सङ्गीतरत्नाकरः · अध्याय p7
सङ्गीतरत्नाकरः
प्रथमः स्वरगताध्यायः
तत्रादिमं पदार्थसंग्रहाख्यं प्रकरणम्
ब्रह्मग्रन्थिजमारुतानुगतिना चित्तेन हृत्पङ्कजे
सूरीणामनु रञ्जकः श्रुतिपदं योऽयं स्वयं राजते ।
यस्माद् ग्रामविभागवर्णरचनाऽलङ्कारजातिक्रमो
वन्दे नादतनुं तमुद्धुरजगद्गीतं मुदे शङ्करम्
अस्ति स्वस्तिगृहं वंशः श्रीमत्काश्मीरसंभवः ।
ऋषेर्वृषगणाज्जातः कीर्त्तिक्षालितदिङ्मुखः
यज्वभिर्धर्मधीधुर्यैर्वेदसागरपारगैः ।
यो द्विजेन्द्रैरलञ्चक्रे ब्रह्मभिर्भूगतैरिव
तत्राभूद्भास्करप्रख्यो भास्करस्तेजसां निधिः ।
अलङ्कर्तुं दक्षिणाशां यश्चक्रे दक्षिणाऽयनम्
तस्याभूत्तनयः प्रभूतविनयः श्रीसोढलः प्रौढधी-
र्येन श्रीकरणप्रवृद्धविभवं भूवल्लभं भिल्लमम् ।
आराध्याखिललोकशोकशमनीकीर्त्तिः समासादिता
जैत्रे जैत्रपदं न्यधायि महती श्रीसिङ्घणे श्रीरपि
एकः क्ष्मावलये क्षितीश्वरमिलन्मौलीन्द्रनीलावलि-
प्रोदञ्चद्द्युतिचित्रिताङ्घ्रिनखरश्रेणिर्नृपालाग्रणीः ।
श्रीमत्सिङ्घणदेव एव विजयी यस्य प्रतापानलो
विश्वव्याप्यपि दन्दहीति हृदयान्येव द्विषामुद्धुरः
तं प्रसाद्य सुधीधुर्यो गुणिनं गुणरागिणम् ।
गुणग्रामेण यो विप्रानुपकारैरतीतृपत्
ददौ न किं न किं जज्ञौ न दधौ कां च सम्पदम् ।
कं धर्मं विदधौ नैष न बभौ कैर्गुणैरयम्
तस्माद्दुग्धाम्बुधेर्जातः शार्ङ्गदेवः सुधाकरः ।
उपर्युपरि सर्वान्यः सुदौदार्यस्फुरत्करः
कृतगुरुपदसेवः प्रीणिताशेषदेवः
कलितसकलशास्त्रः पूजिताशेषपात्रः ।
जगति विततकीर्त्तिर्मन्मथोदारमूर्तिः
प्रचुरतरविवेकः शार्ङ्गदेवोऽयमेकः
नानास्थानेषु संभ्रान्ता परिश्रान्ता सरस्वती ।
सहवासप्रिया शश्वद्विश्राम्यति तदालये
स विनोदैकरसिको भाग्यवैदग्ध्यभाजनम् ।
धनदानेन विप्राणामार्तिं संहृत्य शाश्वतीम्
जिज्ञासूनां च विद्याभिर्गदार्तानां रसायनैः ।
अधुनाऽखिललोकानां तापत्रयजिहीर्षया
शाश्वताय च धर्माय कीर्त्त्यै निःश्रेयसाप्तये ।
आविष्करोति संगीतरत्नाकरमुदारधीः
सदाशिवः शिवा ब्रह्मा भरतः कश्यपो मुनिः ।
मतङ्गो याष्टिको दुर्गाशक्तिः शार्दूलकोहलौ
विशाखिलो दत्तिलश्च कम्बलोऽश्वतस्तथा ।
वायुर्विश्वावसू रम्भाऽर्जुनो नारदतुम्बुरू
आञ्जनेयो मातृगुप्तो रावणो नन्दिकेश्वरः ।
स्वातिर्गणो बिन्दुराजः क्षेत्रराजश्च राहुलः
रुद्रटो नान्यभूपालो भोजभूवल्लभस्तथा ।
परमर्दी च सोमेशो जगदेकमहीपतिः
व्याख्यातारो भारतीये लोल्लटोद्भटशङ्कुकाः ।
भट्टाभिनवगुप्तश्च श्रीमत्कीर्त्तिधरः परः
अन्ये च बहवः पूर्वे ये संगीतविशारदाः ।
अगाधबोधमन्थेन तेषां मतपयोनिधिम्
निर्मथ्य श्रीशार्ङ्गदेवः सारोद्धारमिमं व्यधात् ।
गीतं वाद्यं तथा नृत्तं त्रयं संगीतमुच्यते
मार्गो देशीति तद् द्वेधा तत्र मार्गः स उच्यते ।
यो मार्गितो विरिञ्च्याद्यैः प्रयुक्तो भरतादिभिः
देवस्य पुरतः शंभोर्नियताभ्युदयप्रदः ।
देशे देशे जनानां यद्रुच्या हृदयरञ्जकम्
गीतं च वादनं नृत्तं तद्देशीत्यभिधीयते ।
नृत्तं वाद्यानुगं प्रोक्तं वाद्यं गीतानुवर्ति च
अतो गीतं प्रधानत्वादत्रादावभिधीयते ।
सामवेदादिदं गीतं संजग्राह पितामहः
गीतेन प्रीयते देवः सर्वज्ञः पार्वतीपतिः ।
गोपीपतिरनन्तोऽपि वंशध्वनिवशं गतः
सामगीतिरतो ब्रह्मा वीणाऽऽसक्ता सरस्वती ।
किमन्ये यक्षगन्धर्वदेवदानवमानवाः
अज्ञातविषयास्वादो बालः पर्यङ्किकागतः ।
रुदन्गीतामृतं पीत्वा हर्षोत्कर्षं प्रपद्यते
वनेचरस्तृणाहारश्चित्रं मृगशिशुः पशुः ।
लुब्धो लुब्धकसङ्गीते गीते यच्छति जीवितम्
तस्य गीतस्य माहाऽऽत्म्यं के प्रशंसितुमीशते ।
धर्मार्थकाममोक्षाणामिदमेवैकसाधनम्
तत्र स्वरगताध्याये प्रथमे प्रतिपाद्यते ।
शरीरं नादसंभूतिः स्थानानि श्रुतयस्तथा
ततः शुद्धाः स्वराः सप्त विकृता द्वादशाप्यमी ।
कुलानि जातयो वर्णा द्वीपान्याषं च दैवतम्
छन्दांसि विनियोगाश्च स्वराणां श्रुतिजातयः ।
ग्रामाश्च मूर्छनास्तानाः शुद्धाः कूटाश्च संख्यया
प्रस्तारः खण्डमेरुश्च नष्टोद्दिष्टप्रबोधकः ।
स्वरसाधारणं जातिसाधारणमतः परम्
काकल्यन्तरयोः सम्यक्प्रयोगो वर्णलक्षणम् ।
त्रिषष्टिरप्यलङ्कारास्त्रयोदशविधं ततः
जातिलक्ष्म ग्रहांशादि कपालानि च कम्बलम् ।
नानाविधा गीतयश्चेत्येतावान्वस्तुसंग्रहः
अथ रागविवेकाख्येऽध्याये वक्ष्यामहे क्रमात् ।
ग्रामरागांश्चोपरागान्रागान्भाषा विभाषिकाः
ततोऽप्यन्तरभाषाश्च रागाङ्गाण्यखिलान्यपि ।
भाषाऽङ्गाण्यप्युपाङ्गानि क्रियाङ्गाणि च तत्त्वतः
ततः प्रकीर्णकाध्याये तृतीये कथयिष्यते ।
वागेयकारो गान्धर्वः स्वरादिर्गायनस्तथा
गायनी गुणदोषाश्च तयोः शब्दभिदास्तथा ।
गुणदोषाश्च शब्दस्य शारीरं तद्गुणास्तथा
तद्दोषा गमकः स्थाया आलप्तिर्वृन्दलक्षणम् ।
ततः प्रबन्धाध्याये तु धातवोऽङ्गानि जातयः
प्रबन्धानां द्विधा सूडः शुद्धश्छायालगस्तथा ।
आलिक्रमप्रबन्धाश्च सूडस्था आलिसंश्रयाः
विप्रकीर्णास्ततश्छायालगसूडसमाश्रिताः ।
गीतस्था गुणदोषाश्च वक्ष्यन्ते शार्ङ्गसूरिणा
तालाध्याये पञ्चमे तु मार्गतालाः कलास्तथा ।
पाता मार्गाश्च चत्वारस्तथा मार्गकलाऽष्टकम्
गुरुलघ्वादिमानं चैककलत्वादयो भिदाः ।
पादभागास्तथा मात्रास्ताले पातकलाविधिः
अङ्गुलीनां च नियमो भेदा युग्मादयस्तथा ।
परिवर्तो लयास्तेषां यतयो गीतकानि च
छन्दकादीनि गीतानि तालाङ्गनिचयस्तथा ।
गीताङ्गानि च वक्ष्यन्ते देशीतालाश्च तत्त्वतः
निःशङ्कशार्ङ्गदेवेन तालानां प्रत्ययास्तथा ।
षष्ठे नानाविधं वाद्यमध्याये कथयिष्यते
सप्तमे नर्तनं नानारसभावाः क्रमेण च ।
इति प्रथमे स्वराध्याये पदार्थसंग्रहाख्यमादिमं प्रकरणम्
अथ द्वितीयं पिण्डोत्पत्तिप्रकरणम् ।
गीतं नादात्मकं वाद्यं नादव्यक्त्या प्रशस्यते ।
तद्द्वयानुगतं नृत्तं नादाधीनमतस्त्रयम्
नादेन व्यज्यते वर्णः पदं वर्णात्पदाद्वचः ।
वचसो व्यवहारोऽयं नादाधीनमतो जगत्
आहतोऽनाहतश्चेति द्विधा नादो निगद्यते ।
सोऽयं प्रकाशते पिण्डे तस्मात्पिण्डोऽभिधीयते
अस्ति ब्रह्म चिदानन्दं स्वयंज्योतिर्निरञ्जनम् ।
ईश्वरं लिङ्गमित्युक्तमद्वितीयमजं विभुः
निर्विकारं निराकारं सर्वेश्वरमनश्वरम् ।
सर्वशक्ति च सर्वज्ञम् तदंशा जीवसंज्ञकाः
अनाद्यविद्योपहिता यथाऽग्नेर्विस्फुलिङ्गकाः ।
दार्वाद्युपाधिसंभिन्नास्ते कर्मभिरनादिभिः
सुखदुःखप्रदैः पुण्यपापरूपैर्नियन्त्रिताः ।
तत्तज्जातियुतं देहमायुर्भोगं च कर्मजम्
प्रतिजन्म प्रपद्यन्ते तेषामस्त्यपरं पुनः ।
सूक्ष्मं लिङ्गशरीरम् तदामोक्षादक्षयं मतम्
सूक्ष्मभूतेन्द्रियप्राणावस्थात्मकमिदं विदुः ।
जीवानामुपभोगाय जगदेतत्सृजत्यजः
स आत्मा परमात्मा च विश्रान्त्यै संहरत्यथ ।
तदेतत्सृष्टिसंहारं प्रवाहानादि संमतम्
ते जीवा नात्मनो भिन्ना भिन्नं वा नात्मनो जगत् ।
शक्त्या सृजन्नभिन्नौऽसौ सुवर्णं कुण्डलादिव
सृजत्यविद्ययेत्यन्ये यथा रज्जुर्भुजङ्गमम् ।
आत्मनः पूर्वमाकाशस्ततो वायुस्ततोऽनलः
अनलाज्जलमेतस्मात्पृथिवी समजायत ।
महाभूतान्यमून्येषा विराजो ब्रह्मणस्तनुः
ब्रह्म ब्रह्माणमसृजत्तस्मै वेदान्प्रदाय च ।
भौतिकं वेदशब्देभ्यः सर्जयामास तेन तत्
तदाज्ञयासृजद् ब्रह्मा मनसैव प्रजापतीन् ।
तेभ्यस्तु रैतसी सृष्टिः शरीराणां निरूप्यते
स्वेदोद्भेदजराय्वण्डहेतुभेदाच्चतुर्विधम् ।
देहं यूकादिनः स्वेदादुद्भेदात्तु लतादिनः
जरायोर्मानुषादीनामण्डात्तु विहगादिनः ।
तत्र नादोपयोगित्वान्मानुषं देहमुच्यते
क्षेत्रज्ञः स्थित आकाश आकाशाद्वायुमागतः ।
वायोर्षूमं ततश्चाभ्रमभ्रान्मेघेऽवतिष्ठते
आहुत्याप्यायितो ग्रस्तरसो ग्रीष्मे च भानुभिः ।
भानुर्मेघे धनरसं निधत्ते तं वलाहकः
यदा वर्षति वर्षेण सह जीवस्तदा भुवः ।
वनस्पत्योषधीर्जाताः संक्रामत्यविलक्षितः
ताभ्योऽन्नं जातमन्नं तत्पुरुषैः शुक्लतां गतम् ।
शुद्धार्तवाया योषाया निषिक्तं स्मरमन्दिरे
सहार्तवेन शुद्धं चेद्गर्भाशयगतं भवेत् ।
जीवकर्मप्रेरितं तद् गर्भमारभते तदा
द्रवत्वं प्रथमे मासि कललाख्यं प्रजायते ।
द्वितीये तु घनः पिण्डः पेशीषद्धनमर्बुदम्
पुंस्त्रीनपुंसकानां स्युः प्रागवस्थाः क्रमादिमाः ।
तृतीये त्वङ्कुराः पञ्च कराङ्घ्रिशिरसो मताः
अङ्गप्रत्यङ्गभागाश्च सूक्ष्माः स्युर्युगपत्तदा ।
विहाय श्मश्रुदन्तादीञ्जन्मानन्तरसंभवान्
एषा प्रकृतिरन्या तु विकृतिः संमता सताम् ।
चतुर्थे व्यक्तता तेषां भावानामपि जायते
पुंसां शौर्यादयो भावा भीरुत्वाद्यास्तु योषिताम् ।
नपुंसकानां संकीर्णा भवन्तीति प्रचक्षते
मातृजं चास्य हृदयं विषयानभिकाङ्क्षति ।
अतो मातुर्मनोऽभीष्टं कुर्याद्गर्भसमृद्धये
तां च द्विहृदयां नारीमाहुर्दौहृविनीं बुधाः ।
अदानाद्दोहदानां स्युर्गर्भस्य व्यङ्गतादयः
मातुर्यद्विषयालाभस्तदार्तो जायते सुतः ।
गर्भः स्यादर्थवान्भोगी दोहदाद्राजदर्शने
अलङ्कारेषु ललितो धर्मिष्ठस्तापसाश्रमे ।
देवतादर्शने भक्तो हिंस्रो भुजगदर्शने
गोधाशने तु निद्रालुर्बली गोमांसभक्षणे ।
माहिषे शुकरक्ताक्षं लोमशं सूयते सुतम्
प्रबुद्धं पञ्चमे चित्तं मांसशोणितपुष्टता ।
षष्ठेऽस्थिस्नायुनखरकेशरोमविविक्तता
बलवर्णौ चोपचितौ सप्तमे त्वङ्गपूर्णता ।
पाल्यन्तरितहस्ताभ्यां श्रोत्ररन्ध्रे पिधाय सः
उद्विग्नो गर्भसंवासादास्ते गर्भाशयान्वितः ।
स्मरन्पूर्वानुभूताः स नानाजातीश्च यातनाः
मोक्षोपायमभिध्यायन्वर्ततेऽभ्यासतत्परः ।
अष्टमे त्वक्स्मृती स्यातामोजश्चैतच्च हृद्भवम्
शुद्धमापीतरक्तं च निमित्तं जीविते मतम् ।
पुनरम्बां पुनर्गर्भं चञ्चलं तत्प्रधावति
अतो जातोऽष्टमे मासि न जीवत्योजसोज्झितः ।
किंचित्कालमवस्थानं संस्कारात्खण्डिताङ्गवत्
समयः प्रसवस्य स्यान्मासेषु नवमादिषु ।
मातू रसवहां नाडीमनुबद्धा पराऽभिधा
नाभिस्थनाडी गर्भस्य मात्राहाररसावहा ।
कृताञ्जलिर्ललाटेऽसौ मातृपृष्ठमभि स्थितः
अध्यास्ते संकुचद्गात्रो गर्भं दक्षिणपार्श्वगः ।
वामपार्श्वस्थिता नारी क्लीबं मध्यस्थितं मतम्
क्रियतेऽधःशिराः सूतिमारुतैः प्रबलैस्ततः ।
निःसार्यते रुजद्गात्रो यन्त्रच्छिद्रेण बालकः
जातमात्रस्य तस्याथ प्रवृत्तिः स्तन्यगोचरा ।
प्राग्जन्मबोधसंस्काराविति जीवस्य नित्यता
भावाः स्युः षड्विधास्तस्य मातृजाः पितृजास्तथा ।
रसजा आत्मजाः सत्त्वसंभवाः सात्म्यजास्तथा
मृदवः शोणितं मेदो मज्जा प्लीहा यकृद् गुदम् ।
हृन्नाभीत्येवमाद्यास्तु भावा मातृभवा मताः
श्मश्रुलोमकचाः स्नायुसिराधमनयो नखाः ।
दशनाः शुक्लमित्याद्याः स्थिराः पितृसमुद्भवाः
शरीरोपचयो वर्णो वृद्धिः सुप्तिर्बलं स्थितिः ।
अलोलुपत्वमुत्साह इत्यादीन्रसजान्विदुः
इच्छा द्वेषः सुखं दुःखं धर्माधर्मौ च भावना ।
प्रयत्नो ज्ञानमायुश्चेन्द्रियाणीत्यात्मजा मताः
ज्ञानेन्द्रियाणि श्रवणं स्पर्शनं दर्शनं तथा ।
रसनं घ्राणमित्याहुः पञ्च तेषां तु गोचराः
शब्दः स्पर्शस्तथा रूपं रसो गन्ध इति क्रमात् ।
वाक्कराङ्घ्रिगुदोपस्थानाहुः कर्मेन्द्रियाणि तु
वचनादानगमनविसर्गरतयः क्रमात् ।
क्रियास्तेषां मनो बुद्धिरित्यन्तःकरणद्वयम्
सुखं दुःखं च विषयौ विज्ञेयौ मनसः क्रिया ।
स्मृतिभ्रान्तिविकल्पाद्या धियोऽध्यवसितिर्मता
ब्रह्मयोनीनीन्द्रियाणि भौतिकान्यपरे जगुः ।
सत्त्वाख्यमन्तःकरणं गुणभेदात्त्रिधा मतम्
सत्त्वं रजस्तम इति गुणाः सत्त्वात्तु सात्त्विकात् ।
आस्तिक्यशुद्धधर्मैकरुचिप्रभूतयो मताः
सत्त्वात्तु राजसाद्भावाः कामक्रोधमदादयः ।
निद्राऽऽलस्यप्रमादार्तिवञ्चनाद्यास्तु तामसात्
प्रसन्नेन्द्रियताऽऽरोग्यानालस्याद्यास्तु सात्म्यजाः ।
देहो भूतात्मकस्तस्मादादत्ते तद्गुणानिमान्
शब्दं श्रोत्रं सुषिरतां वैविक्त्यं सूक्ष्मबोद्धृताम् ।
बिलं च गगनाद्वायोः स्पर्शं च स्पर्शनेन्द्रियम्
उत्क्षेपणमवक्षेपाकुञ्चने गमनं तथा ।
प्रसारणमितीमानि पञ्च कर्माणि रूक्षताम्
प्राणापानौ तथा व्यानसमानोदानसंज्ञकान् ।
नागं कूर्म च कृकरं देवदत्तम् धनञ्जयम्
दशेति वायुविकृतीस्तथा गृह्णाति लाघवम् ।
तेषां मुख्यतमः प्राणो नाभिकन्दादधः स्थितः
चरत्यास्ये नासिकयोर्नाभौ हृदयपङ्कजे ।
शब्दोच्चारणनिःश्वासोच्छ्वासकासादिकारणम्
अपानस्तु गुदे मेढ्रे कटीजङ्घोदरेषु च ।
नाभिकन्दे वङ्क्षणयोरूरुजानुनि तिष्ठति
अस्य मूत्रपुरीषादिविसर्गः कर्म कीर्तितः ।
व्यानोऽक्षिश्रोत्रगुल्फेषु कट्यां घ्राणे च तिष्ठति
प्राणापानधृतित्यागग्रहणाद्यस्य कर्म च ।
समानो व्याप्य निखिलं शरीरं वह्निना सह
द्विसप्ततिसहस्रेषु नाडीरन्ध्रेषु संचरन् ।
भुक्तपीतरसान्सम्यगानयन्देहपुष्टिकृत्
उदानः पादयोरास्ते हस्तयोरङ्गसन्धिषु ।
कर्मास्य देहोन्नयनोत्क्रमणादि प्रकीर्तितम्
त्वगादिधातूनाश्रित्य पञ्च नागादयः स्थिताः ।
उद्गारादि निमेषादि क्षुतप्रभृति च क्रमात्
तन्द्राप्रभृति शोफादि तेषां कर्म प्रकीर्तितम् ।
अग्नेस्तु लोचनं रूपं पित्तं पाकं प्रकाशताम्
अमर्षं तैक्ष्ण्यमूष्माणमोजस्तैजश्च शूरताम् ।
मेधावितां तथादत्ते जलात्तु रसनं रसम्
शैत्यं स्नेहं द्रवं स्वेदं मूत्रादि मृदुतामपि ।
भूमेर्घ्राणेन्द्रियं गन्धं स्थैर्यं धैर्यं च गौरवम्
श्मश्रुकेशानखं दन्तानस्थ्याद्यन्यच्च कर्कशम् ।
वातादिधातुप्रकृतिर्व्योमादिप्रकृतिस्तथा
सप्तधा सात्त्विको यश्च ब्रह्मेन्द्रयमविग्रहः ।
वारुणश्चाथ कौबेर आर्षो गान्धर्वविग्रहः
राजसः षड्विधो यश्च पैशाचो राक्षसस्तथा ।
आसुरः शाकुनः सार्पः प्रेतदेहस्तथा परः
तामसस्त्रिविधो यश्च पशुमत्स्याङ्घ्रिपाकृतिः ।
तेषां लक्ष्माणि न ब्रूमो ग्रन्थविस्तरकातराः
पिण्डस्याहुः षडङ्गानि शिरः पादौ करौ तथा ।
मध्यं चेति अथ वक्ष्यन्ते प्रत्यङ्गान्यखिलान्यपि
त्वचः सप्त कलाः सप्त स्नायुश्लेष्मजरायुभिः ।
छन्नाः कोशाग्निभिः पक्वास्ता धातूनन्तरान्तरा
सीमभूताश्च धातूनां काष्ठसारोपमा मताः ।
आद्या मांसधरा मांसे सिरा धमनयस्तथा
स्नायुस्रोतांसि रोहन्ति पङ्के पङ्कजकन्दवत् ।
असृङ्मेदः श्लेष्मशकृत्पित्तशुक्लधराः पराः
त्वगसृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः ।
सप्त स्युस्तत्र चोक्ता त्वग्रक्तं जाठरवह्निना
पक्वाद्भवेदन्नरसादेवं रक्तादिभिः परे ।
स्वस्वकोशाग्निना पक्वैर्जन्यन्ते धातवः क्रमात्
रक्तश्लेष्मामपित्तानां पक्वस्य मरुतस्तथा ।
मूत्रस्य चाश्रयाः सप्त क्रमादाशयसंज्ञकाः
गर्भाशयोऽष्टमः स्त्रीणां पित्तपक्वाशयान्तरे ।
प्रसन्नाभ्यां कफासृग्भ्यां हृदयं पङ्कजाकृति
सुषिरं स्यादधोवक्त्रं यकृत्प्लीहान्तरस्थितम् ।
एतच्च चेतनस्थानं तदस्मिंस्तमसावृते
निमीलति स्वपित्यात्मा जागर्ति विकसत्यपि ।
द्वेधा स्वप्नसुषुप्तिभ्यां स्वापो बाह्येन्द्रियाणि चेत्
लीयन्ते हृदि जागर्ति चित्तं स्वप्नस्तदोच्यते ।
मनश्चेल्लीयते प्राणे सुषुप्तिः स्यात्तदात्मनः
स्वमपीतः परात्मानं स्वपित्यात्मेत्यतो मतः ।
श्रवणे नयने नासे वदनं गुदशेफसी
बहिर्मलवहानि स्युर्नव स्रोतांसि देहिनाम् ।
स्त्रीणां त्रीण्यधिकानि स्युः स्तनयोर्द्वे भगेऽसृजः
अस्थिस्नायुसिरामांसस्थानि जालानि षोडश ।
षट् कूर्चाः करयोरङ्घ्र्योः कन्धरायां च मेहने
पार्श्वयोः पृष्ठवंशस्य चतस्रो मांसरज्जवः ।
सीवन्यः पञ्च शिरसि द्वे जिह्वालिङ्गयोर्मते
चतुर्दशाष्टादश वा संमता अस्थिराशयः ।
अस्थ्नां शरीरे संख्या स्यात्षष्टियुक्तं शतत्रयम्
वलयानि कपालानि रुचकास्तरुणानि च ।
नलकानीति तान्याहुः पञ्चधास्थीनि सूरयः
त्रीण्येवास्थिशतान्यत्र धन्वन्तरिरभाषत ।
द्वे शते त्वस्थिसन्धीनां स्यातामत्र दशोत्तरे
कोरकाः प्रतरास्तुन्नाः सीवन्यः स्युरुलूखलाः ।
सामुद्गा मण्डलाः शङ्खावर्ता वायसतुण्डकाः
इत्यष्टधा समुद्दिष्टा मुनीन्द्रैरस्थिसन्धयः ।
पेशीस्नायुसिरासन्धिसहस्रद्वितयं मतम्
नव स्नायुशतानि स्युश्चतुर्धा स्नायवो मताः ।
प्रतानवत्यः सुषिराः कण्डराः पृथुलास्तथा
बन्धनैर्बहुभिर्बद्धा भूरिभारक्षमा भवेत् ।
नौरम्भसि यथा स्नायुशतबद्धा तनुस्तथा
पञ्च पेशीशतान्याहुः शरीरस्थानि सूरयः ।
अधिका विंशतिः स्त्रीणां तत्र स्युः स्तनयोर्दश
यौवने ताः प्रवर्धन्ते दश योनौ तु तत्र च ।
द्वे अन्तः प्रसृते बाह्ये द्वे तिस्रो गर्भमार्गगाः
शङ्खनाभ्याकृतिर्योनिस्त्र्यावर्ताऽत्र तृतीयके ।
आवर्ते गर्भशय्याऽस्ति पित्तपक्वाशयान्तरे
रोहिताभिधमत्स्यस्य सदृशी तत्र पेशिका ।
शुक्रार्तवप्रवेशिन्यस्तिस्रः प्रच्छादिका मताः
सिराधमनिकानां तु लक्षाणि नवविंशतिः ।
सार्धानि स्युर्नवशती षट्पञ्चाशद्युता तथा
दश मूलसिरा ओजोवाहिन्यो हृदयाश्रयाः ।
द्व्यङ्गुलं चाङ्गुलदलं यवं यवदलं तथा
गत्वा द्रुमदलस्येव सीवन्यः प्रतता यदा ।
भिद्यन्ते तास्तदा सप्त शतानि परिसंख्यया
तासु जिह्वास्थिते द्वे द्वे वाग्रसज्ञानकारणे ।
घ्राणे गन्धवहे द्वे द्वे मेषोन्मेषकृतौ दृशोः
श्रोत्रयोः शब्दवाहिन्यौ तासु द्वे शार्ङ्गिणोदिते ।
धमन्यो रसवाहिन्यश्चतुर्विंशतिरीरिताः
कुल्याभिरिव केदारास्ताभिर्देहोऽभिवर्धते ।
एताः प्रतिष्ठिता नाभ्यां चक्रनाभावरा इव
ऊर्ध्वं दश दशाधस्ताच्चतस्रस्तिर्यगायताः ।
ऊर्ध्वगा हृदयं प्राप्ताः प्रतायन्ते पृथक् त्रिधा
वातं पित्तं कफं रक्तं रसं द्वे द्वे विमुञ्चतः ।
शब्दं रूपं रसं गन्धं द्वे द्वे तत्रावगच्छतः
द्वे द्वे च भाषणं घोषं स्वापं बोधं च रोदनम् ।
कुर्वाते द्वे नरे शुक्लं स्तन्यं तु स्रवतः स्त्रियाम्
अधोगता अपि त्रेधा पृथक्पक्वाशयस्थिताः ।
प्रवर्तयन्ति तत्राद्या दश वातादि पूर्ववत्
अन्नं भुक्तं धमन्यौ द्वे वहतोऽम्बुसमाश्रयात् ।
तोयं मूत्रं बलं द्वे द्वे नारीणामार्तवं त्विमे
विमुञ्चतो द्वे स्रोतांसि द्वे स्थूलान्त्रान्विते शकृत् ।
स्वेदं समर्पयन्त्यष्टौ तिरश्च्यो बहुधा मताः
रोमकूपेषु सन्त्यासां मुखानि स्वेदमुक्तये ।
प्रवेशयन्ति चाभ्यङ्गलेपादिप्रभवान्रसान्
जीवस्थानानि मर्माणि शतं सप्तोत्तरं विदुः ।
सार्धकोटित्रयं रोम्णां श्मश्रुकेशास्त्रिलक्षकाः
स्रोतःसिराश्मश्रुकेशैः सह रोम्णां तु कोटयः ।
चतुःपञ्चाशदाख्याताः सप्तषष्ट्या च सार्धया
लक्षाणां संहितामानं जलादेरधुनोच्यते ।
दशाञ्जलि जलं ज्ञेयं रसस्याञ्जलयो नव
रक्तस्याष्टौ पुरीषस्य सप्त स्युः श्लेष्मणस्तु षट् ।
पित्तस्य पञ्च चत्वारो मूत्रस्याञ्जलयस्त्रयः
वसाया मेदसो द्वौ तु मज्ज्ञ एकोऽञ्जलिर्मतः ।
अर्धाञ्जलिः शिरोमज्जा श्लेष्मसारो बलं तथा
इति प्रत्यङ्गसंक्षेपो विस्तरस्त्विह तत्त्वतः ।
अस्मद्विरचितेऽध्यात्मविवेके वीक्ष्यतां बुधैः
गुदलिङ्गान्तरे चक्रमाधाराख्यं चतुर्दलम् ।
परमः सहजस्तद्वदानन्दो वीरपूर्वकः
योगानन्दश्च तत्र स्यादैशानादिवले फलम् ।
अस्ति कुण्डलिनी ब्रह्मशक्तिराधारपङ्कजे
आब्रह्मरन्ध्रमृजुतां नीतेयममृतप्रदा ।
स्वाषिष्ठानं लिङ्गमूले षट्पत्रं चक्रमस्य च
पूर्वादिषु दलेष्वाहुः फलान्येतान्यनुक्रमात् ।
प्रश्रयः क्रूरता गर्वनाशो मूर्च्छा ततः परम्
अवज्ञा स्यादविश्वासः कामशक्तेरिदं गृहम् ।
नाभौ दशदलं चक्रं मणिपूरकसंज्ञितम्
सुषुप्तिरत्र तृष्णा स्यादीर्ष्या पिशुनता तथा ।
लज्जा भयं घृणा मोहः कषायोऽथ विषादिता
क्रमात्पूर्वादिपत्रे तु स्याद्भानुभवनं च तत् ।
हृदयेऽनाहतं चक्रं शिवस्य प्रणवाकृतेः
पूजास्थानं तदिच्छन्ति दलैर्द्वादशभिर्युतम् ।
लौल्यप्रणाशः प्रकटो वितर्कोऽप्यनुतापिता
आशा प्रकाशश्चिन्ता च समीहा समता ततः ।
क्रमेण दम्भो वैकल्यं विवेकोऽहंकृतिस्तथा
फलान्येतानि पूर्वादिदलस्थस्यात्मनो जगुः ।
कण्ठेऽस्ति भारतीस्थानं विशुद्धिः षोडशच्छदम्
तत्र प्रणव उद्गीथो हुंफड् वषडथ स्वधा ।
स्वाहा नमोऽमृतं सप्त स्वराः षड्जादयो विषम्
इति पूर्वादिपत्रस्थे फलान्यात्मनि षोडश ।
ललनाख्यं घण्टिकायां चक्रं द्वादशपत्रकम्
मदो मानस्ततः स्नेहः शोकः स्वेदश्च लुब्धता ।
अरतिः संभ्रमश्चोर्मिः श्रद्धातोषोपरोधिताः
फलानि ललनाचक्रे स्युः पूर्वादिदलेष्विति ।
भ्रूमध्ये त्रिदलं चक्रमाज्ञासंज्ञं फलानि तु
आविर्भावाः सत्त्वरजस्तमसां क्रमतो मताः ।
ततोऽप्यस्ति मनश्चक्रं षड्दलं तत्फलानि तु
स्वप्नो रसोपभोगश्च घ्राणं रूपोपलम्भनम् ।
स्पर्शनं शब्दबोधश्च पूर्वादिषु दलेष्विति
ततोऽपि षोडशदलं सोमचक्रमितीरितम् ।
दलेषु षोडशस्वस्य कलाः षोडश संस्थिताः
कृपा क्षमार्जवं धैर्यं वैराग्यं धृतिसंमदौ ।
हास्यं रोमाञ्चनिचयो ध्यानाश्रु स्थिरता ततः
गाम्भीर्यमुद्यमोऽच्छत्वमौदार्यैकाग्रते क्रमात् ।
फलान्युद्यन्ति जीवस्य पूर्वादिदलगामिनः
चक्रं सहस्रपत्रं तु ब्रह्मरन्ध्रे सुधाधरम् ।
तत्सुधासारधाराभिरभिवर्धयते तनुम्
अनाहतदले पूर्वेऽष्टमे चैकादशे तथा ।
द्वादशे च स्थितो जीवो गीतादेः सिद्धिमृच्छति
चतुर्थषष्ठदशमैर्दलैर्गीतादि नश्यति ।
विशुद्धेरष्टमादीनि दलान्यष्टौ श्रितानि तु
दद्युर्गीतादिसंसिद्धिं षोडशं तद्विनाशकम् ।
दशमैकादशे पत्रे ललनायां तु सिद्धिदे
नाशकं प्रथमं तुर्यं पञ्चमं च दलं विदुः ।
ब्रह्मरन्ध्रस्थितो जीवः सुधया संप्लुतो यथा
तुष्टो गीतादिकार्याणि सप्रकर्षाणि साधयेत् ।
एषां शेषेषु पत्रेषु चक्रेष्वन्येषु च स्थितः
जीवो गीतादिसंसिद्धिं न कदाचिदवाप्नुयात् ।
आधाराद् द्व्यङ्गुलादूर्ध्व मेहनाद् द्व्यङ्गुलादधः
एकाङ्गुलं देहमध्यं तप्तजाम्बूनदप्रभम् ।
तत्रास्तेऽग्निशिखा तन्वी चक्रात्तस्मान्नवाङ्गुले
देहस्य कन्दोऽस्त्युत्सेधायामाभ्यां चतुरङ्गुलः ।
ब्रह्मग्रन्थिरिति प्रोक्तं तस्य नाम पुरातनैः
तन्मध्ये नाभिचक्रं तु द्वादशारमवस्थितम् ।
लूतेव तन्तुजालस्था तत्र जीवो भ्रमत्ययम्
सुषुम्णया ब्रह्मरन्ध्रमारोहत्यवरोहति ।
जीवः प्राणसमारूढो रज्ज्वां कोह्लाटिको यथा
सुषुम्णां परितो नाड्यः कन्दादाब्रह्मरन्ध्रतः ।
कन्दीकृत्य स्थिताः कन्दं शाखाभिस्तन्वते तनुम्
ताश्च भूरितरास्तासु मुख्याः प्रोक्ताश्चतुर्दश ।
सुषुम्णेडा पिङ्गला च कुहूरथ सरस्वती
गान्धारी हस्तिजिह्वा च वारुणी च यशस्विनी ।
विश्वोदरा शङ्खिनी च ततः पूषा पयस्विनी
अलम्बुसेति तत्राद्यास्तिस्रो मुख्यतमा मताः ।
सुषुम्णा तिसृषु श्रेष्ठा वैष्णवी मुक्तिमार्गगा
कन्दमध्ये स्थिता तस्या इडा सव्येऽथ दक्षिणे ।
पिङ्गलेडापिङ्गलयोश्चरतश्चन्द्रभास्करौ
क्रमात्कालगतेर्हेतू सुषुम्णा कालशोषिणी ।
सरस्वती कुहूश्चास्ते सुषुम्णायास्तु पार्श्वयोः
इडायाः पृष्ठपूर्वस्थे गान्धारीहस्तिजिह्विके ।
क्रमात्पूषायशस्विन्यौ पिङ्गलापृष्ठपूर्वयोः
विश्वोदरा मध्यदेशे स्यात्कुहूहस्तिजिह्वयोः ।
मध्ये कुहूयशस्विन्योर्वारुणी सस्थिता मता
पूषासरस्वतीमध्यमधिशेते पयस्विनी ।
गान्धारिकासरस्वत्योर्मध्ये वसति शङ्खिनी
अलम्बुसा कन्दमध्ये तत्रेडापिङ्गले क्रमात् ।
सव्यदक्षिणनासाऽन्तं कुहूरामेहनं पुरः
सरस्वत्यूर्ध्वमाजिह्वं गान्धार्याः पृष्ठतः स्थिता ।
आवामनेत्रमासव्यपादाङ्गुष्ठं तु संस्थिता
हस्तिजिह्वा सर्वगा तु वारुण्यथ यशस्विनी ।
आङ्गुष्ठाद्दक्षिणाङ्घ्रिस्था देहे विश्वोदराऽखिले
शङ्खिनी सव्यकर्णान्तं पूषा त्वायाम्यनेत्रतः ।
पयस्विनी तु वितता दक्षिणश्रवणावधि
अलम्बुसा पायुमूलमवष्टभ्य व्यवस्थिता ।
एवंविधे तु देहेऽस्मिन्मलसंचयसंवृते
प्रसाधयन्ति धीमन्तो भुक्तिं मुक्तिमुपायतः ।
तत्र स्यात्सगुणाद्ध्यानाद्भुक्तिर्मुक्तिस्तु निर्गुणात्
ध्यानमेकाग्रचित्तैकसाध्यं न सुकरं नृणाम् ।
तस्मादत्र सुखोपायं श्रीमन्नादमनाहतम्
गुरूपदिष्टमार्गेण मुनयः समुपासते ।
सोऽपि रक्तिविहीनत्वान्न मनोरञ्जको नृणाम्
तस्मादाहतनादस्य श्रुत्यादिद्वारतोऽखिलम् ।
गेयं वितन्वतो लोकरञ्जनं भवभञ्जनम्
उत्पत्तिमभिघास्यामस्तथा श्रुत्यादिहेतुताम् ।
इति प्रथमे स्वराध्याये द्वितीयं पिण्डोत्पत्तिप्रकरणम्
अथ तृतीयं नादस्थानश्रुतिस्वरजातिकुलदैवतर्षिच्छन्दोरसप्रकरणम्
चैतन्यं सर्वभूतानां विवृत्तं जगदात्मना ।
नादब्रह्म तदानन्दमद्वितीयमुपास्महे
नादोपासनया देवा ब्रह्मविष्णुमहेश्वराः ।
भवन्त्युपासिता नूनं यस्मादेते तदात्मकाः
आत्मा विवक्षमाणोऽयं मनः प्रेरयते मनः ।
देहस्थं वह्निमाहन्ति स प्रेरयति मारुतम्
ब्रह्मग्रन्थिस्थितः सोऽथ क्रमादूर्ध्वपथे चरन् ।
नाभिहृत्कण्ठमूर्धास्येष्वाविर्भावयति ध्वनिम्
नादोऽतिसूक्ष्मः सूक्ष्मश्च पुष्टोऽपुष्टश्च कृत्रिमः ।
इति पञ्चाभिधा धत्ते पञ्चस्थानस्थितः क्रमात्
नकारं प्राणनामानं दकारमनलं विदुः ।
जातः प्राणाग्निसंयोगात्तेन नादोऽभिधीयते
व्यवहारे त्वसौ त्रेधा हृदि मन्द्रोऽभिधीयते ।
कण्ठे मध्यो मूर्ध्नि तारो द्विगुणश्चोत्तरोत्तरः
तस्य द्वाविंशतिर्भेदाः श्रवणाच्छ्रुतयो मताः ।
हृद्यूर्ध्वनाडीसंलग्ना लाड्यो द्वाविंशतिर्मताः
तिरश्च्यस्तासु तावत्यः श्रुतयो मारुताहतेः ।
उच्चोच्चतरतायुक्ताः प्रभवन्त्युत्तरोत्तरम्
एवं कण्ठे तथा शीर्षे श्रुतिद्वाविंशतिर्मता ।
व्यक्तये कुर्महे तासां वीणाद्वन्द्वे निदर्शनम्
द्वे वीणे सदृशौ कार्ये यथा नादः समो भवेत् ।
तयोर्द्वाविंशतिस्तन्त्र्यः प्रत्येकं तासु चादिमा
कार्या मन्द्रतमध्वाना द्वितीयोच्चध्वनिर्मनाक् ।
स्यान्निरन्तरता श्रुत्योर्मध्ये ध्वन्यन्तराश्रुतेः
अधराधरतीव्रास्तास्तज्जो नादः श्रुतिर्मतः ।
वीणाद्वये स्वराः स्थाप्यास्तत्र षड्जश्चतुःश्रुतिः
स्थाप्यस्तन्त्र्यां तुरीयायामृषभस्त्रिश्रुतिस्ततः ।
पञ्चमीतस्तृतीयायां गान्धारो द्विश्रुतिस्ततः
अष्टमीतो द्वितीयायां मध्यमोऽथ चतुःश्रुतिः ।
दशमीतश्चतुर्थ्यां स्यात्पञ्चमोऽथ चतुःश्रुतिः
चतुर्दशीतस्तुर्यायां धैवतस्त्रिश्रुतिस्ततः ।
अष्टादश्यस्तृतीयायां निषादो द्विश्रुतिस्ततः
एकविंश्या द्वितीयायां वीणैकाऽत्र ध्रुवा भवेत् ।
चलवीणा द्वितीया तु तस्यां तन्त्रीस्तु सारयेत्
स्वोपान्त्यतन्त्रीमानेयास्तस्यां सप्त स्वरा बुधैः ।
ध्रुववीणास्वरेभ्योऽस्यां चलायां ते स्वरास्तदा
एकश्रुत्यपकृष्टाः स्युरेवमन्याऽपि सारणा ।
श्रुतिद्वयलयादस्यां चलवीणागतौ गनी
ध्रुववीणोपगतयो रिधयोर्विशतः क्रमात् ।
तृतीयस्यां सारणायां विशतः सपयो रिधौ
निगमेषु चतुर्थ्यां तु विशन्ति समपाः क्रमात् ।
श्रुतिद्वाविंशतावेवं सारणानां चतुष्ट्यात्
ध्रुवाश्रुतिषु लीनायामियत्ता ज्ञायते स्फुटम् ।
अतः परम् तु रक्तिध्नं न कार्यमपकर्षणम्
श्रुतिभ्यः स्युः स्वराः षड्जर्षभगान्धारमध्यमाः ।
पञ्चमो धैवतश्चाथ निषाद इति सप्त ते
तेषां संज्ञाः सरिगमपधनीत्यपरा मताः ।
श्रुत्यनन्तरभावी यः स्निग्धोऽनुरणनात्मकः
स्वतो रञ्जयति श्रोतृचित्तं स स्वर उच्यते ।
ननु श्रुतिश्चातुर्थ्यादिरस्त्वेवं स्वरकारणम्
त्र्यादीनां तत्र पूर्वासां श्रुतीनां हेतुता कथम् ।
ब्रूमस्तुर्यातृतीयादिः श्रुतिः पूर्वाऽभिकाङ्क्षया
निर्धार्यतेऽतः श्रुतयः पूर्वा अप्यत्र हेतवः ।
दीप्तायता च करुणा मृदुर्मध्येति जातयः
श्रुतीनां पञ्च तासां च स्वरेष्वेवं व्यवस्थितिः ।
दीप्तायता मृदुर्मध्या षड्जे स्यादृषभे पुनः
संस्थिता करुणा मध्या मृदुर्गान्धारके पुनः ।
दीप्तायते मध्यमे ते मृदुमध्ये च संस्थिते
मृदुर्मध्यायताख्या च करुणा पञ्चमे स्थिता ।
करुणा चायता मध्या धैवते सप्तमे पुनः
दीप्ता मध्येति तासां च जातीनां ब्रूमहे भिदाः ।
तीव्रा रौद्री व्रजिकोग्नेत्युक्ता दीप्ता चतुर्विधा
कुमुद्वत्यायता याऽस्याः क्रोधा चाथ प्रसारिणी ।
संदीपनी रोहिणी च भेदाः पञ्चेति कीर्तिताः
दयावती तथालापिन्यथ प्रोक्ता मदन्तिका ।
त्रयस्ते करुणाभेदा मृदोर्भेदचतुष्टयम्
मन्दा च रतिका प्रीतिः क्षितिर्मध्या तु षड्विधा ।
छन्दोवती रञ्जनी च मार्जनी रक्तिका तथा
रम्या च क्षोभिणीत्यासामथ ब्रूमः स्वरस्थितिम् ।
तीव्राकुमुद्वतीमन्दाच्छन्दोवत्यस्तु षड्जगाः
दयावती रञ्जनी च रक्तिका चर्षभे स्थिताः ।
रौद्री क्रोधा च गान्धारे वज्रिकाऽथ प्रसारिणी
प्रीतिश्च मार्जनीत्येताः श्रुतयो मध्यमाश्रिताः ।
क्षिती रक्ता च संदीपन्यालापिन्यपि पञ्चमे
मदन्ती रोहिणी रम्येत्येतास्तिस्रस्तु धैवते ।
उग्रा च क्षोभिणीति द्वे निषादे वसतः श्रुती
ते मन्द्रमध्यताराख्यस्थानभेदात्त्रिधा मताः ।
त एव विकृतावस्था द्वादश प्रतिपादिताः
च्युतोऽच्युतो द्विधा षड्जो द्विश्रुतिविकृतो भवेत् ।
साधारणे काकलीत्वे निषादस्य च दृश्यते
साधारणे श्रुतिं षाड्जीमृषभः संश्रितो यदा ।
चतुःश्रुतित्वमायाति तदैको विकृतो भवेत्
साधारणे त्रिश्रुतिः स्यादन्तरत्वे चतुःश्रुतिः ।
गान्धार इति तद्भेदौ द्वौ निःशङ्केन कीर्तितौ
मध्यमः षड्जवद्द्वेधाऽन्तरसाधारणाश्रयात् ।
पञ्चमो मध्यमग्रामे त्रिश्रुतिः कैशिके पुनः
मध्यमस्य श्रुतिं प्राप्य चतुःश्रुतिरिति द्विधा ।
धैवतो मध्यमग्रामे विकृतः स्याच्चतुःश्रुतिः
कैशिके काकलीत्वे च निषादस्त्रिचतुःश्रुतिः ।
प्राप्नोति विकृतौ भेदौ द्वाविति द्वादश स्मृताः
तैः शुद्धैः सप्तभिः सार्धं भवन्त्येकोनविंशतिः ।
मयूरचातकच्छागक्रौञ्चकोकिलदर्दुराः
गजश्च सप्त षड्जादीन्क्रमादुच्चारयन्त्यमी ।
चतुर्विधाः स्वरा वादी संवादी च विवाद्यपि
अनुवादी च वादी तु प्रयोगे बहुलः स्वरः ।
श्रुतयो द्वादशाष्टौ वा ययोरन्तरगोचराः
मिथः संवादिनौ तौ स्तो निगावन्यविवादिनौ ।
रिधयोरेव वा स्यातां तौ तयोर्वा रिधावपि
शेषाणामनुवादित्वं वादी राजाऽत्र गीयते ।
संवादी त्वनुसारित्वादस्यामात्योऽभिधीयते
विवादी विपरीतत्वाद्धीरैरुक्तौ रिपूपमः ।
गीवणिकुलसंभूताः षड्जगान्धरमध्यमाः ।
पञ्चमः पितृवंशोत्थो रिधावृषिकुलोद्भवौ
निषादोऽसुरवंशोत्थो ब्राह्मणाः समपञ्चमाः ।
रिधौ तु क्षत्त्रियौ ज्ञेयौ वैश्यजाती निगौ मतौ
शूद्रावन्तरकाकल्यौ स्वरौ वर्णास्त्विमे क्रमात् ।
पद्माभः पिञ्जरः स्वर्णवर्णः कुन्दप्रभोऽसितः
पीतः कर्वुर इत्येषां जन्मभूमीरथ ब्रुवे ।
जम्बूशाककुशक्रौञ्च शाल्मलीश्वेतनामसु
द्वीपेषु पुष्करे चैते जाताः षड्जादयः क्रमात् ।
बह्निर्वेधाः शशाङ्कश्च लक्ष्मीकान्तश्च नारदः
ऋषयो ददृशुः पञ्च षड्जादींस्तुम्बुरुर्धनी ।
बह्निब्रह्मसरस्वत्यः शर्वश्रीशगणेश्वराः
सहस्रांशुरिति प्रोक्ताः क्रमात्षड्जादिदेवताः ।
क्रमादनुष्टुब्गायत्त्री त्रिष्टुप्च बृहती ततः
पङ्क्तिरुष्णिक्च जगतीत्याहुश्छन्दांसि सादिषु ।
सरी वीरेऽद्भुते रौद्रे धो बीभत्से भयानके
कायौ गनी तू करुणे हास्यशृङ्गारयोर्मपौ ।
इति प्रथमे स्वराध्याये तृतीयं नादस्थानश्रुतिस्वरप्रकरणम्
अथ चतुर्थं ग्राममूर्च्छनाक्रमतानप्रकरणम्
ग्रामः स्वरसमूहः स्यान्मूर्च्छनाऽऽदेः समाश्रयः ।
तौ द्वौ धरातले तत्र स्यात्षड्जग्राम आदिमः
द्वितीयो मध्यमग्रामस्तयोर्लक्षणमुच्यते ।
षड्जग्रामः पञ्चमे स्वचतुर्थश्रुतिसंस्थिते
स्वोपान्त्यश्रुतिसंस्थेऽस्मिन्मध्यमग्राम इष्यते ।
यद्वा धस्त्रिश्रुतिः षड्जे मध्यमे तु चतुःश्रुतिः
रिमयोः श्रुतिमेकैकां गान्धारश्चेत्समाश्रितः ।
पश्रुतिं धो निषादस्तु धश्रुतिं सश्रुतिं श्रितः
गान्धारग्राममाचष्ट तदा तं नारदो मुनिः ।
प्रवर्तते स्वर्गलोके ग्रामोऽसौ न महीतले
षड्जः प्रधानमाद्यत्वादमात्याधिक्यतस्तथा ।
ग्रामे स्यादविलोपित्वान्मध्यमस्तु पुरःसरः
एतत्कुलप्रसूतत्वाद् गन्धारोऽप्यग्रणीर्दिवि ।
क्रमाद् ग्रामत्रये देवा ब्रह्मविष्णुमहेश्वराः
हेमन्तग्रीष्मवर्षासु गातव्यास्ते यथाक्रमम् ।
पूर्वाह्णकाले मध्याह्नेऽपराह्णेऽभ्युदयार्थिभिः
क्रमात्स्वराणां सप्तानामारोहश्चावरोहणम् ।
मूर्च्छनेत्युच्यते ग्रामद्वये ताः सप्त सप्त च
षड्जे तूत्तरमन्द्रादौ रजनी चोत्तरायता ।
शुद्धषड्जा मत्सरीकृदश्वक्रान्ताभिरुद्गता
मध्यमे स्यात्तु सौवीरी हारिणाश्वा ततः परम् ।
स्यात्कलोपनता शुद्धमध्या मार्गो च पौरवी
हृष्यकेति
अथ तासां तु लक्षणं प्रतिपाद्यते ।
मध्यस्थानस्थषड्जेन मूर्च्छनारभ्यतेऽग्रिमा
अधस्तनैनिषादाद्यैः षडन्या मूर्च्छनाः क्रमात् ।
मध्यमध्यममारभ्य सौवीरी मूर्च्छना भवेत्
षडन्यास्तदधोऽधःस्थस्वरानारभ्य तु क्रमात् ।
षड्जस्थानस्थितैर्न्याद्यैरजन्याद्याः परे विदुः
हारिणाश्वादिका गाद्यैर्मध्यमस्थानसंस्थितैः ।
षड्जादीन्मध्यमादींश्च तदूर्ध्वं सारयेत्क्रमात्
चतुर्धा ताः पृथक् शुद्धाह् काकलीकलितास्तथा ।
सान्तरास्तद्द्वयोपेताः षट्पञ्चाशदितीरिताः
श्रुतिद्वयं चेत्षड्जस्य निषादः संश्रयेत्तदा ।
स काकली मध्यमस्य गान्धारस्त्वन्तरः स्वरः
यस्यां यावतिथौ षड्जमध्यमौ ग्रामयोः क्रमात् ।
मूर्च्छना तावतिथ्येव सा निःशङ्केन कीर्तिता
प्रथमादिस्वरारम्भादेकैका सप्तधा भवेत् ।
तासूच्चार्यान्त्यस्वरांस्तान्पूर्वानुच्चारयेत्क्रमात्
ते क्रमास्तेषु संख्या स्याद् द्वानवत्या शतत्रयम् ।
यक्षरक्षोनारदाब्जभवनागाश्विपाशिनः
षड्जग्रामे मूर्च्छनानामेताः स्युर्देवताः क्रमात् ।
ब्रह्मेन्द्रवायुगन्धर्वसिद्धद्रुहिणभानवः
स्युरिमा मध्यमग्राममूर्च्छनादेवताः क्रमात् ।
तासामन्यानि नामानि नारदो मुनिरब्रवीत्
मुर्च्छनोत्तरवर्णाऽऽद्या षड्जग्रामेऽभिरुद्गता ।
अश्वक्रान्ता च सौवीरी हृष्यका चोत्तरायता
रजनीति समाख्याता ऋषीणां सप्त मूर्च्छनाः ।
आप्यायनी विश्वकृता चन्द्रा हेमा कपर्दिनी
मैत्री चान्द्रमसी पित्र्या मध्यमे मूर्च्छना इमाः ।
नन्दा विशाला सुमुखी चित्रा चित्रवती सुखा
आलापा चेति गान्धारग्रामे स्युः सप्त मूर्च्छनाः ।
ताश्च स्वर्गे प्रयोक्तव्या विशेषात्तेन नोदिताः
तानाः स्युर्मूर्च्छनाः शुद्धाः षाडवौडुवितीकृताः ।
षड्जगाः सप्त हीनाश्चेत्क्रमात्सरिपसप्तमैः
तदाऽष्टाविंशतिस्ताना मध्यमे सरिगोज्झिताः ।
सप्त क्रमाद्यदा तानाः स्युस्तदा त्वेकविंशतिः
एते चैकोनपञ्चाशदुभये षडवा मताः ।
सपाभ्यां द्विश्रुतिभ्यां च रिपाभ्यां सप्त वर्जिताः
षड्जग्रामे पृथक्ताना एकविंशतिरौडुवाः ।
रिधाभ्यां द्विश्रुतिभ्याम् च मध्यमग्रामगास्तु ते
हीनाश्चतुर्दशैव स्युः पञ्चत्रिंशत्तु ते युताः ।
सर्वे चतुरशीतिः स्युर्मिलिताः षाडवौडुवाः
असम्पूर्णाश्च सम्पूर्णा व्युत्क्रमोच्चारितस्वराः ।
मूर्च्छनाः कूटतानाः स्युः तत्सङ्ख्यामभिदध्महे
पूर्णाः पञ्च सहस्राणि चत्वारिंशद्युतानि तु ।
एकैकस्यां मूर्च्छनायां कूटतानाः सह क्रमैः
षट्पञ्चाशन्मूर्च्छनास्थाः पूर्णाः कूटास्तु योजिताः ।
लक्षद्वयं सहस्राणि द्व्यशीतिर्द्वे शते तथा
चत्वारिंशच्च सङ्ख्याता अथापूर्णान्प्रचक्ष्महे ।
एकैकान्त्यान्त्यविरहाद्भेदाः षट् षट्स्वरादयः
एकस्वरोऽत्र निर्भेदोऽप्युक्तो नष्टादिसिद्धये ।
क्रमा अकूटतानत्वेऽप्युक्तास्तेषूपयोगिनः
स्युः षाडवानां विंशत्या सह सप्त शतानि तु ।
औडुवानां तु विंशत्या सहितं शतमिष्यते
चतुःस्वराणां कूटानां चतुर्विशतिरीरिताः ।
त्रिस्वराः षड् द्विस्वरौ द्वावेकस्त्वेकस्वरो मतः
आर्चिको गाथिकश्चाथ सामिकोऽथ स्वरान्तरः ।
एकस्वरादितानानां चतुर्णामभिधा इमाः
उक्ताः शुद्धादिभेदेन निगयुक्ताश्चतुर्विधाः ।
तयोरेकैकहीनास्तु द्वेधा मूलक्रमा मताः
षड्जाद्यौ मध्यमाद्यौ च चत्वारः स्युर्द्विधा द्विधा ।
चतुर्धान्ये दशेत्यष्टाचत्वारिंशदमी क्रमाः
संविशतिः सप्तशती प्रागुक्ता गुणिता क्रमैः ।
चतुस्त्रिंशत्सहस्राणि षष्ट्या पञ्च शतानि च
इति षाडवसङ्ख्या स्यात् अथ पञ्चस्वरान्ब्रुवे ।
गाद्यौ धाद्यौ निषादाद्यौ चतुर्भेदाः षडौडुवाः
आष्टावन्ये द्विधेत्येवं चत्वारिंशदिमे क्रमाः ।
सविंशतौ शते तैश्च गुणितेऽष्टौ शतानि तु
चत्वारि च सहस्राणि सङ्ख्या पञ्चस्वरेष्विति ।
चतुःस्वरेषु न्याद्यौ द्वौ चतुर्धा द्वादशापरे
क्रमा द्विधेति द्वात्रिंशच्चतुर्विंशतिताडिता ।
शतानि सप्ताष्टषष्ट्या स्याच्चतुःस्वरसंमितिः
त्रिस्वरेषु तु माद्यौ द्वावभेदौ द्वादशापरे ।
द्विधा षड्विंशतिरिति क्रमास्ते षड्भिराहताः
षट्पञ्चाशच्छतं च स्युः द्विस्वरेषु पुनर्द्विधा ।
रिगधन्यादयोऽष्टौ स्युः शुद्धास्तदितरे क्रमाः
द्वाविंशतिस्ते तु चतुश्चत्वारिंशद् द्विताडिताः ।
एकस्वरास्त्वभेदत्वान्मौला एव चतुर्दश
षड्जादेः शुद्धमध्याया भेदकं पञ्चमं विना ।
चतुःस्वरे क्रमद्वन्द्वेऽष्टाचत्वारिंशदीरिताः
तानास्त्रिस्वरयोस्त्वेते द्वादश द्वस्वरे द्वयम् ।
एक एकस्वरस्ते त्रिषष्टिरौत्तरमन्द्रकैः
पुनरुक्ता मतास्तानैर्न्यादिमार्गीक्रमाः पुनः ।
पञ्चस्वरा ये चत्वारस्तत्तानानां चतुःशती
अशीत्यभ्यधिका चातुःस्वरी षण्णवतिर्भवेत् ।
द्वादश त्रिस्वरद्वन्द्वे चत्वारो द्विस्वरद्वये
एक एकस्वरस्तानस्तेषां पञ्चशती त्वियम् ।
त्रिनवत्या युता तानैरभिन्ना रजनीगतैः
धैवतादेस्तु पौरव्याश्चत्वारह् षट्स्वराः क्रमात् ।
तत्तानानां तु साशीतिः शताष्टाविंशतिर्मता
औडुवानां चतुर्णां प्रागुक्ता सङ्ख्या चतुःस्वरौ ।
त्रिस्वरौ द्विस्वरावेकस्वरः प्रागुक्तसङ्ख्यकाः
पञ्चविंशतिसंयुक्ता चतुस्त्रिंशच्छती त्वियम् ।
तानानां सदृशाकारा स्यात्तानैरौत्तरायतैः
इत्येकाशीतिसंयुक्तं सहस्राणां चतुष्टयम् ।
तानानां पुनरुक्तानां पूर्णापूर्णैः सह क्रमैः
अपनीयेत चेदेषा कूटतानमितिर्भवेत् ।
लक्षत्रयं सप्तदश सहस्राणि शतानि च
नवत्रिंशद्युतानीति ज्ञानोपायोऽत्र कथ्यते ।
अङ्कानेकादिसप्तान्तानूर्ध्वमूर्ध्वं लिखेत्क्रमात्
हते पूर्वेण पूर्वेण तेषु चाङ्के परे परे ।
एकस्वरादिसङ्ख्या स्यात्क्रमेण प्रतिमूर्च्छनम्
क्रमं न्यस्य स्वरः स्थाप्यः पूर्वः पूर्वः परादधः ।
स चेदुपरि तत्पूर्वः पुरस्तूपरिवर्तिनः
मूलक्रमक्रमात्पृष्ठे शेषाः प्रस्तार ईदृशः ।
सप्ताद्येकान्तकोष्ठानामधोऽधः सप्त पङ्क्तयः
तास्वाद्यायामाद्यकोष्ठे लिखेदेकं परेषु खम् ।
वेद्यतानस्वरमितान्न्यस्येत्तेष्वेव लोष्टकान्
प्राक्पङ्क्त्यन्त्याङ्कसंयोगमूर्ध्वाधःस्थितपङ्क्तिषु ।
शून्यादधो लिखेदेकं तं चाधोऽधः स्वकोष्ठकान्
कोष्ठसङ्ख्यागुणं न्यस्येत्खण्डमेरुरयं मतः ।
स्वरान्मूलक्रमस्यान्त्यात्पूर्वं यावतिथः स्वरः
उद्दिष्टान्त्यस्तावतिथे कोष्ठेऽधो लोष्टकं क्षिपेत् ।
लोष्टचालनमन्त्यात्स्यात्त्यक्त्वा लब्धं क्रमो भवेत्
लोष्टाक्रान्ताङ्कसंयोगादुद्दिष्टस्य मितिर्भवेत् ।
यैरङ्कैर्नष्टसंख्या स्यान्मौलैकाङ्कसमन्वितैः
तेषु लोष्टं क्षिपेन्मूले लोष्टस्थानमितं भवेत् ।
नष्टतानस्वरस्थानम् ततो यावतिथे पदे
अधःक्रमादस्ति लोष्टः स्वरस्तावतिथो भवेत् ।
क्रमान्तिमस्वरात्पूर्वो लब्धत्यागादि पूर्ववत्
तानस्वरमितोर्ध्वाधःपङ्क्तिगान्त्याङ्कमिश्रणात् ।
एकस्वरादितानानां संख्या संजायते क्रमात्
अथात्र शुद्धतानानां नामानि व्याहरामहे ।
अग्निष्टोमोऽत्यग्निष्टोमो वाजपेयश्च षोडशी
पुण्डरीकोऽश्वमेधश्च राजसूयस्ततः परः ।
इति स्युः षड्जहीनानां सप्त नामान्यनुक्रमात्
स्विष्टकृद्बहुसौवर्णो गोसवश्च महाव्रतः ।
विश्वजिद्ब्रह्मयज्ञश्च प्राजापत्यस्तु सप्तमः
क्रमाद्षभहीनानां तानानामभिधा इमाः ।
अश्वक्रान्तो रथक्रान्तो विष्णुक्रान्तस्ततः परः
सूर्यक्रान्तो गजक्रान्तो वलभिन्नागपक्षकः ।
इति पञ्चमहीनानां संज्ञाः सप्त क्रमान्मताः
चातुर्मास्योऽथ संस्थाऽऽख्यः शस्त्रश्चोक्थश्चतुर्थकः ।
सौत्रामणी तथा चित्रा सप्तमस्तूद्भिदाह्वयः
संज्ञा निषादहीनानां षाडवानामिमाः क्रमात् ।
सावित्री चार्धसावित्री सर्वतोभद्रसंज्ञकः
आदित्यानामयनश्च गवामयननामकः ।
सर्पाणामयनः षष्ठः सप्तमः कौणपायनः ।
नामानि षड्जहीनानां तानानामिति मेनिरे
अग्निचिद् द्वादशाहश्चोपांशुः सोमाभिधस्ततः ।
अश्वप्रतिग्रहो वर्हिरथाभ्युदयसंज्ञकः
ऋषभेण विहीनानामिति नामानि मन्वते ।
सर्वस्वदक्षिणो दीक्षा सोमाख्यः समिदाह्वयः
स्वाहाकारस्तनूनपात्ततो गोदोहनो मतः ।
इति गान्धारहीनानां क्रमात्संज्ञाः प्रचक्षते
इडा पुरुषमेधश्च श्येनो वज्र इषुस्ततः ।
अङ्गिराः कङ्क इत्येताः सपहीनाभिधाः क्रमात्
ज्योतिष्टोमस्ततो दर्शो नान्द्याख्यः पौर्णमासकः ।
अश्वप्रतिग्रहो रात्रिः सौभरः सप्तमः स्मृतः
एता निषादगान्धारहीनानामभिधाः क्रमात् ।
सौभाग्यकृच्च कारीरी शान्तिकृत्पुष्टिकृत्तथा
वैनतेयोच्चाटनौ च वशीकरणसंज्ञकः ।
पञ्चमर्षभहीनानां तानानामभिधा इमाः
त्रैलोक्यमोहनो वीरः कन्दर्पबलशातनः
शङ्खचूडो गजच्छायो रौद्राख्यो विष्णुविक्रमः ।
तानानां रिधहीनानां नामान्येतान्यनुक्रमात्
भैरवः कामदाख्यश्चावभृथोऽष्टकपालकः ।
स्विष्टकृच्च वषट्कारो मोक्षदः सप्तमो मतः
संज्ञा निषादगान्धारहीनानामिति संमताः ।
यद्यज्ञनामा यस्तानस्तस्य तत्फलमिष्यते
गान्धर्वे मूर्च्छनास्तानाः श्रेयसे श्रुतिचोदिताः ।
गाने स्थानस्य लाभेन ते कूटाश्चोपयोगिनः
साधारणं भवेद् द्वेधा स्वरजातिविशेषणात् ।
स्वरसाधारणं तत्र चतुर्धा परिकीर्तितम्
काकल्यन्तरषड्जैश्च मध्यमेन विशेषणात् ।
साधारणः काकली हि भवेत्षड्जनिषादयोः
साधारण्यमतस्तस्य यत्तत्साधारणं विदुः ।
अन्तरस्यापि गमयोरेवं साधारणं मतम्
प्रयोज्यौ षड्जमुच्चार्य काकलीधैवतौ क्रमात् ।
एवम् मध्यममुच्चार्य प्रयुञ्जीतान्तरर्षभौ
षड्जकाकलिनौ यद्वोच्चार्य षड्जं पुनर्व्रजेत् ।
तत्परान्यतमं चैवं मध्यमं चान्तरस्वरम्
प्रयुज्य मध्यमो ग्राह्यस्तत्परान्यतमोऽथ वा ।
अल्पप्रयोगः सर्वत्र काकली चान्तरः स्वरः
निषादो यदि षड्जस्य श्रुतिमाद्यां समाश्रयेत् ।
ऋषभस्त्वन्तिमां प्रोक्तं षड्जसाधारणं तदा
मध्यमस्यापि गपयोरेवं साधारणं मतम् ।
साधारणं मध्यमस्य मध्यमग्रामगं ध्रुवम्
साधारणे कैशिके ते केशाग्रवदणुत्वतः ।
ते एव कैश्चदुच्येते ग्रामसाधारणे बुधैः
एकग्रामोद्भवास्वेकांशासु जातिषु यद्भवेत् ।
समानं गानमार्यास्तज्जातिसाधारणं जगुः
जातिसाधारणं केचिद्रागानेव प्रचक्षते ।
गानक्रियोच्यते वर्णः स चतुर्धा निरूपितः ।
स्थाय्यारोह्यवरोही च संचारीत्यथ लक्षणम्
स्थित्वा स्थित्वा प्रयोगः स्यादेकस्यैव स्वरस्य यः ।
स्थायी वर्णः स विज्ञेयः परावन्वर्थनामकौ
एतत्संमिश्रणाद्वर्णः संचारी परिकीर्तितः ।
विशिष्टं वर्णसन्दर्भमलङ्कारं प्रचक्षते
तस्य भेदास्तु बहवस्तत्र स्थायिगतान्ब्रुवे ।
येषामाद्यन्तयोरेकः स्वरस्ते स्थायिवर्णगाः
प्रसन्नादिः प्रसन्नान्तः प्रसन्नाद्यन्तसंज्ञकः ।
ततः प्रसन्नमध्यः स्यात्पञ्चमः क्रमरेचितः
प्रस्तारोऽथ प्रसादः स्यात्सप्तैते स्थायिनि स्थिताः ।
मन्द्रः प्रकरणेऽत्रे स्यान्मूर्च्छनाप्रथमः स्वरः
स एव द्विगुणस्तारः पूर्वः पूर्वोऽथ वा भवेत् ।
मन्द्रः परस्ततस्तारः प्रसन्नो मृदुरित्यपि
मन्द्रस्तारस्तु दीप्तः स्यान्मन्द्रो बिन्दुशिरा भवेत् ।
ऊर्ध्वरेखाशिरस्तारो लिपौ त्रिर्वचनात्प्लुतः
मन्द्रद्वयात्परे तारे प्रसन्नादिरुदीरितः ।
सं सं स॑
तद्वैलोम्य प्रसन्नान्तः
स॑ सं सं
प्रसन्नद्वयमध्यगे
दीप्ते प्रसन्नाद्यन्तः स्यात्
सं स॑ सं
तारयोर्मध्यगे पुनः ।
मन्द्रे प्रसन्नमध्याख्यमलङ्कारं विदो विदुः
स॑ सं स॑
आद्यन्तयोर्मूर्च्छनादिश्चेत्स्वरोऽन्तर्द्वितीयकः ।
सैका कलाऽथ चेन्मध्ये स्तस्तृतीयचतुर्थकौ
सा द्वितीया पञ्चमाद्यास्त्रयोऽन्तश्चेत्कला परा ।
एवं कलात्रयेणोक्तोऽलङ्कारः क्रमरेचितः
संरिसं संगमसं संपधनिसं
दीप्तान्तश्चेत्प्रतिकलं प्रस्तारः सोऽभिधीयते ।
संरिस॑ संगमस॑ संपधनिस॑
तारमन्द्रविपर्यासात्तं प्रसादं प्रचक्षते
स॑रिसं स॑गमसं स॑पधनिसं
स्यातां विस्तीर्णनिष्कषौ बिन्दुरभ्युच्चयः परः ।
हसितप्रेङ्खिताक्षिप्तसन्धिप्रच्छादनास्तथा
उद्गीतोद्वाहितौ तद्वत्त्रिवर्णो वेणिरित्यमी ।
द्वादशारोहिवर्णस्थालङ्काराः परिकीर्तिताः
मूर्च्छनादेः स्वराद्यत्र क्रमेणारोहणं भवेत् ।
स्थित्वा स्थित्वा स्वरैर्दीर्घैः स विस्तीर्णोऽभिधीयते
सा री गा मा पा धा नी
ह्रस्वैः स्वरैः स निष्कर्षो द्विर्द्विरुक्तैर्निरन्तरैः ।
सस रिरि गग मम पप धध निनि
त्रिश्चतुर्वा स्वरोच्चारे गात्रवर्णमिमं विदुः
ससस रिरिरि गगग ममम धधध निनिनि ।
सससस रिरिरिरि गगगग मममम पपपप धधधध निनिनिनि
निष्कर्षस्यैव भेदौ द्वौ केचिदेतौ बभाषिरे ।
प्लुतं ह्रस्वं प्लुतं ह्रस्वं प्लुतं ह्रस्वं प्लुतं स्वरम्
कुर्वन्क्रमाद्यदारोहेत्तदा विन्दुरर्यं मतः ।
स
रि ग
म् प
ध नि
एकान्तरस्वरारोहमाहुरभ्युच्चयं बुधाः
सगपनि
यत्रैकोत्तरवृद्धाभिरावृत्तिभिरुदीरिताः ।
आरुह्यन्ते स्वराः प्राह हसितं तं शिवप्रियः
स रिरि गगग मममम पपपपप धधधधधध निनिनिनिनिनिनि
स्वरद्वयं समुच्चार्य पूर्वं पूर्वयुतं परम् ।
यदान्दोलितमारोहेत्प्रेङ्खितोऽसौ क्रमोऽथ वा
सरि रिग गम मप पध धनि
एकान्तरं स्वरयुगं तादृक्पूर्वयुतं परम् ।
क्रमादारोहति यदा तदाक्षिप्तं प्रचक्षते
सग गप पनि
त्रिस्वराद्या कलान्ये च पूर्वपूर्वानित्मादिमे ।
कले स्तस्त्रिस्वरे यत्र सन्धिप्रच्छादनस्तु सः
सरिग गमप पधनि ।
यदाद्याद्यस्त्रिरावृत्तः कलयोस्त्रिस्वरात्मनोः ।
तदोद्गीतः
सससरिग मममपध
मध्यमेन तादृशोद्वाहितो मतः
सरिरिरिग मपपपध
अन्त्यस्य तु त्रिरावृत्तौ त्रिवर्णं वर्णयन्त्यमुम् ।
सरिगगग मपधधध
त्रयाणां तु त्रिरावृत्तौ पृथग्वेणिरुदीरितः
ससस रिरिरि गगग ममम पपप धधध
अवरोहक्रमादेते द्वादशाप्यवरोहिणि ।
मन्द्रादिर्मन्द्रमध्यश्च मन्द्रान्तः स्यादतः परम्
प्रस्तारश्च प्रसादोऽथ व्यावृत्तस्खलितावपि ।
परिवर्ताक्षेपबिन्दूद्वाहितोर्मिसमास्तथा
प्रेङ्खनिष्कूजितश्येनक्रमोद्घट्टितरञ्जिताः ।
संनिवृत्तप्रवृत्तोऽथ वेणुश्च ललितस्वरः
हुङ्कारो ह्रादमानश्च ततः स्यादवलोकितः ।
स्युः सञ्चारिण्यलङ्काराः पञ्चविंशतिरित्यमी
त्रिस्वराऽद्या कलैकैकमन्द्रत्यागेन चापराः ।
त्रिस्वराश्चेत्कला मन्द्राद्या मन्द्रादिस्तदा भवेत्
सगरि रिमग गपम मधप पनिध
ताः कला मन्द्रमध्यान्ताः क्रमाच्चेदपरौ तदा ।
मन्द्रमध्यो यथा
गसरि मरिग पगम धमप निपध
मन्द्रान्तो यथा
रिगस गमरि मपग पधम धनिप
त्याक्तान्तरं स्वरयुगं त्याक्तादारभ्यते पुनः
युगं तादृक्समारोहेत्तया प्रस्तार उच्यते ।
सग रिम गप मध पनि
पूर्वः पूर्वः परस्योर्ध्वाधोवर्ती क्रियते स्वरः
यदा तदा प्रसादं तमाह श्रीकरणेश्वरः ।
सरिस रिगरि गमग मगम पधप धनिध ।
चतुःस्वरा कला तत्राद्यात्तृतीयं द्वितीयकात्
तुर्यं गत्वाऽदिमं गच्छेदेवमेकैकहानतः ।
चतुःस्वराः परा यत्र स व्यावृत्तः स्मृतो बुधैः
सगरिमस रिमगपरि मपमधग मधपनिम्
कलां प्रयुज्य मन्द्रादेर्द्विरुक्तोर्ध्वस्वरान्विताम् ।
अवरुह्येत चेदेष स्खलिताख्यस्तदा भवेत्
सगरिममरिगस रिमगपपगमरि गपमधधमपग
मधपनिनिपधम
स्वरं द्वितीयमुज्झित्वा त्रिस्वराऽऽद्या कला यदि ।
त्यक्तादारभ्य तादृश्योऽन्यास्तदा परिवर्तकः
सगम रिमप गपध मधनि
त्रिस्वराश्चेत्कलाः पूर्वपूर्वत्यागोर्ध्वसंक्रैः ।
तदाऽऽक्षेपः
सरिग रिगम गमप मपद्य पद्यनि ।
अथ बिन्दुः स यत्र प्लुतमधः स्वरम्
कृत्वाग्निवत्परं स्पृष्ट्वाधः स्पर्शेनाखिलाः कलाः ।
स
रिस रि
गरि ग
मग म
पम प
धप ध
निध
कलायां त्रीन्स्वरान्गीत्वाऽवरुह्यैकं पराः कलाः
यत्रैकैकोज्झिता गीतास्तद्वदुद्वाहितस्तु सः ।
सरिगरि रिगमग गमपम मपधप पधनि
मूर्च्छनादेः स्वरात्तुर्यं प्लुतीकृत्याद्यमेत्य च
तुर्यगाने कलैकैकहानाद्यत्रापरास्तथा ।
स ऊर्मिः स्यात्
सम
सम रिप
रिप गध
गध मनि
मनि ।
स तु समः कला यत्र चतुः स्वराः
तुल्यारोहावरोहैकैकहानादपरास्तथा ।
सरिगममगरिस रिगमपपमगरि गमपधधपमग
मपधनिनिधपम
कला गतागतवती द्विस्वरैकैकहानतः
यत्रान्यास्तादृशः स स्यात्प्रेङ्खः
सरिरिस रिगगरि गममग मपपम पधधप धनिनिध
निष्कूजितः पुनः ।
प्रसादस्य कलां गीत्वा तत्कलादेस्तृतीयकम्
गत्वाद्यगानाद्भवति
सरिसगस रिगरिमरि गमगपग मपमधम वधपनिप
श्येनः संवादियुग्मकैः
क्रमात्सरिगमाद्यैः स्यात्
सप रिध गनि मस ।
कला द्वित्रिचतुःस्वराः ।
आद्यस्वराद्यास्तिस्रः स्युर्द्वितीयाद्यादयस्तथा
यत्रासौ क्रम इत्युक्तः
सरिसरिगसरिगम रिगरिगमरिगमप गमगमपगमपध
मपमपधमपधनि
स तूद्घट्टित उच्यते ।
यत्र स्वरद्वयं गीत्वा पञ्चमाच्चुतरः स्वरान्
अवरोहेत्कला गायेत्तथैकैकोज्झनात्पराः ।
सरिपमगरि रिगधपमग गमनिधपम
दिरुक्ता यदि मन्द्रान्ता मन्द्रादेः स्युः कलास्तदा
रञ्जितः
सगरिसगरिस रिमगरिमगरि गपमगपमग मधपमधपम
पनिधपनिधप
अथ भवेदेष संनिवृत्तप्रवृत्तकः ।
यत्राद्यपञ्चमौ गीत्वा तुर्यात्त्रीनवरोहति
क्रमात्कला सा यत्रान्यास्तद्वदेकैकहानतः ।
सपमगरि रिधपमग गनिधपम
यत्राद्यः स्याद् द्विर्द्वितीयचतुर्थकतृतीयकाः
सकृत्कलान्याश्चैकैकहानाद्वेणुरसौ मतः ।
ससरिमग रिरिगपम गगमधप ममपनिध
गीत्वाद्यौ द्वौ चतुर्थं च यस्यां ताववरोहति
सा कलान्याश्च तादृश्यो यत्रासौ ललितस्वरः ।
सरिमरिस रिगपगरि गमधमग मपनिपम
आदिमेन कला यत्र द्विस्वराद्या गतागतैः
स्वरैरेकोत्तरं वृद्धैः स हुङ्कारो निगद्यते ।
सरिस सरिगरिस सरिगमगरिस सरिगमपमगरिस
सरिगमपधपमगरिस सरिगमपधनिधपमगरिस
ह्रादमाने प्रसन्नान्ता मन्द्रादेस्तु कला मताः
सगरिस रिमगरि गपमग मधपम पनिधप
यदारोहेऽवरोहे च स्वद्वितीयं परित्यजेत् ।
चतुःस्वरा समाला तदा स्यादवलोकितः
सगममरिस रिमपपगरि गपधधमग मधनिनपम
एवं सञ्चार्यलङ्कारा आरोहेण प्रदर्शिताः ।
एतानेवावरोहेण प्राह श्रीकरणाग्रणीः
अन्येऽपि सप्तालंकारा गीतज्ञैरुपदर्शिताः ।
तारमन्द्रप्रसन्नश्च मन्द्रतारप्रसन्नकः
आवर्तकः सम्प्रदानो विधूतोऽप्युपलोलकः ।
उल्लासितश्चेति तेषामधुना लक्ष्म कथ्यते
कलास्तेषां द्वितीयाद्याः पूर्वैकैकप्रहाणतः ।
अष्टमस्वरपर्यन्तमारुह्याद्यं व्रजेद्यदि
तारमन्द्रप्रसन्नोऽयमलङ्कारस्तदोच्यते ।
संरिगमपधनिस॑सं
मन्द्रादष्टममुत्प्लुत्य सप्तकस्यावरोहणे
मन्द्रतारप्रशन्नाख्यमाह माहेश्वरोत्तमः ।
संस॑निधपमगरिसं
आद्यं द्वितीयमाद्यं च द्विर्द्विर्गीत्वा द्वितीयकम्
सकृदाद्यं यत्कलायां गायेदावर्तकस्तु सः ।
ससरिरिससरिस रिरिगगरिरिगरि गगममगगमग
ममपपममपम पपधधपपधप धधनिनिधधनिध
एतस्यैव कलाऽन्त्यौ द्वौ स्वरौ संत्यज्य गीयते
यदा तदा सम्प्रदानमलंकारं विदुर्दुधाः ।
ससरिरिसस रिरिगगरिरि गगममगग ममपपमम पपधधपप
धधनिनिधध
युग्ममेकान्तरितयोस्त्यक्तादप्येवमेव चेत्
द्विर्द्विः प्रयुज्येत तदा विधूतो बुधसंमतः ।
सगसग रिमरिम गपगप मधमध पनिपनि
कलायामाद्ययोर्युग्मं चेत्तृतीयद्वितीययोः
द्विर्द्विः प्रयुज्यते तज्ज्ञैरुपलोलस्तदोच्यते ।
सरिसरिगरिगरि रिगरिगमगमग गमगमपमपम
मपमपधपधप पधपधनिधनिध
द्विर्गीत्वाऽऽद्यं तृतीयं च प्रथमं च तृतीयकम्
सकृद्गायेद्यत्कलायां तमुल्लासितमूचिरे ।
ससगसग रिरिमरिम गगपगप ममधमध पपनिपनि
इति प्रसिद्धालङ्कारास्त्रिषष्टिरुदिता मया
अनन्तत्वात्तु ते शास्त्रे न सामस्त्येन कीर्तिताः ।
रक्तिलाभः स्वरज्ञानं वर्णाङ्गानां विचित्रता
इति प्रयोजनान्याहुरलङ्कारनिरूपणे ।
इति प्रथमे स्वरगताध्याये षष्ठं वर्णालङ्कारप्रकरणम्
अथ सप्तमं जातिप्रकरणम्
शुद्धाः स्युर्जातयः सप्त ताः षड्जादिस्वराभिधाः ।
षड्ज्यार्षभी च गान्धारी मध्यमा पञ्चमी तथा
धैवती चाथ नैषादी शुद्धतालक्ष्म कथ्यते ।
यासाम् नामस्वरो न्यासोऽपन्यासोऽशो ग्रहस्तथा
तारन्यासविहीनास्ताः पूर्णाः शुद्धाभिधा मताः ।
विकृता न्यासवर्जैतल्लक्ष्महीना भवन्त्यभूः
सम्पूर्णत्वग्रहांशापन्यासेष्वेकैकवर्जनात् ।
भवन्ति भेदाश्चत्वारो द्वयोस्त्यागे तु षण्मताः
त्यागे त्रयाणां चत्वार एकस्त्यक्ते चतुष्टये ।
भेदाः पञ्चदशैवेते षड्ज्याः सद्भिर्निरूपिताः
तत्राष्टौ पूर्णताहीनाः सप्त त्वितरवर्जिताः ।
द्विधा स्युः पूर्णताहीनाः षडवौडुवभेदतः
अतोऽष्टावधिका आर्षभ्यादिष्वौडुवजातिषु ।
अतस्त्रयोविंशतिधा षट्सु प्रत्येकमीरिताः
विकृतानां तु संसर्गाज्जाता एकादश स्मृताः ।
स्यात्षड्जकैशिकी षड्जोदीच्यवाषड्जमध्यमा
गान्धारोदीच्यवा रक्तगान्धारी कैशिकी तथा ।
मध्यमोदीच्यवा कार्मारवी गान्धारपञ्चमी
तथाऽऽन्ध्री नन्दयन्तीति तद्धेतूनधुना ब्रुवे ।
षाड्जीगान्धारिकायोगाज्जायते षड्जकैशिकी
षाड्जिकामध्यमाभ्यां तु जायते षड्जमध्यमा ।
गान्धारीपञ्चमीभ्यां तु जाता गान्धारपञ्चमी
गान्धार्यार्षभिकाभ्यां तु जातिरान्ध्री प्रजायते ।
षाड्जी गान्धारिका तद्वद्धैवती मिलितास्त्विमाः
षड्जोदीच्यवतीं जातिं कुर्युः कार्मारवीं पुनः ।
उत्पादयन्ति नैषादीपञ्चम्यार्षभिका युताः
नन्दयन्तीं तु गान्धारीपञ्चम्यार्षभिका युताः ।
गान्धारी धैवती षड्जी मध्यमेति युतास्त्विमाः
गान्धारोदीच्यवां कुर्युर्मध्यमोदीच्यवां पुनः ।
एता एव विना षड्ज्या पञ्चम्या सह कुर्वते
कुर्युस्ता रक्तगान्धारॐ नैषादी च न धैवती ।
आर्षभीं धैवतीं त्यक्त्वा पञ्चभ्यः कैशिकी भवेत्
चतस्रः षड्जशब्दिन्यो नैषादी धैवती तथा ।
आर्षभो चेति सप्तैताः षड्जग्रामस्य जातयः
शेषाः स्युर्मध्यमग्रामे पूर्णत्वाद्यधुनोच्यते ।
कार्मारव्यथ गान्धारपञ्चमी षड्जकैशिकी
मध्यमोदीच्यवेत्येता नित्यपूर्णाः प्रकीर्तिताः ।
षड्जी च नन्दयन्त्यान्ध्री गान्धारोदीच्यवेत्यमूः
सम्पूर्णषाडवाः प्राह चतस्रः काश्यपो मुनिः ।
दशावशिष्टाः सम्पूर्णषाडवौडुविता मताः
पञ्चमीमध्यमाषड्जमध्यमाख्यासु जातिषु ।
स्वरसाधारणं प्रोक्तं मुनिभिर्भरतादिभिः
अंशेषु समपेष्वेतद्यथास्वनियमाद्भवेत् ।
एतदल्पनिगास्वाहुः कम्बलाश्चतरादयः
अल्पद्विश्रुतिके रागभाषादावपि तन्मतम् ।
निगयोरंशयोः षड्जमध्यमायां न तद्भवेत्
विकृता एव तत्रापि स्वरसाधारणाश्रयाः ।
एकांशा नन्दयन्ती च मध्यमोदीच्यवा तथा
गान्धारपञ्चमीत्येतास्तिस्रो द्व्यंशास्तु धैवती ।
गान्धारोदीच्यवा वाथ पञ्चमीत्युदिता इमाः
नैषाद्यार्षभिकाषड्जकैशिक्यस्त्र्यंशिका मताः ।
आन्ध्रोकार्मारवीषड्जोदीच्यवाश्चतुरंशिकाः
पञ्चांशा रक्तगान्धारी गान्धारी मध्यमा तथा ।
षाड्जीत्येताश्चतस्रः स्युः षडंशैकैव कैशिकी
सप्तांशा सूरिभिः षड्जमध्यमा परिकीर्तिता ।
इति त्रिषष्टिरंशाः स्युर्जातिष्वष्टादशस्विमे
ग्रहांशतारमन्द्राश्च न्यासापन्यासकौ तथा ।
अपि संन्यासविन्यासौ बहुत्वं चाल्पता ततः
एतान्यन्तरमार्गेण सह लक्ष्माणि जातिषु ।
षाडवोडुविते क्वापीत्येवमाहुस्त्रयोदश
गीतादिनिहितस्तत्र स्वरो ग्रह इतीरितः ।
तत्रांशग्रहयोरन्यतरोक्तावुभयग्रहः
यो रक्तिव्यञ्जको गेये यत्संवाद्यनुवादिनौ ।
विदार्यां बहुलौ यस्मात्तारमन्द्रव्यवस्थितिः
यः स्वयं यस्य संवादी चानुवादी स्वरोऽपरः ।
न्यासापन्यासविन्याससंन्यासग्रहतां गतः
प्रयोगे बहुलः स स्याद्वाद्यंशो योग्यतावशात् ।
बहुलत्वं प्रयोगेषु व्यापकं त्वंशलक्षणम्
मध्यमे सप्तकेंऽशः स्यात्तस्मात्तारस्थितात्परान् ।
स्वरांश्चतुर आरोहेदेष तारावधिः परः
अर्वाक्तु कामचारः स्यात्तारे लुप्तोऽपि गण्यते ।
आतारषड्जमारोहो नन्दयन्त्यां प्रकीर्तितः
मध्यस्थानस्थितादंशादामन्द्रस्थांशमाव्रजेत् ।
आमन्द्रन्यासमथवा तदधःस्थरिधावपि
एषा मन्द्रगतेः सीमा ततोऽर्वाक्कामचारिता ।
गीते समाप्तिकृन्न्यास एकविंशतिधा च सः
षाड्ज्यादीनां तु सप्तानां न्यासः स्यान्नामकृत्स्वरः ।
द्वौ नामकारिणौ षड्जमध्यमायां तु तौ मतौ
उदीच्यवात्रयं मान्तं निपगान्ता तु कैशिकी ।
कार्मारवी पञ्चमान्ता गान्ताः पञ्चापराः स्मृताः
अपन्यासस्वरः स स्याद्यो विदारीसमापकः ।
कार्मारव्यां च नैषाद्यामान्ध्रीमध्यमयोस्तथा
आर्षभ्यां च स्वरा येंऽशास्तेऽपन्यासाः प्रकीर्तिताः ।
उदीच्यवानां त्रितयेऽपन्यासौ षड्जधैवतौ
मध्यमो रक्तगान्धार्यां गान्धार्यां षड्जपञ्चमौ ।
सनिपाः षड्जकैशिक्यां पञ्चम्यां निरिपाः स्मृताः
रिपौ गान्धारपञ्चम्यां षड्ज्यां गान्धारपञ्चमौ ।
धैवत्यां रिमधाः प्रोक्ता नन्दयन्त्यां मपौ मतौ
रिवर्ज्याः षट् च कैशिक्यां सप्तापीत्यूचिरे परे ।
सप्तस्वरापन्यासां तु भाषन्ते षड्जमध्यमाम्
अत्र येंऽशा अपन्यासास्ते स्युरेकोनविंशतिः ।
सप्तत्रिंशत्परे ते च षट्पञ्चाशत्तु संयुताः
कैशिक्यां सप्तपक्षे तान्सप्तपञ्चाशतं विदुः ।
अंशाविवादी गीतस्याद्यविदारीसमाप्तिकृत्
संन्यासॐऽशाविवाद्येव विन्यासः स तु कथ्यते ।
यो विदारीभागरूपपदप्रान्तेऽवतिष्ठते
अलङ्घनात्तथाऽभ्यासाद्बहुत्वं द्विविधं मतम् ।
पर्यायांशे स्थितं तच्च वादिसंवादिनोरपि
अल्पत्वं च द्विधा प्रोक्तमनभ्यासाच्च लङ्खनात् ।
अनभ्यासस्त्वनंशेषु प्रायो लोप्येष्वपोष्यते
ईषत्स्पर्शो लङ्घने स्यात्प्रायस्तल्लोप्यगोचरम् ।
उशन्ति तदनंशेऽपि क्वचिद्गीतविशारदाः
न्यासादिस्थानमुज्झित्वा मध्ये मध्येऽल्पतायुजाम् ।
स्वराणां या विचित्रस्वकारिण्यंशादिसंगतिः
अनभ्यासैः क्वचित्क्वापि लङ्घनैरेव केवलैः ।
कृता साऽन्तरमार्गः स्यात्प्रायो विकृतजातिषु
षडवन्ति प्रयोगं ये स्वरास्ते षडवा मताः ।
षट्स्वरं तेषु जातत्वाद्गीतं षाडवमुच्यते
वान्ति यान्त्युडवोऽत्रेति व्योमोक्तमुडुवं बुधैः ।
पञ्चमं तच्च भूतेषु पञ्चसंख्या तदुद्भवा
औडुवी साऽस्ति येषां च स्वरास्ते त्वौडुवा मताः ।
ते संजाता यत्र गीते तदौडुवितमुच्यते
तत्सम्बन्धादौडुवं च पञ्चस्वरमिदं विदुः ।
क्रमादल्पाल्पतरते षाडवौडुवकारिणोः
सम्पूर्णत्वदशायां स्तः पञ्चम्यां तु विपर्ययः ।
वचनं विधिरप्राप्ताविहाल्पत्वबहुत्वयोः
परिसंख्या द्वयोः प्राप्तावेकस्यातिशयाय यत् ।
अथ प्रत्येकमेतासां जातीनां लक्ष्म कथ्यते
षाड्ज्यामंशाः स्वराः पञ्च निषादर्षभवर्जिताः ।
निलोपात्षाडवं सोऽत्र पूर्णत्वे काकली क्वचित्
सगयोः सधयोश्चात्र संगतिर्बहुलस्तु गः ।
गान्धारेंऽशे न नेर्लोपो मूर्च्छना धैवतादिका
त्रिधा तालः पञ्चपाणिरत्र चैककलादिकः ।
क्रमान्मार्गाश्चित्रवृत्तिदक्षिणा गीतयः पुनः
मागधी संभाविता च पृथुलेति क्रमादिमाः ।
नैष्क्रामिकध्रुवायां च प्रथमे प्रेक्षणे स्मृतः
विनियोगो द्वादशात्र कला अष्टलघुः कला ।
अस्यां षाड्ज्यां षड्जो न्यासः । गान्धारपञ्चमावपन्यासौ ।
वराटी दृश्यते । अस्याः प्रस्तारः
षाड्जी
तं भवललाटनयनाम्बुजाधिकं नगसूनुप्रणयकेलिसमुद्भवम् ।
सरसकृततिलकपङ्कानुलेपनं प्रणमामि कामदेहेन्धनानलम् ॥
आर्षभ्यां तु त्रयॐऽशाः स्युर्निषादर्षभधैवताः
द्विश्रुत्योः संगतिः शेषैर्लङ्घनं पञ्चमस्य च ।
षाडवं षड्जलोपेन सपलोपादिहौडुवम्
मूर्च्छना पञ्चमादिश्च तालश्चच्चत्पुटो मतः ।
अष्टौ कला भवन्तीह विनियोगस्तु पूर्ववत्
अस्यामार्षभ्यामृषभो न्यासः । अंशा एवापन्यासाः । देशोमधुकयौ
दृश्येते । अस्याः प्रस्तारः
आर्षभी
री गा सा रिग मा रिम गा रिरि
गु ण लो
च ना
धि
री री निध निध गा रिम मा पनि
क म न
न्त म म र
मा धा नी धा पा पा सा गा
म ज र म
क्ष य
नी धनि री गरि सध॑ गरि री री
म जे
यं
री मा गरि सधं सस रि रिग मम
प्र ण
मा
मि दिव्य
निध पा री री रिप गरि सधं सा
म णि द
र्प णा
म
रिस रिस रिग रिग मा मा मा गरि
ल नि के
तं
पा नि री मा गरि तधं गरि गरि
भ व म मे
यं
मुणलोचनाधिकमनन्तममरमजरमक्षयमजेयम् ।
प्रणमामि दिव्यमणिदर्पणामलनिकेतं भवममेयम् ॥
पञ्चांशा रिधवर्ज्याः स्युर्गान्धार्यां संगतिः पुनः ।
न्यासांशाम्यां तदन्येषां त्रैदतादृषभं व्रजेत्
रिलोपरिधलोपाभ्यां षाडवौडुविते क्रमात् ।
पञ्चमः षाडवद्वेषी निसमध्यमपञ्चमाः
अंशा द्विषन्त्यौडुवितं कलाः षोडश कीर्तिताः ।
मूर्च्छना धैवतादिः स्यात्तालश्चच्चत्पुटो मतः
विनियोगो ध्रुवागाने तृतीयप्रेक्षणे भवेत् ।
अस्यां गान्धार्यां गान्धारो न्यासः । पड्जपञ्चमावपन्यासौ ।
गान्धारपञ्चमदेशीवेलावल्यो दृश्यन्ते । अस्याः प्रस्तारः --
गान्धारी
गा गा सा नीं सा गा गा गा
ए
तं
गा गम पा पा धप मा निध निस॑
र ज नि व धू
मु ख
निध पनि मा मपरि गा गा गा गा
वि
भ्र म
दं
गा गम पा पा धप मा निध निस॑
नि शा म य व रो
रु
निध पनि मा मपरि मा गा मा सा
त व मु ख वि ला
स
गा सा गा गा गा गम गा गा
व पु श्चा रु
म म ल
गा गम पा पा धप मा निध निस॑
मृ दु कि र ण
निध पनि मा मपरि गा गा गा गा
म मृ त भ वं
री गा मा पध री गा सा सा
र ज त गि रि शि ख र
नीं नीं नीं नीं नीं नीं नीं नीं
म णि श क ल शं
ख
गा गम पा पा धप मा निध निस॑
व र यु व ति दं
त
निध पनि मा मपरि गा गा गा गा
पं
क्ति नि भं
नी नी पा नो गा मा गा सा
प्र ण मा
मि प्र ण य
गा सा गा गा गा गम गा गा
र ति क ल ह र व नु
गा पा मा मा निध निस॑ निध पनि
दं
मा परिग गा गा गा गा गा गा
श शि
नं
एतं रजनिवधूमुखविभ्रमदं निशामय वरोरु
भवमुस्रविलासवपुश्चारुममलमृदुकिरणममृतभवम् ।
रजतगिरिशिखरमणिशकलशङ्खवरयुवतिदन्तपङ्क्तिनिभं
प्रणमामि प्रणयरतिकलहरवनुदं शशिनम् ॥
पञ्चांशा मध्यमायां स्युरगान्धारनिषादकाः
षड्जमध्यमबाहुल्यं गान्धारोऽल्पोऽत्र षाडवम् ।
गलोपान्निगलोपेन त्वौडुवं स्यात्कलाष्टकम्
ऋषभादिर्मूर्च्छना स्यात्तालश्चच्चत्पुटो मतः ।
विनियोगो ध्रुवागाने द्वितीयप्रेक्षणे भवेत्
अस्यां मध्यमायां मध्यमो न्यासः । अंशा एवापन्यासाः ।
चोक्षषाडवदेश्यान्धाल्यो दृश्यन्ते । अस्याः प्रस्तारः--
मध्यमा
मा मा मा मा पा धनि नी धप
पा
तु भ व मू
मा पम मा सा मा गा री री
र्ध जा
न न
पा मा रिम गम मा मा मा मा
कि री ट
मा॑ निष निस॑ निध पम पघ मा मा
म णि द
र्प
णं
नीं नीं री री नीं री री पा
गौ ं! री
क र प
नीं मप मा मा सा सा सा सा
ल्ल वां
गु लि
सु
ग॑ नी सा॑ गा॑ धप मा धनि सा॑
ते
जि तं
पा सा॑ पा निधप मा मा मा मा
सु कि र
णं
पातु भवमूर्धजाननकिरीटमणिदर्पणम् ।
गौरीकरपल्लवाङ्गुलिसुतेजितं सुकिरनम्
रिपावंशौ तु पञ्चम्यां सगमाः स्वल्पका मताः ।
रिमयोः संगतिर्गच्छेत्पूर्णत्वे गान्निषादकम्
क्रमाद्गेन निगाभ्यां च षाडवौडुवता मता ।
ऋषभॐऽशस्त्वौडुवितं द्वेष्ट्यष्टौ च कला मताः
मुर्च्छनादि तु पूर्वावत्प्रेक्षणं तु तृतीयकम् ।
अस्यां पञ्चम्यां पञ्चमो न्यासः । ऋषभपञ्चममिषादा
अपन्पासाः । चोक्षपञ्चमदेश्यान्षाल्यो दृश्यन्ते । अस्याः प्रस्तारः--
पञ्चमी
पा धनि नी नी मा नी मा पा
ह रं मू
र्घ जा
न
गा गा सा सा मां मां पां पां
नं म हे
श म म र
पां पां धां नीं नीं नी गा सा
प ति बा
हु स्तं
भ
पा मा धा नी निध पा पा पा
न म नं
तं
पा पा री॑ री॑ री॑ री॑ री॑ री॑
प्र ण मा
मि पु रु ष
मां निंग सा सध नी नीं नी नी
मु ख प द्म
ल
क्ष्मी
सा॑ सा॑ सा॑ मा पा पा पा पा
ह र मं
बि का
प
धा मा धा नी पा पा पा पा
ति म जे
यं
हरं मूर्धजाननं महेशममरपतिबाहुस्तम्भनमनन्तम् ।
तं प्रणमामि पुरुषमुखपद्मलक्ष्मीहरमम्बिकापतिमजेमम् ॥
स्तो धैवत्यां रिधावंशौ लङ्घ्यावारोहिणौ सपौ
पलोपात्षाडवं प्रोक्तमौडुवं सपलोपतः ।
ऋषभादिर्मूर्च्छना स्यात्तालो मार्गश्च गीतयः
विनियोगश्च षाड्जीवत्कला द्वादश कीर्तिताः ।
अस्यां धैवत्यां धैवतो न्यासः । ऋषभमध्यमधैवता अपन्यासाः ।
चोक्षकैशिकदेशीसिंहल्यो दृश्यन्ते । अस्याः प्रस्तारः--
धैवती
धा धा निध पध मा मा मा मा
त रु णा
म लें
दु
धा धा निध निस॑ सा॑ सा॑ सा॑ सा॑
म णि भू
षि ता
म
सध धा पा मध धा निध धनि धा
ल शि रो
जं
सा सा रिग रिग सा रिग सा सा
भु ज गा
धि पै
क
धां धां नीं पां धां पां मां मां
कुं
ड ल वि ला
स
घां धां पां मंधं धां निंधं धंनिं धां
कृ त शो
भं
धा धा निस॑ निस॑ निध पा पा पा
न ग सू
नु ल
क्ष्मी
रिग सा सा सा नीं नीं नीं नीं
दे हा
र्ध मि
श्रि
सा रिग रिग सा नीं सा धां धां
त श री
रं
रीं गंरिं मंगं मां मां मां मां मां
प्र ण मा
मि भू
त
नी नी धा धा पा रिग सा रिग
गी
तो
प हा
र
पा धा सा मा धा नी धा धा
प रि तु
ष्टं
तरुणामलेन्दुमणिभूषितामलशिरोजं
भुजगाधिपैककुण्डलविलासकृतशोभम् ।
नगसूनुलक्ष्मीदेहार्धमिश्रितशरीरं
प्रणमामि भूतगीतोपहारपरितुष्टम् ॥
नैषाद्यां निरिगा अंशा अनंशाबहुलाः स्मृताः
षाडवौडुवलङ्घ्याः स्युः पूर्वावद्विनियोजनम् ।
चच्चत्पुटः षोडशात्र कला गादिश्च मूर्च्छना
अस्यां नैषाद्यां निषादो न्यासः । अंशा एवापन्यासाः । चोक्ष-
साधारितदेशीवेलावल्यो दृश्यन्ते । अस्याः प्रस्तारः--
नैषादी
नी नी नी नी सा॑ धा नी नी
तं
सु र वं
दि त
पा मा सा धां नीं नीं नीं नीं
म हि ष म हा
सु र
सा सा गा गा नी नी धा नी
म थ न मु मा
प तिं
सा॑ सा॑ धा नी नी नी नी नी
भो
ग यु तं
सा सा गा गा मां मां मां मां
न ग सु त का
मि नी
नीं पां धां पां मां मां मां मां
दि
व्य वि शे
ष क
री॑ गा॑ सा॑ सा॑ री॑ गा॑ नी नी
सू
च क शु भ न ख
नी नी पा धनि नी नी नी नी
द
र्प ण कं
सा सा गा सा मा मा मा मा
अ हि मु ख म णि ख चि
मां मां मां मां नीं धां मां मां
तो
ज्ज्व ल नू
पु र
धा धा नी नी री गा मां मां
बा ल
भु जं ग
म
मां मां पां धां नीं नीं नीं नीं
र व क लि तं
पां पां नीं नीं री री री री
द्रु त म भि व्र जा
मि
री मा मा मा री गा सा सा
श र ण म निं
दि त
धा मा री गा सा धा नी नी
पा
द यु ग पं
क
पा॑ मा॑ री॑ गा॑ नी नी नी नी
ज वि ला
सं
तं सुरवन्दितमहिषमहासुरमथनमुमापतिं भोगयुतं
नगसुतकामिनीदिव्यविशेषकसूचकशुभनखदर्पणकम् ।
अहिमुखमणिखचितोज्ज्वलनूपुरबालभुजंगमरवकलितं
द्रुतमभिव्रजामि शरणमनिन्दितपादयुगपङ्कजविलासम्
अंशाः स्युः षड्जकैशिक्यां षड्जगान्धारपञ्चमाः ।
ऋषभे मध्यमेऽल्पत्वं धनिषादौ मनाग्बहू
चच्चत्पुटः षोडशास्यां कलाः स्युर्विनियोजनम् ।
प्रावेशिक्यां ध्रुवायां स्यात्प्रेक्षणे तु द्वितीयके
अस्यां षड्जकैशिक्यां गान्धारो न्यासः । षड्जनिषादपञ्चमा
अपन्यासाः । प्रागुक्ता गान्धारपञ्चमहिन्दोलकदेशीवेलावल्यो दृश्यन्ते ।
अस्याः प्रस्तारः --
षड्जकैशिकी
सा सा मां पां गरि मग मा मा
दे
मा मा मा मा सां सां सां सां
वं
धा धा पा पा धा धा री रिम
अ स क ल श शि ति ल
री री नीं नीं नीं नीं नीं नीं
कं
धा धा पा धनि मा मा पा पा
द्वि र द ग तिं
धा धा पा धनि धा धा पा पा
नि पु ण प्र तिं
सा सा सा सा सा सा सा सा
मु
ग्ध
मु खां
बु
धा धा पा धा धनि धा धा धा
रु ह दि
व्य कां
तिं
सा सा सा रिग सा रिग धा धा
ह र मं
बु दो
द
मा धा पा पा धा धा नी नी
धि नि ना
दं
री री गा सा सां सां सां गां
अ च ल व र सू
नु
धां रिंसं रीं संरिं रीं सां सां सां
दे
हा
र्ध मि
श्रि
सा सरि री सरि री सा सा सा
त श री
रं
मा मा मा मा निध पध मा मा
प्र ण मा
मि तम हं
नी नी पा पम पा पम पध रिग
अ नु प म मु ख क म
गा गा गा गा गा गा गा गा
लं
देवमसकलशशितिलकं द्विरदगतिं
निपुणमतिं मुग्धमुखाम्बुरुहदिव्यकान्तिम् ।
हरमम्बुदोदधिनिनादमचलवरसूनुदेहार्धमिश्रितशरीरं
प्रणमामि तमहमनुपममुखकमलम् ॥
अंशाः समनिधाः षड्जोदीच्यवायां प्रकीर्तिताः ।
मिथश्च संगतास्ते स्युर्मन्द्रगान्धारभूरिता
षड्जर्षभौ भूरितारौ रिलोपात्षाडवं मतम् ।
औडुवं रिपलोपेन धैवतेंऽशे न षाडवम्
षाड्जीवद्गीतितालादि गान्धारादिश्च मूर्च्छना ।
द्वितीये प्रेक्षणे गाने ध्रुवायां विनियोजनम्
अस्यां षड्जोदीच्यवायां मध्यमो न्यासः । षड्जधैवतावपन्यासौ ।
अस्याः प्रस्तारः--
षड्जोदीच्यवा
सा सा सा सा मां मां गां गां
शै
ले
गा मा पा मा गा मा मा धा
श
सू
नु
सा सा मा गा पा पा नी धा
शै
ले
श सू
नु
धा नी सा सा धा नी पा मा
प्र ण य
प्र सं
ग
गां सा सा सा सा सा सा गां
स वि ला
स खे
ल
धा धा पा धा पा नी धा धा
न वि नो
दं
सा गां गां गां गां गां सा सा
अ
धि
क
नी धा पा धा पा धा धा धा
मु
र्खे
दु
सा॑ सा॑ मा गा पा पा नी धा
अ धि क
मु र्खे
दु
धा नी सा॑ सा॑ धा नी पा मा
न य नं
न मा
मि
गां सा सा सा सा सा सा गां
दे
वा
सु रे
श
धा धा पा धा मा॑ मा॑ मा॑ मा॑
त व रु चि रं
शैलेऽक्षराभ्यां प्रथमा द्वितीया तु शसूनुना ।
तैः पञ्चभिस्तृतीया स्यात्सप्तमी त्वधिकाक्षरैः
मुखेन्दुनाऽष्टमी त्वस्यां षड्भिस्तैर्नवमी कला ।
शैलेशसूनुप्रणयप्रसङ्गसविलासखेलनविनोदम् ।
अधिकमुखेन्दुनयनं नमामि देवासुरेश तव रुचिरम् ॥
अंशाः सप्त स्वराः षड्जमध्यमायां मिथश्च ते
संगच्छन्ते निरल्पॐऽशाद्गादृते वादितां विना ।
निलोपनिगलोपाभ्यां षाडवौडुविते मते
षाडवौडुवयोः स्यातां दिश्रुती तु विरोधिनौ ।
गीतितालकलाऽऽदीनि षाड्जीवन्मूर्च्छना पुनः
मध्यमादिरिह ज्ञेया पूर्वावद्विनियोजनम् ।
अस्यां षड्जमध्यमायां षड्जमध्यमौ न्यासौ । सप्त स्वरा
अपन्यासाः । अस्याः प्रस्तारः--
षड्जमघ्यमा
मा गा सग पा धप मा निध निम
र ज नि व धू
मु ख
मा॑ मा॑ सा॑ रिंग॑ म॑ग॑ निध पध पा
वि ला
स लो
च
मा गा री गा मा मा सा सा
नं
मा मगम मा मा निध पध पम गमम
प्र वि क सि त कु मु द
धा पध परि रिग मग रिग सधस सा
द ल फे न सं
नि
निध सा री मगम मा मा मा मा
भं
मां मां मंगंमं मंधं धंपं पंधं पंमं गंमंगं
का
मि ज न न य न
धा पध परि रिग मग रिग सधस ता
हृ द या भि नं
दि
मा मा धनि धस धप मप पा पा
नं
मां मंगंमं मां निंधं पंधं पंमंगं गां मां
प्र ण मा
मि दे वं
धा पध परि रिग मग रिग सधस सा
कु मु दा धि वा
सि
निध सा री मगम मा मा मा मा
नं
रजनिवधूमुखविलासलोचनं
प्रविकसितकुमुददलफेनसंनिभम् ।
कामिजननयनहृदयाभिनन्दिनं
प्रणमामि देवं कुमुदाधिवासिनम् ॥
गान्धारोदीच्यवायां तु द्वावंशौ षड्जमध्यमौ
रिलोपात्षाडवं ज्ञेयं पूर्णत्वेंऽशेतराल्पता ।
अल्पा निधपगान्धाराः षाडवत्वे प्रकीर्तिताः
रिधयोः संगतिर्ज्ञेया धैवतादिश्च मूर्च्छना ।
तालश्चच्चत्पुटो ज्ञेयः कलाः षोडश कीर्तिताः
विनियोगो ध्रुवागाने चतुर्थप्रेक्षणे मतः ।
अस्यां गान्धारोदीच्यवायां मध्यमो न्यासः । षड्जधैवताव-
पन्यासौ । अस्याः प्रस्तारः--
गान्धारोदीच्यवा
सा सा पा मा पा धप पा मा
सौ
धा पा मा मा सा सा सा सा
भ्य
धा नी सा सा मा मा पा पा
गौ
री
मु खां
बु
नी नी नी नी नी नी नी नी
रु ह दि
व्य ति ल क
मा मा धा निस नी नी नी नी
प रि चुं
बि ता
र्चि
मा पा मा परिग गा गा सा सा
त सु पा
दं
गा भग पा पध मा धनि पा पा
प्र वि क सि त हे
म
री गा सा सध नी नी धा धा
क म ल नि भं
गा रिग सा सनि गा रिग सा सा
अ ति रु चि र कां
ति
सा सा सा मा मनि धनि नी नी
न ख द
र्प णा
म
मा॑ पा॑ मा॑ प॑रि॑ग॑ गा॑ गा॑ सा॑ सा॑
ल नि के
तं
गा॑ सा॑ गा॑ सा॑ मा॑ पा॑ मा॑ प॑रि॑ग॑
भ न सि ज श री र
गा॑ मा॑ गा॑ सा॑ गा॑ गा॑ गा॑ सा॑
ता
ड नं
नी॑ नी॑ पा॑ धा॑ नी॑ गा॑ गा॑ गा॑
प्र ण मा
मि गौ
री
नी॑ नी॑ धा॑ पा॑ धा॑ पा॑ मा॑ पा॑
च र ण यु ग म नु प
धा॑ पा॑ सा॑ सा॑ मा॑ मा॑ मा॑ मा॑
मं
सौम्यगौरीमुखाम्बुरुहदिव्यतिलकपरिचुम्बितार्चितसुपादं
प्रविकसितहेमकमलनिभम् ।
अतिरुचिरकान्तिनखदर्पणामलनिकेतं
मनसिजशरीरताडनं प्रणमामि गौरीचरणयुगमनुपमम् ॥
अंशाः स्यू रक्तगान्धार्यां पञ्च धर्षभवर्जिताः
रिमतिक्रम्य सगयोः कार्ये संनिधिमेलने ।
रिलोपरिधलोपाभ्यां षाडवौडुवमिष्यते
बहुत्वं निधयोरंशः पञ्चमो द्वेष्टि षाडवम् ।
द्विषन्त्यौडुवितं षड्जनिमपाः संगतौ सगौ
पञ्चपाण्यादि षाड्जीवदृषभादिस्तु मूर्च्छना ।
तृतीयप्रेक्षणगतध्रुवायां विनियोजनम्
अस्यां रक्तगान्धार्यां गान्धारो न्यासः । मध्यमोऽपन्यासः । अस्याः
प्रस्तारः
रक्तगान्धारी
पा नी सा सा गा सा पा नी
तं
बा
ल र ज नि
सा॑ सा॑ पा पा मा मा गा गा
क र ति ल क भू
ष
मा पा धा पा मा पा धप मग
ण वि भू
मा मा मा मा मा मा मा मा
तिं
धां नीं पां मंपं धां नीं पां पां
मां पां मां धंनिं पां पां पां पां
री गा मा पा पा पा मा पा
प्र ण मा
मि गौ
री
री गा॑ मा॑ पा॑ पा॑ पा॑ मा॑ पा॑
व द ना
र विं
पा पा पा पा शा पा पा पा
द
री गा सा सा री गा गा गा
प्री
ति क रं
गा॑ गा पा॑ ध॑म॑ धा॑ नि॑ध॑ पा॑ पा॑
मा॑ पा॑ मा॑ प॑रि॑ग॑ गा॑ ग॑ गा॑ गा॑
तं बालरजनिकरतिलकभूषणविभूतिम् ।
प्रणमामि गौरीवदनारविन्दप्रीतिकरम् ॥
कैशिक्यामृषभान्येंऽशा निधावंशौ यदा तदा ।
न्यासः पञ्चम एव स्यादन्यदा द्विश्रुती मतौ
अन्ये तु निगपान्न्यासान्निधयोरंशयोर्विदुः ।
रिलोपरिधलोपेन षाडवौडुवितं मतम्
रिरल्पो निपबाहुल्यमंशानां संगतिर्मिथः ।
षाडवौडुविते द्विष्टः क्रमात्पञ्चमधैवतौ
षाड्जीवत्पञ्चपाण्यादि गान्धारादिस्तु मुर्च्छना ।
पञ्चमप्रेक्षणगतध्रुवायां विनियोजनम्
अस्यां कैशिक्यां गान्धारपञ्चमनिषादा न्यासाः । रिवर्ज्याः षट्
सप्त वा स्वरा अपन्यासाः । अस्याः प्रस्तारः--
कैशिकी
पा धनि पा धनि गा गा गा गा
के
ली
ह
त
पा पा मा निध निध पा पा पा
का
म त नु
धा नी सा॑ सा री री री री
वि
भ्र म वि ला
सं
सा सा सा री गा मा मा मा
ति ल क यु तं
मां धां नीं धां मां धां मां पां
मू
र्धो
र्ध्व वा
ल
गा री सा धनि री री री री
सो
म नि भं
गा री सा सा धा धा मा मा
मु ख क म लं
गा गा गा मा मा निधनि नी नी
अ स म
हा
ट
गा गा नी नी गा गा गा गा
क स रो
जं
गा॑ गा॑ नी॑ नी॑ नी॑ध॑ पा॑ पा॑ पा॑
हृ दि सु ख दं
मा॑ पा॑ मा॑ पा॑ पा॑ पा॑ मा॑ मा॑
प्र ण मा
मि लो च
सा॑ मा॑ गा॑ नि॑ध॑नि॑ नी॑ नी॑ मा॑ गा॑
न वि शे
षं
केलीहतकामतनुविभ्रमविलासं तिलकयुतं मूर्धोर्ध्वबालसोमनिभम् ।
मुखकमलमसमहाटकसरोजं हृदि सुखदं प्रणमामि लोचनविशेषम् ॥
पञ्चमांशा सदा पूर्णा मध्यमोदीच्यवा मता ।
लक्ष्म शेषं विजानीयाद् गान्धारोदीच्यवागतम्
मूर्च्छना मध्यमादिः स्यात्तालश्चच्चत्पुटो मतः ।
चतुर्थस्य प्रेक्षणस्य ध्रुवायां विनियोजनम्
अस्यां मध्यमोदीच्यवायां मध्यमो न्यासः । अस्याः प्रस्तारः --
मध्यमोदीच्यवा
पा धनि नी नी मा पा नी पा
दे
हा
र्ध रू
प
री री री गा सा रिग गा गा
म ति कां
ति म म ल
नी नी नी नी नी नी नी नी
म म लें
दु कं
द
नी नी घप मा निध निध पा पा
कु मु द नि भं
पा पा री री री री री री
चा
मी
क रां
बु
मा रिग सा सधं नीं नीं नीं नीं
रु ह दि
व्य कां ति
मा पा नी सा पा पा गा गा
प्र व र ग ण पू
जि
गा पां मां निंधं नीं नीं सा सा
त म जे
यं
पां पां मां धंनिं पां पां पां पां
सु रा भि ष्टु त म नि ल
मां पां मां रिग गा गा गा गा
म नो ज
व
मं बु
गा पा मा पा नी नी नी नी
दो
द धि नि ना
द
मा पा मा परिग गा गा गा गा
म ति हा
सं
गा गा॑ गा॑ गा॑ मा॑ नि॑ध॑ नी॑ नी॑
शि वं शां
त म सु र
नी नी धप मा निध निध पा पा
च मू म थ नं
री गा॑ सा॑ सा॑ मा॑ नि॑ध॑नि॑ नी॑ नी॑
वं
दे
त्रै लो क्य
नी॑ नी॑ धा॑ पा धा॑ पा॑ मा॑ मा॑
न त च र णं
देहार्धरूपमतिकान्तिममलममलेन्दुकुन्दकुमुदनिभं
चामीकराम्बुरुहदिव्यकान्तिप्रवरगणपूजितमजेयम् ।
सुराभिष्टुतमनिलमनोजवमम्बुदोदधिनिनादमतिहासं
शिवं शान्तमसुरचमूमथनं वन्दे त्रैलोक्यनतचरणम् ॥
कार्मारव्यां भवन्त्यंशा निषादरिपधैवताः ।
बहवोऽन्तरमार्गत्वादनंशाः परिकीर्तिताः
गान्धारोऽत्यन्तबहुलः सर्वांशस्वरसंगतिः ।
चच्चत्पुटः षोडशात्र कलाः षड्जादिमूर्च्छना
पञ्चमस्य प्रेक्षणस्य ध्रुवायां विनियोजनम् ।
अस्यां कार्मारव्यां पञ्चमो न्यासः । अंशा एवापन्यासाः । अस्याः
प्रस्तारः--
कार्मारवी
री री री री री री री री
तं
स्था
णु ल लि त
मा गा सा गा सा नी नी नी
वा
मां
ग स
क्त
नीं मां नीं मां पां पां गा गा
म ति ते
जः प्र स र
गा पा मा पा नी नी नी नी
सौ
धां
शु कां
ति
री॑ गा॑ सा॑ नी॑ री॑ गा॑ री॑ मा॑
फ णि प ति मु खं
री गा री सा नी धनि पा पा
उ रो वि पु ल सा
ग
मा॑ पा मा॑ त॑रि॑ग॑ गा गा गा गा
र नि के
तं
री री गा सम मा मा पा पा
सि त पं
न गें
द्र
मा पा मा परिग ग गा गा गा
म ति कां
तं
धा नी पा मा धा नी सा सा
ष
ण्मु ख वि नो
द
मी नी नी नी नी नी नी नी
क र प
ल्ल वां
गु
मां मां धां नीं सनिनि धा पा पा
लि वि ला
स की
न
मा पा मा परिग गा गा गा गा
न वि नो
दं
नी नी पा धनि गा गा गा गा
प्र ण मा
मि दे
व
सा॑ री॑ गा॑ सा॑ नी॑ नी॑ नी॑ नी॑
य
ज्ञो
प वी
त
नी॑ नी॑ धा॑ धा॑ पा॑ पा॑ पा॑ पा॑
कं
तं स्थाणुललितवामाङ्गसक्तमतितेजः-प्रसरसौधांशुकान्ति-फणिपति-
मुखमुरोविपुलसागरनिकेतं सितपन्नगेन्द्रमतिकान्तम् ।
षण्मुखविनोदकरपल्लवाङ्गुलिविलासकीलनविनोदं
प्रणमामि देवयज्ञोपवीतकम् ॥
अंशो गान्धारपञ्चम्यां पञ्चमः संगतिः पुनः
कर्तव्याऽत्रापि गान्धारीपञ्चम्योरिव भूरिभिः ।
चच्चत्पुटः षोडशात्र कला गादिश्च मूर्च्छना
तुर्यप्रेक्षणसम्बन्धिध्रुवागाने नियोजनम् ।
अस्यां गान्धारपञ्चम्यां गान्धारो न्यासः । ऋषभपञ्चमावपन्यासौ ।
अस्याः प्रस्तारः--
गान्धारपञ्चमी
पा मप मध नी धप मा धा नी
कां
सनिनि धा पा पा पा पा पा पा
तं
धा नी सा सा मा मा पा पा
वा
मै
क दे
श
नी नी नी नी नी नी नी नी
प्रें
खो
ल मा
न
नी नी धप मा निध निध पा पा
क म ल नि भं
पा पा री री री री री री
व र सु र भि कु सु म
मा रिग सा सध नी नी नी नी
गं
धा
धि वा
सि
नी नी सा॑ रि॑स॑ री॑ री। री॑ री॑
त म नो
ज्ञ
नी गा सा निग सा नीं नीं नीं
न ग रा
ज सू
नु
नीं मां नीं मां पां पां गा गा
र ति रा
ग र भ स
गा पां मां पां नीं नीं नीं नीं
के
ली
कु च
ग्र
मा पा मा परिग गा गा गा गा
ह ली लं
तं
नीं नीं पां धां नीं गा गा गा
प्र ण मा
मि दे
वं
नीं नीं नीं नीं नीं नीं नीं नीं
चं
द्रा
र्ध मं
डि
मां मां धां नीं सनिनि धा पा पा
त वि ला
सकी ल
मा पा मा परिग गा गा गा गा
न वि नो
दं
कान्तं वामैकदेशप्रएङ्खोलमानकमलनिभं वरसुरभिकुसुमगन्धाधि-
वासितमनोज्ञनगराजसूनुरतिरागरभसकेलीकुचग्रहलीलम् ।
तं प्रणमामि देवं चन्दार्धमण्डितविलासकीलनविनोदम् ॥
आन्ध्र्यामंशा निरिगपा रिगयोर्निधयोस्तया
संगतिर्न्यासपर्यन्तमंशानुक्रमतो व्रजेत् ।
षाडवं षड्जलोपेन मध्यमादिस्तु मूर्च्छना
पूर्वावत्तु कलातालविनियोगाः प्रकीर्तिताः ।
अस्यामान्ध्र्यां गान्धारो न्यासः । अंशा एवापन्यासाः । अस्याः
प्रस्तारः--
आन्ध्री
गा री री री री री री री
त रु णें
दु कु सु म
री गा री गा री री री री
ख चि त ज टं
री री गा गा री री मा मा
त्रि दि व न दी स लि ल
री गा सा धनि नीं नीं नीं नीं
धौ
त मु खं
नीं री नीं रीं धंनिं धंनिं पां पां
न ग सू
नु प्र ण यं
मां पां मां रिग गा गा गा गा
वे
द नि धिं
री री गा सस मा मा पा पा
प रि णा
हि तु हि न
मां पां मां रिग गा गा गा गा
शै
ल गृ हं
धां नीं गा गा गा गा गा गा
अ मृ त भ वं
पा पा मा रिग गा गा गा गा
गु ण र हि तं
नी नी नी नी री री री री
त म व नि र वि श शि
री री गा नी सा सा नी नी
ज्व ल न ज ल प व न
पा॑ पा॑ मा॑ रि॑ग॑ गा॑ गा॑ गा॑ गा॑
ग ग न त नुं
री॑ री। गा॑ स॑म॑ मा॑ मा॑ पा॑ पा॑
श र णं
व्र जा
मि
मा॑ मा॑ नीं नीं सा॑ री॑ गा॑ पा॑
शु भ म ति कृ त नि ल
रि॑ग॑ गा॑ गा॑ गा॑ गा॑ गा॑ गा॑ गा॑
यं
तरुणेन्दुकुसुमखचितजटं त्रिदिवनदीसलिलधौतमुखं
नगसूनुप्रणयं वेदनिधिं परिणाहितुहिनशैलगृहम् ।
अमृतभवं गुणरहितं तमवनिरविशशिज्वलनजलपवनगगनतनुं
शरणं व्रजामि शुभमतिकृतनिलयम् ॥
नन्दयन्त्यां पञ्चमॐऽशो गान्धारस्तु ग्रहः स्मृतः
कैश्चित्तु पञ्चमः प्रोक्तो ग्रहोऽस्यां गीतवेदिभिः ।
मन्द्रर्षभस्य बाहुल्यं षाडवं षड्जलोपतः
हृष्यका मूर्च्छना तालः पूर्वावद् द्विगुणाः कलाः ।
विनियोगो ध्रुवागाने प्रथमप्रेक्षणे भवेत्
अस्यां नन्दयन्त्यां गान्धारो न्यासः । मध्यमपञ्चमावपन्यासौ
अस्याः प्रस्तारः--
नन्दयन्ती
गा गा गा गा पा पा धप मा
सौ
धा धा धा धा धा नी सनिनि धा
पां पां पां पां पां पां पां पां
म्यं
धां नीं मां पां गां गां गां गां
वे
दां
ग वे
द
मा री गा गा गा गा गा गा
क र क म ल यो
निं
मा मा पा पा धा निध पा पा
त मो र जो वि व
धा नी मा पा गा गा गा गा
र्जि तं
गम पा पा पा मा मा गा गा
हरं
धा नी मा पा गा गा गा गा
भ व ह र क म ल गृ
मा मा मा मा मा मा मा मा
हं
री गा मा पा पम पा पा नी
शि वं शां
तं सं
नि
रीं रीं रीं रीं पां पां मां मां
वे
श न म पू
र्वं
धां नीं सनिंनिं धां पां पां पां पां
भू ष
ण ली
लं
धां नीं मां पां गां गां गां गां
उ र गे
श भो
ग
गा पा पा पा धा मा गा मा
भा
सु र शु भ पृ थु
धा धा नी धा पा पा पा पा
लं
री गा मा पा पम पा पा नी
अ च ल प ति सू नु
रीं रीं रीं रीं पां पां पां पां
क र पं
क जा
म
पा पा पा पा धा मा मा मा
ल वि ला
स की
ल
नीं पां गां गमं गां गां गां गां
न वि नो
दं
रीं रीं गां गां मां मां मां मां
स्फ टि क म णि र ज त
नी पा नी मा नी धा पा पा
सि त न व दु कू
ल
सा॑ सा॑ धनि धा पा पा पा पा
क्षी
रोद
सा
ग
मा पा मा परिग गा गा सा॑ सा॑
र नि का
शं
री री गा गा मा मा पा पा
अ ज शि रः क पा
ल
री री री गा मा रिग मा मा
पृ थु भा
ज
नं
मा नी पा नी गा गा गा गा
वं
दे
सु ख
दं
मा मा पा पा धा धनि निध मा
ह र दे
ह म म ल
धा धा सा नी धा नी पा पा
म धु सू
द न
सु
री॑ री॑ री॑ री॑ मा पा धा मा
ते
जो
धि क
सु
नी नी नी नी धा पा मा मा
ग ति यो
मा परिग गा गा गा गा गा गा
निं
सौम्यं वेदाङ्गवेदकरकमलयोनिं तमोरजोविवर्जितं हरं
भवहरकमलगृहं शिवं शान्तं सन्निवेशनमपूर्वं
भूषणलीलमुरगेशभोगभासुरशुभपृथुलम् ।
अचलपतिसूनुकरपङ्कजामलविलासकीलनविनोदं
स्फटिकमणिरजतसितनवदुकूलक्षीरोदसागरनिकाशम् ।
अजशिरःकपालपृथुभाजनं वन्दे सुखदं
हरवेहममलमधुसूदनसुतेजोऽधिकसुगतियोनिम् ॥
अनुक्ताविह तालः स्यात्त्रिधैवैककलादिकः ।
मार्गाः क्रमाच्चित्रवृत्तिदक्षिणा गीतयः पुनः
मागधी संभाविता च पृथुलेत्युविताः क्रमात् ।
योक्तास्माभिः कलासंख्या सा दक्षिणपथे स्थिता
वार्त्तिके द्विगुणा ज्ञेया सैव चित्रे चतुर्गुणा ।
सर्वजातिषु जानीयादंशस्वरगतं रसम्
दृश्यन्ते जन्यरागांशास्तज्ज्ञैर्जनकजातिषु ।
ब्रह्मप्रोक्तपदैः सम्यक्प्रागुक्ताः शङ्करस्तुतो
अपि ब्रह्महणं पापाज्जातयः प्रपुनन्त्यमूः ।
ऋचो यजूंषि सामानि क्रियन्ते नान्यथा यथा
तथा सामसमुद्भूता जातयो वेदसंमिताः ।
इति प्रथमे स्वराध्याये जातिलक्षणाख्यं सप्तमं प्रकरणं समाप्तम्
अथाष्टमं गीतिप्रकरणम्
शुद्धजातिसमुद्भूतकपालान्यधुना ब्रुवे ।
रागा जनकजातीनां तत्कपालेषु संमिताः
षड्जो ग्रहॐऽशोऽपन्यासो गो न्यासोऽतिबहू गनी ।
अल्पा रिपनिधा लङ्घ्यो रिः कला द्वादशोदिताः
यस्मिन्षाड्जीकपालं तद् गदितं गीतवेदिभिः ।
यत्रर्षभॐऽशोऽपन्यासो मोऽन्तो गनिपधाल्पता
सोऽत्यल्पोऽष्टकलं तत्स्यात्कपालं त्वार्षभीगतम् ।
मध्यमॐऽशो ग्रहो न्यासोऽपन्यासो धैवतो बहुः
यत्राल्पाः सरिगा लोपाद्रिपयोरौडुवं भवेत् ।
तद्गान्धारीकपालं स्यात्कलाष्टकविनिर्मितम्
मध्यमॐऽशो निरिगपाः स्वल्पा यत्र कला नव ।
तन्मध्यमाकपालं स्यादिति निःशङ्कसम्मतम्
ऋषभांशं सग्रहं च निधषड्जगमाल्पकम् ।
कपालं पञ्चमीजातिजातमष्टकलं विदुः
अत्यल्पर्षभगान्धारं पन्यासं मधभूरि च ।
षाड्ज्या इव कपालं तद्धैवत्याः सकलाष्टकम्
ग्रहांशन्यासषड्जं च रिगाल्पमतिभूरिभिः ।
निधमैरष्टकलकं स्यान्नैषादीकपालकम्
इति सप्त कपालानि गायन्ब्रह्मोदितैः पदैः ।
स्वरैश्च पार्वतीकान्तस्तुतौ कल्याणभाग्भवेत्
यत्र ग्रहॐऽशोऽपन्यासः पञ्चमो बहुलस्तु रिः ।
सो न्यासो मधगान्धारास्त्वल्पास्तत्कम्बलं मतम्
पञ्चमीजातिसञ्जातमल्पताबहुतावशात् ।
स्वराणां बहवो भेदास्तस्य पूर्वैरुदीरिताः
प्रीतः कम्बलगानेन कम्बलाय वरं ददौ ।
पुरा पुरारिरद्यापि प्रीयते तैरतः शिवः
कपालानां क्रमाद्ब्रूमो ब्रह्मप्रोक्तां पदावलीम् ।
झण्टुं झण्टुं
खट्वाङ्गधरं
दंष्ट्राकरालं
तडित्सदृशजिह्वं
हौ हौ हौ हौ हौ हौ हौ हौ
बहुरूपवदनं
धनघोरनादं
हौ हौ हौ हौ हौ हौ हौ हौ
ऊँ ऊँ ह्रां
रौं हौं हौं हौं हौं
नृमुण्डमण्डितम्
हूं हूं कह कह हूं हूं
कृतविकटमुखम्
नमामि देवं भैरवम्
इति षाड्जीकपालपदानि
झण्टुं झण्टुं खट्वाङ्गधरम्
दंष्ट्राकरालम्
तडित्सदृशजिह्वम्
हौ हौ हौ हौ हौ हौ हौ हौ
वरसुरभिकुसुम
चर्चितगात्रम्
कपालहस्तम्
नमामि देवम्
इत्यार्षभीकपालपदानि
चलत्तरङ्ग
भङ्गुरम्
अनेकरेणु
पिञ्जरंसु
रासुरैः सुसेवितं पु
नातु जाह्न
वीजलम् मां बिन्दुभिः
इति गान्धारीकपालपदानि
शूलकपालः
पाणित्रिपुरविनाशि
शशाङ्कधारिणम्
त्रिनयनत्रिशूलम्
सततमुमया सहि
तं वरदम्
हौ हौ हौ हौ हौ हौ हौ हौ
हौ हौ हौ हौ हौ हौ हौ हौ
नैमि महादेवम्
इति मध्यमाकपालपदानि
जय विषमनयन
मदनतनुदहन
वरवृषभगमन
त्रिपुरवहन
नतसकलभुवन
सितकमलवदन
भव मे भयहरण
भवशरणम्
इति पञ्चमीकपालपदानि
अग्निज्वाला
शिखावली
मांसशोणित
भोजिनि । सर्वाहारि
णि निर्मांसे
चर्ममुण्डे
नमोऽस्तु ते
इति धैवतीकपालपदानि
सरसग चर्मपटम्
भीमभुजंगमानद्धजटम्
कह-
कहहुंकृतिविकृतमुखम्
नम तं शिवं हरमजितम्
चण्ड-
तुण्डमजेयम्
कपालमण्डितमुकुटम्
कामदर्पविध्वंसकरम्
नम तं हरं परमशिवम्
इति नैषादीकपालपदानि
इति सप्त कपालपदानि ॥
वर्णाद्यलङ्कृता गानक्रिया पदलयान्विता
गीतिरित्युच्यते सा च बुधैरुक्ता चतुर्विधा ।
मागधी प्रथमा ज्ञेया द्वितीया चार्धमागधी
संभाविता च पृथुलेत्येतासां लक्ष्म चक्ष्महे ।
गीत्वा कलायामाद्यायां विलम्बितलयं पदम्
द्वितीयायां मध्यलयं तत्पदान्तरसंयुतम् ।
सतृतीयपदे ते च तृतीयस्यां द्रुते लये
इति त्रिरावृत्तपदां मागधॐ जगदुर्बुधाः ।
यथा-
मा गा मा धा
दे
वं
धनि धनि सनि धा
दे वं रु द्रं
रिग रिग मग रिस
देवं रुद्रं वं दे
पूर्वयोः पदयोरर्धे चरमे द्विर्यदोदिते
तदाऽर्धमागधीं प्राहुः
यथा--
मा री गा सा
दे
वं
सा सा धा नी
वं रु द्रं
पा धा पा मा
द्रं वं दे
द्विरावृत्तपदां परे ।
यथा--
मा मा मा मा
दे
वं
धा सा धा नी
दे वं रु द्रं
पा निध मा मा
रु द्रं वं दे
संक्षेपितपदा भूरिगुरुः संभाविता मता
यथा--
धा मा मा रि ग
भ
क्त्या
री गा सा सा
दे
वं
नी धा सा नी
रु
द्रं
धा नी मा मा
वं
दे
भूरिलघ्वक्षरपदा पृथुला संमता सताम् ।
यथा--
मा गा री गा
सु र न त
सा धनि धा धा
ह र प द
धा सा धा नी
यु ग लं
पा निधप मा मा
प्र ण म त
यद्वा यथाक्षरे युग्मे गुर्वोः प्रथमयोर्यदा
एकैकं चित्रमार्गादि प्रयुज्य चगणात्मकम् ।
मात्राभिरष्टभिर्युक्तं दक्षिणे ध्रुवकादिभिः
प्रयुज्यते तदा गीतिर्मागधीत्यभिधीयते ।
तृतीयं लघु युग्मस्य च्छगणार्धयुतं यदा
आद्याम्यामन्तिमाभ्यां च मात्राभ्यां संप्रयुज्यते ।
ततः प्लुतं सार्धगणयुक्तं कृत्वा प्रयुज्यते
ध्रुवकादिभिरष्टाभिर्द्विरुक्तान्त्यद्वयेन च ।
तदार्धमागधी ते द्वे तद्वत्तालान्तरेष्वपि
संभाविता भूरिगुरुर्द्विकले वार्तिके पथि ।
चतुष्कले भूरिलघुर्दक्षिणे पृथुला मता
इति प्रथमे स्वरगताध्यायेऽष्टमं गीतिप्रकरणम्
इति श्रीमदनवद्य-विद्याविनोद-श्रीकरणाधिपति-श्रीसोढलदेवनन्दननिःशङ्कश्रीशार्ङ्गदेवविरचिते संगीतरत्नाकरे स्वरगताध्यायः प्रथमः ।
मूल पाठ: saṅgītaratnākaraḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0