भाषा

ENहिગુ
ग्रंथ पाठ

सङ्गीतरत्नाकरः · अध्याय p3

p3.1

सङ्गीतरत्नाकरः
अथ प्रकीर्णकाख्यस्तृतीयोऽध्यायः
अथ प्रकीर्णकं कर्णरसायनमनाकुलम्
देशीमार्गाश्रयं वक्ति शार्ङ्गदेवो विदां वरः

p3.2

वाङ्मातुरुच्यते गेयं धातुरित्यभिधीयते
वाचं गेयं च कुरुते यः स वाग्गेयकारकः

p3.3

शब्दानुशासनज्ञानमभिधानप्रवीणता
छन्दःप्रभेदवेदित्वमलंकारेषु कौशलम्

p3.4

रसभावपरिज्ञानं देशस्थितिषु चातुरी
अशेषभाषाविज्ञानं कलाशास्त्रेषु कौशलम्

p3.5

तूर्यत्रितयचातुर्यं हृद्यशारीरशालिता
लयतालकलाज्ञानं विवेकोऽनेककाकुषु

p3.6

प्रभूतप्रतिभोद्बेदभाक्त्वं सुभगगेयता
देशीरागेष्वभिज्ञत्वं वाक्पटुत्वं सभाजये

p3.7

रागद्वेषपरित्यागः सार्द्रत्वमुचितज्ञता
अनुच्छिष्टोक्तिनिर्बन्धो नूत्नधातुविनिर्मितिः

p3.8

परचित्तपरिज्ञानं प्रबन्धेषु प्रगल्भता
द्रुतगीतविनिर्माणं पदान्तरविदग्धता

p3.9

त्रिस्थानगमकप्रौढिर्विविधालप्तिनैपुणं
अवधानं गुणैरेभिर्वरो वाग्गेयकारकः

p3.10

विदधानोऽधिकं धातुं मातुमन्दस्तु मध्यमः
धातुमातुविदप्रौढः प्रबन्धेष्वपि मध्यमः

p3.11

रम्यमातुविनिर्माताऽप्यधमो मन्दधातुकृत्
वरो वस्तुकविर्वर्णकविर्मध्यम उच्यते
कुट्टिकारोऽन्यधातौ तु मातुकारः प्रकीर्तितः

p3.12

इति वाग्गेयकारलक्षणम्
मार्गं देशीं च यो वेत्ति स गान्धर्वोऽभिधीयते
इति गान्धर्वः
यो वेत्ति केवलं मार्गं स्वरादिः स निगद्यते

p3.13

इति स्वरादिः ।
हृद्यशब्दः सुशारीरो ग्रहमोक्षविचक्षणः
रागरागाङ्गभाषाङ्गक्रियाङ्गोपाङ्गकोविदः

p3.14

प्रबन्धगाननिष्णातो विविधालप्तितत्त्ववित्
सर्वस्थानोच्चगमकेष्वनायासलसद्गतिः

p3.15

आयत्तकण्ठस्तालज्ञः सावधानो जितश्रमः
शुद्धच्छायालगाभिज्ञः सर्वकाकुविशेषवित्

p3.16

अपारस्थायसंचारः सर्वदोषविवर्जितः
क्रियापरो जक्वलयः सुघटो धारणान्वितः

p3.17

स्फूर्जन्निर्जवनो हारिरहःकृद्भजनोद्घुरः
सुसंप्रदायो गीतज्ञैर्गीयते गायनाग्रणीः

p3.18

गुणैः कतिपयैर्हीनो निर्दोषो मध्यमो मतः
महामाहेश्वरेणोक्तः सदोषो गायनोऽधमः

p3.19

शिक्षाकारोऽनुकारश्च रसिको रञ्जकस्तथा
भावुकश्चेति गीतज्ञः पञ्चधा गायनं जगुः

p3.20

अन्यूनशिक्षणे दक्षः शिक्षाकारो मतः सताम्
अनुकार इति प्रोक्तः परभङ्ग्यनुकारकः

p3.21

रसाविष्टस्तु रसिको रञ्जकः श्रोतृरञ्जकः
गीतस्यातिशयाधानाद्भावुकः परिकीर्तितः

p3.22

एकल्लो यमलो वृन्दगायनश्चेति ते त्रिधा
एक एव तु यो गायेदसावेकल्लगायनः

p3.23

सद्वितीयो यमलकः सवृन्दो वृन्दगायनः
रूपयौवनशालिन्यो गायिन्यो गातृवन्मताः
माधुर्यधुर्यध्वनयश्चतुराश्चतुरप्रियाः

p3.24

संदष्टोद्घृष्टसूत्कारिभीतशङ्कितकम्पिताः
कराली विकलः काकी वितालकरभोद्वडाः

p3.25

झोम्बकस्तुम्बकी वक्री प्रसारी विनिमीलकः
विरसापस्वराव्यक्तस्थानभ्रष्टाव्यवस्थिताः

p3.26

मिश्रकोऽनवधानश्च तथाऽन्यः सानुनासिकः
पञ्चविंशतिरित्येते गायना निन्दिता मताः

p3.27

संदश्य दशनान्गायन्संदष्टः परिकीर्तितः
उद्घृष्टो विरसोद्घोषः सूत्कारी सूत्कृतैर्मुहुः

p3.28

भीतो भयान्वितो गाता त्वरया शङ्कितो मतः
कम्पितः कम्पनाज्ज्ञेयः स्वभावाद्गात्रशब्दयोः

p3.29

कराली गदितः सद्भिः करालोद्घाटिताननः
विकलः स तु यो गायेत्स्वरान्न्यूनाधिकश्रुतीन्

p3.30

काकक्रूररवः काकी वितालस्तालविच्युतः
दधानः कन्धरामूर्ध्वां करभोऽभिहितो बुधैः

p3.31

छागवद्वदनं कुर्वन्नुद्वडोऽधमगायनः
शिरालभालवदनग्रीवो गाता तु झोम्बकः

p3.32

तुम्बकी तुम्बकाकारोत्फुल्लगल्लस्तु गायनः
वक्री वक्रीकृतगलो गायन्धीरैरुदीरितः

p3.33

प्रसारी गीयते तज्ज्ञैर्गात्रगीतप्रसारणात्
निमीलको मतो गायन्निमीलितविलोचनः

p3.34

विरसो नीरसो वर्ज्यस्वरगानादपस्वरः
गद्गदध्वनिरव्यक्तवर्णस्त्वव्यक्त उच्यते

p3.35

स्थानभ्रष्टः स यः प्राप्तुमशक्तः स्थानकत्रयम्
अव्यवस्थित इत्युक्तः स्थानकैरव्यवस्थितैः

p3.36

शुद्धच्छायालगौ रागौ मिश्रयन्मिश्रकः स्मृतः
इतरेषां च रागाणां मिश्रको भूरिमिश्रणात्

p3.37

स्थाय्यादिष्ववधानेन निर्मुक्तोऽनवधानकः
गेयं नासिकया गायन्गीयते सानुनासिकः

p3.38

इति गायनदोषाः ।
चतुर्भेदो भवेच्छब्दः खाहुलो नारटाभिधः
बोम्बको मिश्रकश्चेति तल्लक्षणमथोच्यते

p3.39

कफजः खाहुलः स्निग्धमधुरः सौकुमार्ययुक्
आडिल्ल एष एव स्यात्प्रौढश्चेन्मन्द्रमध्ययोः

p3.40

त्रिस्थानघनगम्भीरलीनः पित्तोद्भवो ध्वनिः
नाराटो बोम्बकस्तु स्यादन्तर्निःसारतायुतः

p3.41

परुषोच्चैस्तरः स्थूलो वातजः शार्ङ्गिणोदितः
एतत्संमिश्रणादुक्तो मिश्रकः सांनिपातिकः

p3.42

तनुरूक्षगुणो बोम्बः खाहुलः स्निग्धतायुतः
कथं तयोर्मिश्रणं स्याद्विरुद्धगुणयोगिनोः

p3.43

अत्रोच्यते परित्यागात्पारुष्यस्य विरोधिनः
अविरुद्धस्य माधुर्यस्थौल्यादेर्मिश्रणं मतम्

p3.44

एतेन घननिःसारगुणनाराटबोम्बयोः
विरुद्धगुणताक्षेपसमाधाने निवेदिते

p3.45

मिश्रस्य भेदाश्चत्वारो युक्तौ नाराटखाहुलौ
नाराटबोम्बकौ बोम्बखाहुलौ मिश्रितास्त्रयः

p3.46

निःसारतारूक्षताभ्यां हीनस्त्रितयमिश्रणात्
उत्तमोत्तम इत्युक्तः सुराणामिव शंकरः

p3.47

नाराटखाहुलोन्मिश्र उत्तमः खाहुलः पुनः
बोम्बयुक्तो मध्यमः स्याद्बोम्बो नाराटसंयुतः

p3.48

शब्दानामधमः प्रोक्तः श्रीमत्सोढलसूनुना
निःसारतारूक्षताभ्यां युक्तः सर्वोऽधमो मतः

p3.49

भवन्ति बहवो भेदा नानातद्गुणमिश्रणात्
कश्चित्स्यान्मधुरस्निग्धघनोऽन्यः स्निग्धकोमलः

p3.50

घनोऽपरस्तु मधुरमृदुत्रिस्थानकोऽन्यकः
मृदुत्रिस्थानगम्भीरोऽपरः स्निग्धो मृदुर्घनः

p3.51

त्रिस्थानोऽन्यस्तु मधुरमृदुस्त्रिस्थानको घनः
अन्यस्तु मधुरस्निग्धमृदुत्रिस्थानकोऽपरः

p3.52

मधुरस्निग्धगम्भीरघनत्रिस्थानकोऽपरः
स्निग्धकोमलगम्भीरघन्त्रिस्थानलीनकः

p3.53

अपरः स्निग्धमधुरकोमलः सान्द्रलीनकः
त्रिस्थानशोभी गम्भीर इति भेदा दशोदिताः

p3.54

खाहुलोन्मिश्रनाराटे ततः खाहुलबोम्बयोः
स्निग्धकोमलनिःसार एकोऽन्यो मधुरो मृदुः

p3.55

रूक्षोऽन्यस्तु मृदुस्निग्धनिःसारोच्चतरः परः
कोमलस्निग्धनिःसारः स्थूलोऽन्यः स्निग्धकोमलः

p3.56

रूक्षनिःसारपीनश्च भेदाः षडिति कीर्तिताः
नाराटे बोम्बभेदाः स्युर्घनत्रिस्थानरूक्षकः

p3.57

एकोऽन्यो घनगम्भीररूक्षोऽन्यो लीनपीवरः
निःसाररूक्षोऽन्यो लीनघनोच्चतरपीवरः

p3.58

त्रिस्थानघनगम्भीरलीनरूक्षोऽपरः परः
त्रिस्थानलीननिःसाररूक्षस्थूलः षडित्यमी

p3.59

एते द्वंद्वजभेदाः स्युरथैते सांनिपातिकाः
स्निग्धत्रिस्थाननिःसारोऽन्यो मृदुर्मधुरो घनः

p3.60

गम्भीरोच्चतरो रूक्षः परस्तु स्निग्धकोमलः
घनलीनः पीवरोच्चतरोऽन्यः स्निग्धकोमलः

p3.61

त्रिस्थानलीननिःसारपीवरोच्चतरोऽपरः
कीर्तितो मधुरो लीनत्रिस्थानो रूक्षपीवरः

p3.62

निःसारोच्चैस्तरोऽन्यस्तु मधुरस्निग्धकोमलः
त्रिस्थानघनगम्भीरलीन उच्चैस्तरः परः

p3.63

मधुरो मृदुगम्भीरलीनत्रिस्थानरूक्षकः
निःसारोच्चैस्तरोऽन्यस्तु कोमलो मधुरो घनः

p3.64

लीनत्रिस्थानरूक्षोच्चतरपीवरतायुतः
अष्टाविति त्रिमिश्रस्य भेदाः सर्वे तु मिश्रजाः

p3.65

मिलिता मुग्धबोधाय त्रिंशन्निःशङ्ककीर्तिताः
अन्येषां सूक्ष्मभेदानां नान्तोऽस्ति गुणसंकरात्
ते ग्रन्थविस्तरत्रासादस्माभिर्न समीरिताः

p3.66

इति शब्दभेदलक्षणम्
मृष्टो मधुरचेहालत्रिस्थानकसुखावहाः
प्रचुरः कोमलो गाढः श्रावकः करुणो घनः

p3.67

स्निग्धः श्लक्ष्णो रक्तियुक्तश्छविमानिति सूरिभिः
गुणैरेभिः पञ्चदशभेदः शब्दो निगद्यते

p3.68

श्रोत्रनिर्वापको मृष्टत्रिषु स्थानेष्वविस्वरः
मधुरः कीर्तितस्तारः प्रौढो मधुररञ्जकः

p3.69

नातिस्थूलो नातिकृशः स्निग्धश्चेहालको घनः
आकण्ठकुण्ठनं स स्यात्पुंसां स्त्रीणां तु सर्वदा

p3.70

त्रिषु स्थानेष्वेकरूपश्छविरक्त्यादिभिर्गुणैः
त्रिस्थानो मनसो यस्तु सुखदः स सुखावहः

p3.71

श्रीशंकरप्रियेणोक्तः प्रचुरस्थूलतायुतः
कोमलोऽन्वर्थनामैव कोकिलाध्वनिवन्मतः

p3.72

गाढस्तु प्रबलो दूरश्रवणाच्छ्रावको मतः
करुणः श्रोतृचित्तस्य करुणारसदीपकः

p3.73

दूरश्रवणयोग्यस्तु घनोऽन्तःसारतायुतः
अरूक्षो दूरसंश्राव्यो बुधैः स्निग्धो ध्वनिः स्मृतः

p3.74

श्लक्ष्णस्तु तैलधारावदच्छिद्रो धीरसंमतः
अनुरक्तेस्तु जनको रक्तिमानभिधीयते

p3.75

धातुर्विमलकण्ठत्वाद्यः प्राज्ञैरुपलक्ष्यते
उज्ज्वलोऽयमिति प्रोक्तश्छविमानिति स ध्वनिः

p3.76

इति शब्दगुणाः
रूक्षस्फुटितनिःसारकाकोलीकेटिकेणयः
कृशो भग्न इति प्रोक्ता दुष्टस्याष्टौ भिदा ध्वनेः

p3.77

रूक्षः स्निग्धत्वनिर्मुक्तः स्प्ल्हुटितोऽन्वर्थनामकः
एरण्डकाण्डनिःसारो निःसार इति कीर्तितः

p3.78

काकोलिकाख्यः काकोलकुलनिर्घोषनिष्ठुरः
स्थानत्रयप्राप्तिमुक्तो निर्गुणः केटिरुच्यते

p3.79

कृच्छ्रोन्मीलन्मन्द्रतारः केणिरित्यभिधीयते
अतिसूक्ष्मः कृशो भग्नः खरोष्ट्रध्वनिनीरसः

p3.80

इति शब्ददोषाः
रागाभिव्यक्तिशक्तत्वमनभ्यासेऽपि यद्ध्वनेः
तच्छारीरमिति प्रोक्तं शरीरेण सहोद्भवात्

p3.81

तारानुध्वनिमाधुर्यरक्तिगाम्भीर्यमार्दवैः
घनतास्निग्धताकान्तिप्राचुर्यादिगुणैर्युतम्

p3.82

तत्सुशारीरमित्युक्तं लक्ष्यलक्षणकोविदैः
अनुध्वानविहीनत्वं रूक्षत्वं त्यक्तरक्तिता

p3.83

निःसारता विस्वरता काकित्वं स्थानविच्युतिः
कार्श्यं कार्कश्यमित्याद्यैः कुशारीरं कुदूषणैः

p3.84

विद्यादानेन तपसा भक्त्या वा पार्वतीपतेः
प्रभूतभाग्यविभवैः सुशारीरमवाप्यते

p3.85

इति शारीरलक्षणम्
स्वरस्य कम्पो गमकः श्रोतृचित्तसुखावहः
तस्य भेदास्तु तिरिपः स्फुरितः कम्पितस्तथा

p3.86

लीन आन्दोलितवलित्रिभिन्नकुरुलाहताः
उल्लासितः प्लावितश्च गुम्फितो मुद्रितस्तथा
नामितो मिश्रितः पञ्चदशेति परिकीर्तिताः

p3.87

लघिष्ठडमरुध्वानकम्पानुकृतिसुन्दरः
द्रुततुर्यांशवेगेन तिरिपः परिकीर्तितः

p3.88

वेगे द्रुततृतीयांशसंमिते स्फुरितो मतः
द्रुतार्धमानवेगेन कम्पितं गमकं विदुः

p3.89

लीनस्तु द्रुतवेगेनाऽऽन्दोलितो लघुवेगतः
वलिर्विविधवक्रत्वयुक्तवेगवशाद्भवेत्

p3.90

त्रिभिन्नस्तु त्रिषु स्थानेष्वविश्रान्तघनस्वरः
कुरुलो वलिरेव स्याद्ग्रन्थिलः कण्ठ्यकोमलः

p3.91

स्वरमग्रगमाहत्य निवृत्तस्त्वाहतो मतः
उल्लासितः स तु प्रोक्तो यः स्वरानुत्तरोत्तरान्

p3.92

क्रमाद्गच्छेत्प्लावितस्तु प्लुतमानेन कम्पनम्
हृदयंगमहुंकारगम्भीरो गुम्फितो भवेत्

p3.93

मुखमुद्रणसंभूतो मुद्रितो गमको मतः
स्वराणां नमनादुक्तो नामितो ध्वनिवेदिभिः

p3.94

एतेषां मिश्रणान्मिश्रस्तस्य स्युर्भूरयो भिदाः
तासां तु स्थायवागेषु विवृतिः संविधास्यते

p3.95

इति गमकलक्षणम्
रागस्यावयवः स्थायो वागो गमक उच्यते
तत्रोक्तं लक्ष्म वागानां स्थायानां तूच्यतेऽधुना

p3.96

वागानामपि केषांचित्प्रसङ्गाद्वच्मि लक्षणम्

p3.97

ते च शब्दस्य ढलस्य लवन्या वहनेरपि
वाद्यशब्दस्य यन्त्रस्य च्छायायाः स्वरलङ्घितः
प्रेरितस्तीक्ष्ण इत्युक्ता व्यक्तासंकीर्णलक्षणाः

p3.98

इत्यसंकीर्णलक्षणाः प्रसिद्धा दश स्थायाः
भजनस्य स्थापनाया गतेर्नादध्वनिच्छवेः
रक्तेर्धृतस्य शब्दस्य भृतस्यांशावधानयोः

p3.99

अपस्थानस्य निकुतेः करुणाविविधत्वयोः
गात्रोपशमयोः काण्डारणानिर्जवनान्वितौ

p3.100

गाढो ललितगाढश्च ललितो लुलितः समः
कोमलः ह्प्रसृतः स्निग्धचोक्षोचितसुदेशिकाः

p3.101

अपेक्षितश्च घोषश्च स्वरस्यैते प्रसिद्धितः
स्थायानां गुणभेदेन व्यपदेशा निरूपिताः

p3.102

इति त्रयस्त्रिंशद्गणकृतभेदाः प्रसिद्धाः स्थायाः
वहाक्षराडम्बरयोरुल्लासिततरङ्गितौ
प्रलम्बितोऽवस्खलितस्त्राटितः संप्रविष्टकः

p3.103

उत्प्रविष्टो निःसरणो भ्रामितो दीर्घकम्पितः
प्रतिग्राह्योल्लासितश्च स्यादलम्बविलम्बिकः

p3.104

स्यात्त्रोटितप्रतीष्टोऽपि प्रसृताकुञ्चितः स्थिरः
स्थायुकः क्षिप्तसूक्ष्मान्तावित्यसंकीर्णलक्षणाः

p3.105

इतीषत्प्रसिद्धा विंशतिरसंकीर्णलक्षणाः
प्रकृतिस्थस्य शब्दस्य कलाक्रमणयोरपि
घटनायाः सुखस्यापि चाले जीवस्वरस्य च
वेदध्वनेर्घनत्वस्य शिथिलोऽवघटः प्लुतः

p3.106

रागेष्टोपस्वराभासो बद्धः कलरवस्य च
छान्दसः सुकराभासः संहितो लघुरन्तरः

p3.107

वक्रो दीप्तप्रसन्नश्च स्यात्प्रसन्नमृदुर्गुरुः
ह्रस्वः शिथिलगाढश्च दीर्घोऽसाधारणस्ततः
साधारणो निराधारो दुष्कराभासनामकः

p3.108

मिश्रश्चैतेऽपि संकीर्णा गुणैर्भिन्नाश्च पूर्ववत्

p3.109

इतीषत्प्रसिद्धास्त्रयस्त्रिंशद्गुणभिन्नाः
इति षण्णवतिः स्थायाः शार्ङ्गदेवेन कीर्तिताः

p3.110

मुक्तशब्दप्रतिग्राह्याः स्थायाः शब्दस्य कीर्तिताः
ढालो मुक्ताफलस्येव चलनं लुण्ठनात्मकम्

p3.111

स एषु ते स्युर्ढालस्य नमनं त्वतिकोमलम्
लवनी तद्युजश्छा या लवन्याः परिकीर्तिताः

p3.112

यत्तु कम्पनमारोहिण्यवरोहिणि वा भवेत्
वदनी साऽथ संचारिण्यपि वा स्थिरकम्पनम्

p3.113

सा गीतालप्तिसंबन्धभेदेन द्विविधा मता
पुनर्द्विधा स्थिरा वेगाढ्या पुनस्त्रिविधोदिता

p3.114

हृद्या कण्ठ्या शिरस्या च देहस्था हृदयोद्भवा
वहनी स्यात्पुनर्द्वेधा खुत्तोत्फुल्लेति भेदतः

p3.115

यस्मामन्तर्विशन्तीव स्वराः खुत्तेति सा मता
सोत्फुल्लेत्युदिता यस्यां निर्यान्तीवोपरि स्वराः

p3.116

वलिर्या गमकेषूक्ता साऽप्येवंविधभेदभाक्
वहनी येषु ते स्थाया वहन्याः परिभाषिताः

p3.117

रागमग्ना वाद्यशब्दा येषु ते वाद्यशब्दजाः
ये यन्त्रेष्वेव दृश्यन्ते बाहुल्यात्ते तु यन्त्रजाः

p3.118

छाया काकुः षड्जकारा स्वररागान्यरागजा
स्याद्देशक्षेत्रयन्त्राणां तल्लक्षणमथोच्यते

p3.119

श्रुतिन्यूनाधिकत्वेन या स्वरान्तरसंश्रया
स्वरान्तरस्य रागे स्यात्स्वरकाकुरसौ मता

p3.120

या रागस्य निजच्छाया रागकाकुं तु तां विदुः
सा त्वन्यरागकाकुर्या रागे रागान्तराश्रया

p3.121

सा देशकाकुर्या रागे भवेद्देशस्वभावतः
शरीरं क्षेत्रमित्युक्तं प्रतिक्षेत्रं निसर्गतः

p3.122

रागे नानाविधा काकुः क्षेत्रकाकुरिति स्मृता
वीणावंशादियन्त्रोत्था यन्त्रकाकुः सतां मता

p3.123

अन्यच्छायाप्रवृत्तौ ये छायान्तरमुपाश्रिताः
छायायास्ते मताः स्थाया गीतविद्याविशारदैः

p3.124

मध्ये मध्ये स्वरान्भूरील्लँङ्घयन्स्वरलङ्घितः
तिर्यगूर्ध्वमधःस्थाच्च प्रेरितः प्रेरितस्वरैः
स्वरपूर्णश्रुतिस्तारे तीक्ष्णवत्तीक्ष्ण उच्यते

p3.125

इत्यसंकीर्णाः स्थाया दश
रागस्यातिशयाधानं प्रयत्नाद्भजनं मतम्
तद्युक्ता भजनस्य स्युः स्थापनायास्तु ते मताः

p3.126

स्थापयित्वा स्थापयित्वा येषां प्रतिपदं कृतिः
सविलासाऽस्ति गीत्तस्य मत्तमातङ्गवद्गतिः

p3.127

तद्युक्तास्तु गतेः स्थायाः स्निग्धो माधुर्यमांसलः
बहुलो येषु नादः स्यात्ते नादस्य प्रकीर्तिताः

p3.128

अतिदीर्घप्रयोगास्तु स्थाया ये ते ध्वनेर्मताः
युक्ताः कोमलया कान्त्या छवेः स्थाया निरूपिताः

p3.129

रक्तेरुत्कर्षतो रक्तेरुक्ताः स्थाया मनीषिभिः
धृतस्यान्वर्थनामानो भृतस्य भरणाद्ध्वनेः

p3.130

रागान्तरस्यावयवो रागेंऽशः स च सप्तधा
कारणांशश्च कार्यांशः सजातीयस्य चांशकः

p3.131

सदृशांशो विसदृशो मध्यमस्यांशकोऽपरः
अंशांशश्चेति यो रागे कार्येंऽशः कारणोद्भवः

p3.132

कारणांशस्त्वसौ रामकृतौ कोलाहलांशवत्
कारणे कार्यरागांशः कार्यांशो भैरवे यथा

p3.133

भैरव्यंशः समां जातिं गौडत्वाद्यां समाश्रिताः
कर्णाटाद्याः सजातीयास्तेष्वेकांशोऽपरत्र यः

p3.134

सजातीयांशकः स स्यादंशः सदृशरागयोः
सदृशांशो यथा नट्टावराट्योः शुद्धयोर्मिथः

p3.135

सादृश्यशून्ययोरंशोऽत्यन्तं विसदृशांशकः
वेलावल्याश्च गूर्जर्याः परस्परगतौ यथा

p3.136

मध्यस्थरागौ सादृश्यवैसादृश्यविवर्जितौ
मध्यस्थांशस्तयोरंशो नट्टादेशाख्ययोरिव

p3.137

अंशेऽशान्तरसंचारादंशांश इति कीर्तितः
येष्वंशो दृश्यते स्थायास्तेंऽशस्य परिकीर्तिताः

p3.138

मनसा तत्कृतेनैव ये ग्राह्यास्तेऽवधानजाः
आयासेन विना यत्र स्थाने स्यात्प्रचुरो ध्वनिः

p3.139

स्वस्थानं तदपस्थानं त्वायासेन तदुद्गतेः
अपस्थानस्य ते स्थाया येऽपस्थानसमुद्भवाः

p3.140

निकुतेः करुणायाश्च स्थायास्त्वन्वर्थनामकाः
स्थाया नानाविधां भङ्गिं भजंन्तो विविधत्वजाः

p3.141

गात्रस्य गात्रे निरताः कृत्वा तीव्रतरं ध्वनिम्
येषूपशान्तिः क्रियते भवन्त्युपशमस्य ते

p3.142

काण्डारणा प्रसिद्धैव तस्याः स्थायास्तदुद्भवाः
सरलः कोमलो रक्तः क्रमान्नीतोऽतिसूक्ष्मताम्

p3.143

स्वरस्याऽऽद्येषु ते स्थायाः प्रोक्ता निर्जवनान्विताः
गाढः शैथिल्यनिर्मुक्तः स एव मृदुतान्वितः

p3.144

भवेल्ललितगाढस्तु ललितस्तु विलासवान्
मार्दवाघूर्णितः प्रोक्तो लुलितः स्यात्समः पुनः

p3.145

हीनो वेगविलम्बाभ्यां यथार्थः कोमलो मतः
प्रसृतः प्रसृतोपेतः स्निग्धो रूक्षत्ववर्जितः

p3.146

उज्ज्वलो गदितश्चोक्ष उचितस्तु यथार्थकः
सुदेशिको विदग्धानां वल्लभोऽपेक्षितस्तु सः

p3.147

स्थायस्थायेन पूर्वेण पूर्त्यर्थं योऽभिकाङ्क्षितः
वलौ वहेर्वहन्यां च यः स्निग्धमधुरो महान्

p3.148

मन्द्रे ध्वनिः सघोषः स्यात्तद्युक्ता घोषजा मताः
गम्भीरमधुरध्वाना मन्द्रे ये स्युः स्वरस्य ते

p3.149

इति त्रयस्त्रिंशत्संकीर्णाः ।
वहन्त इव कम्पन्ते स्वरा येषु वहस्य ते
अक्षराडम्बरो येषु मुख्यास्ते स्युस्तदन्विताः

p3.150

वेगेन प्रेरितैरूर्ध्वं स्वरैरुल्लासितो मतः
यत्र गङ्गातरङ्गन्ति स्वराः स स्यात्तरङ्गितः

p3.151

परितोऽर्धभृते कुम्भे जलं दोलायते यथा
गीते तथाविधः स्थायः प्रोक्तस्तज्ज्ञैः प्रलम्बितः

p3.152

अवस्खलति यो मन्द्रादवरोहेण वेगतः
सोऽवस्खलित इत्युक्तस्त्राटितस्तु स्वरे क्वचित्

p3.153

चिरं स्थित्वाऽग्निवत्तारं स्पृष्ट्वा प्रत्यागतो भवेत्
घनस्वरोऽवरोहे स्यात्संप्रविष्टस्तथाविधः

p3.154

आरोहिण्युत्प्रविष्टः स्यादन्वर्थाः स्युः परे त्रयः
प्रतिगृह्योल्लासितः स्यादसौ यः प्रतिगृह्यते

p3.155

उत्क्षिप्योत्क्षिप्यनिपतत्केलिकन्दुकसुन्दरः
द्रुतपूर्वो विलम्बान्तः स्यादलम्बविलम्बकः

p3.156

स्यात्त्रोटितप्रतीषोऽसौ यत्र स्यात्तारमन्द्रयोः
प्रथमं त्रटयित्वैकमपरस्य प्रतिग्रहः

p3.157

प्रसृताकुञ्चितः स्थायः प्रसार्याऽऽकुञ्चितध्वनिः
स्थायिवर्णस्थितिः कम्पः स्थिर इत्यभिधीयते

p3.158

एकैकस्मिन्स्वरे स्थित्वा स्थित्वा वाऽथ द्वयोर्द्वयोः
त्रिषु त्रिष्वथवा स्थायो रचितः स्थायुको मतः
ऊर्ध्वः प्रसारितः क्षिप्तः सूक्ष्माङ्गोन्तेऽल्पतां गतः

p3.159

इत्यसंकीर्णा विंशतिः
शब्दः प्रकाशते येषु धृतिभृत्यादिवर्जितः
स्वभावादेव शब्दस्य प्रकृतिस्थस्य ते मताः

p3.160

येषु सूक्ष्मीकृताः शब्दास्ते कलायाः प्रकीर्तिताः
भृशं प्राणप्रतिग्राह्या ये स्युराक्रमणस्य ते

p3.161

ते स्थाया घटनाया ये शिल्पिना घटिता इव
सुखदास्तु सुखस्य स्युश्चालिर्जक्केति कीर्तिताः

p3.162

स्थायास्तदन्विताश्चालेरंशो जीवस्वरो मतः
तत्प्राधान्येन ये गीताः स्थाया जीवस्वरस्य ते

p3.163

वेदध्वनिनिभध्वानाः स्थाया वेदध्वनेर्मताः
अन्तःसारो घनत्वस्य यथार्थः शिथिलो मतः

p3.164

दुष्करोऽवघटः प्रोक्तः प्लुतोऽत्यन्तविलम्बितः
रागेणेष्टः स्वपूर्त्यर्थं रागेष्ट इति कीर्तितः

p3.165

स स्यादपस्वराभासो भात्यपस्वरवत्तु यः
स्तब्धस्थायस्तु बद्धः स्याद्बहुत्वं मधुरध्वनेः

p3.166

यस्मिन्कलरवस्यासौ छान्दसश्चतुरप्रियः
सुकराभास इत्युक्तो दुष्करः सुकरोपमः

p3.167

घण्टानादवदायातस्तारान्मन्द्रं तु संहितः
लघुर्गुरुत्वरहितो ध्रुवकाभोगयोस्तु यः

p3.168

अन्तरे साऽन्तरो वक्रो यथार्थः सुकरस्तु यः
तारे दीप्तप्रसन्नोऽसौ सुकरः कोमलध्वनिः

p3.169

प्रसन्नमृदुरित्युक्तो गुरुरन्वर्थनामकः
ह्रस्वस्तोकः परौ द्वौ तु स्यातामन्वर्थनामकौ

p3.170

शब्दशारीरगुणतः सुकरः सुस्वरोऽथवा
यः कस्यचिन्न सर्वेषां सोऽसाधारण उच्यते

p3.171

सदृशो यस्तु सर्वेषामसौ साधारणः स्मृतः
न वाञ्छति वहन्यादि यः स्वनिर्वाहहेतवे

p3.172

उच्यते स निराधारः सुकरो दुष्करोपमः
दुष्कराभास इत्युक्तो मिश्रणान्मिश्रको मतः

p3.173

इति त्रयस्त्रिंशत्संकीर्णलक्षणाः
आनन्त्यान्नैव शक्यन्ते भेदा मिश्रस्य भाषितुम्
दिक्प्रदर्शनमात्रार्थमुच्यन्ते तेषु केचन

p3.174

यो यस्मिन्बहुलः स्थायः स तेन्स् व्यपदिश्यते
साम्ये तु मिश्रनामैव स त्विदानीं प्रपञ्च्यते

p3.175

तिरिपान्दोलितो लीनकम्पितः कम्पिताहतः
तिरिपस्फुरितो लीनस्फुरितः स्फुरिताहतः

p3.176

लीनकम्पितलीनश्च त्रिभिन्नकुरुलाहतः
प्लावितोल्लासितवलिर्वलिहुम्फितमुद्रितः

p3.177

नामितान्दोलितवलिर्वलिनामितकम्पितः
अन्दोलितप्लावितकसमुल्लासितनामितः

p3.178

तिरिपान्दोलितवलित्रिभिन्नकुरुलोऽपरः
त्रिभिन्नलीनस्फुरितप्लावितान्दोलितः परः

p3.179

वहनीढालयोर्धालवहन्योः शब्दढालयोः
वहनीयन्त्रयोश्छायायन्त्रयोः शब्दयन्त्रयोः

p3.180

वहनीछाययोर्यन्त्रवाद्यशब्दभवः परः
तीक्ष्णप्रेरितकस्तीक्ष्णप्रेरितः स्वरलङ्घितः

p3.181

ढालशब्दोत्थयन्त्रोत्थवाद्यशब्दभवः परः
ढालच्छाया यन्त्रवाद्यशब्दशब्दभवोऽपरः

p3.182

झल्लम्बितावस्खलितस्त्राटितोल्लासितः परः
संप्रविष्टोत्प्रविष्टश्च संप्रविष्टतरङ्गितः

p3.183

अन्यः प्रतिगृहीतोल्लालितालम्बविलम्बकः
स्यात्त्रोटितप्रतीष्टोत्प्रविष्टनिःसरणः परः

p3.184

दीर्घकम्पितसूक्ष्मान्तभ्रामितस्थायुकोऽन्यकः
वहाक्षराडम्बरजप्रसृताकुञ्चितस्थिरः

p3.185

भ्रामितक्षिप्तसूक्ष्मान्ततरङ्गितझलम्भितः
एते षट्त्रिंशदन्येऽपि विज्ञातव्या दिशाऽनया

p3.186

इति स्थायवागलक्षणम्
रागालपनमालप्तिः प्रकटीकरणं मतम्
सा द्विधा गदिता रागरूपकाभ्यां विशेषणात्

p3.187

रागालप्तिस्तु सा या स्यादनपेक्ष्यैव रूपकम्
स्वस्थानैः सा चतुर्भिः स्यादिति गीतविदो विदुः

p3.188

यत्रोपविश्यते रागः स्वरे स्थायी स कथ्यते
ततश्चतुर्थो द्व्यर्धः स्यात्स्वरे तस्मादधस्तने

p3.189

चालनं मुखचालः स्यात्स्वस्थानं प्रथमं च तत्
द्व्यर्धस्वरे चालयित्वा न्यसनं तद्द्वितीयकम्

p3.190

स्थायिस्वरादष्टमस्तु द्विगुणः परिकीर्तितः
द्व्यर्धद्विगुणयोर्मध्ये स्थिता अर्धस्थिताः स्वराः

p3.191

अर्धस्थितो चालयित्वा न्यसनं तु तृतीयकम्
द्विगुणे चालयित्वा तु स्थायिन्यासाच्चतुर्थकम्
एभिश्चतुर्भिः स्वस्थानै रागालप्तिर्मता सताम्

p3.192

स्तोकस्तोकैस्ततः स्थायैः प्रसन्नैर्बहुभङ्गिभिः
जीवस्वरव्याप्तिमुख्यै रागस्य स्थापना भवेत्

p3.193

इति रागालप्तिः
रूपकस्थेन रागेण तालेन च विधीयते
या सोक्ता रूपकालप्तिः सा पुनर्द्विविधा भवेत्

p3.194

प्रतिग्रहणिकैकाऽन्या भञ्जनीत्यभिधीयते
विधाय स्थायमालप्ते रूपकावयवो यदि
प्रतिगृह्येत सा प्रोक्ता प्रतिग्रहणिका बुधैः

p3.195

इति प्रतिग्रहणिका
भञ्जनी द्विविधा ज्ञेया स्थायरूपकभञ्जनात्
यदा तत्पदमानेन स्थायो रूपकसंस्थितः
नानाप्रकारः क्रियते सा ज्ञेया स्थायभञ्जनी

p3.196

तैः पदैस्तेन मानेन समग्रं रूपकं यदि
अन्यथा चान्यथा गायेदसौ रूपकभञ्जनी

p3.197

वर्णालंकारसंपन्ना गमकास्थायचित्रिता
आलप्तिरुच्यते तज्ज्ञैर्भूरिभङ्गिमनोहरा

p3.198

इत्यालप्तिलक्षणम्
गातृवादकसंघातो वृन्दमित्यभिधीयते
उत्तमं मध्यममथो कनिष्ठमिति तत्त्रिधा

p3.199

चत्वारो मुख्यगातारो द्विगुणाः समगायनाः
गायिन्यो द्वादश प्रोक्ता वांशिकानां चतुष्टयम्

p3.200

मार्दङ्गिकास्तु चत्वारो यत्र तद्वृन्दमुत्तमम्
मध्यमं स्यात्तदर्थेन कनिष्ठे मुख्यगायनः

p3.201

एकः स्यात्समगातारस्त्रयो गायनिकाः पुनः
चतस्रो वांशिकद्वंद्वं तथा मार्दलिकद्वयम्

p3.202

उत्तमे गायनीवृन्दे मुख्यगायनिकाद्वयम्
दश स्युः समगायिन्यो वांशिकद्वितयं तथा

p3.203

भवेन्मार्दलिकद्वंद्वं मध्यमे मुख्यगायनी
एका स्यात्समगायिन्यश्चतस्रो वांशिकास्तथा

p3.204

इतो न्यूनं तु हीनं स्याद्ययेष्टमथवा भवेत्
उत्तमाभ्यधिकं वृन्दं कोलाहलमितीरितम्

p3.205

मुख्यानुवृत्तिर्मिलनं ताललीलानुवर्तनम्
मिथस्त्रुटितनिर्वाहस्त्रिस्थानव्याप्तिशक्तता

p3.206

शब्दसादृश्यमित्येते प्रोक्ता वृन्दस्य षड्गुणाः
आह वृन्दविशेषं तु कुतपं भरतो मुनिः

p3.207

ततस्य चावनद्धस्य नाट्यस्यैते त्रिधा च सः
ततस्य कुतपो ज्ञेयो गायनः सपरिग्रहः

p3.208

वीणा घोषवती चित्रा विपञ्ची परिवादिनी
वल्लकी कुङ्निका ज्येष्ठा नकुलोष्ठी च किंनरी

p3.209

जया कूर्मी पिनाकी च हस्तिका शततन्त्रिका
औदुम्बरी च षट्कर्णः पौणो रावणहस्तकः

p3.210

सारङ्ग्यालपनीत्यादेस्ततवाद्यस्य वादकाः
वांशिकाः पाविकाः पावकाहलाः शङ्खवादकाः

p3.211

मुहुरीशृङ्गवाद्याद्यास्तथा तालधरा वराः
कुतपे त्ववनद्धस्य मुख्यो मार्दङ्गिकस्ततः

p3.212

पणवो दर्दुरो ढक्का मण्डिडक्का च डक्कुली
पटहः करटा ढक्का ढवसो घडसस्तथा

p3.213

हुडुक्का डमरू रुञ्जा कुडुक्का कुडुवा तथा
निःस्वानस्त्रिवली भेरी तम्बकी बोम्बडी तथा

p3.214

पट्टवाद्यं पटः कम्रोडावजावजसेल्लुकाः
जयघण्टा कांस्यतालो घण्टा च किरिकिट्टकम्

p3.215

वाद्यानामेवमादीनां पृथग्वादकसंचयः
वराटलाटकर्णाटगौडगुर्जरकौङ्कणैः

p3.216

महाराष्ट्रान्ध्रहम्मीरचौलैर्मलयमालवैः
अङ्गवङ्गकलिङ्गाद्यैर्नानाभिनयकोविदैः

p3.217

अङ्गहारप्रयोगज्ञैर्लास्यताण्डवकोविदैः
विचित्रस्थानकप्रौढैर्विषमेषु सुशिक्षितैः

p3.218

नाटस्य कुतपः पात्रैरुत्तमाधममध्यमैः
कुतपानाममीषां तु समूहो वृन्दमुच्यते

p3.3

इति वृन्दलक्षणम्
इति श्रीमदनवद्यविद्याविनोदश्रीकरणाधिपतिश्रीसोढलदेवनन्दननिःशङ्कशार्ङ्गदेवविरचिते संगीतरत्नाकरे तृतीयः प्रकीर्णकाध्यायः

मूल पाठ: saṅgītaratnākaraḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc