संकल्पकल्पद्रुम · अध्याय 3
1. (ब्) पूर्वं; 2. (अ) तदादिओ
[2]
अथ नित्यलीला
प्रकटतरविकासभाजि वृन्दावन इह भाति किम् अप्य् अदृश्य-धाम ।
व्रज-जन-सहितः स यत्र कृष्णः सुख-विहृतिं विदधद् विभाति नित्यम्
परिलसति पयः-समुद्र-सीमा व्रज-युव-राज-समाज-लोक एषः ।
अमुम् अनु चतुरस्रम् अत्र वन्यागिरि-सरिद्-अञ्चित-चारुतातिधन्या
गिरिसमुदितिर् अत्र सुष्ठु गोवर्धनवलिता परिभाति चित्रतुल्या ।
विलसति यमुनादिकानदीनां ततिर् अपि मानसगङ्गयानुषक्ता
अभिरुचिददरत्नचित्रमित्रं भुवनम् इदं परिभाति यत्र वृक्षाः ।
तद् अनुकृतिपरारुचा समृद्ध्या हरिरतिदायितया च ये विभाताः
विलसति चतुरस्रधाम्नि घस्रक्षितिपतिबिम्बमहः सहस्रपत्रम् ।
उपवनम् अधिपत्रम् अत्र कृष्णप्रियतम1दारविहारसारवारः
इह कमलदलद्वयालिमध्यस्थितिपथिवृन्दम् अतिस्फुटं विभाति ।
अपरपरगताव् अचाक्षुषाणि श्रुतिविहितान्य् अयनानि यत् तु जेतृ
मणिजनि2कमलस्य तस्य चाग्रावलिवलयप्रतिसन्धिलब्धसन्धि ।
सुरभिगणवृतासुधाभदुग्धासुरभिततिः श्रयते शुभंयुगोष्ठम्
अथ दलवलयस्य मध्यभागं3 प्रतिलसति व्रजराजराजधानी ।
परिधिवद्4 अभितः समस्तगोपप्रकरगृहावलिर् अत्र यत्र भाति
रुचिलसदवरोधमध्यभागं सपरिषदन्तिमषष्ठभागपुष्टम् ।
व्रजनृपभवनं तु तत्र चान्तर् दिनकरवद् विदधाति रश्मिसृष्टिम्
यद् अपि मणिमयं तद् एक-रूपं तद् अपि सद् अद्भुत-मध्य-मध्य-भागम् ।
यदि बहु-विधम् ऊहितुं समीहा स्मर मम मानस गोप-चम्पू-युग्मम्
इह सहचरतारकालिपुष्टः स्वकपरिचारिचकोरवारजुष्टः ।
स्मितम् अनुयश इत्य् अनुद्य कौमुद्य् अवतरतीत्य् उदितातरेः सुतुष्टः
व्रजकुलकुमुदावलीमुदां यः सततमहामहकृद्विधाव् अतन्द्रः ।
पितृमुखसदसि प्रियावलीनां महसि च नन्दति गोपकृष्णचन्द्रः
सुरपतिमणिमानिताङ्गिसङ्घपटपपटुताकृतहेमरङ्गभङ्गः ।
गुणगणभृतभारतीसमाजः स जयति गोकुलराजवंशराजः
[त्रिभिः कुलकम्]
इह हरिविहृतीर् अतीतरीत्या शृणु कथयामि सदापि नातिभिन्नाः ।
यद् अनृतम् अपि पूर्वरीति चेतः प्रविशति नाद्यतनं तथा यथार्थम्
1. (ब्) प्रियतम् उदारओ; 2. (ब्) चिन्तामणिओ; 3. ओभासं; 4. (ब्) परिविधद्; 5.
प्रतिलवम् अपि चित्रम् अस्य तत् तत् क इव सुधीर् अवसानम् आददीत?
अथ निशि रहसागतान्तरायां वलजम् इते स्तववाद्यविद्यलोके ।
व्रजभवनजनः सहैव जाग्रन् मनसि हरिं दधद् आगतं ननन्द
स मथननिनदं सगीतनादं ससुरभिदोहरवं सगोपवादम् ।
अमृतमथनयुक् पयोधितुल्यं व्रजकुलम् उल्लसितं दिधिन्व कृष्णम्
व्रजपतिमिथुनं तदाथ पुत्रप्रमदमदश्लथितप्रदानसेतु ।
तनयजय1विरुत्ततिं पठद्भ्यः प्रचुरतरं विततार वारवारम्2
इह लसति हरेर् विलासगेहप्रततिर् उदारसुदारसारवारा ।
शयनसुखमयी निकुञ्जवीथिः क्वचन च तादृशतां गता विभाति
निजनिजशयनं गतं तम् आलिङ्गनवलितं विदधुर् विधुसुतन्वः ।
रजनि विरमणं यथा यथासीद् अघटत दोर्द्रढिमा तथा तथासाम्
इह परमरमा विभाति राधा सदुडुगणे गगने यथेन्दुमूर्तिः ।
तद् इयम् अधिकया गिरा सभाज्या तदनुगतिं दधतां पराः सपत्न्यः
व्रजसुकृतविलाससाररत्नाकरवृषभानुसुजातशातलक्ष्मीः ।
अघरिपुरमणीरमासु मुख्या स्वयम् अनुरागविहारहारिमूर्तिः
दयितघनतडिद्विलासिवर्णा प्रियतमवर्णस्व3वर्णशस्तवस्त्रा ।
हरिमणितरलादिदिव्यदीव्यन्मणिमयभूषणभूषणाङ्गभङ्गिः
उपमितिपदवीं स्वम् एव यान्तीं सुपरिमितिव्यतिशोभिताङ्गसङ्घा ।
प्रतिककुभशुभङ्करप्रथाभिः सहजविलक्षणाङ्कितश्रीः
शशिकमलरुचां पदापि जेत्री निजनखकान्तिभिर् उज्ज्वलेन तेन ।
अवयवकुलम् अन्यद्4 अन्यद् अस्तु प्रतिनवरोचिर् उपात्तकान्तचित्तम्
सुकुसुमसुकुमारतावतारस् त्रिजगति सौरभसौरभाकरश्रीः ।
ऋतम् इतमधुरप्रियार्थरीतिप्रवलितवर्णनरीतिलब्धवर्णा
सुमतिम् अतिगुरुः समस्तविद्या सकलकलावलितातिनम्रचित्ता ।
ह्रियम् अनु विनयं नयं समज्ञाम् अपि दधती स्वजनादि शर्मदात्री
निखिलगकरुणादिकैर् गुणैस् तं स्वदयितम् एव तुलां सदापि धर्त्री ।
गुरुनिकरदयास्पदातिभक्तिः स्थिरचरहार्दसुखामृताभिषिक्ता
प्रियपदनखकान्तिलेशनिर्मञ्छनपरचित्तदशावशानुवेलम् ।
भ्रमरम् अपि तदीयदूतबुद्ध्या प्रणयजचित्रगिरा विचित्रयन्ती
मरुद् अपि चलति स्वभावतश् चेत् क्वचिद् अनुकूलतया निजाभिसारे ।
नवविधम् अपि तत्र भक्तभावं विनिदधती प्रियभक्तचित्तसक्ता
बहिर् अनुमितिदूरभावपूरस्वचरित5चारुतया सदावसन्ती ।
रचयति रहसि प्रियाजने सा स्वदयितम् अन्व् अपि नर्मकेलिशर्म
[नवभिः]
1. (ब्) ओजनओ; 2. (अ) वारं वारम्; 3. (ब्) ओसओ; 4. (ब्) अन्यम्; 5. (ब्) ओरचितओ;
भ्रुकुटिनयनभङ्गिसङ्गि1 कुत्राप्य् अतिविनयप्रथि चाटु कुत्रचिच् च ।
वशयति दयितं हरिं प्रिया सा किम् इदम् इति प्रथनाय नाहम् ईशे
हरिर् अपि शुशुभे स याभिर् उच्चैर् अनुगतिमादितया सुगानधाम्नि ।
प्रणयऋणिदशाम्2 अवाप यासां प्रथतमा खलु तासु सैव सेव3
शृणु गुणम् अपरं कृपाविलासं वृषरविजाम् अनु रासकेलिनक्तम् ।
मररिपुर् अमुकां निनाय दूरं निजनयनं बुबुधे मुदा तु नेयम्
तद् अपि तद् असहिष्णवः सपत्न्यः किम् अपि जजल्पुर् अमूर् अमूं विनिन्द्य ।
इयम् अपि तु मुरारिमेलनाय स्वयम् उपपत्तिम् अदाद् अमूषु सुष्ठु
[युग्मकम्]
गुणकुलम् अपरं किम् अङ्ग वर्ण्यं हरिरतिवारिधिभङ्गसङ्घरूपम् ।
अयि शृणु हृदय4 प्रगे च तस्याश् चरितम् इदं मृदु तत्प्रियस्य चाथ
अनुमितम् अकरोद् यदाल्पकल्पं रजनिविभागम्5 इयं तदा तु कान्तम् ।
अकुरुत भुजपाशबद्धम् अस्रस्नपितनिभं कुरुते स्म वर्ष्म चास्य
अथ बहुविनयं दधन् मुरारिनयनपयांस्य् अपसारयन् अमुष्याः ।
स्वनयनसलिलेन सार्धम्6 अङ्गं निजम् अकरोत् इदम् इयम् अप्य् अभीक्ष्णम्
तदनु च ललिताविशाखिके द्वे समवयसाव् अनयोर् उपेत्य पार्श्वम् ।
अहिमकरहिमर्तुरश्मितुल्यात् खरवचनात् पटु लुम्पतः स्म जाड्यम्
ह्रियम् इयम् अबला तदा तु याता दयिततनोर् उपगूहनं विसृज्य ।
स्वपनम् इव गता क्षणं निरीहा पुनर् इव जागरणं भयाद् ददम्भ
अहर् उदितनिभं पराश् च याता हरिदयिता हरिमातरं भवेयुः ।
इति तदुदितसम्भ्रमाद् अयासीद् अहरुदयानुगकर्मधर्मधाम
रजनिविलसितप्रसङ्गिवासः कुलम् अजहात् तद् इयं यद् एव हृद्यम् ।
अपरम् अकुरुताङ्गसङ्गि यत् स्खलयितुम्7 इष्टम् अहो बली तु दिष्टः
पदकरवदनं मुहुः पुनाना यद् इह जलं विससर्ज शुभ्रपात्रे ।
भुवम् अपि तद् इदं भुवःस्वरादीन्य् अपि भुवनानि सदा पुनद् विभाति
अकुरुत न परं बहिः स्निहं सा हरिदयिता मुहुर् अन्तरस्निहं च ।
हरिवपुरुपयुक्ततैलशेषं विनिदधती खलु या तुलां सिषेवे
सुरभिभिर् अथ मर्दनानि कृत्वास्नपयद् अमूम् उदकेन तादृशेन ।
सहजसुरभिता ततस् तदङ्गाद् उदयम् इता विजिता दिशश् चकार
[युग्मकम्]
तनुम् अनु ववसे वरांशुकं सा तदपि तनुश् छविम् उज्जगार तस्याः ।
घनततिपिहिते ऽपि सूर्यबिम्बे दिशि दिशि राजति तस्य रश्मिसङ्घः
अथवा,
हरिरतिर् अतिगुप्यते तया सा तदपि च तच्छविर् ईक्ष्यते बहिश् च ।
1. (ब्) सङ्गिभङ्गि; 2. जीव हस् नोत् मदे सन्धि ओf ऋ. 3. (ब्) सैव सैव; 4. (ब्) हृदये; 5. (ब्) विभावम्; 6. (ब्) सार्द्रम्;
विविधमणिविभूषणं वराक्ष्याः सुखयति ताः स्वसखीर् इतीदम् इत्थम् ।
इह च हरिगुणस्मृतिप्रदीप्तं पुलकमुखं सुखभूषणं किम् ईडे
1
व्रजनृपमिथुनस्य चाङ्घ्रितीर्थं व्रजनृपतेस् तनयस्य च प्रपीय ।
जपविधिविहितद्विवर्णमन्त्रा हरिजननीम् अवलोकितुं प्रतस्थे
अथ हरिजननीं प्रति प्रयाताप्य् अभिमुखम् एति न सा सखीवृतापि ।
अपि तु कुटिलवर्त्मनानुगम्य प्रणमति तत्पदयोर् निधाय भालम्
अथ हरिजननी स्वयं कराभ्यां शिरसि समुन्नमिते सयत्नम् अस्याः ।
परिमलम् उपलभ्य सास्रम् एनां पिहिततनुं परिरभ्यनन्दति स्म
तदनु तदुपदेशतः समस्तां गुरुवनिताम् अवनम्य रम्यचित्ता ।
पृथग् उपविशती समस्तदृष्टीर् अहरत चन्द्रमुखी चकोरतुल्याः
यदपि मुहुर् इयं सदानुभूता तदपि तदा मिलती प्रतिस्वम् आर्द्रम् ।
रजनि विरहिता2 च कारवर्षाजनिर् इव घर्मकनीयसी समस्तम्
इति सति चरिते हरिप्रियाया हरिचरितं शृणु चित्त वर्णयामि ।
गृहगतविभवे सुवर्णिते स्याद् गृहपतिवर्णनम् आशु सौख्यदायि
हरिदयिततमा यदाशु तल्पाद् दिनमुखकृत्यकृते कृतेहम् आसीत्3 ।
हरिर् अपि स तदा तदर्थम् आत्मप्रियसखदासगणेन सेव्यते स्म
स रजनिवसनं ससर्ज तच् च स्फुटम् इव सूचयति स्म गूढवृत्तम् ।
इह च तद् इदम् अन्तरङ्गम् इत्थं पिशुनम् इतीव तदा स्मितं सुहृद्भिः
मुखकरचरणं हरेः सुधौतं कमलवनानि जिगाय तच् च पश्य ।
व्रजम् अनु कमलालयापि यस्य श्रयति रजः पदयोर् यथात्र वन्दी
बहुविधम् अपि तैलम् इष्टगन्धं धृतम् अभितः स विदग्धतानिदिग्धः ।
सुरभितम् इह राधया तु देव्या स्वयम् उररीकुरुते स्म कृष्णचन्द्रः
तद् अघजिति सुतैलम् आददाने समजनि पूषिता न तत् तु चित्रम् ।
प्रथमम् अपि स तन् मुदाभिजिघ्रन्न् अगमद् अमूदृशतां तद् एव चित्रम्
स शुचिसुरभिणा जलेन सिक्तं स्ववपुर् अकारयद् ईदृशं विधातुम् ।
अहह शृणु मनस् तद् एव तत् तद् गुणमहसा समभूद् अतीवसान्द्रम्
हरितनुम् अनु मार्जनं विधित्सन् मृदुर् इयम् इत्य् अधिगत्य कम्पते स्म ।
जलगुरुवसनं विसर्जयंस् तद्द्वयम् अपरं स दधत्4 प्रफुल्लति स्म
कनकनिभपटद्वयं पटीयान् परिदधद् अम्बुदरोचिर् उप्तकेशः ।
सतिलकलघुभूषणः स्वकान्त्या त्रिजगति कान्तिदया सखीन् दिधिन्व
हरिर् अथ कनकासने निविश्य व्यरचयद् आचमनं यथा निदिष्टम् ।
परिदधद् उपवीतम् अन्यद् आसीज् जपम् अनु सन्दधद् अप्य् अदीपि तत्र
यदुपुरम् अनु यत् प्रधानभावं हरिर् अकरोज् जनके ऽपि विद्यमाने ।
तदुचितम् उचितं तु नात्र यस्मात् पितृसुततागततारतम्यम् अस्ति
1. थिस् लिने नोत् fओउन्द् इन् (ब्); 2. चिरहिता; 3. (ब्) कृतेहयासीत्; 4. (अ) ददत्व्रज-पति-मिथुने1 सदापि बाल्यं हरिम् अनुचिन्तयद् एवम् आह नित्यम् ।
वयम् इह2 सुकृतानि यानि कुर्मः प्रतिनिधयस् तव तत्र न स्वतन्त्राः
इति हरिर् इह नातिधर्मकर्माण्य् उषसि करोति पितुः प्रमोदकारी ।
अपि तु तदनुमोदनानुकूलां भविककृतिं विदधाति मातुर् अग्रे
हरिर् अथ चलति स्म मातृपार्श्वम् सह सखिभिर् ध्वनयन् भूषणानि ।
स तद् अवकलयन् वधूनिकायः सपदि ससार रहस्यपाकधाम
अथ हरिजननी हरिं निरीक्ष्य व्रजमहिलाभिर् इयाय तस्य पार्श्वम् ।
सुतम् अनुगमनं व्यलोकि धेनोः समम् अनया नतरां गवां परम् आसाम्
पदम् अनु पतनं भवेन् न तस्याः सविधजुषा हरिणा द्रुतं मिलन्त्याः
इति हरिर् अवनम्य दूरदेशाच् चिरम् इव तद्वद् अतिष्ठद् इष्टभक्तिः3
द्रुतम् अथ जननी तम् एत्य पुत्रं द्रुतम् उदनीनयद्4 आग्रहं दधाना ।
तदनु च सुचिरं प्रसज्य मूर्ध्नि स्रवदुदकाक्षियुगं तम् आलुलोके
हरिर् अवकलयन् सरोहिणीका व्रजमहिला जननीसमानभावाः ।
तदनुगुणकभक्तिभाग् अमूषां नमनकृदस्रजलेन सिच्यते स्म
अथ बलवलिताः परे सखायः सहमधुमङ्गलकाः समागतास् ते ।
यद् अजितम् अभजंस् तद् अह्नि चित्रं विधुम् अनुषज्य सुभग्रहा विरेजुः
अथ पुनर् उपवेशम् आगतास् ते हरिबलमातृमुखाः सुखाद् अशेषाः ।
हरिबलवलिता यथास्वम् आसन्न् अधि विविधासनम् उद्यदस्रनेत्राः
अथ पुरुगुरुदारलम्भिताशीर् बटुसहिताः प्रतिपद्य विप्रभार्याः ।
वलयितसकलः सरामकृष्णः प्रणमनसङ्गतम् उन्नमन् दिधिन्व
द्विजकुलमहिला बटुप्रधाना दिनदिनम् आशिषम् अद्भुतां ददानाः ।
तदुदयम् अपि शश्वद् ईक्षमाणा विदधति साक्षतलाजपुष्पवृष्टिम्
हरिर् अथ कपिलाः सनव्यवत्सा रजतखुरप्रकराः सुवर्णशृङ्गाः ।
विविधमणिभूषणाः समर्च्य द्विजबटुसादकरोद् विधानयुक्तम्
धृतमणिनवकं सुवर्णपात्रं घृतपरिपूरितभूरिकान्तिमध्यम् ।
परिचितमुखबिम्बबिम्बम् ईशस् तिथिगणकाय दिदेश देशरूपम्
द्विजकुलजसतीर् बटूंश् च कृष्णः प्रणमन5पूर्वकम् ईप्सयाभिनन्द्य ।
मधुरतरगिरा विसृज्य धाम्ने निजजननीरुचिमङ्गलं पुपोष
जनयितृजननीस्वसृः पितृव्यादिकवनिताश् च वधूसुताविमिश्राः ।
अनुनयविनयप्रणामपूजादिभिर् उपवेशतया हरिर् दिधिन्व
इति पुरुकृतमङ्गलः स कृष्णः स्वकगृहनिर्मिततत्कृतिर् बलश् च ।
सखिचितम् उचितप्रदेशम् अञ्चन्न् अशनविधिं विधिना विधित्सति स्म
असितकुटिलकेशवेशभङ्गीजनजनलोभनशोभया मनोज्ञम् ।
निरुपमवदनं6 सनीलशुभ्रच्छवि सविलाससशोणकोणनेत्रम्
1. (ब्) ओमिथुनं; 2. (ब्) अपि; 3. (अ) ओभक्ति; 4. (अ) उदनीनममत्; 5. (अ) प्रणमनं; 6. (ब्) ओवदनः
अलकविततभालमण्डितपुण्ड्रं पृथुतरनीरदमुक्तं मुक्तनासम् ।
मणिगणमयकुण्डलप्रभाभिः शवलितगण्डरुचातिरोचितुण्डम्
गलवलयविभूषणातिरम्यं मणिसरमध्यनिबद्धरत्नवर्यम् ।
वलयविलसदूर्मिकाङ्गदानां च्छविचलदूर्मिभुजद्वयातिचारु
नृहरिवदवलग्नलग्नकाञ्चीस्तवकचलाञ्चलचञ्चदंसुजालम्1 ।
कनकघनजिदन्तरांशुकांशस्पृशमणिनूपुरकान्तिपूरपूर्णम्
अभिमुखम् उपविष्टम् इष्टपारस्परिकनिरीक्षणाक्षियुग्मम् ।
नवघनघनसारकान्तिप्रदवपुरुन्नतदासजुष्टपृष्टम्
विविधविधविचित्रमित्रपङ्क्तिद्वयरचितद्रवतर्षिमातृहर्षि ।
निजनिजवधुदृश्यदृश्यरूपं रहसि विनिर्मितजालवन्त्रवृन्दात्
स्वयम् अपि समिषं निरीक्षमाणं तदनुगवाक्षकुलं क्रियाकुलाक्षम् ।
दिनमुखम् अधिकृत्य भव्यकृत्यं स्मर सहजद्वयम् इष्टमिष्टभुक्ति ।87॥
[सप्तभिः]
बहुषु दिनमुखेषु गोषु शीघ्रं व्रजनम् इति व्रजभूभृता सुभोज्यम् ।
स्वयम् अशनकृता प्रहेयम् इत्य् अप्य् अशनम् इदं लघु वष्टि कृष्णचन्द्रः
अथ मरिचसितासितांशुमिश्रं घृतपरमान्नम् अदन्न् असाव् अमीभिः ।
निजरुचिम् इयता निचाययंश् च प्रतिकवलं प्रशशंस कंसशत्रुः
नववधूनिहितं बलस्य मात्रा स्वयम् उपनीय धृतं व्रजाधिराज्ञ्याम् ।
अकुरुत परिवेषणं तथा सा लवम् अपि नात्र यथा स हातुम् ऐष्ट
सपरिमलजलं तथा जनन्योर् मृदु मृदु जल्पविकासिमन्दहासम् ।
अनुभवद् इह रामकृष्णयुग्मं क्रमम् अनु भोजनतृष्णताम् अहासीत्
पुनर् अपि जननीद्वयी शिशूनाम् अशनरसं व्यतिहासनात् पुपोष ।
हरिर् अथ च गवावनाय खेलावनगमनाय च तं क्रमात् ततार
परिमलजलधौतवक्त्रबिम्बा नवहरिचन्दनचारुचर्चिताङ्गाः ।
खपुरफनिदलीपुटीभिर् एते सुरभितरञ्जितम् ऊहुर् आस्यमध्यम्
व्रजनृपतिभृतिभुक्2कुमारवृन्दार्पितमहराभरणाञ्चिकञ्चुकादि ।
सुततनुम् अनु सा विराजयन्ती जननयनान्य् अकरोद् विराजितानि
तम् असितमणिकान्तिदेहकान्तिस्नपितसुवर्णजवर्णकान्तवस्त्रम् ।
स्वविरचितविभूषणं निरीक्ष्य स्तननयनाद् अमृतान्य् अवोढ माता
मणिरुचिमुरलीसुवऋनयष्टिप्रवरशिखण्डकशोभया तु3 कृष्णः ।
असुखयद् अवरोधलोकदृष्टिं सुखयितुम् इत्थम् इयेष सभ्यदृष्टिम्4
हरिम् अनुकथनीयम् अत्र यद् यद् बलम् अनु तत् तद् अवेहि किन्तु योग्यम् ।
हरिबलजननीयुगं च तुल्यं परिकलय प्रियता हि तत्र तुल्या
दिनदिनम् अनु सावनाय गन्तुं कृतमनसस् तनयस्य मङ्गलाय ।
सजलकलसदीपसारम् आरात्रिकमुखमङ्गलवस्तु विसृणोति
1. (ब्) जलदांशुजालम्; 2. (ब्) ओभृतिभृतो; 3. (ब्) च; 4. (अ) ओसृष्टिम्;
अथ चलितमनाः स्वमातुर् आराद् अरचयद् अञ्जलिम् अच्युतः प्रणम्य ।
इयम् अवमृशती करेण चामूं स्तननयनामृतसार्धम् आह चेदम्
"वयम् अपि भवता समं प्रयामः कृतपचनं द्रुतम् उष्णम् अर्पयामः ।
परिणतवयसश् चिराद् अभूम प्रथयसि लज्जितम् अत्र किं नु वत्स
यदि वदति भवान् स्वधाम्नि का स्याद् अवसरम् आवकयोस् तदा विदध्याम् ।
गृहम् अहम् अहनि क्वचाधिवत्स्याम्य् अथ बलसूर् अपि वत्स्यति क्व चापि
कथम् इव वदसि त्वम् एतद् एवं गृहकृतिर् उद्धतिम् आप्स्यतीति वत्स ।
तव वनगमने पुनस् तद् एतत् किम् अपि न सिध्यति पृच्छ्यताम् इदं च
अहरहर् अयतां वनानि वत्सः स्वसदनवाससुखं त्यजाव नावाम् ।
इतिमति पितराव् अमू न शङ्कां न च ह्रियम् अत्र लभावहे तनूज ॥"103॥
इति स तु जननीरितं निशम्य स्मितवलितं धृतबाष्पम् आललाप ।
"द्विविदरिपुर् अपि प्रणम्रमूर्ध्ना1 मृदु तदनूदितम् अन्तरा चचार
जननि यदि पिता तथा च माता परिणमति स्म शिशुर् बभूव योग्यः ।
शिशुर् अयम् उभयत्र तत्र राजन्यति यदि तर्हि विभाति सुष्ठु योग्यः
वनम् अनु धवलावनाय मादृक् यद् अटति तन्मिषसिद्धिम् अम्ब विद्धि । सुखविहरणम् एव तत्र सार्धं सखिभिर् अमीभिर् अनुक्षणं बिभर्ति
विपिनम् अनु विहापितं भवत्यो जननि चतुर्विधम् अन्नजातम् अद्मः ।
अमृतजयिफलानि येन वन्यान्य् अभिरुचिम् अत्तुम् अयाम2 तत्र भूरि
व्रजरिपुकुलमूलम् आशु हन्तुं पुनर् अगमं3 पुनर् आगमं व्रजं च ।
अजनि च जगताम् अदृश्य एष स्फुरतु कथं बत मातर् अथ भीतिः
अहह बत गवां कुलं समस्तं मम पथि तिष्ठति मद्गतिं प्रतीक्ष्य ।
मयि गतवति शष्पम् अत्ति चैवं हृदि मम धीरदशाम् अशाश्यते स्म ॥"109॥
अथ हरिजननीं पुरन्ध्रि4मान्याततिर् अवदद् धृतनीरवृष्टिदृष्टि ।
"भविकम् अनु मनुष्व नित्यकृत्यं भवति तद् एव गतिः परावरा च ।"110॥
तनुजम् अनु पुरन्ध्रिभिः शुभाशीर्व्रततिर् अकारि ततः स्वयं तु माता ।
विधृतकरतयाङ्गनाय सास्राप्य् अमुम् अवतारयति स्म मन्दमन्दम्
स्पृशति दिशति वाञ्छति प्रयाति प्रणयति मन्दति नन्दति ब्रवीति ।
इति बहुविधलालनां दधाना सुतम् अनु सा जननी न तृप्तिम् आप
अथ गुरुवनितागणेन मात्राप्य् अनुसरणाद् अवरोध5सेतुम् आप्तः ।
प्रणयविषरबन्धतस् तु दामोदरपदवीं पुनर् एष शश्वद् आप
अथ हरिगमने क्रमेण सिद्धे हरिजननी निजगेहम् एव गत्वा ।
गृहकृतिकलनान् निनाय कालं वृषरविजा चरितानि तु स्मरामि
यदवधि हरिर् एति मातृपार्श्वं तदवधि सा च पराश् च जालरन्ध्रात् ।
हरिम् अवकलयन्ति यत्र सर्वा मुहुर् अपि मोहम् अयन्ति संहरन्ति
1. (अ) मूर्धा; 2. (ब्) उत्तमयाम; 3. (अ) पुरगमं; 4. (अ) पुरेध्रिओ; 5. (ब्) अवरोधिओ
यद् अनुपदम् इयं तदार्यपत्न्यां दयितकृते विनिधाय दिव्यम् अन्नम् ।
सुखम् अनुभवति स्म तत् तु मां च क्षिपति सुधाजलधाव् अहो क्व यामि
तदशनम् अनु यद् विहासजल्पं हरिकृतम् अन्वधित स्वकर्णयुग्मम् ।
स्मितनयनयुगं तथा निजालीः प्रति तद् इदं मम चित्तम् आवृणोति
हरिर् अहह तदा वनं प्रयातुं निजतनुम् आस्तृत दिव्यवस्त्रलक्ष्म्या ।
इयम् असहनमानसा सपत्न्याम् इव निदधे सकटाक्षम् अक्षि तस्याम्
स विपिनगतये यदाप्य् उदस्थाद् अधित धृतिं नहि तर्हि खञ्जनाक्षी ।
वपुर् इव जहता स्वचेतसा तं प्रसजति सा स्म वनाय निर्गमाय
सरसिजदृग् अथाङ्गने ऽवतीर्णः स्मितम् अमृतं विचकार यर्हि दिक्षु ।
इयम् अतुलरुचिः सखीषु गुप्ता स्वनयनम् अञ्जलिम् आचचार तर्हि
मुरजिति निरिते वरावरोधाद् गुरुवनितासु निवृत्य चागतासु ।
इयम् अथ ललितादिभिः स्वगेहं प्रति गमितागमयत् क्लमेन कालम्
प्रथमम् अजितम् ईक्षते गवाक्षात् तद् अनु च वर्णयति प्रियाभिर् एषा ।
इह मुहुर् अपि तर्षधर्षम् अस्याः पुरु दधद् अक्षियुगं न शान्तिम् एति
सृजति हरिकृते सहारमाल्याद्य् अतुलम् इयं निजसङ्गिनीसहाया ।
हरिगुणगणगानं अप्य् अपूर्वं मृदु विदधाति तथापि नैति शान्तिम्
मृगमदतिलका स1नीलरत्नश्रुतियुगलाभरणा घनाभवस्त्रा ।
हरिवसनसनाभिकान्तिर् एषा स्वकरतिदीपनतां स्वयं जगाम ॥123
जगुर् इह हरिरागि राधिकायाश् चरितम् अनूतनम् आलयः प्रसज्य ।
स्वयम् इयम् अपि तत्र तासु कस्याश्चिद् अपि जगाव् अनुरागिपूर्वरागम् ॥1242
मुरजिति जननीगृहात् प्रयाते वनम् अनु वर्षवरान् सुसख्यदिग्धान् ।
अवसरम् अनु वेषभङ्गिभाषादिषु वधुपुंस्तुलितान् दिदेश सुभ्रूः ॥125
"प्रतिनिधितनवः स्थ यूयम् अस्माकम् इति निजप्रभुना समं प्रयात ।
प्रभुम् अपि तम् उपेत्य मद्विधार्हं परिचरणं कुरुत व्यतिप्रसज्य ॥
मुहुर् अथ च भवादृग् एक एकः सुचरितम् अस्य निरीक्ष्य नः समेतु ।"
इति तद् अनुमतः स सक्रमात् तं मुहुर् अनुभूय जगाद ताम् उपेत्य
अथ हरिर् अगमत् पितुः सभायां दिविजगणस्तुतभावभावितायाम् ।
पशुपतिपरिपूज्यपाशुपत्यव्रजजनभास्कारभासिताम्बरायाम्
द्विजकलकलपोषवेदघोषप्रकरजमङ्गलसङ्गतिं व्रजन्त्याम् ।
दिशि दिशि कविसूतमागधादिप्रकररवस्तवविस्तरं भजन्त्याम् ॥
भरतविवृतगीतवाद्यनृत्यप्रचयभिदादिविदां मुदां3 धरण्याम् ।
निजपितृकुलमातृवंशतत्तद्विवहनपुण्ययुजां प्रमोदखन्याम्
बल4सखिसहितः स सर्वचक्षुस्ततिषु ववर्ष सुधाम् इवाङ्गकान्तिम् ।
जयजयजयकारवारसारः समजनि येन तदानशे जगच् च
[चतुर्भिः]
1. (ब्) सुओ; 2. थिस् वेर्से मिस्सिन्ग् fरोम् (ब्); 3. (ब्) मुदा; 4. (अ) मर्गिन्: स्वकओ
अपि वरगुरवस् तम् आशु दृष्ट्वा निजनिजपीठवरा उपेतवन्तः ।
जलनिधिम् इव रागितानदी तान् प्रसभम् अमुं वहतीति तच् च युक्तम्
क्रममनु स गुरून् वरान् अनंसीद् युगपद् अथ प्रणनाम कांश्चिद् अन्यान्
समगमद् अपरान् नतान् भुजाभ्यां करकमलेन तथा दृशा परांस् तु ॥
व्रजम् अनु परमा वरादिभेदा दवरतया यद् अपि स्फुरन्ति लोकाः ।
तदपि विधिर् अजल्पद् अत्र मित्रं पदम् इति हार्दम् अमुष्य वक्ति सुष्ठु1 ॥
हरिर् असितमणिप्रवेकमूर्तिर् लसति बलः पृथुपूर्तिहीरमूर्तिः ।
निजनिधिर् इति पुण्यजातलब्धः स्वयम् इति सक्रमम् आकलि व्रजेन ॥135
व्रजनृपतिर् अथ स्वबाष्पनीरस्थगितगलः क्षमते स्म नापि वक्तुम् ।
तदपि हरिर् अवेत्य तस्य हृद्यं स्मितनयनाम्बुवृताम् उवाच वाचम् ॥136
"अयि पितृचरणा न चास्ति किञ्चिद् व्रजविपिने भयदं पुरावद् अत्र ।
स्वयम् अपि धवला वनाद् उपेयुस् तदपि वयं खलु खेलितुं व्रजामः ॥"
तम् अवदद् उपनन्दमुख्यवृन्दं
"व्रजसदसाम् असवः पिता तवायम् ।
त्वम् असि तद् असवस् तद् अत्र वाच्यं
किम् इव भवेन् निखिलं त्वम् एव वेत्सि ॥138
व्रजपतिर् अथ याचकान् समीक्ष्य स्वसुतसुखाय पुनर् ददे बहूनि ।
व्रजपतिसुतम् अण्व् अमी यद् आशीस्ततिम् अददुर् न स तत्र साम्यम् आप ॥139
अथ वनगतये ऽञ्जलिं दधाने मुरजिति तद्गतितर्षम् ऊहमानाः ।
श्रुतिभणितशुभान् द्विजान् अनुप्राग्गति तम् अमी धवलान्तिकाय निन्युः ॥140
स्वयम् असविधतः समीक्ष्य धेनूर्2
न ययुर् अमी प्रययुस् तु कृष्णमुख्याः ।
रभसवशम् अमूर् अमूंस् तु वीक्ष्या-
त्मजसदृशानु समं समं प्रणेदुः ॥141
अथ जिहि जिहि कारतः समस्ता विदधुर् अमी धवला वनाय नुन्नाः ।
हरिसुरभिम् अमूस् तु विन्दमाना हरिम् अनुगम्य मुहुर् निवृत्तिम् आपुः ॥
तदपि गुरुगणे स्थिते हरिस् तु विगतमनःस्थितिसूचनां चकार ।
हरिमतिम् अवबुध्य बाष्पकण्ठः स च कथम् अप्य् अपसर्यणं बभाज ।
वचनवदनमार्जनानुशिक्षाद्यनुगतिम् उज्जहद् अप्य् अमुष्यतातः ।
अमुम् अनुनयनानुवृत्तिचर्यां न तु शिथिलाम् इव कर्तुम् ईशितासीत् ॥144
कथम् अपि विनिवृत्य सद्म याति व्रजधरणीशितरि व्रजे च कृत्स्ने ।
हरिम् अनु विनिवृत्य दृष्टिर् अस्मान् न विघटितुं घटते स्म तस्य तस्य ॥
मुरजिद् अथ विशन् वनान्तरालं गुरुकुलसन्नतिकृद् विदूरतो ऽपि ।
गुरुभिर् अतितरां तदाशीस्ततिभिर् अपुष्यत तुष्यद् अक्षिलक्ष्मि ॥146
अथ हरिर् अटवीम् अटन् सुहृद्भिः सहजवरेण च गाः स्थिरीविभाव्य ।
अभिरुचितपथः प्रयाणयुक्ता समवलयन् मृदुगानरीतिहूति ॥147
1. (अ) स स्म [?]; 2. (ब्) गावः;
अथ वनम् अगमद् बलादिसङ्गं परमसुखप्रदम् एष मन्यमानः ।
विविधतरुलतासु1 कोकिलादिद्विजमृगसङ्गीतम् आविशत् परन्तु ॥148
मधुपपिकशिखिप्रधानपक्षिप्लवगरुरुप्रियकादिजन्तुभेदान् ।
ध्वनितनटकलाभिर् अन्वकुर्वन्न् अजितबलादि2मुदाम् उदारबाल्याः2 ॥149
इति बहुविधखेलया मुकुन्दं सुखयति बान्धववृन्दम् एतम् एव ।
निजनिजविविधस्वभावतश् च प्रमदयति प्रतिदिष्टम् इष्टमिष्टम् ॥149
स्थिरतरवरबुद्धयः सखायः सचिवचरित्रतया हरिं भजन्ति ।
चपलमतिमिलद्विदूषकार्हप्रहसन3काव्यगिरः प्रहासयन्ति ॥150
ऋजुतमचरितप्रयुक्तयुक्तस्थितिगतिरीतिसमाः सभाजयन्ति ।
प्रतिमुहुर् अपि वामतायमानस्वचरचितजल्पकलाविकल्पयन्ति ॥1514
अतुलकुलजशीलमीलदुग्रप्रकृतिकगीर्मृदुलाः सदार्द्रयन्ति ।
गिरिगिरि च वितण्डयातिचण्डप्रभरचनप्रभवो विचित्रयन्ति ॥152
इति निखिलगणा विचित्रतत्तद्गुणगुणितप्रणयप्रकर्षचित्ताः ।
बहुविधविधयः परे परे ते सुखदम् अमुं सततं सुखाययन्ति ॥153
क्वचिद् अपि दिवसे समित्य गोवर्धनम् इह मानससञ्ज्ञितां च गङ्गाम् ।
रविदुहितरम् अत्र चाह्नि लीलाः स्थलगलगा विदधे त्वदीयकान्तः ॥154
क्वचन च सखीभिः समेति भाण्डीरकम् अधियोजनम् अस्ति यः प्रसज्य ।
स्थलवनयमुनादि केलिम् अस्मिन् विविधविधं विदधाति कृष्णचन्द्रः ॥155
अयि तव दयितः कलेन वेणोश् चलयति देवगणांस् तथा पतङ्गान् ।
इदम् अपि घटतां परन्तु चित्रं स हि धुनुते निरसून् अचेतनांश् च ।156
ह्वयति च धवलाजनाय यर्हि त्वदधिपतिर् मधुरेण शब्दितेन ।
जलम् अपि करकायमाणम् आसां मृदु मृदु चर्वणया5 रसं बिभर्ति ॥157
निरुदकगिरिसानुगाः कदाचिद् बहुधवलाः शवलास् तृषा निरीक्ष्य ।
ध्वनयति मुरलीं पतिस् तवास्माद्धरणिधरद्रवता हि ताः पिपर्ति6 ॥158
कलयति यमुनादिसञ्ज्ञया ताः शुषिरकलाश्रितया स एष धेनूः ।
इह निजनिजनामबुद्धिनद्यः किम् अयुर् अमुं किम् उ वा कलान्तकृष्टि ॥159
क्वचन च दिवसे निदाघमाध्याह्निकसमये विगता वृष्टि7प्रदेशे ।
दधद् अथ मुरलीकलं पयोदांश् च्युतसलिलान् विदधाति गोषु गोषु ॥160
क्वचन च दिवसे समार्द्रचित्तः कलयति वेणुकलं तथा यथानु ।
द्रवति गिरिगणे पदाङ्कमुद्रा जहति शिला न कदापि तत्र तेषाम् ॥161
रचयति मुरलीं कदापि नावं सरिति पशून् पशुपांश् च तारयन् सः ।
मधुरकलतया यदा तु तस्या घटयति तां कठिनां कुतूहलेन ॥162
क्वचिद् अपि कवयः शिलाद्रवाद्यं बत कवयन्ति कविप्रचारवृत्त्या ।
1. (अ) ओलतालिओ; 2. (अ) मर्गिन्: मुदे मुदा वयस्याः; 3. (ब्) प्रहसनं; 4. थिस् वेर्से अब्सेन्त् fरोम् (ब्); 5. (अ) च वर्णया; 6. (अ) पिपर्त्तिः; 7. (ब्) विगतावृतिओ
दधति सरसतां च तत्र विज्ञा हरिम् अनु तत् तु निजं किम् अत्र वर्ण्यम्
सखिवृषमहिषान् मुदा युधा तान् वलयति संवलते च तत्र तत्र ।
क्व च विजयपराजयाव् अभीक्ष्य प्रहसितम् अञ्चति युष्मदीयकान्तः
क्वचन च रचनाञ्चिवस्त्रयुग्मं क्वच सतिरीटम्1 अकुञ्चकान्तरीयम् ।
क्वच नटरुचिभृत्पटं क्वचापि प्रवलितमल्लतुलं स वष्टि वेषम्
क्वचिद् अपि विदधाति मल्ललीलां क्वचिद् अपि नृत्यकलां सुहृद्भिर् एषः ।
द्वयम् अपि भिदया मृशामि नेदं गतिर् अतिचित्रतमा समा द्वये ऽपि
हरिणविहरणं सतुण्डयुद्धं नयननिमीलन्शालिनर्मगालिः ।
इति बहुविधखेलनाप्तवेलं स्वम् अशनम् अप्य् अनिशं विसस्मरुस् ते
अथ बहुविहृतिं विचित्रचर्यां स रचितवान् सखिभिः सुखं निषण्णः ।
शयनम् अनुगतश् च वीजनाद्यैः परिचरितः सुखम् एति तद् ददाति
इति हरिचरिते तु तेन तेन श्रवसि चिते मुरलीनिनादरम्ये ।
सपदि तदवधानम् आदधाना मुहुर् अभजन्त दशाम् अमूम् अमूश् च
अधि हरिमुरलिस्वपूर्वरागस्फुरणदशावशापुरावदीहः2 ।
वृषरवितनयामुखाः सुदुःखास् तदमिलनान् मुमुहुर् मुहुर्मुहुश् च
इति सति सचिवायमानरामा जगदुर् "अहो कथम् अत्र विह्वलाः स्थ? ।
व्रजनृपगृहिणीनिदेशवर्यं कथम् अथ विस्मृतम् आर्तिभिः कुरुध्वे ॥171
अदिशत सदया हरेः प्रसूर् यद् द्विविदरिपोर् अपि सा विधाय युक्तिम् ।
तद् अनुसरत कान्तरागशान्तस्मृतिततयस् तद् उपायम् आतनुध्वम् ॥172
प्रथमम् अशनम् ईशितुः प्रभाते स्फुटम् अपरं प्रतिभाति सार्धयामे ।
अवरम् अपि तुरीययामालम्भे परम् अथ रात्रिमुखे व्यतीतमात्रे ॥173
प्रथमम् अशनम् अर्प्यते जनन्या तदपरम् आव्रियते सुहृद्गणेन ।
पितृमुखगुरुभिर् व्रियेत तुर्यं भवदुपयुक्तम् अतस् तृतीयम् एव ॥174
व्रजतटम् अटतः मुरारिशत्रोर् अभिगमनं भवतीभिर् अत्र युक्तम् ।
स हि मिषम् उपधाय युष्मदीयं परिसरम् एष्यति धास्यते च शर्म ॥175
त्वरितम् इह तु कान्तभोज्यवर्यं कुरुत किम् अप्य् अधुना तु ताः प्रयान्ति
व्रजनरपतिना समश्नता या व्यधिशत दापयितुं सुताय भोज्यम्" ॥176
इति हरिवनितासु सुस्थितासु व्रजपतिगीर्वशतः पुरन्ध्रिमुख्याः ।
बहुविधम् अशनं विधाय शीर्ष्णि प्रमदभरं मनसि व्रजान्तम् ईयुः ॥
अथ निजनिजकुल्यबालसङ्घा कुतुकपरीततया द्रवन्न् अमूभिः ।
क्वचिद् अपि पुरतः क्वचिच् च पश्चात् क्वचिद् अपि दक्षिणवामतः प्रसज्य ।8
वनलसदशनप्रधानखेलाकुतुककुलं बत चित्त तस्य पश्य ।
त्वम् असि किल कियन् मुनीन्द्रवर्यान् अपि यद् इदं निजवन्दिनः करोति
क इह बत भवन्ति ते मुनीन्द्राः स्वयम् अपि यच्छ्रवणे ऽपि राधिका सा ।
1.(ब्) सकिरीटम्; 2. (ब्) ओईहाः
अजितम् अपि गुणेन मोहयन्ती मुहुर् अपि मोहम् उपैति तत्र कस् त्वम्? ।180॥
हरिहरिसुहृदः स्फुरद्विहारा ददृशुर् अमूर् अमुकान् अमूश् च तत्र ।
तदपि तद् उभयं कुलं न भोगं प्रति विविवेच विहारमग्नबुद्धि ।181॥
कथम् अपि मधुमङ्गलस् तु पश्यन्न् अथ विविवेच जवाद् उवाच तत्र ।
"धृतविहृतिमदा न चेत् पुरस् तात्कृतम् अपि पश्यथ का क्षुधा वराकी?" ॥
जगदुर् अथ धृतस्मितं सखायः "क्वचिद् अपि चेन् न भवेत् प्रयोजनाय ।
प्रकटतरम् अजागलस्तनस्य प्रतिमदशां द्विज एष संवलेत ॥183
इति बहुहसितं विधाय तस्मिन् स्थलवलये विनिविश्य कृष्णमुख्याः ।
चरणकरमुखं विशद्य वार्भिः समशनशर्मकृते धृतेहम् आसन्
बहुरुचिरुचिरांशुकं दुकूलादिकम् अधिकृत्य शुभः शुभंयुवेशः ।
सहसखिनिकरः स एष कृष्णः सरभसभोजनतृष्णतां बभाज
विधुम् अनु कमलं बलिं प्रदत्ते हसति चकोरयुगं तद् एव वीक्ष्य ।
इति हरिम् अवलोक्य तत्र तस्थुर् व्रजमहिला बत चित्रतां भजन्त्यः
पृथकद् उपविशन्1 विलोकयन्त्यः स च मधुमङ्गलकः सनर्मजल्पः ।
पृथग् इव परिवेषयन् प्रहासं रसम् इतवान् सुरसान् षड् अप्य् अमुष्णात् ॥
समम् अशनसमर्पिणीभिर् आप्तान् व्रजपृथुकान् सविधे विधाय सास्रः ।
मुरजिद् अदनभाजनाद् अमीभ्यः प्रतिकवलं कवलं ददन् ननन्द
सुरभिघृतपरिष्कृतान् समस्तान्2 षडपि रसान् प्रतिचर्वणं रुचिप्रान् ।
प्रतिलवरुचिभोक्तृषु प्रदाय प्रतिलवम् आप रुचिं पुरन्ध्रिवर्गः
इह बहुविधसन्धितानि निम्बूप्रभृतिफलानि रुचार्पितानि रेजुः ।
निकटविनिहितानि यानि चासन् प्रतिमुहुर् एव च सर्वरोचनानि
अभिनवपरिपक्वनारिकेलद्रववलितं मरिचादिचारुगन्धम् ।
लवलवणरसप्रियं कदुष्णं समुचितपात्रभृतं च मुद्गयूषम्
सुरभिसुरभिजातजातसर्पिःप्लुतम् अथ पीतनपीतमिष्टगन्धम् ।
अपि परिमलशालिदिव्यशालिप्रभवसुकोमलशुभ्रशोचिर् अन्नम्
शृतघृतमुहुरुद्धृतप्रमृष्ट-द्विदलवटीविविधप्रकारवारम् ।
हरिर् अभिजलसिक्तनिक्ततिक्त-स्वरसविविक्तविचित्रपाकभेदम्
नवचणककलायमाषमुद्ग-प्रवरजयुक्तकटुप्रसक्तसूपम् ।
फलदलकुसुमत्वगष्टिकन्द-प्रसवकृतप्रथयुक्तिपङ्क्तिभेदम्
शृतघृतधृतजीरकाञ्चिधात्री-फलरसपाककषायरम्यचुक्रम्3 ।
बहुविधरचनाचणाम्लसङ्घं घनदधिमण्डकरोटिकाज्यपक्वम्
श्रपितपयसि बाष्पपङ्कपिष्टप्रवलितशर्करमुग्धदुग्धसारम् ।
अमृतजयिरसप्रसारशाला-निभविभवप्रसराग्रणीरसानाम्
सपरिमलं जलं तथाम्बधात्री4 प्रणयजकोपविलासवल्गुवाचम् ।
1. (ब्) पृथक् समुपविशन्; 2. (ब्) समाप्तान्; 3. (अ) ओचुक्रुः; 4. (ब्) ओस्वधात्रीःकुलवरपरिवेषिकाततीनां सखिवलयेन विवादशर्मजातम्
अनुभवद् इह रामकृष्णयुग्मं मुहुर् अपि भोजनतृष्णताम् अवाप ।
तदपि च निजसेवकेषु फलावितरणकामतया ततो व्यरंसीत्
[अष्टभिः]1
अरसयद् इह तेमनानि षष्टिं सहसखिसङ्घतया स्वयं मुरारिः ।
मुहुर् अतिसरसानि यानि तत्र स्पृहिजनभावभिदां विधुन्वते स्म
सपरिमलजलेन वक्त्रशुद्धिं विदधुर् अमी बत तादृशेन यत् तु ।
अशनजसुखपूरि सुष्ठु चक्रे हृदयगतं किम् अपि प्रसादशातम्
हिमजलहिमबालुकासिताभिर् विरचितपानकपायकाः सखायः ।
हिमकरवरगन्धवीटिकाभिः कृतमुखवासतया सुखं विरेजुः
इति हरिम् उपलभ्य तृप्तिम् एता
हरिजननीम् उपलम्भयाम्बभ्हूवुः ।
तदशनम् अमृतं विभाति तस्मिन्
कथम् अथ तत्कथनं तथा न तस्याम्
तदनु तदनुगा तु कापि कापि व्रजकमलाः सजती तदेकशर्मा ।
हरिचरितकथासु लम्भिताशा हरिम् अपि लम्भयितुं द्रुतं ववाञ्छ2
अथ पशुपकुलक्षितीशपत्न्याः स्वम् अशनकालम् अधीत्य तत्र याताः ।
तदशनम् अनु तां निषेव्य तद्गीर्वशम् अशनं रहसा चरन्त्व् अमूश् च
अथ मुहुर् उपलब्धगोपराज्ञीवचनबलाः स्वयम् इच्छमानसाश् च ।
निजनिजकरसाधितं वितर्तुं निजरमणाय रमा बभूवुर् उत्काः
दयितम् अभिसरन्तु तं तु धन्याः शतशतयूथम् इताः स एव चासु ।
विरचयतु गतिं कयापि शक्त्या स्मर मम चित्त मुदा सदापि राधाम्
शृणु हृदय दिशामि राधिकायां हरिम् अभिसारय तत्र तां कदापि ।
द्वयम् इदम् अनु पूजनं तद् एव द्वयम् अनु यत् पुरुतोषपोषकारि
अथ सह धवलाभिर् आव्रजन्तं व्रजतटम् अह्नि तुरीययामभागे ।
पुरुयुगविरहाद् इवातिखिन्ना व्यतिकृतसत्वरताविधायिजल्पाः
घृतरचितपचं सुमिष्टम् इष्टं तद् अनु च षाडवसङ्गिनीं रसालाम् ।
द्रुततरगमना वृषार्कजाता व्रजद् अभिगृह्य सखीभिर् आत्मकान्तम्
[युग्मकम्]
निजवनगमनार्हसूक्ष्मरन्ध्रं द्रुतम् अतिगम्य वनं प्रविश्य सर्वाः ।
प्रणयि सविधदूरतस् तु तस्थुर् जडहृदयाः स्पृहया च लज्जया च
हरिर् इदम् अवगम्य रम्यचेताश् छलम् अकरोन् निखिलेषु वच्मि तच् च ।
दिनदिनम् अनु कापि देवता मां कलयितुम् एति रहस् ततः प्रयामि
त्वरितम् इह तु यूयम् आव्रजन्तं कलयत माम् इति दूरताम् उपेत्य ।
अथ किम् उचितम् इत्थम् ऊहमानस् त्रिचतुरवालकसङ्गि तिष्ठति स्म
1. (ब्) अद्द्स् कुलकम्; 2. (अ) मर्गिन्: गतं रसाञ्चि;
अथ कथितचराः सखीसदृक्षा नवनववर्षवरा हरिं परीत्य ।
स्वगतम् उत तदीयम् इष्टम् अर्थं समघटयन् सह सा बभाषिरे च ॥213
"व्रजनृपसुत ताः सदा भजन्ते नवनवतां तद् अमूः सदा कुमार्यः ।
अपि धृतसुबृहद्व्रतास् तदासां तव मुरली क्षिपति व्रतं मुहुश् च ॥"214॥
हरिर् इदम् अवबुध्य सुध्यधीशः सहसितम् आह "कथं क्व वात्र दोषः ।
अहम् अपि स कुमार एव तस्माद् अभिगमनं मयि युक्तम् एव तासाम्
तदपि च बत ता व्रतेन खिन्नाः पुनर् इयद् आगमनं न तासु युक्तम् ।
इति यद् अभिगतं तद् एव तासां वयम् अनुयाम तथा सदाश्रयाम ॥"216॥
इति स परिहसन्न् अमून् अमूषां हृदि मुरलीजनिमोहनं तु जानन् ।
सकरुणदृग् अमूं समीपम् अञ्चन् प्रचुरसखीमिलितां ददर्श राधाम्
हरिमिलनविदूरभावनातः क्वचन च दृष्टिविसृष्टियुक्तं नेत्राः ।
हरितनुम् अवलोक्च्य तास् तु साक्षात् कुचितवपुर् लघु लिल्यिरे लतासु
अथ हरिर् अनुनीय ताः पुरस्तात् परिवलयन्न् उपहारम् आददानः ।
स्वहृदि सुखसुखं प्रसज्य ताभिः प्रततपरस्परशर्मतां दधार
यदपि समयभेदतः समग्रा दधति तदास्पदतां भुवः क्रमस्थाः ।
तदपि दिगवलोकनाय योग्यं निशमय चित्त तद् एतद् अद्य धाम
पुरुमणिचयचारुशोभगोवर्धनशिवदिग्गतसाणुनि प्रशस्ते ।
सुरतरुजयिभूरुहालिशालिप्रसवसमुच्चयमण्डिकुण्डयुग्मम्
अनुपमितितदन्तरालवाले मृदुमृदुमारुतभाजि केलिधाम्नि ।
परिमलवनकृष्टधृष्टहृष्टभ्रमररवक्रमजातजातसाम्नि
मुरजिदुपविशन् स्मितार्पिताशीर् असितमणिप्रणिधानहारिभासी ।
कनकगणमनःप्रकाममानप्रवसशनकृद्वसनश्रियां निवासी
निजवररमणीसुवर्णवर्णव्रततिततिस्मितपारिजातजातिम् ।
अनुभवपदवीं नयन्न् अयं प्रमदमदस्थगनाय नाप सातिम्
[चतुर्भिः]
क्व च यदि गणनातिगाः सहायाः स्थलम् अपुरुप्रथम् एककश् च कृष्णः ।
तदपि भवति सावकाशरीतित्रयम् अपि चित्त विचित्रम् अत्र पश्य
यदपि सुबहवस् तदीयकान्ता निजनिजगर्वधराधराद् अबन्ध्याः ।
तदपि कलय चित्त सा तु राधा निखिलपुरःसरतां गता विभाति
हरिम् अनु रसनीयम् एतया यत् परिपरिवेषितम् अत्र तत् तु भाव्यम् ।
रसततिर् इह पर्यवेषि यान्या कथम् अथ सा परिचेयतां प्रयातु
नयनवलययान्वसूचि किञ्चिन् निटिलकचालनया तथान्यद् अत्र ।
मृदुतरवचसा तथा परं च प्रियतमपृष्टतमं तया रमण्या
हरिर् अथ विविधं विभज्य भोज्यं
पृथु-पृथुकान् अपि तान् मुदोपयोज्य ।
मुखम् अनु सरसं जगाम यं यं1
नहि मुखतः प्रथनाय तस्य शेके
अशनरसनया जगाम् तृप्तिं न तु दृशि रोचनया मुरारिर् अस्याः ।
तदपि मुररिपुर्2 गावां व्रजाय व्रजनम् अनुव्रजितुं ततो व्यरंसीत्
अथ मुख3करशोधनाय तस्मिन् सुरभिजलादिकम् अर्पितं सखीभिः ।
यदनु सुरभिता न चास्य मात्रं सुरभितम् आचरद् अप्य् अमुष्य चित्तम्
अशनपदम् इदं विसृज्य कृष्णः सुभगम् अनु4 पुरतः स्थलं समित्य ।
सुखमनुमुखवासनं प्रियाभिः सह रसयन् मुखवासनं जगाम
तदनु च परितः सखीसखीभिर् निजनिजशिल्पविलासहारमाल्यम् ।
उपहृतिपदताम् अनायि तच् च प्रतिरुचिभिश् चितम् उल्लालस तस्य
असितमणिसुवर्णवर्णम् आगाद् अभिमुखतां मिथुनं मिथस् तदग्रे ।
प्रतिफलिततया विलोक्य यत् तु व्यतिषज्यमानम् इव स्मितं सखीभिः
अथ विदधद् अमूषु नर्मवाचं स्वयम् अनुसन्दधद् अप्य् अमूम् अमूषाम् ।
अमृतसरिति सेककेलिम् आभिः समम् अमत स्फुटम् अच्युतश् चिराय
अथ हरिर् अवदद् गवावनाय त्वरिगहनान्तर् अहं रहः प्रयामि ।
पुरु मम जननी निदेशतुष्टिप्रथनकृते त्वम् अपि व्रजं प्रयाहि
अथ वरसुदृशां श्रुतिस् तद् एतत् प्रवणतया निरधारयद् यथार्थम् ।
निजगृहगमहाक्षमा तु दृष्टिः श्रुतिपथरोधनकृद् विघूर्णति स्म
नयनयुगलम् अश्नुते सदाम्भः क्व नु निवसेद् बत दुर्लभः स एषः ।
इति हरिवनिता हरिं निरीक्ष्य ध्रुवम् अजहुर् नयनाम्भसां कुलानि5
मुरजिद् उचितचारुचातुरीभिर् मुहुर् अपि नेत्रविनोदनक्रियाभिः ।
स्वसदनवदनं विधातुम् आसां निकरम् अशक्यत न स्वमग्नम् अन्तः
यदपि मुररिपुः प्रियावद् एव प्रवसनकातरताम् अवाप तत्र ।
तदपि तम् अनु पौरुषं बभूव स्फुटम् अबलावलयावलम्बनाय
दिविजफलजयीनि तर्हि वृन्दावनजफलानि बलीन् प्रियावलीशाम् ।
सुखयितुम् अयम् आलिसादकर्षीत् परिमलसात्कृतवन्ति तानि ताश् च
अथ कियद् अपि दूरवर्त्म याता वनवलयं जलतीरगं निरीक्ष्य ।
श्रमविरतिकृते मुरारिरामा निविविशिरे वृषभानुजाप्रधानाः
अथ वृषरविदेहजा सखीभिर् व्यतिहसितप्रथया मुदाञ्चिताभिः ।
मुरविजिदशनाविशेषम् आदत् तदशनशर्मकलाम् अभावयच् च
समगुणपरिचारिकाभिर् एताः सुरभिजलव्यजनादिधारिणीभिः ।
सरभसम् उपसेविताः समन्ताज् जितकमलादिगुणाद् विरेजुः
अथ सखि-गण-वेषम् आश्रयन्त्यः पटु-गति-वर्ष-वरा मुरारि-पार्श्वम् ।
प्रति सपदि गतास् तदा च गोष्ठं हरि-दयिता निज-सद्म-पद्मम् आप
1. (ब्) यत् तन्; 2. (ब्) मधुरिपुर्; 3. (अ) मर्गिन्: सुखओ; 4. (अ) अतः; 5. (ब्) कुलालि;
व्रजपदम् अनुगम्य गोपराज्ञीम्1 अपि तदनुज्ञपिता स्वधाम गत्वा ।
स्वदयितम् उपसेवितुं रजन्यां बहुविधशिल्पविकल्पम् आचचार
इह मृदु मृदु कृष्णगानकर्त्री वृषरविजा ललितादिभिः सखीभिः ।
मुहुर् अपि समसान्त्विकृष्णवृत्तान् मुदम् अनु वर्षवरेण तेन तेन
शृणु सखि मुरजिद् यदा तु युष्मद् व्यवहितिम् आप तदा जगाम धेनुः ।
मधुमधुरकलान् न धेनुमात्रं परम् अपरं च चकर्ष जीवमात्रम्
मुरजिद् अथ समस्तजीवजातिव्यतिकरवीक्षणतः क्षमाम् अविन्दन् ।
अकुरुत मुरलीकलीविशेषं यद् अजनि सर्वकम् एव तत्र भिन्नम्
वयम् अखिलसखिप्रसक्तनाना हरिचरिताकलनाय यर्हि याताः ।
अपरहरिरमाभिर् अन्यद् आराद्2 बहुविधभोज्यम् अदायि तर्हि गुप्तम्
दनुजरिपुर् अशेषम् एव सर्वान् प्रति विबभाज च भाजनावलीषु ।
अतिगणिततया नयाद् विविक्तं समुपहृतं तद् इदं कया कयेति
हरिर् अथ जलपायनाय धेनूर् ह्वयति यदा स्म तदा स्रवत्पदाङ्काः3 ।
अपि निखिलम् अमूस् तृषा विहीनं विदधुर् अमूषु तथा कथास्तु4 दूरे
तदपि च सलिलानि पाययित्वा निजकरसङ्करतासुधायितानि ।
बहूनि कटमुखीश् चकार धेनूर् निजमुखताम् अपि बिभ्रतीः प्रयत्य5
न भवति विनिवर्तनाद्युपायः प्रतिगतियष्टिविचालनादिरूपः ।
अपि तु हरिगवीषु दृष्टिवेणू सपदि हरेः स्फुरतः स्म तत्र तत्र
अभिगृहम् अजितस्य या निवृत्य प्रतिगतिर् अत्र च कौतुकं विभाति ।
उपसुरसुरजातयः समन्तान् नटनकलाघटनप्रथाम् अटन्ति
अथ च यदि तदा समस्तहृद्भिर् भरतकलाम् अनुविन्दते मुकुन्दः ।
दिवि फलकरवे तदा दिवीशा दिशि दिशि चित्रनिभानि भालयति ॥"256॥
इति भणति तदा तदीयवर्गे कलकलभाग् अजनि प्रर्मोदिगोष्ठम् ।
इह सति वृषभानुजादिवर्गस् त्वरिगति चन्द्रनिवेशम् आरुरोह
उपरिगृहगतः स तत्र तत्र
द्रवद् इव गोपकुलद्रवाद् ददर्श ।
दृशम् अथ भृशम् अग्रतः प्रयच्छन्
नभसि गतां रजसां नदीम् अपश्यत्
स्फुरद् अथ खुररम्भणादिशब्दप्रसरणम् आवृतसर्वम् एष6 शृण्वन् ।
अवदद् अपि परस्परं तद् इत्थं स्वहृदयरङ्गतरङ्गनृत्यतुल्यम्
कलय सखि पुरः सुरभ्यनीकं तदनु च युक्तनियुक्तलोकसङ्घः ।
तम् अनु सखिसुहृत्कुमारवृन्दं विलसति तत्र च शुभ्रकृष्णयुग्मम्
क्वचिद् अपि पशुनाम भाषमाणः क्वचिद् अपि रक्षकनाम वेणुपाणिः ।
क्वचिद् अपि सखिनाम मिष्टवंशीस्वरकलयाखिलमोहम् आतनोति
1. (अ) ओराजीम्;; 2. (ब्) अन्यदावद्; 3. (अ) पद्योस्काः (?); 4. (ब्) तथास्तु; 5. (ब्) प्रयत्तः; 6. (ब्) एव;
उपरिरचितपुष्पवृष्टिसृष्टिः स्तवकृतसंस्तव एव दिव्यलोकः ।
सुखयति सखि गोकुलस्य लोकान् प्रियम् अनु सप्रियतां हि सुष्ठु धत्ते
हरिम् अथ धवलानिवासम् आप्तं स्वम् अनु च सन्नतम् अग्रजेन सार्धम् ।
व्रजपतिर् उपलभ्य तच्छ्रमापं मुहुर् अपमृज्य चिरं ददर्श सास्रम्
स्वयम् अथ जनकः समस्तयुक्तः पशुकुलम् आकुलम् आलयाय नीत्वा ।
सकलम् अघहरं श्रमापनुत्तिं प्रतिनिदिदेश यतः स एष एति
इति वदति सखीजने समन्ताद् वृषरविजां वदति स्म काचिद् एत्य ।
"व्रजनृपदयिता समं वधूभिश् चलति सुतं प्रति मङ्गलानुसङ्गि
इदम् अवकलयन् सखीसमूहस् त्वरिनिखिलाधिकराधिकं प्रतस्थे ।
व्रजनृपवनितानुषङ्गः कामः करम् अनु चासजति स्म मङ्गलानि
अघरिपुजननी तु सर्वयुक्ता स्वपथम् अभीक्ष्णम् असाव् अभीक्षमाणा ।
वृषरवितनुजादिभिः स्नुषाभिः समनुगता स्वसुखा चकार1
अथ जयजयशब्दभव्यगीतस्तवघृतदीपकपूर्णकुम्भलाजान् ।
वचसि शिरसि हस्तयोः श्रयन्ती हरिजननीप्रभृतिस् ततिः प्रतस्थे
समगमद् अवरोधनिष्क्रमद्वारवधिम् इयं स तदा तु कृष्णचन्द्रः ।
सहबलम् अभियन् पुरः प्रदेशं श्रमजरुचाप्य् अभितः सुखं ववर्ष
अथ सकुसुमलाजवृष्टिनीराजनसुखम् अन्व् अनु मातुर् अङ्घ्रिलग्नः ।
अपरगुरुजनेषु2 चान्वतिष्ठत् तद् अथ यथा युगपद् बलश् च तद्वत्
तदनु च जननी हृदासदाशीस्ततिम् अददाद् वचसा तु नेति सर्वा ।
सनयनजलगद्गदं गदन्ती कलकलवल्गुगिराशिषः शशंस
अथ बलजननीयुता यशोदा सुतयुगलं दधती करेण दोष्णि ।
स्वसदनम् उपनीय खेदरिक्तं करणलघुव्यजनं विधूनुते स्म
क्षणकतिपयमातृलालनायां जडवद् उपेयतुर् अस्मृतिं सहोत्थौ ।
तदनु च तनुसेवकाः समूचुः स्नपनजलप्रमुखं समस्तम् अस्ति
हरिर् अथ हरिचन्दनेन रक्तं मृगजमदेन बलस् तु वस्त्रयुग्मम् ।
दधद् अनुदधद् अङ्गरागम् एवं भूषणम् आप मातृपार्श्वम्
सकलम् अवयवं निजं सवेशं सुरभितम् अप्य् अतुलं करोति कृष्णः ।
निटिलम् अतितमां3 यद् अस्य पश्यत्य् अपि पुरुजिघृतितातमातृयुग्मम्
सुतयुगम् अथ मातृयुग्मम् आप्तं तदुचितचित्रकचित्रम् आशु कृत्वा ।
अमृतरुचिधरेण पानकेन क्रमुकपुटेन च नन्दयाञ्चकार
स्फुरद् इह जननीयुगं प्रसूत्योर् युगम् अपि चित्रतया विभाति नित्यम् ।
युगयुगम् अनुतर्क्यते न शीलात् क्व नु जननी जननीयताविभागः
शिरसि दधद् अपूर्वपट्टपाशं करम् अनु रत्नजचित्रमित्रयष्टिम् ।
बलसहिततयाचलज् जनन्योश् चरणनतिं विदधत् पयांसि दोग्धुम्
1. (ब्) सुखीचकार; 2. (अ) ओजनीसुचान्वतिष्ठत्; 3. (ब्) अतितमं
अथ कनकज-दोहनादि-पात्राण्य् अनुग-जनाः समम् एव ते गृहीत्वा ।
व्यतिजय-मनसा द्रवं दधाना द्रव-गमनाः समयुस् तदीय-पद्याम्
पुनर् अथ वृषभानुजादि-वर्गः सदन-शिरो-गृह-जाल-रन्ध्र-लग्नः ।
उपदिशति परस्परं स्म वीक्ष्य प्रिय-चरितं गवि-दोहनाय जातम्
कलय सखि हरिः पितृ-निदेशं स्वयम् अनु याचनया प्रपद्यमानः ।
पशुप-जननि-योजनानुपूर्व्या सह-बलम् आचरति स्म गोषु दोहम्
यदपि च हरिहूतिमाधुरीभिः स नदति सर्वक एव धेनुसङ्घैः ।
तदपि च बत कापि तस्य शिक्षावशागतया तम् इयर्ति तेन हूता
अथ परिहितम् उत्तरीयबद्धं द्रढयति गाढतया गवाम् अधीन्द्रः ।
तद् अनु च मृदुपाशनद्धवत्सं नवधवलाचरणेन संयुनक्ति
क्षितिम् अनु चरणाग्रदत्तभारः
प्रणमितजानुयुगान्तरस्थपात्रः ।
मुहुर् अपि कलयन् सगोस्तनाग्रं
स्मितम् अपि दुग्धम् अपि स्म दोग्धि कृष्णः
कलय हरिर् अमूम् अदुग्ध धेनुं कथम् अपरा दुहते स्वयं विलोक्य ।
अहह तदवलोक्य पश्य दूराद् अनुकुरुते जरदङ्गनागणश् च
द्रुतम् अथ पयसां निपान् प्रहृत्य प्रययुर् अमी व्रजरान्मुखा गृहाय ।
हरिर् अथ सकलः सुहृद्वृतिश्रीः कविकवितः स ससार राजसद्म
बलम् अनु सखिभिः सहासजल्पः करकरताडनया मिथः प्रमोदी ।
समदगजगतिर् विचित्रवेत्रः परिसरम् एति सरन् सरोजनेत्रः
सरणिम् अनुसरन्न् अमुं प्रदेशं पुनर् अमुम् अप्य् अमुम् अप्य् अमुं विवेश
मुरजिद् अधिरुरोह कर्णिकाग्रं निजनिजसेवनसिद्धये प्रयामः
इति विविधतयानुवर्ण्यमानः सविधसमेततयावकर्ण्यमानः ।
उपजननैस एत्य तन्निदेशात् क्लमम् अपनेतुम् इयाय वाससद्म
द्रुतम् अथ वृषभानुजादिवर्गः प्रियम् उपसेवितुम् आवृतीयमानः ।
अकुरुत जलतालवृन्तचर्चाद्युपकरणं कलयंस् तदीयशर्म
रुचिरमृदुलतूलिकाञ्चिखट्टाम् उपरि निवेशम् अमुं निषेव्यमाणाः ।
यद् इह सुखम् अमुष्य तन् निजात्मप्रतिफलितं निजम् एव ता विदुः स्म
यदपि तम् अनुसेवते समस्ता ततिर् इयम् उत्तमकल्पम् अल्पकं न ।
तदपि च वृषभानुजा यदा यत् कलयति तन् नवतां सदा प्रयाति
नवम् इव मिथुनं मिथः स्थितं यन्
नवम् इव रागजनुश् च यस्य नित्यम् ।
कथम् इव नवतां न तस्य विन्देद्
व्यतिभजनं हरिराधिकाभिधस्य
इति रजनिमुखे गते सुखेन प्रहितचरः शिशुर् आगतः स्म वक्ति ।
व्रजपतिर् अधुना स्वभोगधाम प्रविशति तेन समं बलादयश् च
अथ मुरविजयी चचाल तस्मात् पितृसविधं पिदधन् निजस्मितादि ।
सुदृग् इयम् अपि तर्हि गोपराज्ञीनिकटम् अतिप्रकटं विहाय वर्त्म
मुरजिति सविधं गते व्रजेज्या नृपसहिता मुदिता बलादयश् च ।
सजलजलमुचीव चातकाद्याः कलकलवल्गु ययुस् तदाभिमुख्यम्
यदपि रविसमः शशी विभाति व्रजभुवि तर्ह्य् अपि कान्तिभेदरीत्या ।
रजनिदिनविभागम् ईक्षमाणा व्यवहृतिभेदम् अमी सदा भजन्ति
अथ निविविशिरे व्रजेश्वराद्या दनुजरिपुप्रमुखाश् च भिन्नपङ्क्ति ।
इति1 हि हसरसः समस्तभोज्यं स्वदनविधिं नयते तद् अन्यथा न
दिनमुखम् अनु तत्र पाकवृन्दे दिनजठरप्रसरं दिनाङ्घ्रिपूर्तिम् ।
ऋतुवलयनिदेशदेशभेदं विविधविधानगतीः स्वयं तु विद्धि
प्रथमम् इह फुलं वनाद् उपात्तं बकरिपुना स्वदनाय सुष्ठु जातम् ।
पुनर् इह हविर्2आदिगोरसान्तं शतविधतेमनजेमनं बभूव
अथ सुरभिजलेन सुष्ठु ताम्बूलजपुटकेन च शोधितास्यपद्माः ।
व्रजनृपतितदीयनन्दनाद्या बहिर् उपवेशसभाम् अभासयन्त
अथ पुनर् अधिरुह्य चन्द्रशाला3-
मुखम् अमृतांशु4मुखीगणाः स्वकान्तम् ।
अभिमुखसदसि स्फूरन्निवेशं
ददृशुर् अमुं निभृतं मिथो ऽप्य् अनूचुः
इह विविषकलाकलापविज्ञाः समुदिततां समवापुर् उत्कचित्ताः ।
अमुम् उदिताम् इताः कलानिधानं स्वकुलकलां विनिवेद्य भर्तुम् ऐच्छन्
यदपि हरिर् असौ कलानिविज्ञस् तदपि तदल्पकलासु तोषम् एति ।
यदपि कृतमुखाः कलासु सभ्यास् तदपि हरेर् मुखवीक्षया रमन्ते
न भजति सकलं सदा सभायाः समवसरं बत काव्यनाटकादि ।
इति निशि निशि भिन्नतानुमत्या व्रजपतिर् इष्टतमं तदातनिष्ट
क्वच निशि नृपतिः स वष्टि काव्यं क्वचिद् अपि नाट्यकलां क्वचापि चित्रम् ।
पृथग् अपि न पृथग् विभाति सर्वं हरिरचितानि परं पुरः करोति
इति पुरुकुतुके गते तु यामे हरिबलसंवलिताः समस्तलोकाः ।
व्रजनरपतिम् उत्थितं विलोक्य प्रति तदवस्थिति तस्थुर् आदरेण
मुरजिति गदितुं किम् अप्य् अनीशे पितरि च बाष्पनिरुद्धकण्ठदेशे ।
स्थविरगुरुजना द्वयं निवेद्य प्रतिविधये समनस्कम् आचरन् स्म
अवनतपितृकः परान् यथार्हं नतिविनयादिभृतान् विधाय कृष्णः ।
सहबलम् अनुगत्य मातृयुग्मं तदुचितलालिततां चिरं जगाम
अनुमतिम् अथ मातृयुग्मदत्ताम् अवकलयन् प्रणमन् सनम्रदृष्टिः ।
हलधरम् अनुगम्य तं प्रणम्य श्रितनववर्षवरः स्ववासम् आप
1. (ब्) इह; 2. (अ) हरिर् आदिओ; 3. (ब्) चन्द्रशालीओ ; 4. (अ) अमृताशुओ
इति मुरहरवर्णनां स कुर्वन् मुरहरम् अप्य् अवलोक्य सद्मसीम्नि ।
द्रुततरम् अवरुह्य राधिकादिर् निजतदपह्णवम् आचचार वर्गः
इह मतम् अपरेण सर्वकान्तास्व् अनुनिशम् अञ्चति सो ऽयम् इत्थम् अस्तु ।
हृदय कलय किन्तु चारु राधाहरिचरितं परितः स्मर त्वम् अत्र
वृषरवितनयादिभिस् तदा द्राक् समगमि हारि हरिः सुवेश एषः ।
नवघन इव विद्युतावलीभिर् यद् अमृतवृष्टिमयी बभूव दृष्टिः
व्रततिमणिविवेकखण्डिशोभा
परिमलभाग् इह सद्म किन्तु कुञ्जम् ।
इह किम् उ कुसुमं किम् अंशुकं वा
शयनं इदं मिथुनम् यद् अध्यशेते
मूल पाठ: Saṃkalpakalpadruma · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0