सामवेदसंहिता · अध्याय 2
उपास्मै गायता नरः पवमानायेन्दवे। अभि देवां इयक्षते ॥
अभि ते मधुना पयोऽथर्वाणो अशिश्रयुः । देवं देवाय देवयु ॥
स नः पवस्व शं गवे शं जनाय शमर्वते। शं राजन्नोषधीभ्यः । 1(ती) ॥
दविद्युतत्या रुचा परिष्टोभन्त्या कृपा। सोमाः शुक्रा गवाशिरः ॥
हिन्वानो हेतृभिर्हित आ वाजं वाज्यक्रमीत्। सीदन्तो वनुषो यथा ॥
ऋधक्सोम स्वस्तये संजग्मानो दिवा कवे। पवस्व सूर्यो दृशे ।2(यि) ॥
पवमानस्य ते कवे वाजिन्त्सर्गा असृक्षत । अर्वन्तो न श्रवस्यवः ॥
अच्छा कोशं मधुश्चुतमसृग्रं वारे अव्यये। अवावशन्त धीतयः ॥
अच्छा समुद्रमिन्दवोऽस्तं गावो न धेनवः। अग्मन्नृतस्य योनिमा ।3(कौ) ॥
अग्न आ याहि वीतये गृणानो हव्यदातये। नि होता सत्सि बर्हिषि ॥
तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि। बृहच्छोचा यविष्ठ्य ॥
स नः पृथु श्रवाय्यमच्छा देव विवाससि। बृहदग्ने सुवीर्यम् ॥
आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम्। मध्वा रजांसि सुक्रतू ॥
उरुशंसा नमोवृधा मह्ना दक्षस्य राजथः। द्राघिष्ठाभिः शुचिव्रता ॥
गृणाना जमदग्निना योनावृतस्य सीदतम्। पातं सोममृतावृधा ।5 (यि) ॥
आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम्। एदं बर्हिः सदो मम ॥
आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना। उप ब्रह्माणि नः शृणु ॥
ब्रह्माणस्त्वा युजा वयं सोमपामिन्द्र सोमिनः। सुतावन्तो हवामहे ।6(फौ) ॥
इन्द्राग्नी आ गतं सुतं गीर्भिउनभो वरेण्यम्। अस्य पातं धियेषिता ॥
इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः। अया पातमिमं सुतम् ॥
इन्द्रमग्निं कविच्छदा यज्ञस्य जूत्या वृणे। ता सोमस्येह तृम्पताम् ।7(ता) ॥
उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे। उग्रं शर्म महि श्रवः ॥
स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः। वरिवोवित्परि स्रव ॥
एना विश्वान्यर्य आ द्युम्नानि मानुषाणाम्। सिषासन्तो वनामहे ।8(ठी) ॥
पुनानः सोम धारयापो वसानो अर्षसि। आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः ॥
दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नं सधस्थमासदत्। आपृच्छ्यं धरुणं वाज्यर्षसि नृभिर्धौतो विचक्षणः ॥
प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष। अश्वं न त्वा वाजिनं मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति ॥
स्वायुधः पवते देव इन्दुरशस्तिहा वृजना रक्षमाणः। पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः ॥
ऋषिर्विप्रः पुरएता जनानामृभुर्धीर उशना काव्येन। स चिद्विवेद निहितं यदासामपीच्याऽं गुह्यं नाम गोनाम् ।10(हु) ॥
अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः। ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥
न त्वावांअन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते। अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ॥
कया नश्चित्र आ भुवदूती सदावृधः सखा। कया शचिष्ठया वृता ॥
कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः। दृढा चिदारुजे वसु ॥
अभी षु णः सखीनामविता जरितृृ़णाम्। शतं भवास्यूतये ॥
तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः। अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥
द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम्। क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे ॥
तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये। बृहद्गायन्तः सुतसोमे अध्वरे हुवेभरं न कारिणम् ॥
न यं दुध्ना वरन्ते न स्थिरा मुरो मदेषु शिप्रमन्धसः। य आदृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यम् ॥
स्वादिष्ठया मदिष्ठया पवस्व सोम धारया। इन्द्राय पातवे सुतः ॥
रक्षोहा विश्वचर्षणिरभि योनिमयोहते। द्रोणे सधस्थमासदत् ॥
वरिवोधातमो भुवो मंहिष्ठो वृत्रहन्तमः। पर्षि राधो मघोनाम् ॥
पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः। महि द्युक्षतमो मदः ॥
यस्य ते पीत्वा वृषभो वृषायतेऽस्य पीत्वा स्वर्विदः। स सुप्रकेतो अभ्यक्रमीदिषोऽच्छा वाजं नैतशः ॥
इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः। श्रुष्टे जातास इन्दवः स्वर्विदः ॥
अयं भराय सानसिरिन्द्राय पवते सुतः। सोमो जैत्रस्य चेतति यथा विदे ॥
अस्येदिन्द्रो मदेष्वा ग्राभं गृभ्णाति सानसिम्। वज्रं च वृषणं भरत्समप्सुजित् ।17(कि) ॥
पुरोजिती वो अन्धसः सुताय मादयित्नवे। अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यम् ॥
यो धारया पावकया परिप्रस्यन्दते सुतः। इन्दुरश्वो न कृत्व्यः ॥
तं दुरोषमभीनरः सोमं विश्वाच्या धिया। यज्ञाय सन्त्वद्रयः ॥
अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते। आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः ॥
ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर्धियो अस्या अदाभ्यः। दधाति पुत्रः पित्रोरपीच्यांऽ. नाम तृतीयमधि रोचनं दिवः ॥
अवद्युतानः कलशां अचिक्रदन्नृभिर्येमाणः कोश आ हिरण्यये। अभी ऋतस्य दोहना अनूषताधि त्रिपृष्ठ उषसो वि राजसि ॥
यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे। प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषम् ॥
ऊर्जो नपातं स हिनायमस्मयुर्दाशेम हव्यदातये। भुवद्वाजेष्वविता भुवद्वृध उत त्राता तनूनाम् ॥
एह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिरः। एभिर्वर्धास इन्दुभिः ॥
यत्र क्व च ते मनो दक्षं दधस उत्तरम्। तत्र योनिं कृणवसे ॥
न हि ते पूर्तमक्षिपद्भुवन्नेमानां पते। अथा दुवो वनवसे ॥
वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः। वज्रिं चित्रंहवामहे ॥
उप त्वा कर्मन्नूतये स नो युवोग्रश्चक्राम यो धृषत्। त्वामिध्यवितारं ववृमहे सखाय इन्द्र सानसिम् ॥
अधा हीन्द्र गिर्वण उप त्वा काम ईमहे ससृग्महे। उदेव ग्मन्त उदभिः ॥
वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि। वावृध्वांसं चिदद्रिवो दिवेदिवे ॥
युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे वचोयुजा। इन्द्रवाहा स्वर्विदा । । 712 ॥
पान्तमा वो अन्धस इन्द्रमभि प्र गायत। विश्वासाहं शतक्रतुं मंहिष्ठं चर्षणीनाम् ॥
पुरुहूतं पुरुष्टुतं गाथान्याऽं सनश्रुतम्। इन्द्र इति ब्रवीतन ॥
इन्द्र इन्नो महोनां दाता वाजानां नृतुः। महांअभिज्ञ्वा यमत् ॥
प्र व इन्द्राय मादनं हर्यश्वाय गायत। सखायः सोमपाव्ने ॥
शंसेदुक्थं सुदानव उत द्युक्षं यथा नरः। चकृमा सत्यराधसे ॥
त्वं न इन्द्र वाजयुस्त्वं गव्युः शतक्रतो। त्वंहिरण्ययुर्वसो ॥
वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः। कण्वा उक्थेभिर्जरन्ते ॥
न घेमन्यदा पपन वज्रिन्नपसो नविष्टौ। तवेदु स्तोमैश्चिकेत ॥
इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति। यन्ति प्रमादमतन्द्राः ॥
इन्द्राय मद्वने सुतं परि ष्टोभन्तु नो गिरः। अर्कमर्चन्तु कारवः ॥
यस्मिन्विश्वा अधि श्रियो रणन्ति सप्त संसदः। इन्द्रं सुते हवामहे ॥
त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत। तमिद्वर्धन्तु नो गिरः ॥
अयं त इन्द्र सोमो निपूतो अधि बर्हिषि। एहीमस्य द्रवा पिब ॥
शाचिगो शाचिपूजनायंरणाय ते सुतः। आखण्डल प्र हूयसे ॥
यस्ते शृङ्गवृषो णपात्प्रणपात्कुण्डपाय्यः। न्यस्मिं दध्र आ मनः ॥
आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय। महाहस्ती दक्षिणेन ॥
विद्मा हि त्वा तुविकूर्मिं तुविदेष्णं तुवीमघम्। तुविमात्रमवोभिः ॥
न हि त्वा शूर देवा न मर्तोसो दित्सन्तम्। भीमं न गां वारयन्ते ॥
अभि त्वा वृषभा सुते सुतंसृजामि पीतये। तृम्पा व्यश्नुही मदम् ॥
मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन्। मा कीं ब्रह्मद्विषं वनः ॥
इह त्वा गोपरीणसं महे मन्दन्तु राधसे। सरो गौरो यथा पिब ॥
इदं वसो सुतमन्धः पिबा सुपूर्णमुदरम्। अनाभयिन्ररिमा ते ॥
नृभिर्धौतः सुतो अश्नैरव्या वारैः परिपूतः। अश्वो न निक्तो नदीषु ॥
तं ते यवं यथा गोभिः स्वादुमकर्म श्रीणन्तः। इन्द्र त्वास्मिंत्सधमादे ॥
इदंह्यन्वोजसा सुतंराधानां पते। पिबा त्वा3स्य गिर्वणः ॥
यस्ते अनु स्वधामसत्सुते नि यच्छ तन्वम्। स त्वा ममत्तु सोम्य ॥
प्र ते अश्नोतु कुक्ष्योः प्रेन्द्र ब्रह्मणा शिरः। प्र बाहू शूर राधसा ॥
आ त्वेता नि षीदतेन्द्रमभि प्र गायत। सखाय स्तोमवाहसः ॥
पुरूतमं पुरूणामीशानं वार्याणाम्। इन्द्रं सोमे सचा सुते ॥
स घा नो योग आ भुवत्स राये स पुरन्ध्या। गमद्वाजेभिरा स नः ॥
योगेयोगे तवस्तरं वाजेवाजे हवामहे। सखाय इन्द्रमूतये ॥
अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम्। यं ते पूर्वं पिता हुवे ॥
आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः। वाजेभिरुप नो हवम् ॥
इन्द्र सुतेषु सोमेषु क्रतुं पुनीष उक्थ्यम्। विदे वृधस्य दक्षस्य महांहि षः ॥
स प्रथमे व्योमनि देवानां सदने वृधः। सुपारः सुश्रवस्तमः समप्सुजित् ॥
तमु हुवे वाजसातय इन्द्रं भराय शुष्मिणम्। भवा नः सुम्ने अन्तमः सखा वृधे ॥
एना वो अग्निं नमसोर्जो नपातमा हुवे। प्रियं चेतिष्ठमरतिं स्वध्वरं विश्वस्य दूतममृतम् ॥
स योजते अरुषा विश्वभोजसा स दुद्रवत्स्वाहुतः । सुब्रह्मा यज्ञः सुशमी वसूनां देवंराधो जनानाम् ॥
प्रत्यु अदर्श्यायत्यूऽ.च्छन्ती दुहिता दिवः। अपो मही वृणुते चक्षुषा तमो ज्योतिष्कृणोति सूनरी ॥
उदुस्रियाः सृजते सूर्यः सचा उद्यन्नक्षत्रमर्चिवत्। तवेदुषो व्युषि सूर्यस्य च सं भक्तेन गमेमहि ॥
इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना। अयं वामह्वेऽवसे शचीवसू विशंविशं हि गच्छथः ॥
युवं चित्रं ददथुर्भोजनं नरा चोदेथां सूनृतावते। अर्वाग्रथं समनसा नि यच्छतं पिबतं सोम्यं मधु ॥
अस्य प्रत्नामनु द्युतं शुक्रं दुदुह्रे अह्रयः। पयः सहस्रसामृषिम् ॥
अयं सूर्य इवोपदृगयं सरांसि धावति। सप्त प्रवत आ दिवम् ॥
अयं विश्वानि तिष्ठति पुनानो भुवनोपरि। सोमो देवो न सूर्यः ॥
एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः। हरिः पवित्रे अर्षति ॥
एष प्रत्नेन मन्मना देवो देवेभ्यस्परि। कविर्विप्रेण वावृधे ॥
दुहानः प्रत्नमित्पयः पवित्रे परि षिच्यसे। क्रन्दं देवां अजीजनः ॥
उप शिक्षापतस्थुषो भियसमा धेहि शत्रवे। पवमान विदा रयिम् ॥
उपो षु जातमप्तुरं (गोभिर्भङ्गं परिष्कृतम् । इन्दुं देवा अयासिषु) ॥
उपास्मै गायता नरः (पवमानायेन्दवे) ॥
प्र सोमासो विपश्चितोऽपो नयन्त ऊर्मयः। वनानि महिषा इव ॥
अभि द्रोणानि बभ्रवः शुक्रा ऋतस्य धारया। वाजं गोमन्तमक्षरन् ॥
सुता इन्द्राय वायवे वरुणाय मरुद्भ्यः। सोमा अर्षन्तु विष्णवे ॥
प्र सोम देववीतये सिन्धुर्न पिप्ये अर्णसा। अंशोः पयसा मदिरो न जागृविरच्छा कोशं मधुश्चुतम् ॥
आ हर्यतो अर्जुनो अत्के अव्यत प्रियः सूनुर्न मर्ज्यः। तमीं हिन्वन्त्यपसो यथा रथं नदीष्वा गभस्त्योः ॥
प्र सोमासो मदच्युतः श्रवसे नो मघोनाम्। सुता विदथे अक्रमुः ॥
आदीं हंसो यथा गणं विश्वस्यावीवशन्मतिम्। अत्यो न गोभिरज्यते ॥
आदीं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः । इन्दुमिन्द्राय पीतये ॥
अया पवस्व देवयु रेभन्पवित्रं पर्येषि विश्वतः। मधोर्धारा असृक्षत ॥
पवते हर्यतो हरिः (रति ह्वरासि रह्या। अभ्यर्ष स्तोतृभ्यो वीरवद्यशः)* ॥
प्र सुन्वानास्यान्धसोः (मर्तो न वष्ट तद्वचः। अप श्वानमराधसँ हता मखं न भृगवः)* ॥
पवस्व वाचो अग्रियः सोम चित्राभिरूतिभिः। अभि विश्वानि काव्या ॥
त्वंसमुद्रिया अपोऽग्रियो वाच ईरयन्। पवस्व विश्वचर्षणे ॥
तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे। तुभ्यं धावन्ति धेनवः ॥
पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने। विश्वा अप द्विषो जहि ॥
यस्य ते सख्ये वयंसासह्याम पृतन्यतः। तवेन्दो द्युम्न उत्तमे ॥
या ते भीमान्यायुधा तिग्मानि सन्ति धूर्वणे। रक्षा समस्य नो निदः । । 780 ॥
वृषा सोम द्युमांअसि वृषा देव वृषव्रतः। वृषा धर्माणि दध्रिषे ॥
वृष्णस्ते वृष्ण्यंशवो वृषा वनं वृषा सुतः। स त्वं वृषन्वृषेदसि ॥
अश्वो न चक्रदो वृषा सं गा इन्दो समर्वतः। वि नो राये दुरो वृधि ॥
वृषा ह्यसि भानुना द्युमन्तं त्वा हवामहे। पवमान स्वर्दृशम् ॥
यदद्भिः परिषि(शि)च्यसे मर्मृज्यमान आयुभिः। द्रोणे सधस्थमश्नुषे ॥
आ पवस्व सुवीर्यं मन्दमानः स्वायुध। इहो ष्विन्दवा गहि ॥
पवमानस्य ते वयं पवित्रमभ्युन्दतः। सखित्वमा वृणीमहे ॥
ये ते पवित्रमूर्मयोऽभिक्षरन्ति धारया। तेभिर्नः सोम मृडय ॥
स नः पुनान आ भर रयिं वीरवतीमिषम् । ईशानः सोम विश्वतः ॥
अग्निं दूतं वृणीमहे होतारं विश्ववेदसम्। अस्य यज्ञस्य सुक्रतुम् । 790 ॥
अग्निमग्निंहवीमभिः सदा हवन्त विश्पतिम्। हव्यवाहं पुरुप्रियम् ॥
अग्ने देवां इहा वह जज्ञानो वृक्तबर्हिषे। असि होता न ईड्यः ॥
मित्रं वयं हवामहे वरुणं सोमपीतये। या जाता पूतदक्षसा ॥
ऋतेन यावृतावृधावृतस्य ज्योतिषस्पती। ता मित्रावरुणा हुवे ॥
वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः। करतां नः सुराधसः ॥
इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः। इन्द्रं वाणीरनूषत ॥
इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचोयुजा। इन्द्रो वज्री हिरण्ययः ॥
इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च। उग्र उग्राभिरूतिभिः ॥
इन्द्रो दीर्घाय चक्षस आ सूर्यंरोहयद्दिवि। वि गोभिरद्रिमैरयत् ॥
इन्द्रे अग्ना नमो बृहत्सुवृक्तिमेरयामहे। धिया धेना अवस्यवः । 800 ॥
ता हि शश्वन्त ईडत इत्था विप्रास ऊतये। सबाधो वाजसातये ॥
ता वां गीर्भिर्विपन्युवः प्रयस्वन्तो हवामहे। मेधसाता सनिष्यवः ॥
वृषा पवस्व धारया मरुत्वते च मत्सरः। विश्वा दधान ओजसा ॥
तं त्वा धर्त्तारमोण्योः3 पवमान स्वर्दृशम्। हिन्वे वाजेषु वाजिनम् ॥
अया चित्तो विपानया हरिः पवस्व धारया। युजं वाजेषु चोदय ॥
वृषा शोणो अभिकनिक्रदद्गा नदयन्नेषि पृथिवीमुत द्याम्। इन्द्रस्येव वग्नुरा शृण्व आजौ प्रचोदयन्नर्षसि वाचमेमाम् ॥
रसाय्यः पयसा पिन्वमान ईरयन्नेषि मधुमन्तमंशुम्। पवमान सन्तनिमेषि कृण्वन्निन्द्राय सोम परिषिच्यमानः ॥
एवा पवस्व मदिरो मदायोदग्राभस्य नमयन्वधस्नुम्। परि वर्णं भरमाणो रुशन्तं गव्युर्नो अर्ष परि सोम सिक्तः ॥
त्वामिद्धि हवामहे सातौ वाजस्य कारवः। त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥
स त्वं नश्चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः। गामश्वंरथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे । । 810 ॥
अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे। यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥
शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे। गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ॥
त्वामिदा ह्यो नरोऽपीप्यन्वज्रिन्भूर्णयः। स इन्द्र स्तोमवाहस इह श्रुध्युप स्वसरमा गहि ॥
मत्स्वा सुशिप्रिन्हरिवस्तमीमहे त्वया भूषन्ति वेधसः। तव श्रवांस्युपमान्युक्थ्य सुतेष्विन्द्र गिर्वणः ॥
यस्ते मदो वरेण्यस्तेना पवस्वान्धसा। देवावीरघशंसहा ॥
जघ्निर्वृत्रममित्रियंसस्निर्वाजं दिवेदिवे। गोषातिरश्वसा असि ॥
सम्मिश्लो अरुषो भुवः सूपस्थाभिर्न धेनुभिः । सीदं च्छ्येनो न योनिमा ॥
अयं पूषा रयिउभगः सोमः पुनानो अर्षति। पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे ॥
समु प्रिया अनूषत गावो मदाय घृष्वयः। सोमासः कृण्वते पथः पवमानास इन्दवः ॥
य ओजिष्ठस्तमा भर पवमान श्रवाय्यम्। यः पञ्च चर्षणीरभि रयिं येन वनामहे । । 820 ॥
वृषा मतीनां पवते विचक्षणः सोमो अह्नां प्रतरीतोषसां दिवः। प्राणा सिन्धूनां कलशां अचिक्रददिन्द्रस्य हार्द्याविशन्मनीषिभिः ॥
मनीषिभिः पवते पूर्व्यः कविर्नृभिर्यतः परि कोशां असिष्यदत्। त्रितस्य नाम जनयन्मधु क्षरन्निन्द्रस्य वायूं सख्याय वर्धयन् ॥
अयं पुनान उषसो अरोचयदयं सिन्धुभ्यो अभवदु लोककृत्। अयं त्रिः सप्त दुदुहान आशिरं सोमो हृदे पवते चारु मत्सरः ॥
एवा ह्यसि वीरयुरेवा शूर उत स्थिरः । एवा ते राध्यं मनः ॥
एवा रातिस्तुविमघ विश्वेभिर्धायि धातृभिः। अधा चिदिन्द्र नः सचा ॥
मो षु ब्रह्मेव तन्द्रयुर्भवो वाजानां पते। मत्स्वा सुतस्य गोमतः ॥
इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः। रथीतमं रथीनां वाजानां सत्पतिं पतिम् ॥
सख्ये त इन्द्र वाजिनो मा भेम शवसस्पते। त्वामभि प्र नोनुमो जेतारमपराजितम् ॥
पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः। यदा वाजस्य गोमत स्तोतृभ्यो मंहते मघम् । । 829 ॥
एत असृग्रमिन्दवस्तिरः पवित्रमाशवः। विश्वान्यभि सौभगा । 830 ॥
विघ्नन्तो दुरिता पुरु सुगा तोकाय वाजिनः। त्मना कृण्वन्तो अर्वतः ॥
कृण्वन्तो वरिवो गवेऽभ्यर्षन्ति सुष्टुतिम्। इडामस्मभ्यं संयतम् ॥
राजा मेधाभिरीयते पवमानो मनावधि। अन्तरिक्षेण यातवे ॥
आ नः सोम सहो जुवो रूपं न वर्चसे भर। सुष्वाणो देववीतये ॥
आ न इन्दो शातग्विनं गवां पोषं स्वश्व्यम्। वहा भगत्तिमूतये ॥
तं त्वा नृम्णानि बिभ्रतं सधस्थेषु महो दिवः। चारुं सुकृत्ययेमहे ॥
संवृक्तधृष्णुमुक्थ्यं महामहिव्रतं मदम्। शतं पुरो रुरुक्षणिम् ॥
अतस्त्वा रयिरभ्ययद्राजानं सुक्रतो दिवः। सुपर्णो अव्यथी भरत् ॥
अधा हिन्वान इन्द्रियं ज्यायो महित्वमानशे। अभिष्टिकृद्विचर्षणिः ॥
विश्वस्मा इत्स्वर्दृशे साधारणं रजस्तुरम्। गोपामृतस्य विर्भरत् । । 840 ॥
इषे पवस्व धारया मृज्यमानो मनीषिभिः । इन्दो रुचाभि गा इहि ॥
पुनानो वरिवस्कृध्यूर्जं जनाय गिर्वणः। हरे सृजान आशिरम् ॥
पुनानो देववीतय इन्द्रस्य याहि निष्कृतम्। द्युतानो वाजिभिर्हितः ॥
अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा। हव्यवाड्जुह्वास्यः ॥
यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति। तस्य स्म प्राविता भव ॥
यो अग्निं देववीतये हविष्मां आविवासति। तस्मै पावक मृडय ॥
मित्रंहुवे पूतदक्षं वरुणं च रिशादसम्। धियं घृताचींंसाधन्ता ॥
ऋतेन मित्रावरुणावृतावृधावृतस्पृशा। क्रतुं बृहन्तमाशाथे ॥
कवी नो मित्रावरुणा तुविजाता उरुक्षया। दक्षं दधाते अपसम् ॥
इन्द्रेण संहि दृक्षसे सजग्मानो अबिभ्युषा। मन्दू समानवर्च्चसा । 850 ॥
आदह स्वधामनु पुनर्गर्भत्वमेरिरे। दधाना नाम यज्ञियम् ॥
वीडु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः। अविन्द उस्रिया अनु ॥
ता हुवे ययोरिदं पप्ने विश्वं पुरा कृतम्। इन्द्राग्नी न मर्धतः ॥
उग्रा विघनिना मृध इन्द्राग्नी हवामहे। ता नो मृडात ईदृशे ॥
हथो वृत्राण्यार्या हथो दासानि सत्पती। हथो विश्वा अप द्विषः ॥
अभि सोमास आयवः पवन्ते मद्यं मदम्। समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः ॥
तरत्समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत्। अर्षा मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत् ॥
नृभिर्येमाणो हर्यतो विचक्षणो राजा देवः समुद्र्यः ॥
तिस्रो वाच ईरयति प्र वह्निरृतस्य धीतिं ब्रह्मणो मनीषाम्। गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वावशानाः ॥
सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः। सोमः सुत ऋच्यते प वमानः सोमे अर्कास्त्रिष्टुभः सं नवन्ते । 860 ॥
एवा नः सोम परिषिच्यमान आ पवस्व पूयमानः स्वस्ति। इन्द्रमा विश बृहता मदेन वर्धया वाचं जनया पुरन्धिम् ॥
यद्द्याव इन्द्र ते शतंशतं भूमीरुत स्युः। न त्वा वज्रिन्त्सहस्रंसूर्या अनु न जातमष्ट रोदसी ॥
आ पप्राथ महिना वृष्ण्या वृषन्विश्वा शविष्ठ शवसा। अस्मांअव मघवन् गोमति व्रजे वज्रिंचित्राभिरूतिभिः ॥
वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः। पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते ॥
स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः। कदा सुतं तृषाण ओक आ गमदिन्द्र स्वब्दीव वंसगः ॥
कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणम्। पिशङ्गरूपं मघवन्विचर्षणे मक्षू गोमन्तमीमहे ॥
तरणिरित्सिषासति वाजं पुरंध्या युजा। आ व इन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्रुवम् ॥
न दुष्टुतिर्द्रविणोदेषु शस्यते न स्रेधन्तंरयिर्नशत्। सुशक्तिरिन्मघवं तुभ्यं मावते देष्णं यत्पार्ये दिवि ॥
तिस्रो वाच उदीरते गावो मिमन्ति धेनवः। हरिरेति कनिक्रदत् ॥
अभि ब्रह्मीरनूषत यह्वीरृतस्य मातरः। मर्जयन्तीर्दिवः शिशुम् । 870 ॥
रायः समुद्रांश्चतुरोऽस्मभ्यं सोम विश्वतः। आ पवस्व सहस्रिणः ॥
सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः। पवित्रवन्तो अक्षरं देवान्गच्छन्तु वो मदाः ॥
इन्दुरिन्द्राय पवत इति देवासो अब्रुवन्। वाचस्पतिर्मखस्यते विश्वस्येशान ओजसः ॥
सहस्रधारः पवते समुद्रो वाचमीङ्खयः। सोमस्पती रयीणांसखेन्द्रस्य दिवेदिवे ॥
पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः। अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तः सं तदाशत ॥
तपोष्पवित्रं विततं दिवस्पदेऽर्चन्तो अस्य तन्तवो व्यस्थिरन्। अवन्त्यस्य पवितारमाशवो दिवः पृष्ठमधि रोहन्ति तेजसा ॥
अरूरुचदुषसः पृश्निरग्रिय उक्षा मिमेति भुवनेषु वाजयुः। मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमा दधुः ॥
प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे। उपस्तुतासो अग्नये ॥
आ वंसते मघवा वीरवद्यशः समिद्धो द्युम्न्याहुतः। कुविन्नो अस्य सुमतिर्भवीयस्यच्छा वाजेभिरागमत् ॥
तं ते मदं गृणीमसि वृषणं पृक्षु सासहिम्। उ लोककृत्नुमद्रिवो हरिश्रियम् । 880 ॥
येन ज्योतींष्यायवे मनवे च विवेदिथ। मन्दानो अस्य बर्हिषो वि राजसि ॥
तदद्या चित्त उक्थिनोऽनु ष्टुवन्ति पूर्वथा। वृषपत्नीरपो जया दिवेदिवे ॥
श्रुधी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति। सुवीर्यस्य गोमतो रायस्पूर्धि महांअसि ॥
यस्त इन्द्र नवीयसीं गिरं मन्द्रामजीजनत्। चिकित्विन्मनसं धियं प्रत्नामृतस्य पिप्युषीम् ॥
तमु ष्टवाम यं गिर इन्द्रमुक्थानि वावृधुः। पुरूण्यस्य पौंस्या सिषासन्तो वनामहे । । 885 ॥
प्र त आश्विनीः पवमान धेनवो दिव्या असृग्रन्पयसा धरीमणि। प्रान्तरिक्षात्स्थाविरीस्ते असृक्षत ये त्वा मृजन्त्यृषिषाण वेधसः ॥
उभयतः पवमानस्य रश्मयो ध्रवस्य सतः परि यन्ति केतवः। यदी पवित्रे अधि मृज्यते हरिः सत्ता नि योनौ कलशेषु सीदति ॥
विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोष्टे सतः परि यन्ति केतवः। व्यानशी पवसे सोम धर्मणा पतिर्विश्वस्य भुवनस्य राजसि ॥
पवमानो अजीजनद्दिवश्चित्रं न तन्यतुम्। ज्योतिर्वैश्वानरं बृहत् ॥
पवमान रसस्तव मदो राजन्नदुच्छुनः। वि वारमव्यमर्षति । 890 ॥
पवमानस्य ते रसो दक्षो वि राजति द्युमान्। ज्योतिर्विश्वं स्वर्दृशे ॥
प्र यद्गावो न भूर्णयस्त्वेषा अयासो अक्रमुः। घ्नन्तः कृष्णामप त्वचम् ॥
सुवितस्य वनामहेऽति सेतुं दुराय्यम्। साह्याम दस्युमव्रतम् ॥
शृण्वे वृष्टेरिव स्वनः पवमानस्य शुष्मिणः। चरन्ति विद्युतो दिवि ॥
आ पवस्व महीमिषं गोमदिन्दो हिरण्यवत्। अश्ववत्सोम वीरवत् ॥
पवस्व विश्वचर्षण आ मही रोदसी पृण। उषाः सूर्यो न रश्मिभिः ॥
परि नः शर्मयन्त्या धारया सोम विश्वतः। सरा रसेव विष्टपम् ॥
आशुरर्ष बृहन्मते परि प्रियेण धाम्ना। यत्रा देवा इति ब्रुवन् ॥
परिष्कृण्वन्ननिष्कृतं जनाय यातयन्निषः। पृष्टिं दिवः परि स्रव ॥
अयं स यो दिवस्परि रघुयामा पवित्र आ। सिन्धोरूर्मा व्यक्षरत् । 900 ॥
सुत एति पवित्र आ त्विषिं दधान ओजसा। विचक्षाणो विरोचयन् ॥
आविवासन्परावतो अथो अर्वावतः सुतः। इन्द्राय सिच्यते मधु ॥
समीचीना अनूषत हरिं हिन्वन्त्यद्रिभिः। इन्दुमिन्द्राय पीतये ॥
हिन्वन्ति सूरमुस्रयः स्वसारो जामयस्पतिम्। महामिन्दुं महीयुवः ॥
पवमान रुचारुचा देवो देवेभ्यः सुतः। विश्वा वसून्या विश ॥
आ पवमान सुष्टुतिं वृष्टिं देवेभ्यो दुवः। इषे पवस्व संयतम् ॥
जनस्य गोपा अजनिष्ट जागृविरग्निः सुदक्षः सुविताय नव्यसे। घृतप्रतीको बृहता दिविस्पृशा द्युमद्वि भाति भरतेभ्यः शुचिः ॥
त्वामग्ने अङ्गिरसो गुहा हितमन्वविन्दञ्छिश्रियाणं वनेवने। स जायसे मथ्यमानः सहो महत्वामाहुः सहसस्पुत्रमङ्गिरः ॥
यज्ञस्य केतुं प्रथमं पुरोहितमग्निं नरस्त्रिषधस्थे समिन्धते। इन्द्रेण देवैः सरथंस बर्हिषि सीदन्नि होता यजथाय सुक्रतुः ॥
अयं वां मित्रावरुणा सुतः सोम ऋतावृधा। ममेदिह श्रुतं हवम् । 910 ॥
राजानावनभिद्रुहा ध्रुवे सदस्युत्तमे। सहस्रस्थूण आशाते ॥
ता सम्राजा घृतासुती आदित्या दानुनस्पती। सचेते अनवह्वरम् ॥
इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः। जघान नवतीर्नव ॥
इच्छन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम्। तद्विदच्छर्यणावति ॥
अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम्। इत्था चन्द्रमसो गृहे ॥
इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः। अभ्राद्वृष्टिरिवाजनि ॥
शृणुतं जरितुउहवमिन्द्राग्नी वनतं गिरः। ईशाना पिप्यतं धियः ॥
मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये। मा नो रीरधतं निदे ॥
पवस्व दक्षसाधनो देवेभ्यः पीतये हरे। मरुद्भ्यो वायवे मदः ॥
सं देवैः शोभते वृषा कविउयोनावधि प्रियः। पवमानो अदाभ्यः । 920 ॥
पवमान धिया हितो3ऽभि योनिं कनिक्रदत्। धर्मणा वायुमारुहः ॥
तवाहं सोम रारण सख्य इन्दो दिवेदिवे। पुरूणि बभ्रो नि चरन्ति मामव परिधींरति तांइहि ॥
तवाहं नक्तमुत सोम ते दिवा दुहानो बभ्र ऊधनि। घृणा तपन्तमति सूर्यं परः शकुना इव पप्तिम ॥
पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः। शुम्भन्ति विप्रं धीतिभिः ॥
आ योनिमरुणो रुहद्गमदिन्द्रो वृषा सुतम्। ध्रुवे सदसि सीदतु ॥
नू नो रयिं महामिन्दोऽस्मभ्यं सोम विश्वतः। आ पवस्व सहस्रिणम् ॥
पिबा सोममिन्द्र मदन्तु त्वा यं ते सुषाव हर्यश्वाद्रिः। सोतुर्बाहुभ्यां सुयतो नार्वा ॥
यस्ते मदो युज्यश्चारुरस्ति येन वृत्राणि हर्यश्व हंसि। स त्वामिन्द्र प्रभूवसो ममत्तु ॥
बोधा सु मे मघवन्वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिम्। इमा ब्रह्म सधमादे जुषस्व ॥
विश्वाः पृतना अभिभूतरं नरः सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे। क्रत्वे वरे स्थेमन्यामुरीमुतोग्रमोजिष्ठं तरसं तरस्विनम् । 930 ॥
नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरे। सुदीतयो वो अद्रुहोऽपि कर्णे तरस्विनः समृक्वभिः ॥
समु रेभासो अस्वरन्निन्द्रं सोमस्य पीतये। स्वःपतिर्यदी वृधे धृतव्रतो ह्योजसा समूतिभिः ॥
यो राजा चर्षणीनां याता रथेभिरध्रिगुः। विश्वासां तरुता पृतनानां ज्येष्ठं यो वृत्रहा गृणे ॥
इन्द्रं तंशुम्भ पुरुहन्मन्नवसे यस्य द्विता विधर्तरि। हस्तेन वज्रः प्रति धायि दर्शतो महां देवो न सूर्यः ॥
परि प्रिया दिवः कविर्वयांसि नप्त्योर्हितः। स्वानैर्याति कविक्रतुः ॥
स सूनुर्मातरा शुचिर्जातो जाते अरोचयत्। महान्मही ऋतावृधा ॥
प्रप्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहः। वीत्यर्ष पनिष्टये ॥
त्वं ह्याðžऽंङ्ग दैव्य पवमान जनिमानि द्युमत्तमः। अमृतत्वाय घोषयन् ॥
येना नवग्वा दध्यङ्ङपोर्णुते येन विप्रास आपिरे। देवानां सुम्ने अमृतस्य चारुणो येन श्रवांस्याशत ॥
सोमः पुनान ऊर्मिणाव्यं वारं वि धावति। अग्रे वाचः पवमानः कनिक्रदत् । 940 ॥
धीभिर्मृजन्ति वाजिनं वने क्रीडन्तमत्यविम्। अभि त्रिपृष्ठं मतयः समस्वरन् ॥
असर्जि कलशां अभि मीढ्वांत्सप्तिर्न वाजयुः। पुनानो वाचं जनयन्नसिष्यदत् ॥
सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः। जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः ॥
ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम्। श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन् ॥
प्रावीविपद्वाच ऊर्मिं न सिन्धुर्गिर स्तोमान्पवमानो मनीषाः। अन्तः पश्यन्वृजनेमावराण्या तिष्ठति वृषभो गोषु जानन् ॥
अग्निं वो वृधन्तमध्वराणां पुरूतमम्। अच्छा नप्त्रे सहस्वते ॥
अयं यथा न आभुवत्त्वष्टा रूपेव तक्ष्या। अस्य क्रत्वा यशस्वतः ॥
अयं विश्वा अभि श्रियोऽग्निर्देवेषु पत्यते। आ वाजैरुप नो गमत् ॥
इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम्। शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने ॥
न किष्ट्वद्रथीतरो हरी यदिन्द्र यच्छसे। न किष्ट्वानु मज्मना न किः स्वश्व आनशे । 950 ॥
इन्द्राय नूनमर्चतोक्थानि च ब्रवीतन। सुता अमत्सुरिन्दवो ज्येष्ठं नमस्यता सहः ॥
इन्द्र जुषस्व प्र वहा याहि शूर हरिह। पिबा सुतस्य मतिर्न मधोश्चकानश्चारुर्मदाय ॥
इन्द्र जठरं नव्यं न पृणस्व मधोर्दिवो न। अस्य सुतस्य स्वाउर्नोप त्वा मदाः सुवाचो अस्थुः ॥
इन्द्रस्तुराषाण्मित्रो न जघान वृत्रं यतिर्न। बिभेद वलं भृगुर्न ससाहे शत्रून्मदे सोमस्य ॥
गोवित्पवस्व वसुविद्धिरण्यविद्रेतोधा इन्दो भुवनेष्वर्पितः। त्वं सुवीरो असि सोम विश्ववित्तं त्वा नर उप गिरेम आसते ॥
त्वं नृचक्षा असि सोम विश्वतः पवमान वृषभ ता वि धावसि। स नः पवस्व वसुमद्धिरण्यवद्वयं स्याम भुवनेषु जीवसे ॥
ईशान इमा भुवनानि ईयसे युजान इन्दो हरितः सुपकण्यः। तास्ते क्षरन्तु मधुमद्घृतं पयस्तव व्रते सोम तिष्ठन्तु कृष्टयः ॥
पवमानस्य विश्ववित्प्र ते सर्गा असृक्षत। सूर्यस्येव न रश्मयः ॥
केतुं कृण्वं दिवस्परि विश्वा रूपाभ्यर्षसि। समुद्रः सोम पिन्वसे ॥
जज्ञानो वाचमिष्यसि पवमान विधर्मणि। क्रन्दं देवो न सूर्यः । । 960 ॥
प्र सोमासो अधन्विषुः पवमानास इन्दवः। श्रीणाना अप्सु वृञ्जते ॥
अभि गावो अधन्विषुरापो न प्रवता यतीः। पुनाना इन्द्रमाशत ॥
प्र पवमान धन्वसि सोमेन्द्राय मादनः। नृभिर्यतो वि नीयसे ॥
इन्दो यदद्रिभिः सुतः पवित्रं परिदीयसे। अरमिन्द्रस्य धाम्ने ॥
त्वं सोम नृमादनः पवस्व चर्षणीधृतिः। सस्निर्यो अनुमाद्यः ॥
पवस्व वृत्रहन्तम उक्थेभिरनुमाद्यः। शुचिः पावको अद्भुतः ॥
शुचिः पावक उच्यते सोमः सुतः स मधुमान्। देवावीरघशंसहा ॥
प्र कविर्देववीतयेऽव्या वारेभिरव्यत। साह्वान्विश्वा अभि स्पृधः ॥
स हि ष्मा जरितृभ्य आ वाजं गोमन्तमिन्वति। पवमानः सहस्रिणम् ॥
परि विश्वानि चेतसा मृज्यसे पवसे मती। स नः सोम श्रवो विदः । 970 ॥
अभ्यर्ष बृहद्यशो मघवद्भ्यो ध्रुवं रयिम्। इषं स्तोतृभ्य आ भर ॥
त्वं राजेव सुव्रतो गिरः सोमाविवेशिथ। पुनानो वह्ने अद्भुत ॥
स वह्निरप्सु दुष्टरो मृज्यमानो गभस्त्योः। सोमश्चमूषु सीदति ॥
क्रीडुर्मखो न मंहयुः पवित्रं सोम गच्छसि। दधत्स्तोत्रे सुवीर्यम् ॥
यवंयवं नो अन्धसा पुष्टंपुष्टं परि स्रव। विश्वा च सोम सौभगा ॥
इन्दो यथा तव स्तवो यथा ते जातमन्धसः। नि बर्हिषि प्रिये सदः ॥
उत नो गोविदश्ववित्पवस्व सोमान्धसा। मक्षूतमेभिरहभिः ॥
यो जिनाति न जीयते हन्ति शत्रुमभीत्य। स पवस्व सहस्रजित् ॥
यास्ते धारा मधुश्चुतोऽसृग्रमिन्द ऊतये। ताभिः पवित्रमासदः ॥
सो अर्षेन्द्राय पीतये तिरो वाराण्यव्यया। सीदन्नृतस्य योनिमा । 980 ॥
त्वं सोम परि स्रव स्वादिष्ठो अङ्गिरोभ्यः। वरिवोविद्धृतं पयः ॥
तव श्रियो वकष्यस्येव विद्युतोऽग्नेश्चिकित्र उषसामिवेतयः। यदोषधीरभिसृष्टो वनानि च परि स्वयं चिनुषे अन्नमासनि ॥
वातोपजूत इषितो वशांअनु तृषु यदन्ना वेविषद्वितिष्ठसे। आ ते यतन्ते रथ्योऽ.यथा पृथक्शर्धांस्यग्ने अजरस्य धक्षतः ॥
मेधाकारं विदथस्य प्रसाधनमग्निंहोतारं परिभूतरं मतिम्। त्वामर्भस्य हविषः समानमित्वां महो वृणते नान्यं त्वत् ॥
पुरूरुणा चिद्ध्यस्त्यवो नूनं वां वरुण। मित्र वंसि वांसुमतिम् ॥
ता वांसम्यगद्रुह्वाणेषमश्याम धाम च। वयं वां मित्रा स्याम ॥
पातं नो मित्रा पायुभिरुत त्रायेथांसुत्रात्रा साह्याम दस्यूं तनूभिः ॥
उत्तिष्ठन्नोजसा सह पीत्वा शिप्रे अवेपयः। सोममिन्द्र चमू सुतम् ॥
अनु त्वा रोदसी उभे स्पर्धमानमददेताम्। इन्द्र यद्दस्युहाभवः ॥
वाचमष्टापदीमहं नवस्रक्तिमृतावृधम्। इन्द्रात्परितन्वं ममे । । 990 ॥
इन्द्राग्नी युवामिमे3ऽभि स्तोमा अनूषत। पिबतंशम्भुवा सुतम् ॥
या वांसन्ति पुरुस्पृहो नियुतो दाशुषे नरा। इन्द्राग्नी ताभिरा गतम् ॥
ताभिरा गच्छतं नरोपेदंसवनंसुतम्। इन्द्राग्नी सोमपीतये ॥
अर्षा सोम द्युमत्तमोऽभि द्रोणानि रोरुवत्। सीदन्योनौ वनेष्वा ॥
अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः। सोमा अर्षन्तु विष्णवे ॥
इषं तोकाय नो दधदस्मभ्यं सोम विश्वतः। आ पवस्व सहस्रिणम् ॥
सोम उ ष्वाणः सोतृभिरधि ष्णुभिरवीनाम्। अश्वयेव हरिता याति धारया मन्द्रया याति धारया ॥
अनूपे गोमान्गोभिरक्षाः सोमो दुग्धाभिरक्षाः। समुद्रं न संवरणान्यग्मन्मन्दी मदाय तोशते ॥
यत्सोम चित्रमुक्थ्यं दिव्यं पार्थिवं वसु। तन्नः पुनान आ भर ॥
वृषा पुनान आयूंषि स्तनयन्नधि बर्हिषि। हरिः सन्योनिमासदः । 1000 ॥
युवं हि स्थः स्वःपती इन्द्रश्च सोम गोपती। ईशाना पिप्यतं धियः ॥
इन्द्रो मदाय वावृघे शवसे वृत्रहा नृभिः। तमिन्महत्स्वाजिषूतिमर्भे हवामहे स वाजेषु प्र नोऽविषत् ॥
असि हि वीर सेन्योऽसि भूरि पराददिः। असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु ॥
यदुदीरत आजयोः (धृष्णवे धीयते धनाम्। ॥ युङ्क्ष्वा मदच्युता हरी कं हनः कं वसौ दधोऽस्मां इन्द्र वसौ दधः ।)* ॥
स्वादोरित्था विषूवतो (मध्वः पिबन्ति गौर्यः। या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यम् ॥)* ॥
ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः। प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु स्वराज्यम् ॥
ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः। व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यम् ॥
असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः। श्येनो न योनिमासदत् ॥
शुभ्रमन्धो देववातमप्सु धौतं नृभिः सुतम्। स्वदन्ति गावः पयोभिः ॥
आदीमश्वं न हेतारमशूशुभन्नमृताय। मधो रसं सधमादे । । 1010 ॥
अभि द्युभ्नं बृहद्यश इषस्पते दीदिहि देव देवयुम्। वि कोशं मध्यमं युव ॥
आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर्न विश्पतिः। वृष्टिं दिवः पवस्व रीतिमपो जिन्वन्गविष्टये धियः ॥
प्राणा शिशुउमहीनां हिन्वन्नृतस्य दीधितिम्। विश्वा परि प्रिया भुवदध द्विता ॥
उप त्रितस्य पाष्योऽभक्त यद्गुहा पदम्। यज्ञस्य सप्त धामभिरध प्रियम् ॥
त्रीणि त्रितस्य धारया पृष्ठेष्वैरयद्रयिम्। मिमीते अस्य योजना वि सुक्रतुः ॥
पवस्व वाजसातये पवित्रे धारया सुतः। इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तरः ॥
त्वां रिहन्ति धीतयो हरिं पवित्रे अद्रुहः। वत्सं जातं न मातरः पवमान विधर्मणि ॥
त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे। प्रति द्रापिममुञ्चथाः पवमान महित्वना ॥
इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय। हन्ति रक्षो बाधते पर्यरातिं वरिवस्कृण्वन्वृजनस्य राजा ॥
अध धारया मध्वा पृचानस्तिरो रोम पवते अद्रिदुग्धः। इन्दुरिन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय । 1020 ॥
अभि व्रतानि पवते पुनानो देवो देवान्त्स्वेन रसेन पृञ्चन्। इन्दुर्धर्माण्यृतुथा वसानो दश क्षिपो अव्यत सानो अव्ये ॥
आ ते अग्न इधीमहि द्युमन्तं देवाजरम् । यद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषं स्तोतृभ्य आ भर ॥
आ ते अग्न ऋचा हविः शुक्रस्य ज्योतिषस्पते । सुश्चन्द्र दस्म विश्पते हव्यवाट् तुभ्यं हूयत इषं स्तोतृभ्य आ भर ॥
ओभे सुश्चन्द्र विश्पते दर्वी श्रीणीष आसनि। उतो न उत्पुपूर्या उक्थेषु शवसस्पत इषं स्तोतृभ्य आ भर ॥
इन्द्राय साम गायत विप्राय बृहते बृहत्। ब्रह्मकृते विपश्चिते पनस्यवे ॥
त्वमिन्द्राभिभूरसि त्वं सूर्यमरोचयः। विश्वकर्मा विश्वदेवो महां असि ॥
विभ्राजं ज्योतिषा स्वऽगच्छो रोचनं दिवः। देवास्त इन्द्र सख्याय येमिरे ॥
असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि। आ त्वा पृणक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः ॥
आ तिष्ठ वृत्रहन्रथं युक्ता ते ब्रह्मणा हरी। अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना ॥
इन्द्रमिद्धरी वहतोऽप्रतिधृष्टशवसम्। ऋषीणां सुष्टुतीरुप यज्ञं च मानुषाणाम् । । 1030 ॥
ज्योतिर्यज्ञस्य पवते मधु प्रियं पिता देवानां जनिता विभूवसु। दधाति रत्नं स्वधयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रसः ॥
अभिक्रन्दन्कलशं वाज्यर्षति पतिर्दिवः शतधारो विचक्षणः। हरिर्मित्रस्य सदनेषु सीदति मर्मृजानोऽविभिः सिन्धुभिर्वृषा ॥
अग्रे सिन्धूनां पवमानो अर्षत्यग्रे वाचो अग्रियो गोषु गच्छसि ॥
अग्रे वाजस्य भजसे महद्धनं स्वायुधः सोतृभिः सोम सूयसे ॥
असृक्षत प्र वाजिनो गव्या सोमासो अश्वया। शुक्रासो वीरयाशवः ॥
शुम्भमाना ऋतायुभिर्मृज्यमाना गभस्त्योः। पवन्ते वारे अव्यये ॥
ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा। पवन्तामान्तरिक्ष्या ॥
पवस्व देववीरति पवित्रं सोम रंह्या। इन्द्रमिन्दो वृषा विश ॥
आ वच्यस्व महि प्सरो वृषेन्दो द्युम्नवत्तमः। आ योनिं धर्णसिः सदः ।
अधुक्षत प्रियं मधु धारा सुतस्य वेधसः। अपो वसिष्ट सुक्रतुः ॥
महान्तं त्वा महीरन्वापो अर्षन्ति सिन्धवः। यद्गोभिर्वासयिष्यसे । 1040 ॥
समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः। सोमः पवित्रे अस्मयुः ॥
अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः। सं सूर्येण दिद्युते ॥
गिरस्त इन्द ओजसा मर्मृज्यन्ते अपस्युवः। याभिर्मदाय शुम्भसे ॥
तं त्वा मदाय घृष्वय उ लोककृत्नुमीमहे। तव प्रशस्तये महे ॥
गोषा इन्दो नृषा अस्यश्वसा वाजसा उत। आत्मा यज्ञस्य पूर्व्यः ॥
अस्मभ्यमिन्दविन्द्रियं मधोः पवस्व धारया। पर्जन्यो वृष्टिमांइव ॥
सना च सोम जेषि च पवमान महि श्रवः। अथा नो वस्यसस्कृधि ॥
सना ज्योतिः सना स्वाऽविश्वा च सोम सौभगा। अथा नो वस्यसस्कृधि ॥
सना दक्षमुत क्रतुमप सोम मृधो जहि। अथा नो वस्यसस्कृधि ॥
पवीतारः पुनीतन सोममिन्द्राय पातवे। अथा नो वस्यसस्कृधि । 1050 ॥
त्वंसूर्ये न आ भज तव क्रत्वा तवोतिभिः। अथा नो वस्यसस्कृधि ॥
तव क्रत्वा तवोतिभिर्ज्योक्पश्येम सूर्यम्। अथा नो वस्यसस्कृधि ॥
अभ्यर्ष स्वायुध सोम द्विबर्हसंरयिम्। अथा नो वस्यसस्कृधि ॥
अभ्य3र्षानपच्युतो वाजिन्त्समत्सु सासहिः। अथा नो वस्यसस्कृधि ॥
त्वां यज्ञैरवीवृधन्पवमान विधर्मणि। अथा नो वस्यसस्कृधि ॥
रयिं नश्चित्रमश्विनमिन्दो विश्वायुमा भर। अथा नो वस्यसस्कृधि ॥
तरत्स मन्दी धावति धारा सुतस्यान्धसः। तरत्स मन्दी धावति ॥
उस्रा वेद वसूनां मर्त्तस्य देव्यवसः। तरत्स मन्दी धावति ॥
ध्वस्रयोः पुरुषन्त्योरा सहस्राणि दद्महे। तरत्स मन्दी धावति ॥
आ ययोस्त्रिंशतं तना सहस्राणि च दद्महे। तरत्स मन्दी धावति । । 1060 ॥
एते सोमा असृक्षत गृणानाः शवसे महे। मदिन्तमस्य धारया ॥
अभि गव्यानि वीतये नृम्णा पुनानो अर्षसि। सनद्वाजः परि स्रव ॥
उत नो गोमतीरिषो विश्वा अर्ष परिष्टुभः। गृणानो जमदग्निना ॥
इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया। भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव ॥
भरामेध्मं कृणवामा हवींषि ते चितयन्तः पर्वणापर्वणा वयम्। जीवातवे प्रतरां साधया धियोऽग्ने सख्ये मा रिषामा वयं तव ॥
शकेम त्वा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतम्। त्वमादित्यां आ वह तान्ह्यूऽ.श्मस्यग्ने सख्ये मा रिषामावयं तव ॥
प्रति वांसूर उदिते मित्रं गृणीषे वरुणम्। अर्यमणं रिशादसम् ॥
राया हिरण्यया मतिरियमवृकाय शवसे। इयं विप्रा मेधसातये ॥
ते स्याम देव वरुण ते मित्र सूरिभिः सह। इषंस्वश्च धीमहि ॥
भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः। वसु स्पार्हं तदा भर । 1070 ॥
यस्य ते विश्वमानुषग्भूरेर्दत्तस्य वेदति। वसु स्पार्हं तदा भर ॥
यद्वीडाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतम्। वसु स्पार्हं तदा भर ॥
यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु। इन्द्राग्नी तस्य बोधतम् ॥
तोशासा रथयावाना वृत्रहणापराजिता। इन्द्राग्नी तस्य बोधतम् ॥
इदं वां मदिरं मध्वधुक्षन्नद्रिभिर्नरः। इन्द्राग्नी तस्य बोधतम् ॥
इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः। अर्कस्य योनिमासदम् ॥
तं त्वा विप्रा वचोविदः परिष्कृण्वन्ति धर्णसिम्। सं त्वा मृजन्त्यायवः ॥
रसं ते मित्रो अर्यमा पिबन्तु वरुणः कवे। पवमानस्य मरुतः ॥
मृज्यमानः सुहस्त्य समुद्रे वाचमिन्वसि। रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि ॥
पुनानो वारे पवमानो अव्यये वृषो अचिक्रदद्वने। देवानांसोम पवमान निष्कृतं गोभिरञ्जानो अर्षसि । । 1080 ॥
एतमु त्यं दश क्षिपो मृजन्ति सिन्धुमातरम्। समादित्येभिरख्यत ॥
समिन्द्रेणोत वायुना सुत एति पवित्र आ। सं सूर्यस्य रश्मिभिः ॥
स नो भगाय वायवे पूष्णे पवस्व मधुमान्। चारुर्मित्रे वरुणे च ॥
रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः। क्षुमन्तो याभिर्मदेम ॥
आ घ त्वावान् त्मना युक्तः स्तोतृभ्यो धृष्णवीयानः। ऋणोउक्षं न चक्रयोः ॥
आ यद्दुवः शतक्रतवा कामं जरितृृ़णाम्। ऋणोउक्षं न शचीभिः ॥
सुरूपकृत्नुमूतये सुदुघामिव गोदुहे। जुहूमसि द्यविद्यवि ॥
उप नः सवना गहि सोमस्य सोमपाः पिब। गोदा इद्रेवतो मदः ॥
अथा ते अन्तमानां विद्याम सुमतीनाम्। मा नो अति ख्य आ गहि ॥
उभे यदिन्द्र रोदसी आपप्राथोषा इव। महान्तं त्वा महीनां सम्राजं चर्षणीनाम्। देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् । 1090 ॥
दीर्घं ह्यङ्कुशं यथा शक्तिं बिभर्षि मन्तुमः। पूर्वेण मघवन्पदा वयामजो यथा यमः। देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥
अव स्म दुर्हृणायतो मर्त्तस्य तनुहि स्थिरम्। अधस्पदं तमीं कृधि यो अस्मां अभिदासति। देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥
परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत्। मदेषु सर्वधा असि ॥
त्वं विप्रस्त्वं कविउमधु प्र जातमन्धसः। मदेषु सर्वधा असि ॥
त्वे विश्वे सजोषसो देवासः पीतिमाशत। मदेषु सर्वधा असि ॥
स सुन्वे यो वसूनां यो रायामानेता य इडानाम्। सोमो यः सुक्षितीनाम् ॥
यस्य त इन्द्रः पिबाद्यस्य मरुतो यस्य वार्यमणा भगः। आ येन मित्रावरुणा करामह एन्द्रमवसे महे ॥
तं वः सखायो मदाय पुनानमभि गायत। शिशुं न हव्यैः स्वदयन्त गूर्तिभिः ॥
सं वत्स इव मातृभिरिन्दुर्हिन्वानो अज्यते। देवावीर्मदो मतिभिः परिष्कृतः ॥
अयं दक्षाय साधनोऽयमदेषु सर्वधा असि शर्धाय वीतये। अयं देवेभ्यो मधुमत्तरः सुतः । । 1100 ॥
सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः। मित्राः स्वाना अरेपसः स्वाध्यः स्वर्विदः ॥
ते पूतासो विपश्चितः सोमासो दध्याशिरः। सूरासो न दर्शतासो जिगत्नवो ध्रुवा घृते ॥
सुष्वाणासो व्यद्रिभिश्चिताना गोरधि त्वचि। इषमस्मभ्यमभितः समस्वरन्वसुविदः ॥
अया पवा पवस्वैना वसूनि मांश्चत्व इन्दो सरसि प्र धन्व। ब्रघ्नश्चिद्यस्य वातो न जूतिं पुरुमेधाश्चित्तकवे नरं धात् ॥
उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे। षष्टिं सहस्रा नैगुतो वसूनि वृक्षं न पक्वं धूनवद्रणाय ॥
महीमे अस्य वृष नाम शूषे मांश्चत्वे वा पृशने वा वधत्रे। अस्वापयन्निगुतः स्नेहयच्चापामित्रां अपाचितो अचेतः ॥
अग्ने त्वं नो अन्तम उत त्राता शिवो भुवो वरूथ्यः ॥
वसुरग्निर्वसुश्रवा अच्छा नक्षि द्युमत्तमो रयिं दाः ॥
तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः ॥
इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः । 1110 ॥
यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह सीषधातु ॥
आदित्यैउइन्द्रः सगणो मरुद्भिरस्मभ्यं भेषजा करत् ॥
प्रवोऽर्चोप (प्र व इन्द्राय वृत्रहन्तमाय विप्राय गाथं गायत यं जुजोषते ॥) ॥
प्रवोऽर्चोप (अर्चन्त्यर्कं मरुतः स्वर्का आ स्तोभति श्रुतो युवा स इन्द्रः ॥) ॥
प्रवोऽर्चोप (उप प्रक्षे मधुमति क्षियन्तः पुष्येम रयिं धीमहे त इन्द्र ॥) ॥
प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति। महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन् ॥
प्र हंसासस्तृपला वग्नुमच्छामादस्तं वृषगणा अयासुः । आङ्गोषिणं पवमानं सखायो दुर्मर्षं वाणं प्र वदन्ति साकम् ॥
सयोजत उरुगायस्य जूतिं वृथा क्रीडन्तं मिमते न गावः। परीणसं कृणुते तिग्मशृङ्गो दिवा हरिर्ददृशे नक्तमृज्रः ॥
प्र स्वानासो रथा इवार्वन्तो न श्रवस्यवः। सोमासो राये अक्रमुः ॥
हिन्वानासो रथा इव दधन्विरे गभस्त्योः। भरासः कारिणामिव । 1120 ॥
राजानो न प्रशस्तिभिः सोमासो गोभिरञ्जते। यज्ञोउ न सप्त धातृभिः ॥
परि स्वानास इन्दवो मदाय बर्हणा गिरा। मधो अर्षन्ति धारया ॥
आपानासो विवस्वतो जिन्वन्त उषसो भगम्। सूरा अण्वं वि तन्वते ॥
अप द्वारा मतीनां प्रत्ना ऋण्वन्ति कारवः। वृष्णो हरस आयवः ॥
समीचीनास आशत होतारः सप्तजानयः। पदमेकस्य पिप्रतः ॥
नाभा नाभिं न आ ददे चक्षुषा सूर्यं दृशे। कवेरपत्यमा दुहे ॥
अभि प्रियं दिवस्पदमध्वर्युभिर्गुहा हितम्। सूरः पश्यति चक्षसा ॥
असृग्रमिन्दवः पथा धर्मन्नृतस्य सुश्रियः। विदाना अस्य योजना ॥
प्र धारा मधो अग्रियो महीरपो वि गाहते। हविर्हविःषु वन्द्यः ॥
प्र युजा वाचो अग्रियो वृषो अचिक्रदद्वने। सद्माभि सत्यो अध्वरः । 1130 ॥
परि यत्काव्या कविर्नृम्णा पुनानो अर्षति। स्वर्वाजी सिषासति ॥
पवमानो अभि स्पृधो विशो राजेव सीदति। यदीमृण्वन्ति वेधसः ॥
अव्या वारे परि प्रियो हरिर्वनेषु सीदति। रेभो वनुष्यते मती ॥
स वायुमिन्द्रमश्विना साकं मदेन गच्छति। रणा यो अस्य धर्मणा ॥
आ मित्रे वरुणे भगे मधोः पवन्त उर्मयः। विदाना अस्य शक्मभिः ॥
अस्मभ्यं रोदसी रयिं मध्वो वाजस्य सातये। श्रवो वसूनि सञ्जितम् ॥
आ ते दक्षं मयोभुवं वह्निमद्या वृणीमहे। पान्तमा पुरुस्पृहम् ॥
आ मन्द्रमा वरेण्यमा विप्रमा मनीषिणम्। पान्तमा पुरुस्पृहम् ॥
आ रयिमा सुचेतुनमा सुक्रतो तनूष्वा। पान्तमा पुरुस्पृहम् ॥
मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम्। कविं सम्राजमतिथिं जनानामासन्नः पात्रं जनयन्त देवाः । 1140 ॥
त्वां विश्वे अमृतं जायमानं शिशुं न देवा अभि सं नवन्ते। तव क्रतुभिरमृतत्वमायन् वैश्वानर यत्पित्रोरदीदे ॥
नाभिं यज्ञानां सदनं रयीणां महामाहावमभि सं नवन्त। वैश्वानरं रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः ॥
प्र वो मित्राय गायत वरुणाय विपा गिरा। महिक्षत्रावृतं बृहत् ॥
सम्राजा या घृतयोनी मित्रश्चोभा वरुणश्च। देवा देवेषु प्रशस्ता ॥
ता नः शक्तं पार्थिवस्य महो रायो दिव्यस्य। महि वां क्षत्रं देवेषु ॥
इन्द्रा याहि चित्रभानो सुता इमे त्वायवः। अण्वीभिस्तना पूतासः ॥
इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः। उप ब्रह्माणि वाघतः ॥
इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः। सुते दधिष्व नश्चनः ॥
तमीडिष्व यो अर्चिषा वना विश्वा परिष्वजत्। कृष्णा कृणोति जिह्वया ॥
य इद्ध आविवासति सुम्नमिन्द्रस्य मर्त्यः। द्युम्नाय सुतरा अपः । 1150 ॥
ता नो वाजवतीरिष आशून् पिपृतमर्वतः। एन्द्रमग्निं च वोढवे ॥
प्रो अयासीदिन्दुरिन्द्रस्य निष्कृत सखा सख्युर्न प्र मिनाति सङ्गिरम्। मर्य इव युवतिभिः समर्षति सोमः कलशे शतयामना पथा ॥
प्र वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवरणेष्वक्रमुः। हरिं क्रीडन्तमभ्यनूषत स्तुभोऽभि धेनवः पयसेदशिश्रयुः ॥
आ नः सोम संयतं पिप्युषीमिषमिन्दो पवस्व पवमान ऊर्मिणा। या नो दोहते त्रिउहन्नसश्चुषी क्षुमद्वाजवन्मधुमत्सुवीर्यम् ॥
न किष्टं कर्मणा नशद्यश्चकार सदावृधम्। इन्द्रं न यज्ञैर्विश्वगूर्त्तमृभ्वसमधृष्टं धृष्णुमोजसा ॥
अषाढमुग्रं पृतनासु सासहिं यस्मिन्महीरुरुज्रयः। सं धेनवो जायमाने अनोनवुर्द्या.?.वः क्षामीरनोनवुः ॥
सखाय आ नि षीदत पुनानाय प्रगायत। शिशुं न यज्ञैः परि भूषत श्रिये ॥
समी वत्सं न मातृभिः सृजता गयसाधनम्। देवाव्यकऽ.मदमभि द्विशवसम् ॥
पुनाता दक्षसाधनं यथा शर्धाय वीतये। यथा मित्राय वरुणाय शन्तमम् ॥
प्र वाज्यक्षाः सहस्रधारस्तिरः पवित्रं वि वारमव्यम् । 1160 ॥
स वाज्यक्षाः सहस्ररेता अद्भिर्मृजानो गोभिः श्रीणानः ॥
प्र सोम याहीन्द्रस्य कुक्षा नृभिर्येमानो अद्रिभिः सुतः ॥
ये सोमासः परावति ये अर्वावति सुन्विरे। ये वादः शर्यणावति ॥
य आर्जीकेषु कृत्वसु ये मध्ये पस्त्यानाम्। ये वा जनेषु पञ्चसु ॥
ते नो वृष्टिं दिवस्परि पवन्तामा सुवीर्यम्। स्वाना देवास इन्दवः ॥
आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात्। अग्ने त्वां कामये गिरा ॥
पुरुत्रा हि सदृङ्ङसि दिशो विश्वा अनु प्रभुः। समत्सु त्वा हवामहे ॥
समत्स्वग्निमवसे वाजयन्तो हवामहे। वाजेषु चित्रराधसम् ॥
त्वं न इन्द्रा भर ओजो नृम्णं शतक्रतो विचर्षणे। आ वीरं पृतनासहम् ॥
त्व हि नः पिता वसो त्वं माता शतक्रतो बभूविथ। अथा ते सुम्नमीमहे । 1170 ॥
त्वां शुष्मिन्पुरुहूत वाजयन्तमुप ब्रुवे सहस्कृत। स नो रास्व सुवीर्यम् ॥
यदिन्द्र चित्र म इह नास्ति त्वादातमद्रिवः। राधस्तन्नो विदद्वस उभयाहस्त्या भर ॥
यन्मन्यसे वरेण्यमिन्द्र द्युक्षं तदा भर। विद्याम तस्य ते वयमकूपारस्य दावनः ॥
यत्ते दिक्षु प्रराध्यं मनो अस्ति श्रुतं बृहत्। तेन दृढा चिदद्रिव आ वाजं दर्षि सातये ॥
शिशुं जज्ञानं हर्यतं मृजन्ति शुम्भन्ति विप्रं मरुतो गणेन। कविर्गीर्भिः काव्येना कविः सन्त्सोमः पवित्रमत्येति रेभन् ॥
ऋषिमना य ऋषिकृत्स्वर्षाः सहस्रनीथः पदवीः कवीनाम्। तृतीयं धाम महिषः सिषासन्त्सोमो विराजमनु राजति ष्टुप् ॥
चमूषच्छ्येनः शकुनो विभृत्वा गोविन्दुर्द्रप्स आयुधानि बिभ्रत्। अपामूर्मिं सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति ॥
एते सोमा अभि प्रियमिन्द्रस्य काममक्षरन्। वर्धन्तो अस्य वीकयम् ॥
पुनानासश्चमूषदो गच्छन्तो वायुमश्विना। ते नो धत्त सुवीर्यम् ॥
इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय। देवानां योनिमासदम् । 1180 ॥
मृजन्ति त्वा दश क्षिपो हिन्वन्ति सप्त धीतयः। अनु विप्रा अमादिषुः ॥
देवेभ्यस्त्वा मदाय कं सृजानमति मेष्यः। सं गोभिर्वासयामसि ॥
पुनानः कलशेष्वा वस्त्राण्यरुषो हरिः। परि गव्यान्यव्यत ॥
मघोन आ पवस्व नो जहि विश्वा अप द्विषः। इन्दो सखायमा विश ॥
नृचक्षसं त्वा वयमिन्द्रपीतं स्वर्विदम्। भक्षीमहि प्रजामिषम् ॥
वृष्टिं दिवः परि स्रव द्युम्नं पृथिव्या अधि। सहो नः सोम पृत्सु धाः ॥
सोमः पुनानो अर्षति सहस्रधारो अत्यविः। वायोरिन्द्रस्य निष्कृतम् ॥
पवमानमवस्यवो विप्रमभि प्र गायत। सुष्वाणं देववीतये ॥
पवन्ते वाजसातये सोमाः सहस्रपाजसः। गृणाना देववीतये ॥
उत नो वाजसातये पवस्व बृहतीरिषः। द्युमदिन्दो सुवीर्यम् । 1190 ॥
अत्या हियाना न हेतृभिरसृग्रं वाजसातये। वि वारमव्यमाशवः ॥
ते नः सहस्रिणं रयिं पवन्तामा सुवीर्यम्। स्वाना देवास इन्दवः ॥
वाश्रा अर्षन्तीन्दवोऽभि वत्सं न मातरः। दधन्विरे गभस्त्योः ॥
जुष्ट इन्द्राय मत्सरः पवमानः कनिक्रदत्। विश्वा अप द्विषो जहि ॥
अपघ्नन्तो अराव्णः पवमानाः स्वर्दृशः। योनावृतस्य सीदत । ।दू) ॥
सोमा असृग्रमिन्दवः सुता ऋतस्य धारया। इन्द्राय मधुमत्तमाः ॥
अभि विप्रा अनूषत गावो वत्सं न धेनवः। इन्द्रं सोमस्य पीतये ॥
मदच्युत्क्षेति सादने सिन्धोरूर्मा विपश्चित्। सोमो गौरी अधि श्रितः ॥
दिवो नाभा विचक्षणोऽव्या वारे महीयते। सोमो यः सुक्रतुः कविः ॥
यः सोमः कलशेष्वा अन्तः पवित्र आहितः। तमिन्दुः परि षस्वजे । 1200 ॥
प्र वाचमिन्दुरिष्यति समुद्रस्याधि विष्टपि। जिन्वन्कोशं मधुश्चुतम् ॥
नित्यस्तोत्रो वनस्पतिर्धेनामन्तः सबर्दुघाम्। हिन्वानो मानुषा युजा ॥
आ पवमान धारय रयिं सहस्रवर्चसम्। अस्मे इन्दो स्वाभुवम् ॥
अभि प्रिया दिवः कविउविप्रः स धारया सुतः। सोमो हिन्वे परावति ॥
उत्ते शुष्मास ईरते सिन्धोरूर्मेरिव स्वनः। वाणस्य चोदया पविम् ॥
प्रसवे त उदीरते तिस्रो वाचो मखस्युवः। यदव्य एषि सानवि ॥
अव्या वारैः परि प्रियं हरिं हिन्वन्त्यद्रिभिः। पवमानं मधुश्चुतम् ॥
आ पवस्व मदिन्तम पवित्रं धारया कवे। अर्कस्य योनिमासदम् ॥
स पवस्व मदिन्तम गोभिरञ्जानो अक्तुभिः। एन्द्रस्य जठरं विश ॥
अया वीती परि स्रव यस्त इन्दो मदेष्वा। अवाहन्नवतीर्नव । 1210 ॥
पुरः सद्य इत्थाधिये दिवोदासाय शंबरम्। अध त्यं तुर्वशं यदुम् ॥
परि नो अश्वमश्वविद्गोमदिन्दो हिरण्यवत्। क्षरा सहस्रिणीरिषः ॥
अपघ्नन्पवते मृधोऽप सोमो अराव्णः। गच्छन्निन्द्रस्य निष्कृतम् ॥
महो नो राय आ भर पवमान जही मृधः। रास्वेन्दो वीरवद्यशः ॥
न त्वा शतं च न ह्रुतो राधो दित्सन्तमा मिनन्। यत्पुनानो मखस्यसे ॥
अया पवस्व धारया यया सूर्यमरोचयः। हिन्वानो मानुषीरपः ॥
अयुक्त सूर एतशं पवमानो मनावधि। अन्तरिक्षेण यातवे ॥
उत त्या हरितो रथे सूरो अयुक्त यातवे। इन्दुरिन्द्र इति ब्रुवन् ॥
अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरे कृणुध्वम्। यो मर्त्येषु निध्रुविरृतावा तपुर्मूर्धा घृतान्नः पावकः ॥
प्रोथदश्वो न यवसेऽविष्यन्यदा महः संवरणाद्व्यस्थात्। आदस्य वातो अनु वाति शोचिरध स्म ते व्रजनं कृष्णमस्ति । 1220 ॥
उद्यस्य ते नवजातस्य वृष्णोऽग्ने चरन्त्यजरा इधानाः। अच्छा द्यामरुषो धूम एषि सं दूतो अग्न ईयसे हि देवान् ॥
तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे। स वृषा वृषभो भुवत् ॥
इन्द्रः स दामने कृत ओजिष्ठः स बले हितः। द्युम्नी श्लोकी स सोम्यः ॥
गिराउ वज्रो न सम्भृतः सबलो अनपच्युतः। ववक्ष उग्रो अस्तृतः ॥
अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ नय। पुनाहीन्द्राय पातवे ॥
तव त्य इन्दो अन्धसो देवा मधोकव्याशत। पवमानस्य मरुतः ॥
दिवः पीयूषमुत्तम सोममिन्द्राय वज्रिणे। सुनोता मधुमत्तमम् ॥
धर्त्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभिः। हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजांसि कृणुषे नदीष्वा ॥
शूरो न धत्त आ??यु??धा गभस्त्योः स्वऽðऔः(स्वाः) सिषासन्रथिरो गविष्टिषु। इन्द्र??स्य शुष्ममीर??य??न्नप??स्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभिः ॥
इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्वा विश। प्र नः पिन्व विद्युदभ्रेव रोदसी धिया नो वाजां उप माहि शश्वतः । । 1230 ॥
यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः। सिमा पुरू नृषूतो अस्यानवेऽस्रिं प्रशर्ध तुर्वशे ॥
यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा। कण्वासस्त्वा स्तोमेभिर्ब्रह्मवाहस इन्द्रा यच्छन्त्या गहि ॥
उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः। सत्राच्या मघवान्त्सोमपीतये धिया शविष्ठ आ गमत् ॥
तं हि स्वराजं वृषभं तमोजसा धिषणे निष्टतक्षतुः। उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः ॥
पवस्व देव आयुषगिन्द्रं गच्छतु ते मदः। वायुमा रोह धर्मणा ॥
पवमान नि तोशसे रयिं सोम श्रवाय्यम्। इन्दो समुद्रमा विश ॥
अपघ्नन्पवसे मृधः (क्रतुवित्सोम मत्सरः। नुदस्वादेवयुं जनम् ॥)* ॥
अभी नो वाजसातमम् (रयिमर्ष शतस्पृहम्। इन्दो सहस्रभर्णसं तुविद्युम्नं विभासहम् ॥)* ॥
वयं ते अस्य राधसो वसोर्वसो पुरुस्पृहः। नि नेदिष्ठतमा इषः स्याम सुम्ने ते अध्रिगो ॥
परि स्य स्वानो अक्षरदिन्दुरव्ये मदच्युतः। धारा य ऊर्ध्वो अध्वरे भ्राजा न याति गव्ययुः । ।1240 ॥
पवस्व सोम महान्त्समुद्रः पिता देवानां विश्वाभि धाम ॥
शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै शं च प्रजाभ्यः ॥
दिवो धर्त्तासि शुक्रः पीयूषः सत्ये विधर्मन्वाजी पवस्व ॥
प्रेष्ठं वो अतिर्थिं स्तुषे मित्रमिव प्रियम्। अग्ने रथं न वेद्यम् ॥
कविमिव प्रशंस्यं यं देवास इति द्विता। नि मर्त्येष्वादधुः ॥
त्वं यविष्ठ दाशुषो नॄं पाहि शृणुही गिरः। रक्षा तोकमुत त्मना । ।8 (यी) ॥
एन्द्र नो गधि प्रिय सत्राजिदगोह्य। गिरिउन विश्वतः पृथुः पतिर्दिवः ॥
अभि हि सत्य सोमपा उभे बभूथ रोदसी। इन्द्रासि सुन्वतो वृधः पतिर्दिवः ॥
त्वं हि शश्वतीनामिन्द्र धर्त्ता पुरामसि। हन्ता दस्योर्मनोर्वृधः पतिर्दिवः ॥
पुरां भिन्दुर्युवा कविरमितौजा अजायत। इन्द्रो विश्वस्य कर्मणो धर्त्ता वज्री पुरुष्टुतः । 1250 ॥
त्वं वलस्य गोमतोऽपावरद्रिवो बिलम्। त्वां देवा अबिभ्युषस्तुज्यमानास आविषुः ॥
इन्द्रमीशानमोजसाभि स्तोमैरनूषत। सहस्रं यस्य रातय उत वा सन्ति भूयसीः ॥
अक्रान्त्समुद्रः प्रथमे विधर्मन् जनयन्प्रजा भुवनस्य गोपाः। वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रिः ॥
मत्सि वायुमिष्टये राधसे नो मत्सि मित्रावरुणा पूयमानः। मत्सि शर्धो मारुतं मत्सि देवान्मत्सि द्यावापृथिवी देव सोम ॥
महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान्। अदधादिन्द्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिन्दुः ॥
एष देवो अमर्त्यः पर्णवीरिव दीयते। अभि द्रोणान्यासदम् ॥
एष विप्रैरभिष्टुतोऽपो देवो वि गाहते। दधद्रत्नानि दाशुषे ॥
एष विश्वानि वार्या शूरो यन्निव सत्वभिः। पवमानः सिषासति ॥
एष देवो रथर्यति पवमानो दिशस्यति। आविष्कृणोति वग्वनुम् ॥
एष देवो विपन्युभिः पवमान ऋतायुभिः। हरिर्वाजाय मृज्यते । 1260 ॥
एष देवो विपा कृतोऽति ह्वरांसि धावति। पवमानो अदाभ्यः ॥
एष दिवं वि धावति तिरो रजांसि धारया। पवमानः कनिक्रदत् ॥
एष दिवं व्यासरत्तिरो रजांस्यस्तृतः। पवमानः स्वध्वरः ॥
एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः। हरिः पवित्रे अर्षति ॥
एष उ स्य पुरुव्रतो जज्ञानो जनयन्निषः। धारया पवते सुतः ॥
एष धिया यात्यण्व्या शूरो रथेभिराशुभिः। गच्छन्निन्द्रस्य निष्कृतम् ॥
एष पुरू धियायते बृहते देवतातये। यत्रामृतास आशत ॥
एतं मृजन्ति मर्ज्यमुप द्रोणेष्वायवः। प्रचक्राणं महीरिषः ॥
एष हितो वि नीयतेऽन्तः शुन्ध्यावता पथा। यदी तुञ्जन्ति भूर्णयः ॥
एष रुक्मिभिरीयते वाजी शुभ्रेभिरंशुभिः। पतिः सिन्धूनां भवन् । 1270 ॥
एष शृङ्गाणि दोधुवच्छिशीते यूथ्योकऽ. वृषा। नृम्णा दधान ओजसा ॥
एष वसूनि पिब्दनः परुषा ययिवां अति। अव शादेषु गच्छति ॥
एतमु त्यं दश क्षिपो हरिं हिन्वन्ति यातवे। स्वायुधं मदिन्तमम् ॥
एष उ स्य वृषा रथोऽव्या वारेभिरव्यत। गच्छन्वाजं सहस्रिणम् ॥
एतं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः। इन्दुमिन्द्राय पीतये ॥
एष स्य मानुषीष्वा श्येनो न विक्षु सीदति। गच्छं जारो न योषितम् ॥
एष स्य मद्यो रसोऽव चष्टे दिवः शिशुः। य इन्दुर्वारमाविशत् ॥
एष स्य पीतये सुतो हरिरर्षति धर्णसिः। क्रन्दन्योनिमभि प्रियम् ॥
एतं त्यं हरितो दश मर्मृज्यन्ते अपस्युवः। याभिर्मदाय शुम्भते ॥
एष वाजी हितो नृभिर्विश्वविन्मनसस्पतिः। अव्यं वारं वि धावति । 1280 ॥
एष पवित्रे अक्षरत्सोमो देवेभ्यः सुतः। विश्वा धामान्याविशन् ॥
एष देवः शुभायतेऽधि योनावमर्त्यः। वृत्रहा देववीतमः ॥
एष वृषा कनिक्रदद्दशभिर्जामिभिर्यतः। अभि द्रोणानि धावति ॥
एष सूर्यमरोचयत्पवमानो अधि द्यवि। पवित्रे मत्सरो मदः ॥
एष सूर्येण हासते सवसानो विवस्वता। पतिर्वाचो अदाभ्यः ॥
एष कविरभिष्टुतः पवित्रे अधि तोशते। पुनानो घ्नन्नप द्विषः ॥
एष इन्द्राय वायवे स्वर्जित्परि षिच्यते। पवित्रे दक्षसाधनः ॥
एष नृभिर्वि नीयते दिवो मूर्धा वृषा सुतः। सोमो वनेषु विश्ववित् ॥
एष गव्युरचिक्रदत्पवमानो हिरण्ययुः। इन्दुः सत्राजिदस्तृतः ॥
एष शुष्म्यसिष्यददन्तरिक्षे वृषा हरिः। पुनान इन्दुरिन्द्रमा । 1290 ॥
एष शुष्म्यदाभ्यः सोमः पुनानो अर्षति। देवावीरघशंसहा ॥
स सुतः पीतये वृषा सोमः पवित्रे अर्षति। विघ्नन्रक्षांसि देवयुः ॥
स पवित्रे विचक्षणो हरिरर्षति धर्णसिः। अभि योनिं कनिक्रदत् ॥
स वाजी रोचनं दिवः पवमानो वि धावति। रक्षोहा वारमव्ययम् ॥
स त्रितस्याधि सानवि पवमानो अरोचयत्। जामिभिःसूर्यं सह ॥
स वृत्रहा वृषा सुतो वरिवोविददाभ्यः। सोमो वाजमिवासरत् ॥
स देवः कविनेषितोऽ.भि द्रोणानि धावति। इन्दुरिन्द्राय मंहयन् ॥
यः पावमानीरध्येत्यृषिभिः सम्भृतंरसम्। सर्वं स पूतमश्नाति स्वदितं मातरिश्वना ॥
पावमानीउयो अध्येत्यृषिभिः सम्भृतंरसम्। तस्मै सरस्वती दुहे क्षीरं सर्पिर्मधूदकम् ॥
पावमानीः स्वस्त्ययनीः सुदुघा हि घृतश्चुतः। ऋषिभिः सभृतो रसो ब्राह्मणेष्वमृतं हितम् । 1300 ॥
पावमानीर्दधन्तु न इमं लोकमथो अमुम्। कामान्त्समर्धयन्तु नो देवीर्देवैः समाहृताः ॥
येन देवाः पवित्रेणात्मानं पुनते सदा। तेन सहस्रधारेण पावमानीः पुनन्तु नः ॥
पावमानीः स्वस्त्ययनीस्ताभिर्गच्छति नान्दनम्। पुण्यांश्च भक्षान्भक्षयत्यमृतत्वं च गच्छति ॥
अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे। चित्रभानुं रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् ॥
स मह्ना विश्वा दुरितानि साह्वानग्नि ष्टवे दम आ जातवेदाः। स नो रक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः ॥
त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर्वसिष्ठाः। त्वे वसु सुषणनानि सन्तु यूयं पात स्वस्तिभिः सदा नः ॥
महां इन्द्रो य ओजसा पर्जन्यो वृष्टिमां इव। स्तोमैर्वत्सस्य वावृधे ॥
कण्वा इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनम्। जामि ब्रुवत आयुधा ॥
प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः। विप्रा ऋतस्य वाहसा ॥
पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत। जीरा अजिरशोचिषः । 1310 ॥
पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः। हरिश्चन्द्रो मरुद्गणः ॥
पवमान व्यश्नुहि रश्मिभिर्वाजसातमः। दधत्स्तोत्रे सुवीर्यम् ॥
परीतो षिञ्चता सुतंसोमो य उत्तमं हविः। दधन्वां यो नर्यो अप्स्वाऽ.न्तौआ सुषाव सोममद्रिभिः ॥
नूनं पुनानोऽविभिः परि स्रवादब्धः सुरभिन्तरः। सुते चित्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरम् ॥
परि स्वानश्चक्षसे देवमादनः क्रतुरिन्दुर्विचक्षणः ॥
असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत्। पुनानो वारमत्येष्यव्ययंश्येनो न योनिं घृतवन्तमासदत् ॥
पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे। स्वसार आपो अभि गा उदासरन्त्सं ग्रावभिर्वसते वीते अध्वरे ॥
कविर्वेधस्या पर्येषि माहिनमत्यो न मृष्टो अभि वाजमर्षसि। अपसेधन् दुरिता सोम नो मृड घृता वसानः परि यासि निर्णिजम् ॥
श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत। वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः ॥
अलर्षिरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः। यो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् । । 1320 ॥
यत इन्द्र भयामहे ततो नो अभयं कृधि। मघवन् छग्धि तव तन्न ऊतये वि द्विषो वि मृधो जहि ॥
त्व हि राधसस्पते राधसो महः क्षयस्यासि विधर्ता। तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे ॥
त्वं सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे। पवस्व मंहयद्रयिः ॥
त्वं सुतो मदिन्तमो दधन्वान्मत्सरिन्तमः। इन्दुः सत्राजिदस्तृतः ॥
त्वं सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत्। द्युमन्तं शुष्ममा भर । ।6 (ली) ॥
पवस्व देववीतय इन्दो धाराभिरोजसा। आ कलशं मधुमान्त्सोम नः सदः ॥
तव द्रप्सा उदप्रुत इन्द्रं मदाय वावृधुः । त्वां देवासो अमृताय कं पपुः ॥
आ नः सुतास इन्दवः पुनाना धावता रयिम्। वृष्टिद्यावो रीत्यापः स्वर्विदः ॥
परि त्यंहर्यतं हरिं बभ्रुं पुनन्ति वारेण। यो देवान्विश्वां इत्परि मदेन सह गच्छति ॥
द्विउयं पञ्च स्वयशसं सखायो अद्रिसंहतम्। प्रियमिन्द्रस्य काम्यं प्रस्नापयन्त ऊर्मयः । 1330 ॥
इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे। नरे च दक्षिणावते वीराय सदनासदे ॥
पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय ॥
प्र ते सोतारो रसं मदाय पुनन्ति सोमं महे द्युम्नाय ॥
शिशुं जज्ञानं हरिं मृजन्ति पवित्रे सोमं देवेभ्य इन्दुम् ॥
उपो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम्। इन्दुं देवा अयासिषुः ॥
तमिद्वर्धन्तु नो गिरो वत्संसंशिश्वरीरिव। य इन्द्रस्य हृदं सनिः ॥
अर्षा नः सोम शं गवे धुक्षस्व पिप्युषीमिषम्। वर्धा समुद्रमुक्थ्य ॥
आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक्। येषामिन्द्रो युवा सखा ॥
बृहन्निदिध्म एषां भूरि शस्त्रं पृथुः स्वरुः। येषामिन्द्रो युवा सखा ॥
अयुद्ध इद्युधा वृतं शूर आजति सत्वभिः। येषामिन्द्रो युवा सखा । । 1340 ॥
य एक इद्विदयते वसु मर्त्ताय दाशुषे। ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥
यश्चिद्धि त्वा बहुभ्य आ सुतावांआविवासति। उग्रं तत्पत्यते शव इन्द्रो अङ्ग ॥
कदा मर्तमराधसं पदा क्षुम्पमिव स्फुरत्। कदा नः शुश्रवद्गिर इन्द्रो अङ्ग ॥
गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः। ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे ॥
यत्सानोः सान्वारुहो भूर्यस्पष्ट कर्त्वम्। तदिन्द्रो अर्थं चेतति यूथेन वृष्णिरेजति ॥
युङ्क्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा। अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर ॥
सुषमिद्धो न आ वह देवां अग्ने हविष्मते। होतः पावक यक्षि च ॥
मधुमन्तं तनूनपाद्यज्ञं देवेषु नः कवे। अद्या कृणुह्यूतये ॥
नराशंसमिह प्रियमस्मिन्यज्ञ उप ह्वये। मधुजिह्वं हविष्कृतम् ॥
अग्ने सुखतमे रथे दवां ईडित आ वह। असि होता मनुर्हितः । । 1350 ॥
यदद्य सूर उदितेऽनागा मित्रो अर्यमा। सुवाति सविता भगः ॥
सुप्रावीरस्तु स क्षयः प्र नु यामन्त्सुदानवः। ये नो अंहोऽतिपिप्रति ॥
उत स्वराजो अदितिरदब्धस्य व्रतस्य ये। महो राजान ईशते ॥
उ त्वा मदन्तु सोमाः कृणुष्व राधो अद्रिवः। अव ब्रह्मद्विषो जहि ॥
पदा पणीनराधसो नि बाधस्व महां असि। न हि त्वा कश्च न प्रति ॥
त्वमीशिषे सुतानामिन्द्र त्वमसुतानाम्। त्व राजा जनानाम् ॥
आ जागृविर्विप्र ऋतां मतीनां सोमः पुनानो असदच्चमूषु। सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः ॥
स पुनान उप सूरे दधान ओभे अप्रा रोदसी वी ष आवः। प्रिया चिद्यस्य प्रियसास ऊती सतो धनं कारिणे न प्र यं सत् ॥
स वर्धिता वर्धनः पूयमानः सोमो मीढ्वां अभि नो ज्योतिषावित्। यत्र नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिमिष्णन् ॥
मा चिदन्यद्वि शंसत सखायो मा रिषण्यत। इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत । 1360 ॥
अवक्रक्षिणं वृषभं यथा जुवं गां न चर्षणीसहम्। विद्वेषणं संवननमुभयङ्करं मंहिष्ठमुभयाविनम् ॥
उदु त्ये मधुमत्तमा गिरः स्तोमास ईरते। सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥
कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमाशत। इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् ॥
पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः। द्विषस्तरध्या ऋणया न ईरसे ॥
अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः। गोजीरया रंहमाणः पुरन्ध्या ॥
अनु हि त्वा सुतं सोम मदामसि (महे समर्यराज्ये)* ॥
परि प्र धन्व (वाजाँ अभि पवमान प्र गाहसे । परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय ॥)* ॥
एवामृताय महे क्षयाय स शुक्रो अर्ष दिव्यः पीयूषः ॥
इन्द्रस्ते सोम सुतस्य पेयात्क्रत्वे दक्षाय विश्वे च देवाः ॥
सूर्यस्येव रश्मयो द्रावयित्नवो मत्सरासः प्रसुतः साकमीरते। तन्तुं ततं परि सर्गास आशवो नेन्द्रादृते पवते धाम किं चन । 1370 ॥
उपो मतिः पृच्यते सिच्यते मधु मन्द्राजनी चोदते अन्तरासनि। पवमानः सन्तनिः सुन्वतामिव मधुमान् द्रप्सः परि वारमर्षति ॥
उक्षा मिमेति प्रति यन्ति धेनवो देवस्य देवीरुप यन्ति निष्कृतम्। अत्यक्रमीदर्जुनं वारमव्ययमत्कं न निक्तं परि सोमो अव्यत ॥
अग्निं नरो दीधितिभिररण्योर्हस्तच्युतं जनयत प्रशस्तम्। दूरेदृशं गृहपतिमथव्युम् ॥
तमग्निमस्ते वसवो न्यृण्वन्त्सुप्रतिचक्षमवसे कुतश्चित् ॥
दक्षाय्यो यो दम आस नित्यः ॥
प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूकम्या यविष्ठ। त्वां शश्वन्त उप यन्ति वाजाः ॥
आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः। पितरं च प्रयन्त्स्वः ॥
अन्तश्चरति रोचनास्य प्राणादपानती। व्यख्यन्महिषो दिवम् ॥
त्रिंशद्धाम वि राजति वाक्पतङ्गाय धीयते। प्रति वस्तोरह द्युभिः । ।
उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये। आरे अस्मे च शृण्वते ॥
यः स्नीहितीषु पूर्व्यः संजग्मानासु कृष्टिषु। अरक्षद्दाशुषे गयम् । 1380 ॥
स नो वेदो अमात्यमग्नी रक्षतु शन्तमः। उतास्मान्पात्वंहसः ॥
उत ब्रुवन्तु जन्तव उदग्निर्वृत्रहाजनि। धनञ्जयो रणेरणे ॥
अग्ने युङ्क्ष्वा हि ये तवाश्वासो देव साधवः। अरं वहन्त्याशवः ॥
अच्छा नो याह्या वहाभि प्रयांसि वीतये। आ देवान्त्सोमपीतये ॥
उदग्ने भारत द्युमदजस्रेण दविद्युतत्। शोचा वि भाह्यजर ॥
प्र सुन्वानायान्धसो मर्तो न वष्ट तद्वचः। अप श्वानमराधसं हता मखं न भृगवः ॥
आ जामिरत्के अव्यत भुजे न पुत्र ओण्योः। सरज्जारो न योषणां वरो न योनिमासदम् ॥
स वीरो दक्षसाधनो वि यस्तस्तम्भ रोदसी। हरिः पवित्रे अव्यत वेधा न योनिमासदम् ॥
अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि। युधेदापित्वमिच्छसे ॥
न की रेवन्तंसख्याय विन्दसे पीयन्ति ते सुराश्वः। यदा कृणोषि नदनुंसमूहस्यादित्पितेव हूयसे । ।1390 ॥
आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये। ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये ॥
आ त्वा रथे हिरण्यये हरी मयूरशेप्या। शितिपृष्ठा वहतां मध्वो अन्धसो विवक्षणस्य पीतये ॥
पिबा त्वऽ.स्य गिर्वणः सुतस्य पूर्वपा इव। परिष्कृतस्य रसिन इयमासुतिश्चारुर्मदाय पत्यते ॥
आ सोता परि षिञ्चताश्वं न स्तोममप्तुरंरजस्तुरम्। वनप्रक्षमुदप्रुतम् ॥
सहस्रधारं वृषभं पयोदुहं प्रियं देवाय जन्मने। ऋतेन य ऋतजातो विवावृधे राजा देव ऋतं बृहत् ॥
अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया। समिद्धः शुक्र आहुतः ॥
गर्भे मातुः पितुः पिता विदिद्युतानो अक्षरे। सीदन्नृतस्य योनिमा ॥
ब्रह्म प्रजावदा भर जातवेदो विचर्षणे। अग्ने यद्दीदयद्दिवि ॥
अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसम्। सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमन्ति होता ॥
भद्रा वस्त्रा समन्याऽ. वसानो महान्कविर्निवचनानि शंसन्॥ आ वच्यस्व चम्वोः पूयमानो विचक्षणो जागृविर्देववीतौ । 1400 ॥
समु प्रियो मृज्यते सानो अव्ये यशस्तरो यशसां क्षैतो अस्मे। अभि स्वर धन्वा पूयमानो यूयं पात स्वस्तिभिः सदा नः ॥
एतो न्विन्द्रं स्तवाम शुद्धंशुद्धेन साम्ना ॥
शुद्धैरुक्थैर्वावृध्वांसंशुद्धैशीर्वान्ममत्तु ॥
इन्द्र शुद्धो न आ गहि शुद्धः शुद्धाभिरूतिभिः। शुद्धो रयिं वि धारय शुद्धो ममद्धि सोम्य ॥
इन्द्र शुद्धो हि नो रयिं शुद्धो रत्नानि दाशुषे। शुद्धो वृत्राणि जिघ्नसे शुद्धो वाज सिषाससि ॥
अग्ने स्तोमं मनामहे सिध्रमद्य दिविस्पृशः। देवस्य द्रविणस्यवः ॥
अग्निर्जुषत नो गिरो होता यो मानुषेष्वा। स यक्षद्दैव्यं जनम् ॥
त्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः। त्वया यज्ञं वि तन्वते ॥
अभि त्रिपृष्ठं वृषणं वयोधामाङ्गोषिणमवावशंत वाणीः। वना वसानो वरुणो न सिन्धूर्वि रत्नधा दयते वार्याणि ।
शूरग्रामः सर्ववीरः सहावान् जेता पवस्व सनिता धनानि। तिग्मायुधः क्षिप्रधन्वा समत्स्वषाढः साह्वान्पृतनासु शत्रून् ॥
उरुगव्यूतिरभयानि कृण्वन्त्समीचीने आ पवस्वा पुरन्धी। अपः सिषासन्नुषसः स्वऽ3र्गाः सं चिक्रदो महो अस्मभ्यं वाजान् । । 1410 ॥
त्वमिन्द्र यशा अस्यृजीषी शवसस्पतिः। त्वं वृत्राणि हं स्यप्रतीन्येक इत्पुर्वनुत्तश्चर्षणीधृतिः ॥
तमु त्वा नूनमसुर प्रचेतसं राधो भागमिवेमहे। महीव कृत्तिः शरणा त इन्द्र प्र ते सुम्ना नो अश्नवन् ॥
यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यम्। अस्य यज्ञस्य सुक्रतुम् ॥
अपां नपातं सुभगंसुदीदितिमग्निमु श्रेष्ठशोचिषम्। स नो मित्रस्य वरुणस्य सो अपामा सुम्नं यक्षते दिवि ॥
यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः। स यन्ता शश्वतीरिषः ॥
न किरस्य सहन्त्य पर्येता कयस्य चित्। वाजो अस्ति श्रवाय्यः ॥
स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता। विप्रेभिरस्तु सनिता ॥
साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः। हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी ॥
सं मातृभिर्न शिशुर्वावशानो वृषा दधन्वे पुरुवारो अद्भिः। मर्यो न योषामभि निष्कृतं यन्त्सं गच्छते कलश उस्रियाभिः ॥
उत प्र पिप्य ऊधरघ्न्याया इन्दुर्धाराभिः सचते सुमेधाः । मूर्धानं गावः पयसा चमूष्वभि श्रीणन्ति वसुभिर्न निक्तैः । । 1420 ॥
पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः। आपिर्नो बोधि सधमाद्ये वृधेऽ. ऽस्मां अवन्तु ते धियः ॥
भूयाम ते सुमतौ वाजिनो वयं मा न स्तरभिमातये। अस्मां चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय ॥
त्रिरस्मै सप्त धेनवो दुदुह्रिरे सत्यामाशिरं परमे व्योमनि ॥
चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्धत ॥
स भक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे। तेजिष्ठा अपो मंहना परि व्यत यदी देवस्य श्रवसा सदो विदुः ॥
ते अस्य सन्तु केतवोऽमृत्यवोऽदाभ्यासो जनुषी उभे अनु। येभिर्नृम्णा च देव्या च पुनत आदिद्राजानं मनना अगृभ्णत ॥
अभि वायुं वीत्यर्षा गृणानोऽ. ऽभि मित्रावरुणा पूयमानः। अभी नरं धीजवनं रथेष्ठामभीन्द्रं वृषणं वज्रबाहुम् ॥
अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः। अभि चन्द्रा भर्त्तवे नो हिरण्याभ्यश्वान्रथिनो देव सोम ॥
अभी नो अर्ष दिव्या वसून्यभि विश्वा पार्थिवा पूयमानः। अभि येन द्रविणमश्नवामाभ्यार्षेयं जमदग्निवन्नः । ।
यज्जायथा अपूर्व्य मघवन्वृत्रहत्याय। तत्पृथिवीमप्रथयस्तदस्तभ्ना उतो दिवम् ॥
तत्ते यज्ञो अजायत तदर्क उत हस्कृतिः । तद्विश्वमभिभूरसि यज्जातं यच्च जन्त्वम् । 1430 ॥
आमासु पक्वमैरय आ सूर्यं रोहयो दिवि। घर्मं न सामं तपता सुवृक्तिभिर्जुष्टं गिर्वणसे बृहत् ॥
मत्स्यपायि ते महः पात्रस्येव हरिवो मत्सरो मदः। वृषा ते वृष्ण इन्दुर्वाजी सहस्रसातमः ॥
आ नस्ते गन्तु मत्सरो वृषा मदो वरेण्यः। सहावां इन्द्र सानसिः पृतनाषाडमर्त्यः ॥
त्वं हि शूरः सनिता चोदयो मनुषा रथम्। सहावान्दस्युमव्रतमोषः पात्रं न शोचिषा ॥
पवस्व वृष्टिमा सु नोऽपामूर्मिं दिवस्परि। अयक्ष्मा बृहतीरिषः ॥
तया पवस्व धारया यया गाव इहागमन्। जन्यास उप नो गृहम् ॥
घृतं पवस्व धारया यज्ञेषु देववीतमः। अस्मभ्यं वृष्टिमा पव ॥
स न ऊर्जे व्यकऽ.व्ययं पवित्रं धाव धारया। देवासः शृणवन् हि कम् ॥
पवमानो असिष्यदद्रक्षांस्यपजङ्घनत्। प्रत्नवद्रोचयन्रुचः ॥
प्रत्यस्मै पिपीषते विश्वानि विदुषे भर। अरङ्गमाय जग्मयेऽपश्चादध्वने नरः । 1440 ॥
एमेनं प्रत्येतन सोमेभिः सोमपातमम्। अमत्रेभिरृजीषिणमिन्द्रं सुतेभिरिन्दुभिः ॥
यदीसुतेभिरिन्दुभिः सोमेभिः प्रतिभूषथ। वेदा विश्वस्य मेधिरो धृषत्तन्तमिदेषते ॥
अस्माअस्मा इदन्धसोऽध्वर्यो प्र भरा सुतम्। कुवित्समस्य जेन्यस्य शर्धतोऽभिशस्तेरवस्वरत् ॥
बभ्रवे नु स्वतवसेऽरुणाय दिविस्पृशे। सोमाय गाथमर्चत ॥
हस्तच्युतेभिरद्रिभिः सुतं सोमं पुनीतन। मधावा धावता मधु ॥
नमसेदुप सीदत दध्नेदभि श्रीणीतन। इन्दुमिन्द्रे दधातन ॥
अमित्रहा विचर्षणिः पवस्व सोम शं गवे। देवेभ्यो अनुकामकृत् ॥
इन्द्राय सोम पातवे मदाय परि षिच्यसे। मनश्चिन्मनसस्पतिः ॥
पवमान सुवीर्यं रयिं सोम रिरीहि नः। इन्द्रविन्द्रेण नो युजा ॥
उद्धेदभि श्रुतामघं वृषभं नर्यापसम्। अस्तारमेषि सूर्य । 1450 ॥
नव यो नवतिं पुरो बिभेद बाह्वोजसा। अहिं च वृत्रहावधीत् ॥
स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत्। उरुधारेव दोहते ॥
विभ्राड् बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम्। वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा वि राजति ॥
विभ्राड् बृहत्सुभृतं वाजसातमं धर्मं दिवो धरुणे सत्यमर्पितम्। अमित्रहा वृत्रहा दस्युहन्तमं ज्योतिर्जज्ञे असुरहा सपत्नहा ॥
इदंश्रेष्ठं ज्योतिषां ज्योतिरुत्तमं विश्वजिद्धनजिदुच्यते बृहत्। विश्वभ्राड् भ्राजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतम् ॥
इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा। शिक्षा णो अस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥
मा नो अज्ञाता वृजना दुराध्योऽमाशिवासोऽव क्रमुः। त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसि ॥
अद्याद्या श्वःश्व इन्द्र त्रास्व परे च नः। विश्वा च नो जरितृृ़न्त्सत्पते अहा दिवा नक्तं च रक्षिषः ॥
प्रभङ्गी शूरो मघवा तुवीमघः सम्मिश्लो वीकयाय कम्। उभा ते बाहू वृषणा शतक्रतो नि या वज्रं मिमिक्षतुः ॥
जनीयन्तो न्वग्रवः पुत्रीयन्तः सुदानवः। सरस्वन्तंहवामहे । । 1460 ॥
उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा। सरस्वती स्तोम्या भूत् ॥
तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि। धियो यो नः प्रचोदयात् ॥
सोमानां स्वरणं (कृणुहि ब्रह्मणस्पते। कक्षीवन्तँ य औशिजः ॥)* ॥
अग्न आयूंषि पवसे (आ सुवोर्जं इषं च नः। आरे बाधस्व दुच्छुनाम् ॥)* ॥
ता नः शक्तं पार्थिवस्य (महो रायो दिव्यस्य। महि वा क्षत्रं देवेषु ॥)* ॥
ऋतमृतेन सपन्तेषिरं दक्षमाशाते। अद्रुहा देवौ वर्धेते ॥
वृष्टिद्यावा रीत्यापेषस्पती दानुमत्याः। बृहन्तं गर्तमाशाते ॥
युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः। रोचन्ते रोचना दिवि ॥
युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे। शोणा धृष्णू नृवाहसा ॥
केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे। समुषद्भिरजायथाः । । 1470 ॥
अयं सोम इन्द्र तुभ्यंसुन्वे तुभ्यं पवते त्वमस्य पाहि। त्वं ह यं चकृषे त्वं ववृष इन्दुं मदाय युज्याय सोमम् ॥
स ईं रथो न भुरिषाडयोजि महः पुरूणि सातये वसूनि। आदीं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त ॥
शुष्मी शर्धो न मारुतं पवस्वानभिशस्ता दिव्या यथा विट्। आपो न मक्षू सुमतिर्भवा नः सहस्राप्साः पृतनाषाण्न यज्ञः ॥
त्वमग्ने यज्ञानांहोता विश्वेषांहितः। देवेभिर्मानुषे जने ॥
स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः। आ देवान्वक्षि यक्षि च ॥
वेत्था हि वेधो अध्वनः पथश्च देवाञ्जसा। अग्ने यज्ञेषु सुक्रतो ॥
होता देवो अमर्त्यः पुरस्तादेति मायया। विदथानि प्रचोदयन् ॥
वाजी वाजेषु धीयतेऽध्वरेषु प्र णीयते। विप्रो यज्ञस्य साधनः ॥
धिया चक्रे वरेण्यो भूतानां गर्भमा दधे। दक्षस्य पितरं तना ॥
आ सुते सिञ्चत श्रियंरोदस्योरभिश्रियम्। रसा दधीत वृषभम् । 1480 ॥
ते जानत स्वमोक्यंऽ. सं वत्सासो न मातृभिः। मिथो नसन्त जामिभिः ॥
उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि। इन्द्रे अग्ना नमः स्वः ॥
तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेषनृम्णः। सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदन्त्यूमाः ॥
वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति। अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु ॥
त्वे क्रतुमपि वृञ्जन्ति विश्वे द्विउयदेते त्रिर्भवन्त्यूमाः। स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ॥
त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृम्पत्सोममपिबद्विष्णुना सुतं यथावशम् ॥
स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रम् ॥
साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वृद्धो वीकयैः सासहिउमृधो विचर्षणिः ॥
दाता राध स्तुवते काम्यं वसु प्रचेतन सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रम् ।
अध त्विषीमांअभ्योजसा कृविं युधाभवदा रोदसी आपृणदस्य मज्मना प्र वावृधे।
अधत्तान्यं जठरे प्रेमरिच्यत प्र चेतय सैनंसश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रम् । ।
अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे। सूनुं सत्यस्य सत्पतिम् ॥
आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि। यत्राभि संनवामहे । 1490 ॥
इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु। यत्सीमुपह्वरे विदत् ॥
आ नो विश्वासु हव्यमिन्द्रं समत्सु भूषत। उप ब्रह्माणि सवनानि वृत्रहन्परमज्या ऋचीषम ॥
त्वं दाता प्रथमो राधसामस्यसि सत्य ईशानकृत्। तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ॥
प्रत्नं पीयूषं पूर्व्यं यदुक्थ्यं महो गाहद्दिव आ निरधुक्षत। इन्द्रमभि जायमानं समस्वरन् ॥
आदीं के चित्पश्यमानास आप्यं वसुरुचो दिव्या अभ्यनूषत। दिवो न वारं सविता व्यूर्णुते ॥
अध यदिमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना। यूथे न निष्ठा वृषभो वि राजसि ॥
इममू षु त्वमस्माकं सनिं गायत्रं नव्यांसम्। अग्ने देवेषु प्र वोचः ॥
विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ। सद्यो दाशुषे क्षरसि ॥
आ नो भज परमेष्वा वाजेषु मध्यमेषु। शिक्षा वस्वो अन्तमस्य ॥
अहमिद्धि पितुष्परि मेधामृतस्य जग्रह। अहं सूर्य इवाजनि । 1500 ॥
अहं प्रत्नेन जन्मना गिरः शुम्भामि कण्ववत्। येनेन्द्रः शुष्ममिद्दधे ॥
ये त्वामिन्द्र न तुष्टुवुरृषयो ये च तुष्टुवुः। ममेद्वर्धस्व सुष्टुतः ॥
अग्ने विश्वेभिरग्निभिर्जोषि ब्रह्म सहस्कृत। ये देवत्रा य आयुषु तेभिर्नो महया गिरः ॥
प्र स विश्वेभिरग्निभिरग्निः स यस्य वाजिनः। तनये तोके अस्मदा सम्यङ्वाजैः परीवृतः ॥
त्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं च वर्धय। त्वं नो देवतातये रायो दानाय चोदय ॥
त्वे सोम प्रथमा वृक्तबर्हिषो महे वाजाय श्रवसे धियं दधुः। स त्वं नो वीर वीकयाय चोदय ॥
अभ्यभि हि श्रवसा ततर्दिथोत्सं न कं चिज्जनपानमक्षितम्। शर्याभिर्न भरमाणो गभस्त्योः ॥
अजीजनो अमृत मर्त्याय अमृतस्य धर्मन्नमृतस्य चारुणः। सदासरो वाजमच्छा सनिष्यदत् ॥
एन्दुमिन्द्राय सिञ्चत पिबाति सोम्यं मधु। प्र राधांसि चोदयते महित्वना ॥
उपो हरीणां पतिं राधः पृञ्चन्तमब्रवम्। नूनंश्रुधि स्तुवतो अश्व्यस्य । 1510 ॥
न ह्यंऽ.ग पुरा च न जज्ञे वीरतरस्त्वत्। न की राया नैवथा न भन्दना ॥
नदं व ओदतीनां नदं योयुवतीनाम्। पतिं वो अघ्न्यानां धेनूनामिषुध्यसि ॥
देवो वो द्रविणोदाः पूर्णां विवष्ट्वासिचम्। उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते ॥
तं होतारमध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत। दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे ॥
अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः। उपो षु जातमार्यस्य वर्धनमग्निं नक्षन्तु नो गिरः ॥
यस्माद्रेजन्त कृष्टयश्चर्कृत्यानि कृण्वतः। सहस्रसां मेधसाताविव त्मनाग्निं धीभिर्नमस्यत ॥
प्र दैवोदासो अग्नि (र्देव इन्द्रो न मज्मना। अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य शर्मणि ॥)* ॥
अग्न आयूंषि पवस (आसुवोर्जमिषं च नः। आरे बाधस्व दुच्छुनाम् ॥)* ॥
अग्निउऋषिः पवमानः पाञ्चजन्यः पुरोहितः। तमीमहे महागयम् ॥
अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम्। दधद्रयिं मयि पोषम् । । 1520 ॥
अग्ने पावक रोचिषा मन्द्रया देव जिह्वया। आ देवान्वक्षि यक्षि च ॥
तं त्वा घृतस्नवीमहे चित्रभानो स्वर्दृशम्। देवा आ वीतये वह ॥
वीतिहोत्रं त्वा कवे द्युमन्तं समिधीमहि। अग्ने बृहन्तमध्वरे ॥
अवा नो अग्न ऊतिभिर्गायत्रस्य प्रभर्मणि। विश्वासु धीषु वन्द्य ॥
आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम्। विश्वासु पृत्सु दुष्टरम् ॥
आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम्। मार्डीकं धेहि जीवसे ॥
अग्निं हिन्वन्तु नो धियः सप्तिमाशुमिवाजिषु। तेन जेष्म धनंधनम् ॥
यया गा आकरामहै सेनयाग्ने तवोत्या। तां नो हिन्व मघत्तये ॥
आग्ने स्थूरं रयिं भर पृथुं गोमन्तमश्विनम्। अङ्धि खं वर्तया पविम् ॥
अग्ने नक्षत्रमजरमा सूर्यं रोहयो दिवि। दधज्ज्योतिर्जनेभ्यः । 1530 ॥
अग्ने केतुर्विशामसि प्रेष्ठः श्रेष्ठ उपस्थसत्। बोधा स्तोत्रे वयो दधत् ॥
अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम्। अपां रेतांसि जिन्वति ॥
ईशिषे वार्यस्य हि दात्रस्याग्ने स्वःपतिः। स्तोता स्यां तव शर्मणि ॥
उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते। तव ज्योतींष्यर्चयः ॥
कस्ते जामिर्जनानामग्ने को दाश्वध्वरः। को ह कस्मिन्नसि श्रितः ॥
त्वं जामिर्जनानामग्ने मित्रो असि प्रियः। सखा सखिभ्य ईड्यः ॥
यजा नो मित्रावरुणा यजा देवां ऋतं बृहत्। अग्ने यक्षि स्वं दमम् ॥
ईडेन्यो नमस्यस्तिरस्तमांसि दर्शतः। समग्निरिध्यते वृषा ॥
वृषो अग्निः समिध्यतेऽश्वो न देववाहनः। तं हविष्मन्त ईडते ॥
वृषणं त्वा वयं वृषन्वृषणः समिधीमहि। अग्ने दीद्यतं बृहत् । । 1540 ॥
उत्ते बृहन्तो अर्चयः समिधानस्य दीदिवः। अग्ने शुक्रास ईरते ॥
उप त्वा जुह्वोऽ. मम घृताचीर्यन्तु हर्यत। अग्ने हव्या जुषस्व नः ॥
मन्द्रं होतारमृत्विजं चित्रभानुं विभावसुम्। अग्निमीडे स उ श्रवत् ॥
पाहि नो अग्न एकया पाह्युऽ.त द्वितीयया। पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो ॥
पाहि विश्वस्माद्रक्षसो अराव्णः प्र स्म वाजेषु नोऽव॥ त्वामिद्धि नेदिष्ठं देवतातय आपिं नक्षामहे वृधे ॥
इनो राजन्नरतिः समिद्धो रौद्रो दक्षाय सुषुमां अदर्शि। चिकिद्वि भाति भासा बृहतासिक्नीमेति रुशतीमपाजन् ॥
कृष्णां यदेनीमभि वर्पसाभूज्जनयन्योषां बृहतः पितुर्जाम्। ऊर्ध्वं भानुं सूर्यस्य स्तभायन् दिवो वसुभिररतिर्वि भाति ॥
भद्रो भद्रया सचमान आगात्स्वसारं जारो अभ्येति पश्चात्। सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन्रुशद्भिर्वर्णैरभि राममस्थात् ॥
कया ते अग्ने अङ्गिर ऊर्जो नपादुपस्तुतिम्। वराय देव मन्यवे ॥
दाशेम कस्य मनसा यज्ञस्य सहसो यहो। कदु वोच इदं नमः । 1550 ॥
अधा त्वं हि नस्करो विश्वा अस्मभ्यं सुक्षितीः। वाजद्रविणसो गिरः ॥
अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे। आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे ॥
अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे। ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यम् ॥
अच्छा नः शीरशोचिषं गिरो यन्तु दर्शतम्। अच्छा यज्ञासो नमसा पुरूवसुं पुरुप्रशस्तमूतये ॥
अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणाम्। द्विता यो भूदमृतो मर्त्येष्वा होता मन्द्रतमो विशि ॥
अदाभ्यः पुरएता विशामग्निर्मानुषीणाम्। तूर्णी रथः सदा नवः ॥
अभि प्रयांसि वाहसा दाश्वांअश्नोति मर्त्यः। क्षयं पावकशोचिषः ॥
साह्वान्विश्वा अभियुजः क्रतुर्देवानाममृक्तः। अग्निस्तुविश्रवस्तमः ॥
भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः। भद्रा ऊत प्रशस्तयः ॥
भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहिः। अव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टये । । 1560 ॥
अग्ने वाजस्य गोमत ईशानः सहसो यहो। अस्मे देहि जातवेदो महि श्रवः ॥
स इधानो वसुष्कविरग्निरीडेन्यो गिरा। रेवदस्मभ्यं पुर्वणीक दीदिहि ॥
क्षपो राजन्नुत त्मनाग्ने वस्तोरुतोषसः। स तिग्मजम्भ रक्षसो दह प्रति ॥
विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम्। अग्निं वो दुर्यं वच स्तुषे शूषस्य मन्मभिः ॥
यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिम्। प्रशंसन्ति प्रशस्तिभिः ॥
पन्यांसं जातवेदसं यो देवतात्युद्यता। हव्यान्यैरयद्दिवि ॥
समिद्धमग्निं समिधा गिरा गृणे शुचिं पावकं पुरो अध्वरे ध्रुवम्। विप्रं होतारं पुरुवारमद्रुहं कविं सुम्नैरीमहे जातवेदसम् ॥
त्वां दूतमग्ने अमृतं युगेयुगे हव्यवाहं दधिरे पायुमीड्यम्। देवासश्च मर्त्तासश्च जागृविं विभुं विश्पतिं नमसा नि षेदिरे ॥
विभूषन्नग्न उभयां अनु व्रता दूतो देवानां रजसी समीयसे। यत्ते धीतिं सुमतिमावृणीमहेऽध स्मा नस्त्रिवरूथः शिवो भव ॥
उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः। वायोरनीके अस्थिरन् । 1570 ॥
यस्य त्रिधात्ववृतं बर्हिस्तस्थावसन्दिनम्। आपश्चिन्नि दधा पदम् ॥
पदं देवस्य मीढुषोऽनाधृष्टाभिरूतिभिः। भद्रा सूर्य इवोपदृक् ॥
अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः। समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम् ॥
अस्येदिन्द्रो वावृधे वृष्ण्यंशवो मदे सुतस्य विष्णवि। अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा ॥
प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः। इन्द्राग्नी इष आ वृणे ॥
इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम्। साकमेकेन कर्मणा ॥
इन्द्राग्नी अपसस्पर्युप प्र यन्ति धीतयः। ऋतस्य पथ्या3 अनु ॥
इन्द्राग्नी तविषाणि वांसधस्थानि प्रयांसि च। युवोरप्तूर्यंहितम् ॥
शग्ध्यूऽ. षु शचीपत इन्द्र विश्वाभिरूतिभिः। भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ॥
पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः। न किर्हि दानं परि मर्धिषत्वे यद्यद्यामि तदा भर । ।1580 ॥
त्वंह्येहि चेरवे विदा भगं वसुत्तये। उद्वावृषस्व मघवन्गविष्टय उदिन्द्राश्वमिष्टये ॥
त्वं पुरू सहस्राणि शतानि च यूथा दानाय मंहसे ॥
आ पुरन्दरं चकृम विप्रवचस इन्द्रं गायन्तोऽवसे ॥
यो विश्वा दयते वसु होता मन्द्रो जनानाम्। मघोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्वग्नये ॥
अश्वं न गीर्भी रथ्यंसुदानवो मर्मृज्यन्ते देवयवः ॥
उभे तोके तनये दस्म विश्पते पर्षि राधो मघोनाम् ॥
इमं मे वरुण श्रुधी हवमद्या च मृडय। त्वामवस्युरा चके ॥
कया त्वं न ऊत्याभि प्र मन्दसे वृषन्। कया स्तोतृभ्य आ भर ॥
इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे। इन्द्रंसमीके वनिनो हवामह इन्द्रं धनस्य सातये ।
इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत्। इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे स्वानास इन्दवः । ।
विश्वकर्मन्हविषा वावृधानः स्वयं यजस्व तन्व3ं स्वा हि ते। मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवा सूरिरस्तु ॥
अया रुचा हरिण्या पुनानो विश्वा द्वेषांसि तरति सयुग्वभिः सूरो न सयुग्वभिः। धारा पृष्ठस्य रोचते पुनानो अरुषो हरिः। विश्वा यद्रूपा परियास्यृक्वभिः सप्तास्येभिरृक्वभिः । 1590 ॥
प्राचीमनु प्रदिशं याति चेकितत्सं रश्मिभिर्यतते दर्शतो रथो दैव्यो दर्शतो रथः। अग्मन्नुक्थानि पौंस्येन्द्रं जैत्राय हर्षयन्। वज्रश्च यद्भवथो अनपच्युता समत्स्वनपच्युता ॥
त्वंं ह त्यत्पणीनां विदो वसु सं मातृभिर्मर्जयसि स्व आ दम ऋतस्य धीतिभिर्दमे। परावतो न साम तद्यत्रा रणन्ति धीतयः ॥
त्रिधातुभिररुषीभिर्वयो दधे रोचमानो वयो दधे ॥
उत नो गोषणिं धियमश्वसां वाजसामुत। नृवत्कृणुह्यूतये ॥
शशमानस्य वा नरः स्वेदस्य सत्यशवसः। विदा कामस्य वेनतः ॥
उप नः सूनवो गिरः शृण्वन्त्वमृतस्य ये। सुमृडीका भवन्तु नः ॥
प्र वां महि द्यवी अभ्युपस्तुतिं भरामहे। शुची उप प्रशस्तये ॥
पुनाने तन्वा मिथः स्वेन दक्षेण राजथः। ऊह्याथे सनादृतम् ॥
मही मित्रस्य साधथस्तरन्ती पिप्रती ऋतम्। परि यज्ञं (नि?)षेदथुः । ।
अयमु ते समतसि कपोत इव गर्भधिम्। वचस्तच्चिन्न ओहसे ॥
स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते। विभूतिरस्तु सूनृता । 1600 ॥
ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन्वाजे शतक्रतो। समन्येषु ब्रवावहै ॥
गाव उप वदावटे महि यज्ञस्य रप्सुदा। उभा कर्णा हिरण्यया ॥
अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु। अवटस्य विसर्जने ॥
सिञ्चन्ति नमसावटमुच्चाचक्रं परिज्मानम्। नीचीनबारमक्षितम् ॥
मा भेम मा श्रमिष्मोग्रस्य सख्ये तव। महत्ते वृष्णो अभिचक्ष्यं कृतं पश्येम तुर्वशं यदुम् ॥
सव्यामनु स्फिग्यं वावसे वृषा न दानो अस्य रोषति। मध्वा सपृक्ताः सारघेण धेनवस्तूयमेहि द्रवा पिब ॥
इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम। पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥
अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे। सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥
यस्यायं विश्व आर्यो दासः शेवधिपा अरिः। तिरश्चिदर्ये रुशमे पवीरवि तुभ्येत्सो अज्यते रयिः ।
तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कमानृचुः ॥
अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे स्वानास इन्दवः । । 1610 ॥
गोमन्न इन्दो अश्ववत्सुतः सुदक्ष धनिव। शुचिं च वर्णमधि गोषु धारय ॥
स नो हरीणां पत इन्दो देवप्सरस्तमः। सखेव सख्ये नर्यो रुचे भव ॥
सनेमि त्वमस्मदा अदेवं कं चिदत्रिणम्। साह्वां इन्दो परि बाधो अप द्वयुम् ॥
अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मध्वाभ्यञ्जते। सिन्धोरुच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमप्सु गृभ्णते ॥
विपश्चिते पवमानाय गायत मही न धारात्यन्धो अर्षति। अहिर्न जूर्णामति सर्पति त्वचमत्यो न क्रीडन्नसरद्वृषा हरिः ॥
अग्रेगो राजाप्यस्तविष्यते विमानो अह्नां भुवनेष्वर्पितः । हरिर्घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः ॥
विश्वेभिरग्ने अग्निभिरिमंयज्ञमिदं वचः । चनो धाः सहसा यहो ॥
यच्चिद्धि शश्वता तना देवंदेवं यजामहे। त्वे इद्धूयते हविः ॥
प्रियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः। प्रियाः स्वग्नयो वयम् ॥
इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः। अस्माकमस्तु केवलः । 1620 ॥
स नो वृषन्नमुं चरुं सत्रादावन्नपा वृधि। अस्मभ्यमप्रतिष्कुतः ॥
वृषा यूथेव वंसगः कृष्टीरियर्त्योजसा। ईशानो अप्रतिष्कुतः ॥
त्वं नश्चित्र ऊत्या वसो राधांसि चोदय। अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः ॥
पर्षि तोकं तनयं पर्तृभिष्ट्वमदब्धैरप्रयुत्वभिः । अग्ने हेडांसि दैव्या युयोधि नोऽदेवानि हरांसि च ॥
किमित्ते विष्णो परिचक्षि नाम प्र यद्ववक्षे शिपिविष्टो अस्मि। मा वर्पो अस्मदप गूह एतद्यदन्यरूपः समिथे बभूथ ॥
प्र तत्ते अद्य शिपिविष्ट हव्यमर्यः शंसामि वयुनानि विद्वान्। तं त्वा गृणामि तवसमतव्यान्क्षयन्तमस्य रजसः पराके ॥
वषट् ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम्। वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तभिः सदा नः ॥
वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु। आ याहि सोमपीतये स्पार्हो देव नियुत्वता ॥
इन्द्रश्च वायवेषांसोमानां पीतिमर्हथः। युवां हि यन्तीन्दवो निम्नमापो न सध्र्यक् ॥
वायविन्द्रश्च शुष्मिणा सरथंशवसस्पती। नियुत्वन्ता न ऊतय आ यातंसोमपीतये । । 1630 ॥
अध क्षपा परिष्कृतो वाजांअभि प्र गाहसे। यदी विवस्वतो धियो हरिंहिन्वन्ति यातवे ॥
तमस्य मर्जयामसि मदो य इन्द्रपातमः। यं गाव आसभिर्दधुः पुरा नूनं च सूरयः ॥
तं गाथया पुराण्या पुनानमभ्यनूषत। उतो कृपन्त धीतयो देवानां नाम बिभ्रतीः ॥
अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः। सम्राजन्तमध्वराणाम् ॥
स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः। मीढ्वांअस्माकं बभूयात् ॥
स नो दूराच्चासाच्च नि मर्त्यादघायोः। पाहि सदमिद्विश्वायुः ॥
त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः। अशस्तिहा जनिता वृत्रतूरसि त्वं तूर्य तरुष्यतः ॥
अनु ते शुष्मं तुरयन्तमीयतुः क्षोणी शिशुं न मातरा। विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रं यदिन्द्र तूर्वसि ॥
यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत्। चक्राण ओपशं दिवि ॥
व्यऽ.न्तरिक्षमतिरन्मदे सोमस्य रोचना। इन्द्रो यदभिनद्वलम् । 1640 ॥
उद्गा आजदङ्गिरोभ्य आविष्कृण्वन्गुहा सतीः। अर्वाञ्चं नुनुदे वलम् ॥
त्यमु वः सत्रासाहं विश्वासु गीर्ष्वायतम्। आ च्यावयस्यूतये ॥
युध्मंसन्तमनर्वाणंसोमपामनपच्युतम्। नरमवार्यक्रतुम् ॥
शिक्षा ण इन्द्र राय आ पुरु विद्वांऋचीषम। अवा नः पार्ये धने ॥
तव त्यदिन्द्रियं बृहत्तव दक्ष्ममुत क्रतुम्। वज्रं शिशाति धिषणा वरेण्यम् ॥
तव द्यौरिन्द्र पौंस्यं पृथिवी वर्धति श्रवः। त्वामापः पर्वतासश्च हिन्विरे ॥
त्वां विष्णुर्बृहन्क्षयो मित्रो गृणाति वरुणः। त्वां शर्धो मदत्यनु मारुतम् ॥
नमस्ते अग्न ओजसे गृणन्ति देव कृष्टयः। अमैरमित्रमर्दय ॥
कुवित्सु नो गविष्टयेऽग्ने संवेषिषो रयिम्। उरुकृदुरु णस्कृधि ॥
मा नो अग्ने महाधने परा वर्ग्भारभृद्यथा। संवर्गं सं रयिं जय । । 1650 ॥
समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः। समुद्रायेव सिन्धवः ॥
वि चिद्वृत्रस्य दोधतः शिरो बिभेद वृष्णिना। वज्रेण शतपर्वणा ॥
ओजस्तदस्य तित्विष उभे यत्समवर्त्तयत्। इन्द्रश्चर्मेव रोदसी ॥
सुमन्मा वस्वी रन्ती सूनरी ॥
सरूप वृषन्ना गहीमौ भद्रौ धुर्यावभि। ताविमा उप सर्पतः ॥
नीव शीर्षाणि मृढ्वं मध्य आपस्य तिष्ठति। शृङ्गेभिर्दशभिर्दिशन् ॥
पन्यंपन्यमित्सोतार आ धावत मद्याय। सोमं वीराय शूराय ॥
एह हरी ब्रह्मयुजा शग्मा वक्षतः सखायम्। इन्द्रं गीर्भिर्गिर्वणसम् ॥
पाता वृत्रहा सुतमा घा गमन्नाउए अस्मत्। नि यमते शतमूतिः ॥
आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः। न त्वामिन्द्राति रिच्यते । 1660 ॥
विव्यक्थ महिना वृषन्भक्षं सोमस्य जागृवे। य इन्द्र जठरेषु ते ॥
अरं त इन्द्र कुक्षये सोमो भवतु वृत्रहन्। अरं धामभ्य इन्दवः ॥
जराबोध तद्विविड्ढि विशेविशे यज्ञियाय। स्तोमं रुद्राय दृशीकम् ॥
स नो महां अनिमानो धूमकेतुः पुरुश्चन्द्रः। धिये वाजाय हिन्वतु ॥
स रेवां इव विश्पतिर्दैव्यः केतुः शृणोतु नः ॥
उक्थ्रैरग्निर्बृहद्भानुः ॥
तद्वो गाय सुते सचा पुरुहूताय सत्वने। शं यद्गवे न शाकिने ॥
न घा वसुर्नि यमते दानं वाजस्य गोमतः। यत्सीमुपश्रवद्गिरः ॥
कुवित्सस्य प्र हि वज्रं गोमन्तं दस्युहा गमत्। शचीभिरप नो वरत् । ।
इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम्। समूढमस्य पांसुले ॥
त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः। अतो धर्माणि धारयन् । 1670 ॥
विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे। इन्द्रस्य युज्यः सखा ॥
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः। दिवीव चक्षुराततम् ॥
तद्विप्रासो विपन्युवो जागृवांसः समिन्धते। विष्णोर्यत्परमं पदम् ॥
अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे। पृथिव्या अधि सानवि ॥
मो षु त्वा वाघतश्च नाउए अस्मन्नि रीरमन्। आरात्ताद्वा सधमादं न आ गहीह वा सन्नुप श्रुधि ॥
इमे हि ते ब्रह्मकृतः सुते सचा मधौ नमक्ष आसते। इन्द्रे कामं जरितारो वसूयवो रथे न पादमा दधुः ॥
अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत। पूर्वीरृतस्य बृहतीरनूषत स्तोतुर्मेधा असृक्षत ॥
समिन्द्रो रायो बृहतीरधूनुत सं क्षोणी समु सूर्यम्। संशुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषुः ॥
इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे। नरे च दक्षिणावते वीराय सदनासदे ॥
तं सखायः पुरूरुचं वयं यूयं च सूरयः। अश्याम वाजगन्ध्यं सनेम वाजपस्त्यम् ।1680 ॥
परि त्यं हर्यतं हरिं (बभ्रुं पुनन्ति वारेण। यो देवान्विश्वाँ इत्परि मदेन सह गच्छति ॥)* ॥
कस्तमिन्द्र त्वावस (मर्त्यो दधर्षति। श्रद्धा इत्तेमघवन् पार्ये दिवि वाजी वाजं सिषासति ॥)* ॥
मघोनः स्म वृत्रहत्येषु चोदय ये ददति प्रिया वसु। तव प्रणीती हर्यश्व सूरिभिर्विश्वा तरेम दुरिता ॥
एदु मधोर्मदिन्तरंसिञ्चाध्वर्यो अन्धसः। एवा हि वीर स्तवते सदावृधः ॥
इन्द्र स्थातर्हरीणां न किष्टे पूर्व्यस्तुतिम्। उदानंश शवसा न भन्दना ॥
तं वो वाजानां पतिमहूमहि श्रवस्यवः। अप्रायुभिर्यर्ज्ञेभिर्वावृधेन्यम् ॥
तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे। देव?त्रा हव्यमूहिषे ॥
विभूतरातिं विप्र चित्रशोचिषमग्निमीडिष्व यन्तुरम्। अस्य मेधस्य ॥
सोम्यस्य सोभरे प्रेमध्वराय पूर्व्यम् । ।
आ सोम स्वानो अद्रिभिस्तिरो वाराण्यव्यया। जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दध्रिषे ॥
स मामृजे तिरो अण्वानि मेष्यो मीढ्वांत्सप्तिर्न वाजयुः। अ माद्यः पवमानो मनीषिभिः सोमो विप्रेभिरृक्वभिः । । 1690 ॥
वयमेनमिदा ह्योऽपीपेमेह वज्रिणम्। तस्मा उ अद्य सवने सुतं भरा नूनं भूषत श्रुते ॥
वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति। सेमं न स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया ॥
इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः। तद्वां चेति प्र वीकयम् ॥
इन्द्राग्नी अपसस्परि (उप प्र यन्ति धीतयः। ऋतस्य पथ्या अनु ॥)* ॥
इन्द्राग्नी तविषाणि वां (सधस्थानि प्रयासि च। युवोरप्तूर्यं हितम् ॥)* ॥
क ईं वेद सुते सचा (पिबन्तं कद्वयो दधे। अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्रयन्धसः ॥)* ॥
दाना मृगो न वारणः पुरुत्रा चरथं दधे। न किष्ट्वा नि यमदा सुते गमो महांश्चरस्योजसा ॥
य उग्रः सन्ननिष्टृतः स्थिरो रणाय संस्कृतः। यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत् ॥
पवमाना असृक्षत सोमाः शुक्रास इन्दवः। अभि विश्वानि काव्या ॥
पवमाना दिवस्पर्यन्तरिक्षादसृक्षत। पृथिव्या अधि सानवि । 1700 ॥
पवमानास आशवः शुभ्रा असृग्रमिन्दवः। घ्नन्तो विश्वा अप द्विषः ॥
तोशा वृत्रहणा हुवे सजित्वानापराजिता। इन्द्राग्नी वाजसातमा ॥
प्र वामर्चन्त्युक्थिनः (नीथाविदो जरितारः। इन्द्राग्नी इष आ वृणे ॥)* ॥
इन्द्राग्नी नवतिं पुरो (दासपत्नीरधूनुतम्। साकमेकेन कर्मणा ॥)* ॥
उप त्वा रण्वसन्दृशं प्रयस्वन्तः सहस्कृत। अग्ने ससृज्महे गिरः ॥
उप च्छायामिव घृणेरगन्म शर्म ते वयम्। अग्ने हिरण्यसन्दृशः ॥
य उग्र इव शर्यहा तिग्मशृङ्गो न वंसगः। अग्ने पुरो रुरोजिथ ॥
ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम्। अजस्रं घर्ममीमहे ॥
य इदं प्रतिपप्रथे यज्ञस्य स्वरुत्तिरन्। ऋतूनुत्सृजते वशी ॥
अग्निः प्रियेषु धामसु कामो भूतस्य भव्यस्य। सम्राडेको वि राजति । । 1710 ॥
अग्निः प्रत्नेन जन्मना शुम्भानस्तन्व3ं स्वाम्। कविर्विप्रेण वावृधे ॥
ऊर्ज्जो नपातमा हुवेऽग्निं पावकशोचिषम्। अस्मिन्यज्ञे स्वध्वरे ॥
स नो मित्रमहस्त्वमग्ने शुक्रेण शोचिषा। देवैरा सत्सि बर्हिषि ॥
उत्ते शुष्मासो अस्थू रक्षो भिन्दन्तो अद्रिवः। नुदस्व याः परिस्पृधः ॥
अया निजघ्निरोजसा रथसङ्गे धने हिते । स्तवा अबिभ्युषा हृदा ॥
अस्य व्रतानि नाधृषे पवमानस्य दूढ्या। रुज यस्त्वा पृतन्यति ॥
तं हिन्वन्ति मदच्युतं हरिं नदीषु वाजिनम्। इन्दुमिन्द्राय मत्सरम् ॥
आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः। मा त्वा के चिन्नि येमुरिन्न पाशिनोऽति धन्वेव तां इहि ॥
वृत्रखादो वलं रुजः पुरां दर्मो अपामजः। स्थाता रथस्य हर्योरभिस्वर इन्द्रो दृढा चिदारुजः ।
गम्भीरां उदधींरिव क्रतुं पुष्यसि गा इव ॥
प्र सुगोपा यवसं धेनवो यथा ह्रदं कुल्या इवाशत । । 1720 ॥
यथा गौरो अपा कृतं तृष्यन्नेत्यवेरिणम्। आपित्वे नः प्रपित्वे तूयमा गहि कण्वेषु सु सचा पिब ॥
मन्दन्तु त्वा मघवन्निन्द्रेन्दवो राधोदेयाय सुन्वते। आमुष्या सोममपिबश्चमू सुतं ज्येष्ठं तद्दधिषे सहः ॥
त्वमङ्ग प्र शंसिषो देवः शविष्ठ मर्त्यम्। न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः ॥
मा ते राधांसि मा त ऊतयो वसोऽस्मान्कदा चना दभन्। विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ॥
प्रति ष्या सूनरी जनी व्युच्छन्ती परि स्वसुः। दिवो अदर्शि दुहिता ॥
अश्वेव चित्रारुषी माता गवामृतावरी। सखा भूदश्विनोरुषाः ॥
उत सखास्यश्विनोरुत माता गवामसि। उतोषो वस्व ईशिषे ॥
एषो उषा अपूर्व्याðž व्युच्छति प्रिया दिवः। स्तुषे वामश्विना बृहत् ॥
या दस्रा सिन्धुमातरा मनोतरा रयीणाम्। धिया देवा वसुविदा ॥
वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि। यद्वां रथो विभिष्पतात् । । 1730 ॥
उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति। येन तोकं च तनयं च धामहे ॥
उषो अद्येह गोमत्यश्वावति विभावरि। रेवदस्मे व्युच्छ सूनृतावति ॥
युङ्क्ष्वा हि वाजिनीवत्यश्वां अद्यारुणां उषः। अथा नो विश्वा सौभगान्या वह ॥
अश्विना वर्तिरस्मदा गोमद्दस्रा हिरण्यवत्। अर्वाग्रथं समनसा नि यच्छतम् ॥
एह देवा मयोभुवा दस्रा हिरण्यवर्त्तनी। उषर्बुधो वहन्तु सोमपीतये ॥
यावित्था श्लोकमा दिवो ज्योतिर्जनाय चक्रथुः। आ न ऊर्जं वहतमश्विना युवम् ॥
अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः। अस्तमर्वन्त आशवो स्तं नित्यासो वाजिन इषं स्तोतृभ्य आ भर ॥
अग्निउहि वाजिनं विशे ददाति विश्वचर्षणिः। अग्नी राये स्वाभुवं स प्रीतो याति वार्यमिषंस्तोतृभ्य आ भर ॥
सो अग्निर्यो वसुर्गृणे सं यमायन्ति धेनवः। समर्वन्तो रघुद्रुवः सं सुजातासः सूरय इषं स्तोतृभ्य आ भर ॥
महे नो अद्य बोधयोषो राये दिवित्मती। यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते । 1740 ॥
या सुनीथे शौचद्रथे व्यौच्छो दुहितर्दिवः। सा व्युच्छ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥
सा नो अद्याभरद्वसुकव्युच्छा दुहितर्दिवः। यो व्यौच्छः सहीयसि सत्यश्रवसि वोय्ये सुजाते अश्वसूनृते ॥
प्रति प्रियतमं रथं वृषणं वसुवाहनम्। स्तोता वामश्विनावृषि स्तोमेभिर्भूषति प्रति माध्वी मम श्रुतं हवम् ॥
अत्यायातमश्विना तिरो विश्वा अहं सना। दस्रा हिरण्यवर्तनी सुषुम्णा सिन्धुवाहसा माध्वी मम श्रुतं हवम् ॥
आ नो रत्नानि बिभ्रतावश्विना गच्छतं युवम्। रुद्रा हिरण्यवर्तनी जुषाणा वाजिनीवसू माध्वी मम श्रुतं हवम् ॥
अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम्। यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सस्रते नाकमच्छ ॥
अबोधि होता यजथाय देवानूर्ध्वो अग्निः सुमनाः प्रातरस्थात् । समिद्धस्य रुशददर्शि पाजो महान् देवस्तमसो निरमोचि ॥
यदीं गणस्य रशनामजीगः शुचिरङ्ते शुचिभिर्गोभिरग्निः। आद्दक्षिणा युज्यते वाजयन्त्युत्तानामूर्ध्वो अधयज्जुहूभिः ॥
इदंश्रेष्ठं ज्योतिषां ज्योतिरागाच्चित्रः प्रकेतो अजनिष्ट विभ्वा। यथा प्रसूता सवितुः सवायैवा रात्र्युषसे योनिमारैक् ॥
रुशद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः। समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनाने । 1750 ॥
समानो अध्वा स्वस्रोरनंतस्तमन्यान्या चरतो देवशिष्टे। न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे ॥
आ भात्यग्निरुषसामनीकमुद्विप्राणां देवया वाचो अस्थुः। अर्वाञ्चा नूनं रथ्येह यातं पीपिवां समश्विना घर्ममच्छ ॥
न संस्कृतं प्र मिमीतो गमिष्ठान्ति नूनमश्विनोपस्तुतेह ॥
दिवाभिपित्वेऽवसागमिष्ठा प्रत्यवर्त्तिं दाशुषे शम्भविष्ठा ॥
उता यातं संगवे प्रातरह्नो मध्यन्दिन उदिता सूर्यस्य। दिवा नक्तमवसा शन्तमेन नेदानीं पीतिरश्विना ततान ॥
एता उ त्या उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते। निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावोऽरुषीर्यन्ति मातरः ॥
उदपप्तन्नरुणा भानवो वृथा स्वायुजो अरुषीर्गा अयुक्षत। अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः ॥
अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः। इषं वहन्तीः सुकृते सुदानवे विश्वेदह यजमानाय सुन्वते ॥
अबोध्यग्निर्ज्म उदेति सूर्यो व्यूऽ.षाश्चन्द्रा मह्यावो अर्चिषा। आयुक्षातामश्विना यातवे रथं प्रासावीद्देवः सविता जगत्पृथक् ।
यद्युञ्जाथे वृषणमश्विना रथं घृतेन नो मधुना क्षत्रमुक्षतम्। अस्माकं ब्रह्म पृतनासु जिन्वतं वयं धना शूरसाता भजेमहि ॥
अर्वाङ् त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः। त्रिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद्विपदे चतुष्पदे । । 1760 ॥
प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः। अच्छा वाजं सहस्रिणम् ॥
अभि प्रियाणि काव्या विश्वा चक्षाणो अर्षति। हरिस्तुञ्जान आयुधा ॥
स मर्मृजान आयुभिरिभो राजेव सुव्रतः। श्येनो न वंसु षीदति ॥
स नो विश्वा दिवो वसूतो पृथिव्या अधि। पुनान इन्दवा भर ॥
प्रास्य धारा अक्षरन्वृष्णः सुतस्याजसः। देवां अनु प्रभूषतः ॥
सप्तिं मृजन्ति वेधसो गृणन्तः कारवो गिरा ॥
ज्योतिर्जज्ञानमुक्थ्यम् ॥
सुषहा सोम तानि ते पुनानाय प्रभूवसो। वर्धा समुद्रमुक्थ्य ॥
एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गृणे ।
त्वामिच्छवसस्पते यन्ति गिरो न संयतः ॥
वि स्रुतयो यथा पथः (इन्द्र त्वद्यन्तु रातयः ॥)* । ।1770 ॥
आ त्वा रथं यथोतये (सुम्नाय वर्त्तयामसि। तुविकूर्मिमृतीषहमिन्द्रं शविष्ठ सत्पतिम् ॥)* ॥
तुविशुष्म तुविक्रतो शचीवो विश्वया मते। आ पप्राथ महित्वना ।2 ॥
यस्य ते महिना महः परि ज्मायन्तमीयतुः। हस्ता वज्रं हिरण्ययम् ॥
आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो3 नार्वा। सूरो न रुरुक्वां छतात्मा ॥
अभि द्विजन्मा त्री रोचनानि विश्वा रजांसि शुशुचानो अस्थात्। होता यजिष्ठो अपां सधस्थे ॥
अय स होता यो द्विजन्मा विश्वा दधे वार्याणि श्रवस्या। मर्तो यो अस्मै सुतुको ददाश ॥
अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम्। ऋध्यामा त ओहैः ॥
अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः। रथीरृतस्य बृहतो बभूथ ॥
एभिर्नो अर्कैर्भवा नो अर्वाङ्क्स्वऽऽण ज्योतिः। अग्ने विश्वेभिः सुमना अनीकैः ॥
अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य। आ दाशुषे जातवेदो वहा त्वमद्या देवां उषर्बुधः । 1780 ॥
जुष्टो हि दूतो असि हव्यवाहनोऽग्ने रथीरध्वराणाम्। सजूरश्विभ्यामुषसा सवीर्यमस्मे धेहि श्रवो बृहत् ॥
विधुं दद्राणं समने बहूनां युवानंसन्तं पलितो जगार। देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान ॥
शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनादनीडः ॥
यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुतं जेतोत दाता ॥
ऐभिर्ददे वृष्ण्या पौंस्यानि येभिरौक्षद्वृत्रहत्याय वज्री। ये कर्मणः क्रियमाणस्य मह्न ऋते कर्ममुदजायन्त देवाः ॥
अस्ति सोमो अयं सुतः पिबन्त्यस्य मरुतः। उत स्वराजो अश्विना ॥
पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः। त्रिषधस्थस्य जावतः ॥
उतो न्वस्य जोषमा इन्द्रः सुतस्य गोमतः। प्रातर्होतेव मत्सति ॥
बण्महां असि सूर्य बडादित्य महां असि। महस्ते सतो महिमा पनिष्टम मह्ना देव महां असि ।
बट् सूर्य श्रवसा महां असि सत्रा देव महां असि। मह्ना देवानामसुकयः पुरोहितो विभु ज्योतिरदाभ्यम् ॥
उप नो हरिभिः सुतं याहि मदानां पते। उप नो हरिभिः सुतम् । 1790 ॥
द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः। उप नो हरिभिः सुतम् ॥
त्वं हि वृत्रहन्नेषां पाता सोमानामसि। उप नो हरिभिः सुतम् ॥
प्र वो महे महेवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम्। विशः पूर्वीः प्र चर चर्षणिप्राः ॥
उरुव्यचसे महिने सुवृक्तिमिन्द्राय ब्रह्म जनयन्त विप्राः। तस्य व्रतानि न मिनन्ति धीराः ॥
इन्द्रं वाणीरनुत्तमन्युमेव सत्रा राजानं दधिरे सहध्यै। हर्यश्वाय बर्हया समापीन् ॥
यदिन्द्र यावतस्त्वमेतावदहमीशीय। स्तोतारमिद्दधिषे रदावसो न पापत्वाय रंसिषम् ॥
शिक्षेयमिन्महयते दिवेदिवे राय आ कुहचिद्विदे। न हि त्वदन्यन्मघवन्न आप्यं वस्यो अस्ति पिता च न ॥
श्रुधी हवं विपिपानस्याद्रेर्बोधा विप्रस्यार्चतो मनीषाम्। कृष्वा दुवांस्यन्तमा सचेमा ॥
न ते गिरो अपि मृष्ये तुरस्य न सुष्टुतिमस्य यस्य विद्वान्। सदा ते नाम स्वयशो विवक्मि ॥
भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वामित्। माउ अस्मन्मघवं ज्योक्कः । । 1800 ॥
प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत। अभीके चिदु लोककृत्सङ्गे समत्सु वृत्रहा ॥
अस्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥
त्वं सिन्धूंरवासृजोऽधराचो अहन्नहिम्। अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यम् ॥
तं त्वा परि ष्वजामहे नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥
वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः। अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति ॥
या ते रातिर्ददिवसु नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥
रेवांइद्रेवत स्तोता स्यात्त्वावतो मघोनः। प्रेदु हरिवः सुतस्य ॥
उक्थं च न शस्यमानं नागो रयिरा चिकेत। न गायत्रं गीयमानम् ॥
मा न इन्द्र पीयत्नवे मा शर्धते परा दाः। शिक्षा शचीवः शचीभिः । ।
एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिम्। दिवो अमुष्य शासतो दिवं यय दिवावसो ।
अत्रा वि नेमिरेषामुरां न धूनुते वृकः। दिवो अमुष्य शासतो दिवं यय दिवावसो ।
आ त्वा ग्रावा वदन्निह सोमी घोषेण वक्षतु। दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
पवस्व सोम मन्दयन्निन्द्राय मधुमत्तमः । 1810 ॥
ते सुतासो विपश्चितः शुक्रा वायुमसृक्षत ॥
असृग्रं देववीतये वाजयन्तो रथा इव ॥
अग्निं होतारं मन्ये दास्वन्तं वसोः सूनुं सहसो जातवेदसं विप्रं न जातवेदसम्। य ऊर्ध्वरो स्वध्वरो देवो देवाच्या कृपा ॥
घृतस्य विभ्राष्टिमनु शुक्रशोचिष आजुह्वानस्य सर्पिषः ॥
यजिष्ठं त्वा यजमाना हुवेम ज्येष्ठमङ्गिरसां विप्र मन्मभिर्विप्रेभिः शुक्र मन्मभिः ॥
परिज्मानमिव द्यां होतारं चर्षणीनाम्। शोचिष्केशं वृषणं यमिमा विशः प्रावन्तु जूतये विशः ॥
स हि पुरू चिदोजसा विरुक्मता दीद्यानो भवति द्रुहन्तरः परशुर्न द्रुहन्तरः ॥
वीडु चिद्यस्य समृतौ श्रुवद्वनेव यत्स्थिरम्। निष्षहमाणो यमते नायते धन्वासहा नायते ॥
अग्ने तव श्रवो वयो महि भ्राजन्ते अर्चयो विभावसो। बृहद्भानो शवसा वाजमुक्थ्यां3 दधासि दाशुषे कवे ।
पावकवर्चाः शुक्रवर्चा अनूनवर्चा उदियर्षि भानुना। पुत्रो मातरा विचरन्नुपावसि पृणक्षि रोदसी उभे ।
ऊर्जो नपाज्जातवेदः सुशस्तिभिर्मन्दस्व धीतिभिर्हितः। त्वे इषः सं दधुर्भूरिवर्षसश्चित्रोतयो वामजाताः ।
इरज्यन्नग्ने प्रथयस्व जन्तुभिरस्मे रायो अमर्त्य। स दर्शतस्य वपुषो वि राजसि पृणक्षि दर्शतं क्रतुम् ॥
इष्कर्त्तारमध्वरस्य प्रचेतसं क्षयन्तं राधसो महः। रातिं वामस्य सुभगां महीमिषं दधासि सानसिं रयिम् । 1820 ॥
ऋतावानं महिषं विश्वदर्शतमग्निं सुम्नाय दधिरे पुरो जनाः। श्रुत्कर्णं सप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगा ॥
प्र सो अग्ने तवोतिभिः सुविराभिस्तरति वाजकर्मभिः। यस्य त्वं सख्यमाविथ ॥
तव द्रप्सो नीलवान्वाश ऋत्विय इन्धानः सिष्णवा ददे। त्वं महीनामुषसामसि प्रियः क्षपो वस्तुषु राजसि ॥
तमोषधीर्दधिरे गर्भमृत्वियं तमापो अग्निं जनयन्त मातरः ॥
तमित्समानं वनिनश्च वीरुधोऽन्तर्वतीश्च सुवते च विश्वहा ॥
अग्निरिन्द्राय पवते दिवि शुक्रो वि राजति। महिषीव वि जायते ॥
यो जागार तमृचः कामयन्ते यो जागार तमु सामानि यन्ति। यो जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः ॥
अग्निर्जागार तमृचः कामयन्तेऽग्निर्जागार तमु सामानि यन्ति। अग्निर्जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः ॥
नमः सखिभ्यः पूर्वसद्भ्यो नमः साकंनिषेभ्यः। युञ्जे वाचं शतपदीम् ।
युञ्जे वाचं शतपदीं गाये सहस्रवर्तनि। गायत्रं त्रैष्टुभं जगत् ॥
गायत्रं त्रैष्टुभं जगद्विश्वा रूपाणि सम्भृता। देवा ओकांसि चक्रिरे । । 1830 ॥
अग्निउज्योतिर्ज्योतिरग्निउन्द्रो ज्योतिर्ज्योतिरिन्द्रः। सूर्यो ज्योतिर्ज्योतिः सूर्यः ॥
पुनरूर्जा नि वर्त्तस्व पुनरग्न इषायुषा। पुनर्नः पाह्यंहसः ॥
सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया। विश्वप्स्न्या विश्वतस्परि ॥
यदिन्द्राहं यथा त्वमीशीय वस्व एक इत्। स्तोता मे गोसखा स्यात् ॥
शिक्षेयमस्मै दित्सेयँं शचीपते मनीषिणे। यदहं गोपतिः स्याम् ॥
धेनुष्ट इन्द्र सूनृता यजमानाय सुन्वते। गामश्वं पिप्युषी दुहे ॥
आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन। महे रणाय चक्षसे ॥
यो वः शिवतमो रसस्तस्य भाजयतेह नः। उशतीरिव मातरः ॥
तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ। आपो जनयथा च नः ॥
वात आ वातु बेषजं शम्भु मयोभु नो हृदे। प्र न आयूंषि तारिषत् । 1840 ॥
उत वात पितासि न उत भ्रातोत नः सखा। स नो जीवातवे कृधि ॥
यददो वात ते गृहेऽ.ऽमृतं निहितं गुहा। तस्य नो धेहि जीवसे ॥
अभि वाजी विश्वरूपो जनित्रं हिरण्ययं बिभ्रदत्कं सुपर्णः। सूर्यस्य भानुमृतुथा वसानः परि स्वयं मेधमृज्रो जजान ॥
अप्सु रेतः शिश्रिये विश्वरूपं तेजः पृथिव्यामधि यत्सम्बभूव। अन्तरिक्षे स्वं महिमानं मिमानः कनिक्रन्ति वृष्णो अश्वस्य रेतः ॥
अयं सहस्रा परि युक्ता वसानः सूर्यस्य भानुं यज्ञो दाधार। सहस्रदाः शतदा भूरिदावा धर्त्ता दिवो भुवनस्य विश्पतिः ॥
नाके सुपर्णमुप यत्पतन्तं हृदा वेनन्तो अभ्यचक्षत त्वा। हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम् ॥
ऊर्ध्वो गन्धर्वो अधि नाके अस्थात्प्रत्यङ्चित्रा बिभ्रदस्यायुधानि। वसानो अत्कं सुरभिं दृशे कं स्वा3र्ण नाम जनत प्रियाणि ॥
द्रप्सः समुद्रमभि यज्जिगाति पश्यन् गृध्रस्य चक्षसा विधर्मन्। भानुः शुक्रेण शोचिषा चकानस्तृतीये चक्रे रजसि प्रियाणि ॥
आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम्।
सङ्क्रन्दनोऽनिमिष एकवीरः शतं सेना अजयत्साकमिन्द्रः ॥
सङ्क्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना। तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा । 1850 ॥
स इषुहस्तैः स निषङ्गिभिर्वशी संस्रष्टा स युध इन्द्रो गणेन। सं सृष्टजित्सोमपा बाहुशर्ध्यूऽ.ग्रधन्वा प्रतिहिताभिरस्ता ॥
बृहस्पते परि दीया रथेन रक्षोहामित्रां अपबाधमानः। प्रभञ्जन्सेनाः प्रमृणो युधा जयन्नस्माकमेध्यविता रथानाम् ॥
बलविज्ञायः स्थविरः प्रवीरः सहस्वान्वाजी सहमान उग्रः। अभिवीरो अभिसत्वा सहोजा जैत्रमिन्द्र रथमा तिष्ठ गोवित् ॥
गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा। इमं सजाता अनु वीरयध्वमिन्द्रं सखायो अनु सं रभध्वम् ॥
अभि गोत्राणि सहसा गाहमानोऽदयो वीरः शतमन्युरिन्द्रः। दुश्च्यवनः पृतनाषाड.युध्यो3ऽस्माकं सेना अवतु प्र युत्सु ॥
इन्द्र आसां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः। देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रम् ॥
इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्ध उग्रम्। महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् ॥
उद्धर्षय मघवन्नायुधान्युत्सत्वनां मामकानां मनांसि। उद्वृत्रहन्वाजिनां वाजिनान्युद्रथानां जयतां यन्तु घोषाः ॥
अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ताजयन्तु। अस्माकं वीरा उत्तरे भवन्त्वस्मां उ देवा अवता हवेषु ॥
असौ या सेना मरुतः परेषामभ्येति न ओजसा स्पर्धमाना। तां गूहत तमसापव्रतेन यथैतेषामन्यो अन्यं न जानात् । । 1860 ॥
अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्यप्वे परेहि। अभि प्रेहि निर्दह हृत्सु शोकैरन्धेनामित्रास्तमसा सचन्ताम् ॥
प्रेता जयता नर इन्द्रो वः शर्म यच्छतु। उग्रा वः सन्तु बाहवोऽनाधृष्या यथासथ ॥
अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते। गच्छामित्रान्प्र पद्यस्व मामीषां कं च नोच्छिषः ॥
कङ्काः सुपर्णा अनु यन्त्वेनान् गृध्राणामन्नमसावस्तु सेना। मैषां मोच्यघहारश्च नेन्द्र वयांस्येनाननुसंयन्तु सर्वान् ॥
अमित्रसेनां मघवन्नस्मां छत्रुयतीमभि। उभौ तामिन्द्र वृत्रहन्नग्निश्च दहतं प्रति ॥
यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव। तत्र नो ब्रह्मणस्पतिरदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥
वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज। वि मन्युमिन्द्र वृत्रहन्नमित्रस्याभिदासतः ॥
वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः। यो अस्मां अभिदासत्यधरं गमया तमः ॥
इन्द्रस्य बाहू स्थविरौ युवानावनाधृष्यौ सुप्रतीकावसह्यौ। तौ युञ्जीत प्रथमौ योग आगते याभ्यां जितमसुराणां सहो महत् ॥
मर्माणि ते वर्मणा च्छादयामि सोमस्त्वा राजामृतेनानु वस्ताम्। उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु । 1870 ॥
अन्धा अमित्रा भवताशीर्षाणोऽहय इव। तेषां वो अग्निनुन्नानामिन्द्रो हन्तु वरंवरम् ॥
यो नः स्वोऽरणो यश्च निष्ठ्यो जिघांसति। देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरं शर्म वर्म ममान्तरम् ॥
मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगन्था परस्याः। सृकं संशाय पविमिन्द्र तिग्मं वि शत्रूं ताढि वि मृधो नुदस्व ॥
भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः। स्थिरैरङ्गैस्तुष्टुवां सस्तनूभिव्यशेमहि देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः। स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु॥
ॐ स्वस्ति नो बृहस्पतिर्दधातु ॥
मूल पाठ: sāmavedasaṃhitā (kauthumīyā) · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0