ग्रंथ पाठ
संवित्सिद्धि (टीका सहित) · अध्याय 2
2.1
(व्याख्या) ईष्टे विश्वस्य नित्यं व्यपगततुलनायोग्यवस्त्वन्तरो यो विद्ये यस्याधिगत्यै विदुरुपनिषदो द्वे परां चापरां च ।
यो विश्वस्वान्तवासी प्रथयति च धियं तस्य तस्यानुरूपां देवः श्रीमान् स मह्यं प्रदिशतु दयया धीविकासं समन्तात्
2.2
यामुनाशयविज्ञं तं ध्यात्वा लक्ष्मणयोगिनम् ।
यामुनार्यकृतिं संवित्सिद्धिं व्याकरवाण्यहम्
मूल पाठ: Saṃvitsiddhi · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0