भाषा

ENहिગુ
ग्रंथ पाठ

साहित्यदर्पण (टीका सहित) · अध्याय 9

9.1

तेनोक्तप्रकारेण ।
अर्थगुण ओजः प्रभृतयः प्रोक्ताः ।
इति साहित्यदर्पणे गुणविवेचनो नामाष्टमः परिच्छेदः ।
नवमः परिच्छेदः
अथोद्देशक्रमप्राप्तमलङ्कारनिरूपणं बहुवक्तव्यत्वेनोल्लङ्घ्य रीतिमाह---
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, क) उद्देशेति---गुणआलङ्काररीतय इत्युद्देशे ऽलङ्कारस्य प्रागुद्दिष्टत्वेन तदुल्लङ्घयम् इत्यर्थः ।
तदुल्लङ्घने हेतुमाह---बहुवक्तव्यत्वेनेति ।
एतेन सूचीकटाहन्यायो दर्शितः ।
लोचना:
(लो, अ) इदानीं रीतिं निरूपयितुकामः संगति करोति---अथोद्देशेति ।
बहुवक्तव्यत्वेन उल्लङ्घ्यकमं सूचीकटाहन्यायादित्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
पदसंघटना रीतिरङ्गसंस्थाविरोषवत् ।
उपकर्त्रो रसादीनां---
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ख) रसादीनामित्यादिपदात् समस्तासंलक्ष्यक्रमपरिग्रहः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
रसादीनामर्थाच्छब्दार्थशरीरस्य काव्यस्यात्मभूतानाम् ।
लोचना:
(लो, आ) पदानां सङ्गटना रचना अर्थात् विशिष्टा, विशेषश्च विशेषलक्षणेष्वभिव्यक्तः ।
रसादीनामिति ।
अङ्गसंस्थाविशेषो यथा लोके आत्मानमुपकरोति तथा काव्येषु ।
********** एन्द् ओf चोम्मेन्तर्य् **********
---सा पुनः स्याच्चतुर्विधा

9.2

वैदर्भो चाथ गौडी च पाञ्चाली लाटिका तथा ।
सरीतिः ।
तत्र---
माधुर्यव्यञ्जकेर्वर्णै रचना ललितात्मिका

9.3

अवृत्तिरल्पवृत्तिर्वा वैदर्भो रीतिरिष्यते ।
यथा---"अनङ्गमङ्गलभुवः--" इत्यादि ।
रुद्रटस्त्वाह---
असमस्तैकसमस्ता युक्ता दशभिर्गुणैश्च वैदर्भो ।
वर्गद्वितीयबहुला स्वल्पप्राणाक्षरा च सुविधेया ॥
अत्र दशगुणास्तन्मतोक्ताः श्लेषादयः ।
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ग) अनङ्गमङ्गलभुव इत्यादि व्याख्यातम् ।
एकपदसमस्ता न त्वनेकपदैर्देर्घसमस्ता ।
स्वल्पप्राणानि अक्षराणि ईषत् प्रयत्नोच्चार्य्यापि ककारहकारादीनि यत्र ।
श्लेषादिर्दशगुणाः ।
लोचना:
(लो, इ) ललितात्मिका सुकुमारस्वरूपा ।
वृत्तिः समासः ।
अत्र रुद्रटाचार्य्यमतप्रकटनम् ।
एकसमस्ता एकपदसमासयुक्ता, स्वल्पप्राणाक्षरा मूर्द्ध्ना मृद्वृत्तेत्यादिवत् न कष्टोच्चारणीयवर्णा ।
********** एन्द् ओf चोम्मेन्तर्य् **********
ओजः प्रकाशकैर्वणैर्बन्ध आडम्बरः पुनः

9.4

समासबहुला गौडी---
यथा---"चञ्चद्भुज--" इत्यादि ।
पुरुषोत्तमस्त्वाह---
"बहुतरसमासयुक्ता सुमहाप्राणाक्षरा च गौडीया ।
रीतिरनुप्रासमहिमपरतन्त्रा स्तोकवाक्या च" ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, घ) आडम्बर उद्दतवर्णघटितः ।
पुरुषोत्तस्त्विति ।
अन्यापेक्षया प्राक्लिखितबन्ध आडम्बरः; एतन्मते उक्तवर्णानामनुप्रसितत्वनियम इति विशेषस्तदाहअनुप्रासमहिमपरतन्त्रेति ।
पारतन्त्र्यं व्याप्तिः ।
अस्तोभवाक्य यतिरहितवाक्या ।
लोचना:
(लो, ई) अनुप्रासमहिमपरतन्त्रानुप्रासबहुला ।
********** एन्द् ओf चोम्मेन्तर्य् **********
---वर्णैः शेषैः पुनर्द्वयोः ।
समस्तपञ्चषपदो बन्धः पाञ्चालिका मता

9.5

************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ङ) पाञ्चालिकां रीतिमाह---वर्णैरिति ।
द्वयोः शेषैरवशिष्टैर्वर्णैरित्यर्थः ।
समस्तपञ्चमपद इति अत्र पदपदम् अक्षरम् ।
तेन समासगतपञ्चमाक्षर इत्यर्थः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
द्वयोर्वैदर्भोगौड्योः ।
यथा---
"मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया ।
मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे" ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, च) मधुरयेति ।
मधुकराङ्गनया भ्रमर्य्या निभृताक्षरं गुप्ताक्षरमस्फुटाक्षरं यथा स्यात्तथा मुहुरुज्जगे ऽगीयत ।
कीदृश्या मधुरया ध्वनिमधुरतयैव तस्या मधुरता, तथा मधुना वसन्तेन बोधिताया उद्वोधिताया माधवीलताया मधुनो मकरन्दस्य समृद्ध्या सम्पत्त्या समेधिता दीप्ता मेधा बुद्धिर्यस्यास्तादृश्या ।
तथोन्मदद्वनिभृता उच्चत्वमेवोन्मदत्वम् ।
अत्र मकारनकारौ पञ्चमवर्णौ समासगतौ ।
********** एन्द् ओf चोम्मेन्तर्य् **********
भोजस्त्वाह---
"समस्तपञ्चषपदामोजः कान्तिसमन्विताम् ।
मधुरां सुकुमारां च पाञ्चालीं कवयो विदुः" ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, छ) कण्ठारणकृतो भोजस्य सम्पतलक्षणमाह---भोजस्त्विति ।
ओजः कान्तीति ।
साभिप्रायत्वरूपेण ओजसा औज्ज्वल्यरूपया कान्त्वा च समन्वितामित्यर्थः ।
मधुरांसुकुमारां चेति ।
पृथक् पदत्वरूपेण माधुर्य्येण सौकुमार्येण च युक्तामित्यर्थः ।
अनङ्गमङ्गलभुव इति वैदर्भ्युदाहरणे पञ्चममूर्द्धान एव वर्णा इति ।
न तत्र समस्तपञ्चमवर्णघटितपाञ्चालीत्वप्रसक्तिः ।
मधुरयेत्यादिपाञ्चाल्युदाहरणे समासगता एव पञ्चमवर्णा इति न तत्र पञ्चममूर्द्धवर्णघटितवैदर्भोत्वप्रसक्तिः ।
तत्र माधुर्य्यव्यञ्जकैरित्यत्र बहुवचनादत्र मधुकराङ्गनया इत्यत्र तद्व्यञ्जकैकवर्णमात्रसत्त्वेन तत्प्रसक्त्यभावात् ।
लोचना:
(लो, उ) ओजः--कान्ती तन्मतोक्तौ गुणविशेषौ ।
********** एन्द् ओf चोम्मेन्तर्य् **********
लाटी तु रीतिर्वैदर्भोपाञ्चाल्योरन्तरे स्थिता ।
लोचना:
(लो, ऊ) अन्तरा स्थितेत्यनेन नात्यल्पसमासा न बहुलसमासा, एवमन्यत्र ।
********** एन्द् ओf चोम्मेन्तर्य् **********
यथा---
"अयमुदयति मुद्राभञ्जनः पद्मिनीनामुदयगिरिवनालीबालमन्दारपुष्पम् ।
विरहविधुरकोकद्वन्द्वबन्धुविभिन्दन् कुपितकपिकपोलक्रोडताम्रस्तमांसि" ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, ज) अयमुदयतीति ।
लाट्युदाहरणे तदुभयमिश्रणं दर्शयिष्यते ।
तदर्थस्तु अयम् अर्थात् सूर्य्य उदयति ।
कीदृशः ।
पद्मिनीनां मुद्रायाः सङ्कोचस्य भञ्जनः तत्पुष्पविकाशकरत्वात् ।
तथा उदयगिरिस्थाया वनश्रेण्या नवीनमन्दारपुष्पस्वरूपः ।
विरहदुः खितस्य चक्रवाकमिथुनस्य बन्धुर्मित्रं तद्विरहनाशकत्वात् ।
तमांसि भिन्दन् च कुपितस्य वानरस्य कपोलक्रोडोभयवत् ताम्रश्च ।
कोपशात् कपोलस्य ताम्रता क्रोडस्य तु स्वाभाविकी ।
अत्र भञ्जनेति, मन्दारेति, द्वन्द्वबन्धुरिति, भिन्दन्निति पञ्चममूर्द्धवर्णानां वैदर्भोघटकत्वं तच्छेषवर्णानांबहूनामेवं पाञ्चालीघटकत्वमित्युभयमिश्रणम् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
कश्चिदाह---
"मृदुपदसमाससुभगा युक्तैर्वर्णैर्न चातिभूयिष्ठा ।
लोचना:
(लो, ऋ) युक्तैः संयुक्तैः ।
********** एन्द् ओf चोम्मेन्तर्य् **********
उचितविशेषणपूरितवस्तुन्यासा भवेल्लाटी" ॥
************* चोम्मेन्तर्य् *************
विज्ञप्रिया:
(वि, झ) कश्चिदाहेति---लाटीलक्षणमिति शेषः ।
मृदुपदेति---पदसमासयोरुभयत्र मृदुत्वान्वयः ।
युक्तैः संयुक्तैर्वर्णैर्नचातिभूयिष्ठा, भूयिष्ठसंयुक्तवर्णरहितेत्यर्थः ।
उचितेति---उचितम् उक्तदोषरहितं विशेषणं पूरितम् प्रतिपालितं येन तादृशस्य वस्तुनो न्यासयुक्ता लाटी भवेदित्यर्थः ।
एतदप्युक्तोदाहरणे एव सम्भवति ।
तत्तद्गुणव्यञ्जकानां वर्णादीनां तत्तद्गुणव्यञ्जनार्थमुपादेयत्वेनोक्तत्वात् ।
********** एन्द् ओf चोम्मेन्तर्य् **********
अन्ये त्वाहुः---
"गौडी डम्बरबद्धा स्याद्वैदर्भो ललितक्रमा ।
पाञ्चाली मिश्रभावेन लाटी तु मृदुभैः पदैः" ॥
क्वचित्तु वक्त्राद्यौचित्यादन्यथा रचनादयः

मूल पाठ: Sāhityadarpaṇa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc