भाषा

ENहिગુ
ग्रंथ पाठ

संकल्पकल्पद्रुम · अध्याय 1

1.1

सङ्कल्प-कल्प-द्रुम
श्रीराधादामोदराभ्यां नमः1
श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक ।
गोपाल रघुनाथाप्त व्रज-वल्लभ पाहि माम्

1.10

2
नन्द-नन्दन इत्य् उक्तस् त्रैलोक्यानन्द-वर्धनः ।
अनादि-जन्म-सिद्धानां गोपीनां पतिर् एव यः3 ॥2
नवीन-नीरद-श्यामं तं राजीव-विलोचनम् ।
वल्लवी-नन्दनं वन्दे कृष्णं गोपाल-रूपिनम् ॥3
[युग्मम्]4
वृन्दारण्ये जरन् जीवः कश्चित् प्राह मनः प्रति ।
म्रियसे साम्प्रतं5 मूढः गूढाम् एतां सुधां पिब ॥4
तां पिबन्न् एव हे स्वान्त स्वं च गोकुल-सङ्गतम् ।
सेवां च वाञ्छितां काञ्चिद् भाव-भेदेन भावय ॥5
मङ्गलः सर्व-लोकानां गोप-क्षौणीभृद्-अङ्गजः ।
भव्यं पल्लवयन् पायाद् वल्लवी-जन-वल्लभः ॥6
अहो बकीत्य्6 आदिकीर्तिः कृष्णस् तु भगवान् स्वयम् ।7
अस्ति यस् तस्य पित्रादितया चित्राय क् प्तवान् ॥7
स्तुतस् तद् भूरिभाग्येति8 तथा चेत्थं सताम् इति9 ।
नेमं विरिञ्च इत्य्10एवं नायं श्रिय इति11 व्रजः ॥8
यस् तं को वाश्रयेन् नात्र क्षिताव् इन्द्रियवान् नरः ।
तस्माद् भ्रातर् निज-त्रातः स्वान्त स्वान्तस् तम् आश्रय ॥9
[त्रिभिः कुलकम्]
उपदेशं देश-रूपं मम मानय मानस ।
सुधा-धारा-धरः सोऽयं कल्पः स्यात् कल्प-भूरुहः

1.11

मूलं जन्मादि-लीलास्य स्कन्धः स्यान् नित्य-लीलता ।
शाखास् तत्-तद्-ऋतु-श्लोकाः फलं प्रेममयी स्थितिः

1.12

अथ महा-कुलकेन जन्मादि-लीला ॥
यस् तन्त्रमन्त्रयोर् गुप्तम् उक्तः श्रीनन्दनन्दनः ।
तद्रूपतां निजां व्याञ्जीत् कुतश्चित् कुतुकाद् भुवि

1.13

यः प्राग् इति12 हि पद्याभ्यां नन्दात्मजतया स्वतः ।
वासुदेवतया कार्यवशाद् गर्गेण निश्चितः

1.14

1. (ब्) श्री-श्री-राधा-कृष्णाभ्यां नमः; 2. ग्च्प् 1व्1; 3. गौत्त्. 2.24; थेरे: अनेक-जन्म-शुद्धानाम्, ग्च्प् 15.72 अनेक-जन्म-सिद्धानां; 4. (ब्) नोत् fओउन्द्; 5. (ब्) म्रियते ऽसाम्प्रतम्; 6, भ्प् इइइ.2.23; 7. भ्प् इ.3.28॥; 8. भ्प् x.14.34॥; 9. भ्प् x.12.11; 10. भ्प् x.9.20; 11. भ्प् x.47.60; 12. भ्प् x.8.14
यः श्री-नन्द-यशोदान्तर्-हृदि स्फूर्तिं गतस् ततः ।
उद्यंश् चक्रे दुग्ध-सिन्धोर् इन्दोर् जन्म-विडम्बनम्

1.15

यः सर्व-र्द्धि-व्रजं नन्द-व्रजं स्वं जन्म-मात्रतः ।
रमाणां जायमानानाम् आरामं1 धाम निर्ममे

1.16

यः स्व-माधुर्य-पीयूषं सम्पूर्य2 परिवेशयन् ।
जिगाय मोहिनी-रूपं क्षीर-नीरधि-तीरगम्

1.17

यः कृपां जन्मना व्यञ्जन् पूतनाम् अपि पूतताम् ।
नीतां धात्री-गतिं स्फीतां चाकार्षीन् नूतनार्भकः

1.18

3
यः कोमल-पदाग्रेण शकटं तद् विशङ्कटम् ।
स्व-ज्योत्स्नावरणं मत्वा चिक्षेपाक्षेपवान् इव

1.19

यः पूजित-पद-क्षेप-कूजित-स्मित-रोचिषाम् ।
शोभया लोभयामास बालिकाः कुल-पालिकाः

1.20

यः स्व-नामाद्यम् आसाद्य गर्गाद् वर्गान् निजान् अनु ।
हर्षं ववर्ष न्यग् जल्पन्न् ओम् इत्थं सोमजिन्-मुखः

1.21

यस् तृणावर्तम् आसाद्य सद्यः संवर्त-वर्तनम् ।
संवर्तयंस् तम् आनिन्ये विपरीत-परीतताम्

1.22

यः श्री-रामं निजारामं सङ्गच्छन्न् अच्छ-खेलया ।
बालान् आनन्दयन् नन्द-राज-केशरि-नन्दनः

1.23

यः पुण्ड्रं रोचनारुच्यं कञ्चुकं काञ्चन-प्रभम् ।
दधन् मातुस् तत् तदासीद् उत्सङ्गसी यद् आजनि

1.24

यः कुर्वन् कर्दम-क्रीडां निर्व्याजम् अनया धृतः ।
द्वयोः सुखेन दुःखेन स्निग्धान् दिग्धान् विनिर्ममे

1.25

यः समं सहजातेन रङ्गन्न् अङ्गण-कर्दमे ।
किञ्चित् कातर-धीः पश्यन् मातरं द्रुतम् ईयिवान्4

1.26

यस् तयालिङ्गितः सा स्मितं स्तन्यम् अनन्य-धीः ।
अपायि सुष्ठु चाप्यायि स्मितं बिभ्रद् उदैक्षि च

1.27

यस् तदा मातुर् आनिन्ये सर्वं विस्मृति-विस्मृतम् ।
वदन्न् इव स5संमुग्ध-बाल-सिंहावलोकनः

1.28

यस् तदा मृत्तिकां भक्षन्न् अलक्ष्यम् अनया धृतः ।
दयया किं भयाद् अस्यास् त्रातः स्राग् योग-मायया

1.29

यः श्री-रामान्वयी कामान् ननाट सह-पाटवम्6 ।
वृद्धानां सुखम् ऋद्धानां कुर्वाणस् ताल-पालनम्

1.30

यः क्रीणन् कर-विभ्रष्ट-मूल्यत्वे ऽप्य् अमितं फलम् ।
फलान्य् अनन्यलभ्योअनि ददे विक्रीणतीं प्रति

1.31

1. (अ) ओं मारामं; 2. (ब्) सर्वत्र; 3. थिस् वेर्से मिस्सिन्ग् fरोम् (ब्); 4. (ब्) इयिवान्; 5. (ब्) सुओ; 6. (ब्) सहपाटवः
यस् तर्णकान् पुरा मुञ्चन्न् अञ्चन् बाल-बलान्वितः ।
दोहानुकरणं कुर्वन् सुख-दोहाय क् प्तवान्

1.32

यः कर्षन्न् अपि वत्सस्य पुच्छं सङ्कर्षणान्वितः ।
तेन कर्षं व्रजन् भ्रातृ-भायाभिः पर्यहस्यत

1.33

यः कुर्वन्न् अपि गव्यानां चौर्यं भव्याय दिद्युते ।
यस्य ताभिर् विवादश् च सुख-संवाद-सिद्धये

1.34

यः स्वं दामोदरं श्र्ण्वन् सामोद-व्रीडम् अञ्चति ।
प्रसू-शिक्षामय-स्नेहाद् बाल्य1स्वेहान्तराद् अपि

1.35

यः सुष्ठु खेलयाविष्टः स्व-मात्रा प्रणयान् मुहुः ।
कृष्ण कृष्णारविन्दाक्षेत्य्2 आहूतो ऽप्य् आशु नाययौ

1.36

यः श्री-वृन्दावनं प्राञ्चन् भ्रात्रा सह वनास्पदम् ।
हासयन् भासयामास3 मातरौ यातरौ मिथः

1.37

यः श्री-वृन्दावने लब्धे प्रारब्ध-क्रीडम् अन्वभूत् ।
राम-दामादिभिः सख्यं तत्-प्रख्यं भ्रमरादिभिः

1.38

यः श्री-रामेण तत्रापि वीक्ष्य प्रीतिम् अगात् पराम् ।
वृन्दावनं गोवर्धनं यमुना-पुलिनानि च4

1.39

यः प्राप्त-मध्य-कौमारः पित्रा सार्धं वनं व्रजन् ।
पृच्छन् नामानि धामानि पश्यन् मुदम् अवाप्तवान्

1.40

यः क्रीडन् शिशुर् अव्रीडम् अग्रजेन व्रजेन्द्रजः ।
जल्पाजल्पि मिथश् चक्रे हस्ताहस्ति पदापदि

1.41

यश् चारयन् निजान् वत्सान् वत्सकं नाम दानवम् ।
बकं बकवद्-आकारं दारयन् मुक्तम् आर्दयत्

1.42

यः स्वैर् विहरणं चक्रे मेषी-हरण-संज्ञितम् ।
व्योमं च व्योमतां निन्ये कुर्वन्तं प्रतिलोमताम्

1.43

यः कुर्वंस् तम् अघं खण्डं विधेर् अघम् अतः परम् ।
निन्ये स्व-ज्योतिषि प्राञ्चं तद् अर्वाग् भक्ति-तेजसि

1.44

यः कौमारम् अतिक्रम्य रम्य-पौगण्ड-मण्डनः ।
चक्रे गोपालतां गच्छन् लोक-पालक-पालताम्

1.45

यः काल-कूट-निष्पिष्ट-चेतनान् व्रज-केतनान् ।
चेतयामास कृपया लोचनामृत-वृष्टिभिः

1.46

यः कालियम् अपि व्यक्तं निजाङ्घ्रि-युग-मुद्रया ।
व्यञ्जन् ममेति शरणागतान् अन्यान् अरञ्जयत्

1.47

यः शुकेन व्रज-प्रेमास्पदत्वेनेत्थम् ईरितः ।
कृष्णे ऽर्पितात्म-सुहृद् इत्य् आदि प्रोच्य प्रशोच्य च

1.48

1. (ब्) बाल्यं; 2. भ्प् x.11.15; 3. (ब्) भाषयामास; 4. भ्प् x.11.36
आबाल-वृद्ध-वनिताः सर्वे ऽङ्ग1 पशु-वृत्तयः ।
निर्जग्मुर् गोकुलाद् दीनाः कृष्ण-दर्शन-लालसाः

1.49

2[महाकुलकान्तर् युग्मकम्]2
यस् तस्मिन् सम्भ्रमे रोधान् निष्क्रमे3 व्रज-कन्यकाः ।
मेने ताः प्रथमं पश्यन् स्वं कृतार्थं कृताव् इह

1.50

यस् तदा दहनं गोष्ठ-प्रेम्नाकृष्ट-विवेचनः ।
प्रेम्नस् तस्य परीक्षार्थम् इव द्राग् अपिबत् प्रभुः

1.51

यः स्पर्शाद् अनृतीकुर्वन् विषं विषधरं च तम् ।
स्वाश्रितान् अमृतीकर्तुं कृती कैमुत्यम् ऐक्षयत्

1.52

तस् तु भाण्डीरम् आसाद्य मल्ल-ताण्डवम् आचरन् ।
सुभद्र-4मण्डली-भद्र-भद्रवर्धन-गोभटाः

1.53

यक्षेन्द्र-भट इत्य्5 एवं क् प्त-सङ्गैः कुमारकः ।
सवयोभिः सुखं लेभे यत्र काश्चित् कुमारिकाः

1.54

गोपाली पालिका धन्या विशाखा ध्यान-निष्ठिका6 ।
राधानुराधा सोमाभा तारका दशमी तथा7

1.55

कौतुकाय गता यासु मल्ली मल्लीति नर्म-कृत् ।
मध्वाज्य-निभम् आस्वाद्य याभिः क् प्तं स्म माद्यति

1.56

[पूर्ववन् महाकुलकान्तश् चतुर्भिर् अन्वयः]
यः काम्ये काम्यके गत्वा सरः सागर-सन्निभं ।
लङ्काकल्पाकृताकल्पं नित्यं दीव्यति सङ्गिभिः

1.57

यः कैशोरं ततः सज्जन् वसन्तम् इव षट्पदः ।
लोलयन्न् आत्मनश् चित्तं लोलयामास पद्मिनीः

1.58

यस् ता व्रज-रमा नित्य-प्रेयसीः कुतुकात्मना ।
लीला-शक्त्यान्यथा-भानं नीता गुप्तम् अरञ्जयत्

1.59

यः श्री-रामेण धेनूनां रक्षायां धेनुकासुरम् ।
निघ्नन् विघ्नम् अपाकार्षीद् अकार्षीद् अभयं दिवि

1.60

यश् चक्रे धेनुम् आदाय सायं व्रजम् उपागतः ।
पूर्व-रागं किशोरीणाम् अपूर्वं व्यतिवीक्षया

1.61

यः पूर्वं लज्जया दूत-काम-लेखाद्य्-उपायताम् ।
विजहन् निज-नेत्रान्तं निन्ये नूतन-दूतताम्

1.62

यस् तासु स्फुटम् आसज्य विरज्य लघु सर्वतः ।
तद्-अङ्ग-सङ्ग-भिक्षार्थं वेणु-शिक्षाम् असाधयत्

1.63

यश् चेतनाचेतनालिं कर्षन्न् अप्य् आशु वेणुना ।
ताः क्रष्टुं सुष्ठु नाशक्नोद् यतस् ता लज्जया सिताः

1.64

1. (ब्) सर्वाङ्गो; 2. मिस्सिन्ग् fरोम् (ब्); 3. (ब्) निष्क्रान्ता; 4. (ब्) शुभद्र; 5. ब्र्स् इइइ.3.23; 6. (ब्) ओध्याननिष्ठिकाः; 7. भविष्यप् इव् (च्f. क्स् प्112); 8यः श्री-भाण्डीर-नामानं बटं शश्वद् अटन्न् अधात् ।
नाना-क्रीडां स-नीडानाम् अदभ्रं बिभ्रद् उत्सवम्

1.65

यः श्रीदाम्ना सुदाम्ना च भद्रसेनार्जुनादिभिः ।
खेला-दम्भ-बलाच् चक्रे तत्-प्रलम्ब-प्रलम्भनम्

1.67

यः प्रलम्बं लम्बमानं जीवनाद् बल-तेजसा ।
विधाय विदधे तीव्रान्1 नवशक्तिं दवीयसीम्

1.69

यः कानने सुदीर्घाहे निदाघे कृत-केलिकः ।
अपराह्णे प्रेयसीनाम् आनन्दं विदधे यथा ।68॥
गोपीनां परमानन्दम् आसीद् गोविन्द-दर्शने ।
क्षणं युग-शतम् इव यासां येन विनाभवत्2

1.70

[पूर्ववद् युग्मकम्]
यः सदा दृष्टि-कृद् वृष्टि-वर्षा-रूप-निशा-क्षये ।
शरदं प्रातर् आसाद्य प्रियाणाम् अहृतान्धताम्

1.71

यः श्रीगोवर्धनप्रेमस्वप्रेमधनजीविषु ।
स्व-गोत्रेष्व् अपि सञ्चार्यान्यान् अप्य् आर्यान् अशिक्षयत्

1.72

यः श्री-गोवर्धनं बिभ्रच् छक्र-विभ्रष्ट-गर्वताम् ।
निन्ये गोष्ठं यद् उन्निन्ये श्रेष्ठं स्व-प्रेष्ठजातिषु

1.73

श्री-गोविन्दतां विन्दन्न् अविन्दद् विश्व-नन्दिताम् ।
यन् मिथः शक्र-जन्तूनां नैत्र्याव्यधित शम्भुताम्

1.74

यः पाशि-लोकाद् आनीय पितरं मातृ-जीवनम् ।
अजीवयद् व्रजं सर्वं तं विना गत-जीवनम्

1.75

यः स्वानां व्रज-लोकानां हृदोकास् तान् विशोकयन् ।
तेषां स्वस्य च गोलोकं नित्य-लोकम् अलोकयत्

1.76

यश् चित्त-वाससी नीत्वा कुमारीणां परं ददे ।
न पूर्वं येन ता बद्धाः सम्बद्धा नित्यम् आत्मनि

1.77

यः स्व-वंशिकया मोह-बाधितां राधिकाम् अनु ।
पूर्णाः पुलिन्द्य इत्य्3आदि वृत्तं वृत्तं विनिर्ममे

1.78

यः सखीन् अखिलाग्रीयान् ग्रीष्मान्तः प्रेम-सम्पदा ।
संमदाद् आजुहावामून् क्रमाद् एवं मुदां प्रदः

1.79

हे स्तोककृष्ण हे अंशो श्रीदामन् सुबलार्जुन ।
विशाल वृषभौजस्विन् देवप्रस्थ वरूथप4

1.80

एवम् आहूय भूयस् तान् नर्म-सूनृत-गीर् वृतम् ।
आह वृन्दावन-स्थानां स्थावराणां वरां गतिम्

1.81

[पूर्ववत् त्रिभिः]
1. (ब्) तीव्रां; 2. भ्प् x.19.16; 3. भ्प् x.21.17; 4. भ्प् x.2.31.
यस् तासां यज्ञ-पत्नीनां महिम-स्नेह-वृद्धये ।
बुभुक्षां सखिभिर् व्यञ्जन्न् अन्न-भिक्षां1 विनिर्ममे

1.82

यस् तत्राशोक-वन्यायां धन्यायां सखिभिः सह ।
क्रीडन् निर्वर्णितस् ताभिः श्यामम् इत्यादि2 वर्णितः

1.83

यः सदा नर्म-शर्मार्थी मधुमङ्गल-नामिनम् ।
नर्म-मन्त्रिणम् आसज्य भोज्यन् मित्राण्य् अरञ्जयत्

1.84

यः स्व-जीवन-जीवानां चातकीनाम् इवाम्बुदः ।
स्व-जीवनेन तादात्म्यम् अकरोद् व्रज-सुभ्रुवाम्

1.85

यः परेषां ह्रेपणतां शक्ति-सङ्ख्याल्पतां विदन् ।
गुप्तागण्य-स्वकान्तासु वंशी-दूतीम् अमन्यत

1.86

यश् चिराद् एव मुरली-शिक्षायां वीक्ष्य पूर्णताम् ।
तया माद्य-प्रियास् तूर्णं पूर्णं मेने स्वम् अञ्जसा

1.87

यस् त्याग-व्याज-भृन्-नर्म व्याजहार प्रियाः प्रति ।
प्रतिनर्म-प्रिया-वृन्दाद् विन्दन् शर्मान्वविन्दत

1.88

यः सदा योग-मायाख्यां शक्तिम् आसक्तितः श्रितः ।
पौर्णमासीम् इति नामासीद् व्रजे यासीत् तपस्विनी

1.89

यस् तया दिव्यया शक्त्यानन्तधानन्त-सुभ्रुवाम् ।
बिभ्रद् विना स-नर्मादि-शर्मालभत सर्वदा

1.90

यः कृत्वा रास-खेलायां मुदं द्वन्द्वं पुनर् मुदम् ।
खेलेयम् इति तद् व्यञ्जन्न् अमुमुदद् अमूः प्रियाः

1.91

यस् त्यजन्न् अपि ताः सर्वाः पर्वातनुत कुत्रचित् ।
अप्य् एण-पत्नीत्य्-आद्यं3 यत् तत्र कर्णामृतं मतम्

1.92

यस् तासां जयतीत्य्4 आदि विलापाद् व्यग्रतां गतः ।
तासाम् आविरभूद्5 एवं सुधीभिर् अधिवर्णितः

1.93

यासां स्तन-काश्मीर-शस्त-वस्त्रासनं गतः ।
रराज तार-काराज-राजत्-पुलिन-धामनि

1.94

यः प्रहेलिकया तासां स्व-पराजयम् आमृशन् ।
न पारये ऽहम् इत्य्6 आदि रीत्या स्वं मतवान् ऋणी

1.95

यः श्यामः स्वर्ण-गौरीभिः परां शोभां ययौ यथा ।
तत्रातिशुशुभे राजन्न् भगवान् इति7 सत्-प्रथा

1.96

यस् तासां स्व-विहारेण श्रान्तानां मुख-पङ्कजम् ।
प्रामृजत् करुणः प्रेम्ना शन्तमेनाङ्ग-पाणिना

1.97

8
यः क्रीडन् वारि-वनयोर् विक्रीड9 इव ताः पुनः ।
अनुनीय विनिर्णीय स्व-सङ्गं निलयं गतः

1.98

1. (अ) व्यञ्जन्न् अन्न-भिक्षा; (ब्) व्यञ्जन् अन्न-भिक्षाम्; 2. भ्प् x.23.22; 3. भ्प् x.30.11; 4. भ्प् x.31.1; 5. भ्प् x.32.2; 6. भ्प् x.32.22; 7. भ्प् x.33.6; 8. भ्प् x.33.21; 9. (ब्) चिक्रीड यस् तीर्थ-व्याजम् अव्राजीद् व्रजेन वनम् आम्बिकम् ।
यत्राशेषेण वेशेन च्छलयामास चाबलाः

1.99

यः सर्व-जीवनं जीवं वितरन् पितरं प्रति ।
पदासर्पन् स्पृशन् सर्पं मुनेः शापाद् अपाकरोत्

1.100

यः सुदर्शनतां निन्ये महा-सर्पं कुदर्शनम् ।
कारुण्य-कारुः कञ्चारं1 न चकारापि दारुणम्

1.101

यः पूर्वं निर्ममे होरी-पर्वं यक्षस्य धूर्वणम्2 ।
अन्तर्यामिवत् तन्3 मन्ये तादृग्ग्रामीणपर्वसु

1.102

यः प्रातर्-आदि-जाः क्रीडाः कुर्वंस् तासु स्फुरन्न् अपि ।
श्लोकानां युग्म-सङ्घेन श्लोकितस् ताभिर् अन्वहम्

1.103

यः श्री-गोवर्धने रास-वर्धनेच्छा-विवर्धनेयः ।
संगम्य प्रेयसी-सङ्घं नर्म-सङ्गर-रङ्गवान्

1.104

गोष्ठ-प्रकोष्ठतः क्रुष्टं श्रुत्वारिष्ट-कृतं कटु ।
तत्र संगत्य संयत्य तं निहत्य मुदं गतः

1.105

पुनः शीघ्रं गिरिं गच्छन् सङ्गिनीभिः सभङ्गिभिः ।
रासम् उल्लासयामास भासयामास चाखिलम्

1.106

[पूर्ववत् त्रिभिः]
यः कुण्डं पुण्डरीकाक्षस् तन् निर्माय सुनर्म-कृत् ।
श्री-राधिकां धन्यम् अन्यत् कारयामास सार-भृत्

1.107

कंसेनेशिनं4 गोष्ठ-क्लेशिनं वाजि-वेशिनम् ।
केशिने5 केशिनं चक्रे यमस्य प्रतिवेशिनम्

1.108

यः पित्राद्य्-अनुरागेण चित्राभः सर्व-विस्मृतिः ।
कंसं ध्वंसकम् अप्य् आर्च्छान् न हन्तुं गन्तु-कामताम्

1.109

यः स्निग्ध-स्मितया दृष्ट्या वाचा पीयूष-कल्पया ।
चरित्रेणानवद्येन श्री-निकेतेन चात्मना

1.110

इमं लोकम् अमुञ्चाभिरमयन् सुतरां व्रजम् ।
रेमे क्षणदया दत्त-क्षण-स्त्री-क्षण-सौहृदः

1.111

[पूर्ववद् युग्मकम्]6
यस् तथा सह गोपीभिश् चिक्रीड व्रजराजजः ।
यथाब्द-कोटि-प्रतिमः क्षणस् तेन विनाभवत्7

1.112

यः कान्ता-मुख-चन्द्राणां भासा भासिनि8 दिग्-गणे ।
राग-सागर-निर्मग्नश् चलितुं नापि च क्षमः

1.113

किञ्चित् तद्-व्यक्ति-वातालि-लज्जा-वीचि-विचालितः ।
कंस-घातमिषापात-निजेच्छाभासम् आगतः

1.114

1. (अ) कञ्जारं, (ब्) कं चारिं; 2. (ब्) धर्षणम्; 3. (अ) अन्तर्यामीव तनो; 4. (ब्) कंसेनेशितम्; 5. (ब्) वेशिनं; 6. नोत् fओउन्द् इन् (ब्); 7. विप् व्.23.57; 8. (ब्) भासिनम्
तटस्थताम् अटन्न् उरीचक्रे मधुपरीगतिम् ।
आः किं वाच्या व्रजे याच्या प्राणिमात्रे तनोः स्थितिः

1.115

[पूर्ववत् त्रिभिः]
यः स्वांस् तत्तद्गुणः सर्वान् अलं हातुं न ते च यम् ।
आस्तां व्रजे प्रेमशूरा दूराद् एव तथा कथा

1.116

यः पृथ्व्या प्रथमस्कन्धे धर्माग्रेवर्णितान् गुणान् ।1
नित्यम् आप्तस् तथात्रापि वर्ण्यः सन्न् अवकर्ण्यताम्

1.117

सर्वानन्दप्रदानन्दकन्दस् तद्वद्गुणावलिः ।
सर्वपर्वदमाहात्म्याद् वरः सर्वत ईश्वरः

1.118

सर्वदा वृद्धिभागृद्धिः सर्वाराधनभूधनम् ।
स्वरूपरूपसाद्गुण्यपुण्यकृत् कर्मशर्मदः

1.119

दृष्टिः प्रतिसुधावृष्टिप्रभसुन्दरताप्रभः2 ।
वर्णानां स्यन्ददिङ्मात्रात्3 कर्णानन्दकरस्वरः4

1.120

अश्वासानाम् अपि श्वासकारिसौरभगौरवः ।
अधरस्पृष्टनीरादिसृष्टश्रीरसनारसः

1.121

स्वस्पर्शिस्पर्शनास्पर्शाद् विश्वतापापयापनः ।
जगतः शुचिताधाम नामधामस्मृतीडितः

1.122

अनन्तसच्चिदानन्दज्योतिर्द्योतिकलेवरः ।
वपुरंशुकयोर् अंशुसम्पद् विष्णुरमाजयी

1.123

जगद्दूषणशोभाभृद् विभूषणविभूषणः ।
तूर्णं यथारुचि व्यापिरुचिधार्यगुणाकृतिः

1.124

लक्ष्मीदृक्पक्ष्म5विष्कम्भिलक्ष्मलक्षितविग्रहः ।
शङ्खचक्रादिचिह्नश्रीदुर्निह्नवनिजस्थितिः

1.125

जेतुं स्वम् अप्य् अविश्रान्तं शश्वद्वल्गु6बलावलिः ।
किशोरतामनःसारचोरताविश्वमोहनः

1.126

विलासहासलीलास्यकृतलास्यकलाजयः ।
विकाररहिताकारः स्फुरत्प्रेमविकारवान्

1.127

पुरापि नव इत्य् एवं पुराणादिविनिश्चितः ।
अनूतनतनूः7 श्रीमान् सदा नूतनवत्तनुः

1.128

सर्वेषां मनसः कर्तुं प्रमनस् तां स्फुरन्मनाः ।
वैदग्धीदिग्धसद्वृद्धि8चातुरीप्रचुरीकरः

1.129

विश्वेषां बुद्धिकृद् बुद्धिः सिद्धीनाम् अपि सिद्धिकृत् ।
दक्षतालक्षशिक्षाकृद् दक्षताभिर् विलक्षणः

1.130

तुच्छोपकारिताबिन्दुसिन्धुकारी कृतज्ञतः ।
1. भ्प् इ.16.27॥-30॥; 2. (ब्) ओप्रभा; 3. (ब्) दिङ्मात्रओ; 4 (अ) करणानन्द(?); 5 (ब्) पक्ष; 6 (अ) ओवल्गाद्; 7. (ब्) तनुः; 8. (ब्) ओबुद्धिओ
सुदृढव्रतताव्रातत्रातशश्वदनुव्रतः

1.131

निजमर्यादया बद्धश्रुतिमर्यादचेष्टितः ।
चेष्टितं1 तावद् आस्तां तद् दृष्टमात्रस् तथा गुणः

1.132

यज्ञज्ञः कालदेशादिप्रज्ञः सर्वज्ञशेखरः ।
सर्वज्ञताम् अवज्ञाय प्रज्ञतातर्किताखिलः

1.133

धीरता स्थिरता शोभि वीरता निरतान्तरः ।
क्षान्त्या दान्त्या च शान्त्या च सह कान्त्या स्वयं वृतः

1.134

धर्मदाननिदानश्रीः शूरः2 सुरतमानसः ।
मान्यसामान्यवर्धिष्णुमान्यताक्रियताप्रियः3

1.135

अक्षीणविनयः सुष्ठु लज्जितः कूटवर्जितः ।
कीर्तिप्रतापपूर्तिभ्यां कृतसल्लोकजूर्तिकः

1.136

साधूनां माधुरीदानान् नित्यं साधुसमाश्रयः ।
द्विषां च मुक्तिकृन् मुक्तिभागाकर्षिगुणाम्बुधिः

1.137

नानाभाषालिसम्भाषो देव4पर्यन्तदेवनः ।
प्रत्यग्वादिन्य् अपि प्रीति5सत्यतास्फुरदीरितः

1.138

वावदूकः6 सुधीमूकस्थितिकारिसुधीधरः ।
दृष्टमात्रतया सर्वबुधतां7 बुधतागुरुः

1.139

योग्यानाम् अपि योग्याशी8 रङ्काङाम् अपि शङ्करः ।
शरणागतरक्षायाः शरणं शर्मकर्मठः

1.140

न च भक्तिं विनासक्ति9बिन्दुः सिन्धुवद् अन्तरः ।
समः सर्वत्र भक्तानां भक्त इत्य् अप्य् असौ समः

1.141

भक्तानां भक्ततानन्दी प्रेमस्थेमवशीकृतः ।
तत्तद्रूपगुणक्रीडाकृतस्वावधिविस्मयः

1.142

स्नेहाभिषेकाद् विश्वेषां प्राज्यसाम्राज्यपूजितः ।
सर्वत्र स्नेहपीयूषवर्षिनित्यनवम्बुदः

1.143

गोष्ठवृन्दाटवीशंसिवंशीगानमधून्मदः ।
निजप्रियावलीभाग्यस्पृहिविष्णुप्रियार्चितः

1.144

किं बहूक्तेन सूक्तेन सूक्तेन श्रूयताम् इदम् ।
कृष्ण एव हि कृष्णः स्यात् कृष्णः स्यात् कृष्ण एव हि

1.145

[पूर्ववद् एकोनत्रिंशभिः]
यस् तादृग्गुणवान् गोष्ठं नात्यन्तं त्यक्तुम् अर्हति ।
तादृग्गुणान्वयिप्रेम्ना तस्य बद्धश् च तद् यथा

1.150

दुस्त्यजश् चानुरागो ऽस्मिन् सर्वेषां नो व्रजौकसाम् ।
यः सज्जन् कालियक्रोडं व्रजं सज्जन्तम् आम्तनि ।
नन्द ते तनये ऽस्मासु तस्याप्य् औत्पत्तिकः कथम्? ॥1461
[पूर्ववद् एव युग्मकम्]
1. (ब्) चेष्टतः; 2. (ब्) शूरओ; 3. (ब्) ओपरः; 4. (अ) ओसम्भाषाद् एव; 5. (ब्) प्रीतिः; 6. (ब्) वावदूकओ; 7. (ब्) बुधताओ; 8. (अ) योग्याशा; 9. (अ) विनासक्तिं
विमृशन्न् उन्ममज्ज द्राग् वर्षन् हर्षं जगत्य् अपि ॥147
यः शक्रे वक्रतां पश्यन् प्रेम्ना यन् व्रजवश्यताम् ।
हृद्य् अर्थं तम् इमं विद्वान् अत्र व्यानग् यथार्थताम् ॥148
तस्मान् मच्छरणं गोष्टं मन्नाथं मत्परिग्रहम् ।
गोपाये स्वात्मयोगेन सो ऽयं मे व्रत आहितः ॥149*fन्
[पूर्ववद् एव युग्मकम्]
यः सङ्कल्पं व्यधाद् एवंकिञ्च भूधरधारणम् ।
सप्ततराप्य् अहोरात्राम् स्तन्मात्रङ्गीकृतिस्थितिः

1.151

किं च यः सखिवत्सेषु लुञ्चितेषु विरिञ्चिना ।
ससर्जान्त्यांस् तदाकारन् परं स्वेनापरेण न

1.152

तथाप्य् अनिर्वृतिं गच्छंस् तान् आयच्छद् विरिञ्चितः ।
स्वप्रेमाधिकतत्प्रेमवशताम् आसदद् यतः

1.153

[पूर्ववद् एव युग्मकम्]
यस् तान् स्वस्मिन् बक-ग्रस्ते ग्रस्तेहा-प्राणता-मितान् ।
स्व-मात्र-प्राण-पात्राङ्गान् विदन् विन्दन्न् अपि स्थितः

1.154

यस् तेष्व् अघ-निगीर्णेषु स्वयं कीर्णे हतां व्रजन् ।
तद्-गलान्तर् विशन्न् आत्म-निर्विशेषान् विवेद तान्

1.155

यस् तत्राप्य् अद्भुतं प्रेम श्रीमन्-नन्द-यशोदयोः ।
दम्पत्योर् नितराम् आसीद् गोप-गोपीष्व् इति स्मरन्

1.156

सदापि वेदवद् वेद तद् अशेषविदां वरः ।
यद् एव शुकदेवाद्या वाद्याभं जगुर् उच्चकैः

1.157

[पूर्ववद् युग्मकम्]
यः स्वीयाम् ऋणितां व्यक्तां त्यक्तां कर्तुम् अशक्नुवन् ।
न पारये ऽहम् इत्य्5 आद्यं प्रतिजज्ञे प्रियाः प्रति

1.158

यः कंसाद्यान् दन्तवक्र-प्रान्तान्6 सान्तान्7 विनिर्ममे ।
तद् विना व्रजम् आगन्तुं शान्तिः स्यान्8 नेत्य् अचिन्तयत्

1.160

यस् तन्-मध्ये समुत्कण्ठाम् उत्कण्ठां शमयन्न् इव ।
स्वस्थान् कर्तुं व्रजान्तः-स्थान् मुहुः सान्त्वनम् आदधे ॥159
यः स्व-प्रस्थान-समये "शरीर-स्था इमा नहि ।
भवेयुर्" इति सञ्जज्ञे प्रतिजज्ञे9 निजागतिम्

1.161

1. भ्प् x.26॥.13; 2. (ब्) हृद्यार्थम्; 3. भ्प् x.25.18; 4. (ब्) स्वेन परेण; 5. भ्प् x.32॥.22; 6. (ब्) ओप्राप्तान्; 7. (अ) सो ऽन्तान्; 8. (अ) शान्तुः स्यां (?); 9. (अ) प्रतियज्ञे;
यस् तत्र शुकदेवेन द्राघित-श्लाघितं1 स्तुतः ।
उभयेषां प्रेम-साम्यं व्यञ्जता व्यञ्जितास्पदः

1.162

तास् तथा तप्यतीर् वीक्ष्य स्व-प्रस्थाने यदूत्तमः ।
सान्त्वयामास सप्रेमैर् आयस्य इति द्योतकैः

1.164

2
[पूर्ववद् युग्मकम्]
यः कंस-घ्नः शशंसेदं हरि-वंशे ऽप्य् अनूदितम्3 ।
निश्वासा यस्य वेदाः स्युस् तद् एतत् कथम् अन्यथा? ।163॥
अहं स एव गो-मध्ये गोपैः सह वनेचरः ।
प्रीतिमान् विचरिष्यामि कामचारी यथा गजः

1.166

4
[पूर्ववद् युग्मकम्]
यः कंसे लम्भित-ध्वंसे स्वं विनातिविलम्बितम् ।
कुर्वन्तं पितरं प्रोचे "शोचेः कथम् इतः पितः ॥165
यात यूयं व्रजं तात वयं च स्नेह-दुःखितान् ।
ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम्

1.167

5
स्नेहेन दुःखितान् इत्य् एतत् प्रोच्य स्नेहवस्तुनि ।
अतृप्तिं व्यानग् अत्रापि द्रष्टुम् इत्य् एव दर्शनम्

1.168

पुरुषार्थतयावोचद् भाविकालतयापि च ।
अदृप्तेर् भाविकालस्य चानन्त्यात् तदनन्तकम्

1.169

तातज्ञातिपदाभ्यां च तद् युक्तम् इदम् उक्तवान् ।
सुहृदां सुखम् इत्य् आख्यास्यते यद्वत् तथा नहि

1.170

सुहृच्छब्देनोपकार्योपकारित्वं प्रतीयते ।
सुखं च सुहृदां गम्यम् उपकारमयं परम्

1.171

विधायेति च पूर्वस्य कालस्य च्छिन्नरूपताम् ।
निर्दिशंस् तद्विधानस्य न्यदिशत् च्छिन्नरूपताम्

1.172

तस्मात् तेषां शत्रुवधः सुखं यत् तत् समाप्स्यति ।
ज्ञातीनां स्नेहशीलानां तत् तु वो न समाप्स्यति

1.173

इति प्रोच्येदम् अव्याञ्जीत् तेषां धैर्यप्रदं6 परम् ।
मागधादिवधान्तस्थं7 स्वस्थता धाम यद् भवेत्

1.174

जरासन्धादिशत्रूणां प्रतिबन्धान् उपेक्ष्य च ।
यद्य् एष्याम्य् अनुसन्धानं कुर्युस् तत्रापि ते द्विषः

1.175

स्वेषाम् एव प्रतिज्ञाय व्रजागमनम् ईश्वरः ।
न यूयम् अत्रायातेति व्यज्य व्याञ्जीद् इदं पुनः

1.176

यदि वात्र भवन्तः स्युर् गमागमविधायिनः ।
तथाप्य् अच्छिन्नमत्स्नेहं ज्ञात्वा हन्युर् व्रजं द्विषः

1.177

1. (ब्) द्राघितः श्लाघितः; 2. भ्प् x.39.35; 3. (ब्) अनुदितम्; 4. ह्व् 78.35; 5. भ्प् x.45.23; 6. (ब्) ओप्रदः; 7. (ब्) ओस्थओ
तस्मात् तावद् धीरभावं विधत्त व्रजसंसदि ।
मां च युष्मत्प्रियं नित्यं लालनं च समाप्स्यथ

1.178

[पूर्ववन् नवभिः]
यः सङ्गत्य गुरोर् गेहात् प्रतत्य स्वव्रजस्मृतिम् ।
प्राहिणोद् उद्धवं वक्तुं सुनिश्चितम् इदं यथा

1.179

हत्वा कंसं रङ्गमेध्ये प्रतीपं सर्वसात्वताम् ।
यद् आह वः समागत्य कृष्णः सत्यं करोति तत्

1.180

1
आगमिष्यत्य् अदीर्घेण कालेन व्रजम् अच्युतः ।
प्रियं विधास्यते पित्रोर् भगवान् सात्वतां पतिः

1.181

2
[पूर्ववद् त्रिभिः]
यः सास्रम् उद्धवं सास्रः पतिस् तासां स्वयं रहः ।
असङ्कोचम् अवोचेत्थं प्रेष्ठम् एकान्तिनं क्वचित्

1.182

गृहीत्वा पाणिना पाणिं प्रपन्नार्तिहरो हरिः ।
गच्छोद्धव व्रजं सौम्य पित्रोर् नः प्रीतिम् आवह

1.183

गोपीनां मद्वियोगाधिं मत्सन्देशैर् विमोचय ।
ता मन्मनस्का मत्प्राणा मदर्थे त्यक्तदैहिकाः

1.184

माम् एव दयितं प्रेष्ठम् आत्मानं मनसा गताः ।
ये त्यक्तलोकधर्माश् च मदर्थे तान् बिभर्म्य् अहम्

1.185

मयि ताः प्रेयसां प्रेष्ठे दूरस्थे गोकुलस्त्रियः ।
स्मरन्त्यो ऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्यविह्वलाः

1.186

धारयन्त्य् अतिकृच्छ्रेण प्रायः प्राणान् कथञ्चन ।
प्रत्यागमनसन्देशैर् वल्लव्यो मे मदात्मिकाः

1.187

3
[पूर्ववत् षड्भिः]
यस् तथा प्रोच्य यत् प्रत्याययत् तच् च विलोच्यताम् ।
यद् विलोचनमात्रेण भ्रमस् ते श्वभ्रतां व्रजेत्

1.188

माम् एवेत्य् आदिना तासाम् अन्तःपतिर् अहं परम् ।
बहिर् व्यवहृतिर् लोकदृष्टेति स्पष्टम् आतनोत्

1.189

यत् पित्रोर् इत्य् उरीचक्रे पितृत्वं वल्लवेन्द्रयोः ।
तस्माद् वल्लवमानित्वम् आत्मानश् च व्यजिज्ञपत्

1.190

तत्र चाह न इत्य् एतद् बहुवाचिपदाद् इदम् ।
मयि जाते तयोः पुत्रे रामे त्वयि च पुत्रता

1.191

ततश् च ताः प्रति प्राख्यद् वल्लव्यो म इति स्फुटम् ।
यद् अमूषु स्वदारत्वे4 व्यानञ्ज स्वयम् अञ्जसा

1.192

1. भ्प् x.46.35; 2. भ्प् x.46.34॥; 3. भ्प् x.46.2-6; 4. (ब्) ओत्वं;
मद्दारत्वंच तासां ताः सदा यस्मान् मदात्मिकाः ।
मदात्मकत्वम् आशु स्याद् अभेदाच् छक्तितद्वतोः

1.193

इति व्यञ्जन् मन्मनस्का इत्य् उक्तं नात्यपैक्षतः ।
न चान्यवद् इहापेक्ष्यम् अन्यद् इत्य् अप्य् अमन्यत

1.194

धारयन्तीति च प्रोच्य प्रत्यागमनम् उद्दिशन् ।
वल्लव्यो म इति प्राख्यत् तस्माद् एव न्यजीगमत्

1.195

गमनं मम तज् जज्ञे स्वाम् अवश्यं कृतिं प्रति ।
आगम्य स्वीयतां तासां पूरयिष्याम्य् अदूरतः

1.196

[पूर्ववद् नवभिः]
यस् तासु बहुधा ज्ञानं निदिश्यापि मुधा विदन् ।
साक्षाद् आत्मीयसम्प्राप्ति1 साक्षाद् एव निदिष्टवान्

1.197

मय्य् आवेश्य मनः कृष्णे विमुक्ताशेसवृत्ति यत् ।
अनुस्मरन्त्यो मां नित्यम् अचिरान् माम् उपैष्यथ

1.198

2
या मया क्रीडता रात्र्यां वने ऽस्मिन् व्रज आस्थिताः ।
अलब्धरासाः कल्याण्यो मापुर् मद्वीर्यचिन्तया

1.199

3
[पूर्ववद् त्रिभिः]
यस् तदा सन्दिशन् सन्दीपितम् एतद् विनिर्ममे ।
तद् एतच् छृणु मच्चित्त गुप्तवित्तं मनुष्व च

1.200

वृत्तिर् यद् अन्या निर्मुच्य मय्य् आमुच्य मनः स्थिताः ।
माम् आप्स्यथ द्रुतं तस्मान् मम नात्र स्वतन्त्रता

1.202

मयीत्य् अनेन प्राप्ते ऽपि कृष्णे कृष्णपदं ब्रुवन् ।
अन्यरूपं मन्यमानान् हन्यमानान् व्यधात् प्रभुः ॥201
मयीत्य् एवं माम् इति च प्रोच्य माम् इत्य् अवोचत ।
तच् चावृत्त्या दृढीकृत्य मतं परिदृढीकृतम्

1.203

कृष्ण इति पदं लब्धे मयीत्य् अस्य विशेषणे ।
मां द्वये ऽप्य् उपलब्धासा तद्विशेषणता स्वतः

1.204

मयि कृष्णे ऽत्र मां कृष्णं मां कृष्णम् इति सिध्यति ।
कल्याण्य इति सम्बोध्य प्रबोध्यं कृतवान् इदम्

1.205

न तासाम् इव मत्प्राप्तिर् देहं वः परम् ईहते ।
इत्य् एवम् अन्यद् अप्य् अत्र मन्यमानं मनः कुरु

1.206

[पूर्ववद् पञ्चभिः]
यः श्रीरामेण सन्दिश्य प्रियासु निजहृद्गतम् ।
यथावद् व्यञ्जयामास श्रीपराशरगीर् यथा

1.207

1. (ब्) ओप्राप्तिं; 2. भ्प् x.47.36; 3. भ्प् x.47.37;
सन्देशैः साममधुरैः प्रेमगर्भैर् अगर्वितैः ।
रामेणाश्वासिता गोप्यः कृष्णस्यातिमनोहरैः

1.208

1
[पूर्ववद् युग्मकम्]
यः कुरुक्षेत्रयात्राया व्याजान् मात्रादिकान् चिरात् ।
संसज्यामून् विसृज्यान्यान् सहवासमुदं दधे

1.209

यः सुरघ्नान् व्रजे गन्तुं विघ्नान् हन्तुं व्रजेशितुः ।
व्रजे गमनम् आचर्य द्वारकागतिम् आददे

1.210

यः क्रामद्भिः सुदीर्घेण सुष्ठु क्रष्टुं व्रजं प्रति ।
आमुक्तः पाशसङ्काशमनसा व्रजवासिभिः

1.211

यः प्रकाशं महाराजसम्पदं दधद् ईक्षितः ।
व्रजाय व्रजराजाद्येनाहूतः पूर्ववद् गिरा

1.212

यस् तेषां सुष्ठु निर्निन्ये यन् मनः स्वागतिस्पृहिः2 ।
तेनान्तःकर्षणं प्राप्तः कर्षम् अन्येन नार्हति

1.213

यः स्वीयसहितस् तेषां स्वीयकामान् अपूरयत् ।
कृष्णे कमलपत्राक्षे सन्न्यस्ताखिलराधसा

1.214

आगमिष्यत्य् अधीर्घेणेत्य्3 आशालब्धं यद् ईप्सितम् ।
तद् अर्थम् एव तान् अर्थान् ये स्वीचक्रुः परान् अपि

1.215

[पूर्ववद् युग्मकम्]
यः स्वागमनमर्यादां प्रेयसीषु निजां व्यधात् ।
दन्तवक्रान्तशत्रूणां मारणं सर्वतारणम्

1.216

अपि स्मरथ नः सख्यः स्वानाम् अर्थं4 चिकीर्षया ।
गतांश् चिरायितान् शत्रुपक्षक्षपणचेतसः

1.217

5
मयि भक्तिर् हि भूतानाम् अमृतत्वाय कल्पते ।
दिष्ट्या यद् आसीन् मत्स्नेहो भवतीनां मदापनः

1.218

6
यस् तात्कालिकशान्त्यर्थे तथापि ज्ञानम् आदिशत् ।
आहूश् चेत्य्7आदिके पद्ये प्रार्थितस् ताभिर् अन्यथा

1.219

तत्राङ्घ्रिस्मृतियाच्ञा तु लक्ष्यम् एव विनिर्ममे ।
तत्प्रत्यागतितात्पर्या सा तु पर्यवसाय्यते

1.220

मयि ताः प्रेयसाम् इत्य्8 आद्य् उक्तं तेन स्वयं यतः ।
तस्मात् तच्चिन्तनाशक्त्या व्यक्त्या तद्दर्शनार्थिता

1.221

तथानुगृह्य भगवान् गोपीनां स गुरुर् गतिः ।9
इत्य् अनेन मुनिः प्रोच्य तासां वाञ्छितपूरणम्

1.222

मयि भक्तिर् हीति कृष्णप्रोक्तम् एव न्यजीगमत् ।
मय्य् आवेश्य मनः कृष्ण इत्य्10 आद्य् अपि च तद्वचः

1.223

[पूर्ववद् त्रिभिः]
1. विप् व्.24.20; 2. (ब्) स्वागतस्पृहि; 3. भ्प् x.65.6; 4. (ब्) अर्थओ; 5. भ्प् x.82॥.41; 6 भ्प् x.82॥.44; 7. भ्प् x.82॥.48; 8. भ्प् x.46.5; 9. भ्प् x.83.1; 10. भ्प् x.47.36.
यः पृथिव्या गुणस्तोमे सत्येनादाव् अभिष्टुतः
सत्यं विधातुं सत्यं तन् नाव्रजेत् किं व्रजे बत

1.224

सम्भावना ममैवेयम् इति नात्र विचार्यताम् ।
व्रजस्थानां व्रजप्राणवर्यस्याप्य् अवधार्यताम्

1.225

श्रीमद्व्रजाधिराजस्य कृष्णकान्तागणस्य च ।
उद्धवं प्रति गीर् ईदृग् दृश्यतां दशमादिषु

1.226

[युग्मकम्]
यस् तु यर्ह्य् अम्बुजाक्षेति1 स्तुवद्भिर् द्वारकाजनैः ।
कदाचिद् व्रजम् आगाद् इत्य् अभ्युधायि कदाचन

1.227

यस् तथा श्रूयते पाद्मोत्तरखण्डाद् अपि स्फुटम् ।
अदाद् व्रजाय स्वप्राप्तिमङ्गलं नित्यम् इत्य् अपि

1.228

दत्त्वा तत्कृतकृत्यः सन् प्रादुर्भावान्तरं गतः ।
जगाम द्वारकाम् इत्य् अप्य् अश्रावीत्य् अपि युक्तिमत्

1.229

आगमिष्यत्य् अदीर्घेणेत्य् उद्धवाद् बुद्धम् अन्यथा ।
यथा न स्यात् तथा भाष्यं2 कथान्या वितथा मता

1.230

यस् त्यजन्न् अपि गाम् आख्यत् तम् उद्धवकम् उत्सुकः ।
रामेण सार्धम् इत्य्3आद्यं तासां कामितलम्भनम्

1.231

रामेणेति द्वयेनाह वियुक्तेर् यद् व्यतीतताम् ।
तेन नास्ति वियुक्तिः सा तदानीम् इति भाव्यते

1.232

मयि ताः प्रेयसां प्रेष्ठ इति4 प्राक्तनवाग्द्वये ।
वियुक्तेर् वर्तमानत्वं दृष्ट्वा निष्टङ्कताम् इदम्

1.233

स्वेन तासां पुनः सङ्गे यद् वृत्तं प्रथमे ऽहनि ।
तदप्य् अतीतरीत्य् आह प्रीत्या समदधद् उद्धवम्

1.234

ता नाविदन्न् इति5 प्रोचे यत्र तासां मदात्मताम् ।
बभूव स महाभावः सर्वासां परतः परः

1.238

ततश् च नामरूपात्मन्य् उद्भूते स्वीयवैभवे ।
प्रविष्टा इव न स्पष्टं प्रविष्टा गत्यभावतः ॥235
दृष्टान्तयुगलं तत् तु नाविदन्न् इति केवले ।
अवेदनं नदीपक्षे प्य् अब्ध्यन्यरसताहतिः ॥236
समाधाव् इति दृष्टान्तस्याङ्गरूपतयोर् इतम् ।
दार्ष्टान्तिकस्यानुषङ्गं स्याद् अङ्गं तद्भिदाद्वयोः ॥237
मत्कामा रमणं जारम् अस्वरूपविदो ऽबलाः ।
ब्रह्म मां परमं प्रापुर् इति6 पद्ये तु तत्परे

1.239

पच्यन्तां विविधाः पाका7 इतीवात्रार्थिकः क्रमः ।
ता ब्रह्म प्रापुर् इत्य् एवं ता इत्य् अस्यात्र चान्वयः

1.240

1. भ्प् इ.11.9; 2. (ब्) भाव्यम्; 3. भ्प् xइ.12.10; 4. भ्प् x.46.5; 5. भ्प् xइ.12.12; 6. भ्प् xइ.12.13; 7. भ्प् x.24.26॥
कीदृग् ब्रह्मेति बोधाय यत् प्राह परमं पदम् ।
तत्राप्य् आकाङ्क्षयावादीन् माम् इति स्वं पुनः प्रभुः

1.241

मयि भक्तिर् हीति वाक्याद् आह प्राग् एतद् एव हि ।
धारयन्त्य् अतिकृच्छ्रेणेत्य् उक्त्या व्यानग् इदं पुरा

1.242

प्राणत्यागेन मत्प्राप्तिर् नान्यवत् तासु मन्मता ।
मत्कामा इति पूर्वार्धे चाख्यत् प्राप्तिविभक्तताम्

1.243

अस्वरूपविदः सत्यः प्रापुर् जारधियेत्य् अवक् ।
नित्यतत्प्रेयसीरूपस्वरूपं हि तदीयकम्

1.244

यत् पूर्वं भावयन् भावं भाविनीनाम् अमूदृशाम् ।
मत्कामा इति निःक्षिप्य जारत्वे स्थैर्यम्1 आक्षिपत्

1.245

मयि कामः सदा यासां ता मत्कामा इतीरिताः ।
कामश् च रमणत्वेन स्पृहात्र प्रतिपद्यते

1.246

अस्मिन्न् अपि बतेत्य्2आदि श्रीराधागीर् अलिं प्रति ।
विविच्यतां ततः सर्वम् अन्यद् अन्यद् विविच्यताम्

1.247

अत्रार्यपुत्र3 शब्दः स्यात् पत्याव् एव प्रसिद्धिभाक् ।
तथापि स्वेषु कैङ्कर्यं दैन्यात् कन्यावद् ईरितम्

1.248

सङ्क् प्तापतिता ताभिः पुनर् इत्थम् उदीरितम् ।
श्यामसुन्दर ते दास्य इति4 यद्वत् तथेह च

1.249

आर्यपुत्रः कदास्माकं किङ्करीणां तु मूर्धनि ।
भुजं धास्यत्य् एवम् आसां तत्पत्नीपदकामता

1.250

तत्कामता हि सिद्धा चेत् तेन तद्दानम् अव्ययम् ।
ये यथा मां प्रपद्यन्ते इति5 यत्वत्6 प्रतिश्रवः

1.251

वल्लव्यो मे मदात्मान इति7 यत् प्रोक्तम् आत्मना ।
सर्वेषां वचसाम् ऊर्ध्वं तद् आस्तां सर्वमूर्धनि

1.252

यन् मत्कामा इति प्रोचे तासां प्राप्तिस् तथा स्वयम् ।
तन् मया साधु तत् प्रोक्तं तासां कामितलम्भनम्

1.253

मत्कामा इति पद्यस्य तुर्यांशे त्व् इदम् उच्यते ।
पराश् च सङ्गतस् तासां प्रापुः शतसहस्रशः8

1.254

[पूर्ववद् एकविंशत्या]
यः श्रीगर्गवचः पूर्णं तूर्णं चक्रे स्वयं द्वयम् ।
एष वः श्रेय आधस्यद् य एतस्मिन् महेति9 दिक्

1.255

नाशाद् विघ्नस्य कंसादेः पत्याभासादिजस्य च ।
1. (ब्) ऽस्थैर्यम्; 2. भ्प् x.47.21; 3. इबिद्.; 4. x.22.15; 5. गीता 4.11; 6. (अ) यत् तत्; 7. भ्प् x.46.6; 8. भ्प् xइ.12.13; 9. भ्प् x.8.16
सदा स्वम् अददाद् यस्माद् व्रजे कान्ताव्रजेष्व् अपि

1.256

[पूर्ववद् युग्मकम्]
यः प्रादाद् व्रजवासिभ्यः पूर्वरीत्या निजां गतिम् ।
वृन्दावनस्थां गोलोकनाम्नीं यां प्राग् अलोकयत्

1.257

यां श्रीबृहद्गौतमीये प्राह वृन्दावनं प्रति ।
सर्वदेवमयश् चाहं न त्यजामि वनं क्वचित्

1.258

आविर्भावस् तिरोभावो भवेन् मेऽत्र युगे युगे ।
तेजोमयम् इदं रम्यम् अदृश्यं चर्मचक्षुषा

1.259

1
तद् एतद् विस्तराद् ब्रह्मसंहितायां निरूपितम् ।
गोलोकनाम्ना2 तन्मध्ये गोकुलाख्यं हरेः पदम्

1.260

न त्यजामीति यत् तत् तु द्विधाभिप्रायकं मतम् ।
विरहे ऽपि व्रजे स्फूर्त्या पूर्त्या शीघ्रागतेर् अपि

1.261

[पूर्ववच् चतुर्भिः]
यः स्व-पुर्योर् अपि स्थैर्यं याति नित्यं यथाह च ।
मथुरा भगवान् यत्र नित्यं सन्निहितो हरिः

1.262

3
द्वारकां हरिणा त्यक्तां समुद्रोत्प्लावयत् क्षणात् ।
वर्जयित्वा महाराज श्रीमद्-भगवद्-आलयम्

1.263

4
स्मृत्वाशेषाशुभ-हरं सर्व-मङ्गल-मङ्गलः ।
नित्यं सन्निहितस् तत्र भगवान् मधुसूदनः

1.264

5
[पूर्ववद् त्रिभिः]
यस् तस्माद् उभयत्रापि राजतीति शुकेन च ।
जयतीत्य्6 आदि-वाक्येन वर्णितः क्षितिपं प्रति

1.265

यश् चम्पू-युगल-प्रान्तम् ईदृक् सिद्धान्तम् ईरितम् ।
जीवान्तर्यामितां प्राप्तस् तूर्णं पूर्णम् अचीकरत्

1.266

स तु हरिर् अधिवर्त्म दन्तवक्रं
युधि शमयन् व्रज-वासम् आससाद ।
तम् अभिययुर् अमी व्रजेश-मुख्याः
शशिनम् इव क्षुधिताश् चकोर-वाराः

1.267

[आदिम् आरभ्य महा-कुलकम्]
स च जनक-मुखान् निरीक्ष्य
शुष्कान् स्वदृग्-अमृतेन सिञ्चति स्म ।
पुलक-कुल-मिषाद् यथाङ्कुराणां
ततिम् अदधुर् बत तेऽपि गोपवृक्षाः

1.268

अथ हरि-हरिणीदृशश् च तर्हि
स्फुरणम् इव प्रतिपद्य पूर्व-तुल्यम् ।
नयन-गततयान्यथा च मत्वा
मुहुर् अगमन् भ्रमम् अभ्रमं च तत्र

1.269

1. ग्च्प् 1.18; ग्चु 29.96 एत्च्.; 2. (ब्) नाम्नीं; 3. भ्प् x.1.28; 4. भ्प् xइ.31.23; 5. भ्प् xइ.31.24; 6. भ्प् x.90.48;
व्रजम् अथ विशतः स-रत्नम् आरात्रिकम् अनुलब्धवतश् च तस्य लोकः ।
कुसुम-कुल-सहोदरं वितन्वन् जय-जय-घोषम् उवाच भद्र-वाचम्

1.270

व्रजम् अथ सुखयन् विनीत-वाचा
क्रमम् अनुलब्ध-तदीय-सङ्गमश् च ।
द्रुत-गति जननीं सुखेन सेक्तुं
गृहम् अदसीयम् इयाय कृष्ण-चन्द्रः

1.271

चिरम् अपि विरचय्य शर्म तस्यास् तद्-अनुमतिं प्रतिलभ्य तत्-तनूजः ।
सह-सखि-निकरेण दिव्य-शय्यां सुखम् अधिशय्य निशाविराम-दृष्टः

1.272

पुनर् अपि निज-वृन्द-सौख्य-वृन्दं विदधद् उदित्य स नित्य-चित्र-मित्रः ।
निज-मुख-कमलं विकास्य नेत्र-भ्रमर-मधूत्सवम् आततान तत्र

1.273

[युग्मकम्]
अहरहर् इदम् एव तत्र पूर्व-1प्रतिनव-भावम् अवाप केवलं न ।
जन-समुदितिर् अप्य् अदृष्ट-पूर्वां वपुर् अनुकान्तिम् इयाय शश्वद् एव

1.274

दिवस-कतिपये तदातियाते2 पशुपति-पालकताप्त-तादृग्-इच्छुः ।
निज-रथ-तरसा निनाय गोष्ठं सह-जननी-कबलं तम् उद्धवं च

1.275

अघरिपु-सुदृशां धवाभिमानिष्व् अकृत-तनु-प्रतिमाः पुरा तु माया ।
सरभसम् अधुना स्म ता विभज्य प्रकृत-तनूस् तनुते प्रेमास्पदानि

1.276

अथ गतवति मूर्ति-भेद-रीत्या यदु-पुरम् अत्र च राजमान-धाम्नि ।
व्रज-भव-जन-मात्र-दृश्य-रूपे मतिर् उदियात् तव चित्त गोप-कृष्णे

मूल पाठ: Saṃkalpakalpadruma · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc