संवित्सिद्धि (टीका सहित) · अध्याय 3
प्रमाणफलरूपायाः संविदः प्रमेयतत्त्वव्यवस्थापिकायाः स्वरूपादिविशोध्यते ऽत्र संविस्तिद्धौ ।
इयमादिमा सिद्धित्रये श्लोकवार्तिकच्छ्लोकमालिकारूपा ।
तन्त्रवार्तिकवच्चात्मेश्वरसिद्धी ।
अत्र चोपक्रममध्यावसानेषु भूयान् ग्रन्थभागो लुप्तः ।
उपलभ्यमानसंवित्सिद्धिभागे च बहुलमद्वैतिमतनिरासो दृश्यते ।
अद्वैतिनो हि सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् इति कारणीभूतस्य सच्छब्दितस्य परब्रह्मणो ऽद्वितीयत्वश्रवणात् सत्यं ज्ञानमनन्तं ब्रह्मे ति ज्ञानमात्रत्वश्रवणाच्च सजातीयविजातीयस्वगतभेदसामान्यशून्यं ब्रह्मैव चिन्मात्रं सत् परमार्थः, अन्यत्सर्वं तत्रैवाविद्यया परिकल्पितं मिथ्याभूतमित्यामनन्ति ।
तत्राद्वितीयश्रुतेस्तदभिमतार्थप्रतिपादकत्वासम्भवं वर्णयितुमादौ तन्मतमनुवदति एकमेवे ति ।
यत्तदोर्नित्यसंबन्धात्पूर्वार्धे यदि त्यनुषज्यते ।
यत् उपनिषद्वचः, तदित्यन्वयः ।
यद्वा उत्तरार्धे तच्छद्बः प्रसिद्धपरामर्शी न तु यच्छब्दनिर्दिष्टप्रतिनिर्देशरूपः ।
तद्ब्रह्मेत्यत्रसद्ब्रह्मेति पाठः संभाव्यते ।
ब्रह्मवाचिसत्पदविशेषणमद्वितीयपदं ब्रह्मणो ऽन्यस्यासत्त्वपरमिति पूर्वपक्षिणामाशयः
अत्रे ब्रूमो ऽद्वितीयोक्तौ समासः को विवक्षितः ।
किंस्वित्तत्पुरुषः किं वा बहुव्रीहिरथोच्यताम्
मूल पाठ: Saṃvitsiddhi · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0