताद्.उद्.ब्रह्मीयस्य.पद.अनुषङ्गान्.शंसति.यो.व्यतींर्.अफाणयद्.इत्य्.एतस्मिंस्.तृचे.प्रथमाया.अर्धर्चम्.उक्त्वा.उपरमति ।
श्श्स्_18.20.1: अथ.प्रथमायै.तृतीयेन.पदेन.द्वितीयायै.प्रथमम्.पदम्.उपसंधाय.प्रणौति ।
श्श्स्_18.20.2: अथ.प्रथमाया.उत्तमेन.पदेन.द्वितीयायै.द्वितीयम्.पदम्.उपसंधाय.अवस्यति ।
श्श्स्_18.20.3: अथ.द्वितीयायै.तृतीयेन.पदेन.उत्तमायै.पथमम्.पदम्.उपसंधाय.प्रणौति ।
श्श्स्_18.20.4: अथ.द्वितीयाया.उत्तमेन.पदेन.उत्तमायै.द्वितीयम्.पदम्.उपसंधाय.अवस्यति ।
श्श्स्_18.20.5: अथ.अर्धर्चशः.परिशिष्टस्.तेन.प्रणौति ।
श्श्स्_18.20.6: अथो.उद्.ब्रह्मीयस्य.उत्तमाम्.परिशिष्य.आह्वयते ।
श्श्स्_18.20.7: त्रिः.शस्तया.परिदधाति ।
श्श्स्_18.20.8: परिधाय.उक्थ.वीर्यम्.जपत्य्.ऐकाहिकम्.पूर्वम्.माहाव्रतिकम्.उत्तरम्.महद्.असि.यशो.असि.भर्गो.असि.भोगो.असि.भुञ्जद्.असि.मम.भोगाय.भव.इति ।
श्श्स्_18.21.1: तद्.एतत्.सकृत्.शस्तायाम्.सूद.दोहसि.यावत्.शस्त्रम्.उपसर्जन्याम्.संख्यायमानायाम्.ऋते.तूष्णीम्.शंसम्.बृहती.सहस्रम्.सम्पद्यते ।
श्श्स्_18.21.2: त्रिर्.एव.आह्वयते ।
श्श्स्_18.21.3: स्तोत्रिये.निविदि.परिधानीयायै ।
श्श्स्_18.21.4: समानौ.याज्या ।
श्श्स्_18.21.5: अननुवषट्.कृत.एव.प्रेङ्खम्.श्रथ्नन्ति ।
श्श्स्_18.21.6: सग्रहम्.एव.आयन्तम्.प्रान्.उपावरोहति ।
श्श्स्_18.21.7: प्रत्यक्.प्रेङ्ख.फलकम्.अपोहति ।
श्श्स्_18.21.8: परामृशन्.ग्रहम्.जपति.यद्.इमम्.प्रजयम्.प्राजैषम्.तम्.अन्वसानि.इति ।
श्श्स्_18.21.9: अध्वर्य.उपहवम्.इष्ट्वा.भक्षयत्य्.ओजसे.त्वा.इति ।
श्श्स्_18.21.10: वैश्वकर्मणो.अतिग्राह्यः ।
श्श्स्_18.21.11: तस्य.भक्ष.उप.मा.यन्तु.मज्जयः.सनीला.उप.मा.जक्षुर्.उप.मा.मनीषा.प्रियाम्.अहम्.तन्वम्.पश्यमानो.मयि.रमो.देवानाम्.ओजसे.त्वा.इति ।
श्श्स्_18.21.12: अथ.चमसान्.भक्षयन्ति.देवो.असि.नरा.शंस.इति ।
श्श्स्_18.21.13: क्लृप्तम्.माध्यंदिनम्.सवनम् ।
श्श्स्_18.22.1: अथ.अत.तृतीय.सवनम् ।
श्श्स्_18.22.2: तत्.सवितुर्.वृणीमहे.अद्या.नो.देव.सवितर्.इति.तृचौ.प्रतिपद्.अनुचरौ.वैश्वदेवस्य ।
श्श्स्_18.22.3: एष.एव.नित्य.एकाह.आतानः ।
श्श्स्_18.22.4: तद्.देवस्य.सवितुर्.वार्यम्.महद्.इति.सावित्रम् ।
श्श्स्_18.22.5: ते.हि.द्यावा.पृथिवी.विश्व.शम्भुवा.इति.द्यावा.पृथिवीयम् ।
श्श्स्_18.22.6: किम्.उ.श्रेष्ठः.किम्.यविष्ठो.न.आजगन्न्.इत्य्.आर्भवम् ।
श्श्स्_18.22.7: अस्य.वामस्य.पलितस्य.होतुर्.इति.सलिलम्.वैश्वदेवम्.तस्याः.समुद्रा.अधि.वि.क्षरन्ति.समानम्.एतद्.उदकम्.इत्य्.एते.अर्धर्चशः.अंसति.पच्छ.इतराः ।
श्श्स्_18.22.8: तत्.शस्त्वा.आ.नो.भद्रीये.निविदम्.दधाति ।
श्श्स्_18.22.9: पञ्च.जनीया.परिधानीया ।
श्श्स्_18.22.10: इति.न्वा.उ.वैश्वदेवम् ।
श्श्स्_18.23.1: अथ.अत.आग्नि.मारुतम् ।
श्श्स्_18.23.2: वैश्वानराय.पृथु.पाजसे.विप.इति.वैश्वानरीयम् ।

श्श्स्_18.23.3: प्रयज्यवो.मरुतो.भ्राज.दृष्टय.इति.मारुतम् ।
श्श्स्_18.23.4: ते.यदि.यज्ञायज्ञीयम्.अग्निष्टोम.साम.कुर्युस्.तस्य.उक्तौ.स्तोत्रिय.अनुरूपौ ।
श्श्स्_18.23.5: तयोर्.दिष्टम्.शस्त्रम् ।
श्श्स्_18.23.6: यद्य्.उ.वा.इळांदम्.(?).अग्ने.तव.श्रवो.वय.इति.स्तोत्रियस्.तृचो.अत.एव.उत्तरः.सूक्त.अनुरूपः ।
श्श्स्_18.23.7: यद्य्.उ.सर्वस्मिन्.षळर्चे.स्तुवीरन्.न.अग्निम्.न.स्ववृक्तिभिर्.इत्य्.एतस्य.षऌ.अनुरूपम्.कुर्वीत ।
श्श्स्_18.23.8: अर्धर्चशः.शस्त्रम् ।
श्श्स्_18.23.9: यद्य्.उ.वा.अतिच्छन्दह्सु.कुर्युर्.अग्निम्.होतारम्.मन्ये.दास्वन्तम्.इति.स्तोत्रियस्.तृचो.अत.एव.उत्तरः.सूक्त.अनुरूपः ।
श्श्स्_18.23.10: या.सप्तमी.सूक्तस्य.ताम्.तृतीयाम्.करोति.सो.अनुरूपः ।
श्श्स्_18.23.11: अयम्.जायत.मनुषो.धरीमणि.इति.वा.स्तोत्रियस्.तृचो.अत.एव.उत्तरः.सूक्त.अनुरूपः ।
श्श्स्_18.23.12: विचतुरम्.शस्त्रम् ।
श्श्स्_18.23.13: न.अत्र.यज्ञायज्ञीयस्य.योनिम्.अनुशंसेत् ।
श्श्स्_18.23.14: बऌ.इत्था.तद्.वपुषे.धायि.दर्शतम्.इति.जात.वेदसीयम् ।
श्श्स्_18.23.15: इत्य्.आग्नि.मारुत.सूक्तानि ।
श्श्स्_18.23.16: इत्य्.एतस्य.अह्नः.सूक्तानि ।
श्श्स्_18.23.17: तद्.अग्निष्टोमः.संतिष्ठते ।
श्श्स्_18.23.18: वसन्त्य्.एताम्.रात्रीम् ।
श्श्स्_18.24.1: अथ.प्रातर्.उदयनीयम्.अतिरात्रम्.उपयन्ति ।
श्श्स्_18.24.2: य.एव.असौ.प्रायणीयः.स.उदयनीयः ।
श्श्स्_18.24.3: तत्र.सर्वान्.करस्नान्.सम्बाध्य.प्रेष्यति.मैत्रावरुणः ।
श्श्स्_18.24.4: ते.प्रथम.मासम्.दीक्षित.वसनानि.वा.वसते ।
श्श्स्_18.24.5: तानि.नव.रात्राय.निदधति ।
श्श्स्_18.24.6: उत्तमाय.च.मासाय ।
श्श्स्_18.24.7: अथ.इतरान्.मासान्.अजिनानि.वा.आर्द्र.वसनानि.वा.वसते ।
श्श्स्_18.24.8: तस्मिन्.हि.संस्थित.कर्माणि.क्रियन्ते ।
श्श्स्_18.24.9: न.परस्मा.अह्नो.वसतीवरीर्.गृह्णन्ति ।
श्श्स्_18.24.10: न.अतिप्रैषम्.आह ।
श्श्स्_18.24.11: जुह्वति.समिष्ट.यजूंषि ।
श्श्स्_18.24.12: यन्त्य्.अवभृथम् ।
श्श्स्_18.24.13: क्रियते.अवभृथ.कर्म ।
श्श्स्_18.24.14: ते.यदि.यज्ञ.अगारैर्.भोक्ष्यमाणा.भवन्त्य्.आदधत.एव.प्रेङ्ख.मिश्रम् ।
श्श्स्_18.24.15: यद्य्.उ.धक्ष्यन्तो.अत्र.एव.स्यात् ।
श्श्स्_18.24.16: प्रज्ञातो.अवभृतः ।
श्श्स्_18.24.17: प्रज्ञाता.उदयनीया ।
श्श्स्_18.24.18: प्रज्ञाता.अनूबन्ध्या ।
श्श्स्_18.24.19: तस्यै.वपायाम्.संस्थितायाम्.दक्षिण.अर्ध.अपर.अर्धाद्.वेदेः.किंचित्.परिश्रित्य.तस्मिन्न्.उपविश्य.केश.श्मश्रूणि.वापयन्ति ।
श्श्स्_18.24.20: सर्वाणि.च.रोमाणि.नखानि.निकृन्तयन्ते ।
श्श्स्_18.24.21: स्नान्ति ।
श्श्स्_18.24.22: अलम्.कुर्वन्ति ।
श्श्स्_18.24.23: उष्णीषान्.पर्यस्यन्त्या.केशानाम्.संजननात् ।
श्श्स्_18.24.24: परिशेषम्.अनूबन्ध्यायै.संस्थापयन्ति ।

श्श्स्_18.24.25: हृदय.शूल.अन्ता.संतिष्ठते ।
श्श्स्_18.24.26: तस्याम्.संस्थितायाम्.यथा.सम्प्रकीर्णम्.अग्नीन्.समारोप्य.अन्तरेण.चात्वालौत्करा.उपनिष्क्रामन्ति ।
श्श्स्_18.24.27: उत्तरत.उद्घात.अवोक्षिते.अग्न्य्.आयतनानि.कृत्वा.गोमयेन.उपलिप्य.मथित्वा.अग्नीन्.विहृत्य.प्रणीताः.प्रणीय.पूर्ण.आहुतीर्.हुत्वा.पृथग्.उदवसानीयाभिर्.यजन्ते.य.आहित.अग्नयो.भवन्ति ।
श्श्स्_18.24.28: अथ.ये.अनाहित.अग्नयो.गृहपतिम्.एव.त.उपासते ।
श्श्स्_18.24.29: स.कामम्.एव.पृष्ठ.शमनीयेन.यजेत ।
श्श्स्_18.24.30: कामम्.न.यजेत ।
श्श्स्_18.24.31: यदि.तु.यजेत.एत.एव.अस्य.सत्रिण.ऋत्विजः.स्युः ।
श्श्स्_18.24.32: तेभ्यस्.तद्.दद्याद्.यद्.देयम्.स्यात् ।
श्श्स्_18.24.33: अत्र.संवत्सरः.संतिष्ठते ।
श्श्स्_18.24.34: अथ.अतो.होत्राणाम्.एव.मीमांसा.।.तस्य.अतस्.तस्य.अतः ।

मूल पाठ: Śāṅkhāyanaśrautasūtra · Edition: Alfred Hillebrandt Calcutta 1885-1899 (Bibliotheca Indica, 99) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc