भाषा

ENहिગુ
ग्रंथ पाठ

सद्धर्मपुण्डरीकसूत्र · अध्याय 9

9.1

इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये पञ्चभिक्षुशतव्याकरणपरिवर्तो नामाष्टमः ॥
सद्ध्प्_9: आनन्दादिव्याकरणपरिवर्तः ।
अथ खल्वायुष्मानानन्दस्तस्यां वेलायामेवं चिन्तयामास - अप्येव नाम वयमेवंरूपं व्याकरणं प्रतिलभेमहि । एवं च चिन्तयित्वा अनुविचिन्त्य प्रार्थयित्वा उत्थायासनाद् भगवतः पादयोर्निपत्य, आयुष्मांश्च राहुलो ऽप्येवं चिन्तयित्वा अनुविचिन्त्य प्रार्थयित्वा भगवतः पादयोर्निपत्य एवं वाचमभाषत - अस्माकमपि तावद् भगवन् अवसरो भवतु । अस्माकमपि तावत् सुगत अवसरो भवतु । अस्माकं हि भगवान् पिता जनको लयनं त्राणं च । वयं हि भगवन् सदेवमानुषासुरे लोके ऽतीव चित्रीकृताः - भगवतश्चैते पुत्रः भगवतश्चोपस्थायकाः भगवतश्च धर्मकोशं धारयन्तीति । तन्नाम भगवन् क्षिप्रमेव प्रतिरूपं भवेद् यद् भगवानस्माकं व्याकुर्यादनुत्तरायां सम्यक्संबोधौ ॥
अन्ये च द्वे भिक्षुसहस्रे सातिरेके शैक्षाशैक्षाणां श्रावकाणामुत्थायासनेभ्य एकांसमुत्तरासङ्गं कृत्वा अञ्जलिं प्रगृह्य भगवतो ऽभिमुखं भगवन्तमुल्लोकयमाने तस्थतुः एतामेव चिन्तामनुविचिन्तयमाने यदुत इदमेव बुद्धज्ञानम् - अप्येव नाम वयमपि व्याकरणं प्रतिलभेमहि अनुत्तरायां सम्यक्संबोधाविति ॥
अथ खलु भगवानायुष्मन्तमानन्दमामन्त्रयते स्म - भविष्यसि त्वमानन्द अनागते ऽध्वनि सागरवरधरबुद्धिविक्रीडिताभिज्ञो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । द्वाषष्टीनां बुद्धकोटीनां सत्कारं कृत्वा, गुरुकारं माननां पूजनां च कृत्वा, तेषां बुद्धानां भगवतां सद्धर्मं धारयित्वा, शासनपरिग्रहं च कृत्वा अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसि । स त्वमानन्द अनुत्तरां सम्यक्संबोधिं संबुद्धः समानो विंशतिगङ्गानदीवालुकासमानि बोधिसत्त्वकोटीनयुतशतसहस्राणि परिपाचयिष्यस्यनुत्तरायां सम्यक्संबोधौ । समृद्धं च ते बुद्धक्षेत्रं भविष्यति वैडूर्यमयं च । अनवनामितवैजयन्ती च नाम सा लोकधातुर्भविष्यति । मनोज्ञशब्दाभिगर्जितश्च नाम स कल्पो भविष्यति । अपरिमितांश्च कल्पांस्तस्य भगवतः सागरवरधरबुद्धिविक्रीडिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य आयुष्प्रमाणं भविष्यति, येषां कल्पानां न शक्यं गणनया पर्यन्तो ऽधिगन्तुम् । तावदसंख्येयानि तानि कल्पकोटीनयुतशतसहस्राणि तस्य भगवत आयुष्प्रमाणं भविष्यति । यावच्च आनन्द तस्य भगवतः सागरवरधरबुद्धिविक्रीडिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यायुष्प्रमाणं भविष्यति, तद्द्विगुणं परिनिर्वृतस्य सद्धर्मः स्थास्यति । यावांस्तस्य भगवतः सद्धर्मः स्थास्यति, तद्द्विगुणः सद्धर्मप्रतिरूपकं स्थास्यति । तस्य खलु पुनरानन्द सागरवरधरबुद्धिविक्रीडिताभिज्ञस्य तथागतस्य दशसु दिक्षु बहूनि गङ्गानदीवालुकासमानि बुद्धकोटीनयुतशतसहस्राणि वर्णं भाषिष्यन्ति ॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
आरोचयामि अहु भिक्षुसंघे आनन्दभद्रो मम धर्मधारकः ।
अनागते ऽध्वानि जिनो भविष्यति पूजित्व षष्टिं सुगतान कोट्यः

9.2

नामेन सो सागरबुद्धिधारी अभिज्ञप्राप्तो इति तत्र विश्रुतः ।
परिशुद्धक्षेत्रस्मि सुदर्शनीये अनोनतायां ध्वजवैजयन्त्याम्

9.3

तहि बोधिसत्त्वा यथा गङ्गवालिकास्ततश्च भूयो परिपाचयिष्यति ।
महर्द्धिकश्चो स जिनो भविष्यति दशद्दिशे लोकविघुष्टशब्दः

9.4

अमितं च तस्यायु तदा भविष्यति यः स्थास्यते लोकहितानुकम्पकः ।
परिनिर्वृतस्यापि जिनस्य तायिनो द्विगुणं च सद्धर्मु स तस्य स्थास्यति

9.5

प्रतिरूपकं तद्द्विगुणेन भूयः संस्थास्यते तस्य जिनस्य शासने ।
तदापि सत्त्वा यथा गङ्गवालिका हेतुं जनेष्यन्तिह बुद्धबोधौ

9.6

अथ खलु तस्यां पर्षदि नवयानसंप्रस्थितानामष्टानां बोधिसत्त्वसहस्राणामेतदभवत् - न बोधिसत्त्वानामपि तावदस्माभिरेवमुदारं व्याकरणं श्रुतपूर्वम्, कः पुनर्वादः श्रावकाणाम्? कः खल्वत्र हेतुर्भविष्यति, कः प्रत्यय इति? अथ खलु भगवांस्तेषां बोधिसत्त्वानां चेतसैव चेतः परिवितर्कमाज्ञाय तान् बोधिसत्त्वानामन्त्रयामास - सममस्माभिः कुलपुत्रा एकक्षणे एकमुहूर्ते मया च आनन्देन च अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितं धर्मगगनाभ्युद्गतराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य संमुखम् । तत्रैष कुलपुत्रा बाहुश्रुत्ये च सततसमितमभियुक्तो ऽभूत्, अहं च वीर्यारम्भे ऽभियुक्तः । तेन मया क्षिप्रतरमनुत्तरा सम्यक्संबोधिरभिसंबुद्धा । अयं पुनरानन्दभद्रो बुद्धानां भगवतां सद्धर्मकोशधर एव भवति स्म - यदुत बोधिसत्त्वानां परिनिष्पत्तिहेतोः प्रणिधानमेतत्कुलपुत्रा अस्य कुलपुत्रस्येति ॥
अथ खल्वायुष्मानानन्दो भगवतो ऽन्तिकादात्मनो व्याकरणं श्रुत्वा अनुत्तरायां सम्यक्संबोधौ, आत्मनश्च बुद्धक्षेत्रगुणव्यूहान् श्रुत्वा, पूर्वप्रणिधानचर्यां च श्रुत्वा, तुष्ट उदग्र आत्तमनस्कः प्रमुदितः प्रीतिसौमनस्यजातो ऽभूत् । तस्मिंश्च समये बहूनां बुद्धकोटीनयुतशतसहस्राणां सद्धर्ममनुस्मरति स्म, आत्मनश्च पुर्वप्रणिधानम् ॥
अथ खल्वायुष्मानानन्दस्तस्यां वेलायामिमा गाथा अभाषत -
आश्चर्यभूता जिन अप्रमेया ये स्मारयन्ति मम धर्मदेशनाम् ।
परिनिर्वृतानां हि जिनान तायिनां समनुस्मरामी यथ अद्य श्वो वा

9.7

निष्काङ्क्षप्राप्तो ऽस्मि स्थितो ऽस्मि बोधये उपायकौशल्य ममेदमीद्दशम् ।
परिचारको ऽहं सुगतस्य भोमि सद्धर्म धारेमि च बोधिकारणात्

9.8

अथ खलु भगवानायुष्मन्तं राहुलभद्रमामन्त्रयते स्म - भविष्यसि त्वं राहुलभद्र अनागते ऽध्वनि सप्तरत्नपद्मविक्रान्तगामी नाम तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् दशलोकधातुपरमाणुरजःसमांस्तथागतानर्हतः सम्यक्संबुद्धान् सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वा अर्चयित्वा । सदा तेषां बुद्धानां भगवतां ज्येष्ठपुत्रो भविष्यसि तद्यथापि नाम ममैतर्हि । तस्य खलु पुना राहुलभद्र भगवतः सप्तरत्नपद्मविक्रान्तगामिनस्तथागतस्यार्हतः सम्यक्संबुद्धस्य एवंरूपमेवायुष्प्रमाणं भविष्यति, एवं रूपैव सर्वाकारगुणसंपद् भविष्यति तद्यथापि नाम तस्य भगवतः सागरवरधरबुद्धिविक्रीडिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य सर्वाकारगुणोपेता बुद्धक्षेत्रगुणव्यूहा भविष्यन्ति । तस्यापि राहुल सागरवरधरबुद्धिविक्रीडिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य त्वमेव ज्येष्ठपुत्रो भविष्यसि । ततः पश्चात् परेणानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसीति ॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
अयं ममा राहुल ज्येष्ठपुत्रो यो औरसो आसि कुमारभावे ।
बोधिं पि प्राप्तस्य ममैष पुत्रो धर्मस्य दायाद्यधरो महर्षिः

9.9

अनागते ऽध्वे बहुबुद्धकोट्यो यान् द्रक्ष्यसे येष प्रमाणु नास्ति ।
सर्वेष तेषां हि जिनान पुत्रो भविष्यती बोधि गवेषमाणः

9.10

अज्ञातचर्या इय राहुलस्य प्रणिधानमेतस्य अहं प्रजानमि ।
करोति संवर्णन लोकबन्धुषु अहं किला पुत्र तथागतस्य

9.11

गुणान कोटीनयुताप्रमेयाः प्रमाणु येषां न कदाचिदस्ति ।
ये राहुलस्येह ममौरसत्य तथा हि एषो स्थितु बोधिकारणात्

9.12

अद्राक्षीत्खलु पुनर्भगवांस्ते द्वे श्रावकसहस्रे शैक्षाशैक्षाणां श्रावकाणां भगवन्तमवलोकयमाने अभिमुखं प्रसन्नचित्ते मृदुचित्ते मार्दवचित्ते । अथ खलु भगवांस्तस्यां वेलायामायुष्मन्तमानन्दमामन्त्रयते स्म - पश्यसि त्वमानन्द एते द्वे श्रावकसहस्रे शैक्षाशैक्षाणां श्रावकाणाम्? आह - पश्यामि भगवन्, पश्यामि सुगत । भगवानाह - सर्व एवैते आनन्द द्वे भिक्षु सहस्रे समं बोधिसत्त्वचर्यां समुदानयिष्यन्ति, पञ्चाशल्लोकधातुपरमाणुरजःसमांश्च बुद्धान् भगवतः सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वा अर्चयित्वा अपचायित्वा सद्धर्म च धारयित्वा पश्चिमे समुच्छ्रये एकक्षणेनैकमुहूर्तेनैकलवेनैकसंनिपातेन दशसु दिक्ष्वन्योन्यासु लोकधातुषु स्वेषु स्वेषु बुद्धक्षेत्रेष्वनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते । रत्नकेतुराजा नाम तथागता अर्हन्तः सम्यक्संबुद्धा भविष्यन्ति । परिपूर्णं चैषां कल्पमायुष्प्रमाणं भविष्यति । समाश्चैषां बुद्धक्षेत्रगुणव्यूहा भविष्यन्ति । समः श्रावकगणो बोधिसत्त्वगणश्च भविष्यति । समं चैषां परिनिर्वाणं भविष्यति । समश्चैषां सद्धर्मः स्थास्यति ॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
द्वे वै सहस्रे इमे श्रावकाणां आनन्द ये ते मम अग्रतः स्थिताः ।
तान् व्याकरोमी अहमद्य पण्डिताननागते ऽध्वानि तथागतत्वे

9.13

अनन्त औपम्यनिदर्शनेहि बुद्धान अग्र्यां करियाण पूजाम् ।
आरागयिष्यन्ति ममाग्रबोधिं स्थिहित्व चरिमस्मि समुच्छ्रयस्मिन्

9.14

एकेन नामेन दशद्दिशासु क्षणस्मि एकस्मि तथा मुहूर्ते ।
निषद्य च द्रुमप्रवराण मूले बुद्धा भविष्यन्ति स्पृशित्व ज्ञानम्

9.15

एकं च तेषामिति नाम भेष्यति रत्नस्य केतूतिह लोकि विश्रुताः ।
समानि क्षेत्राणि वराणि तेषां समो गणः श्रावकबोधिसत्त्वाः

9.16

ऋद्धिप्रभूता इह सर्वि लोके समन्ततस्ते दशसु द्दिशासु ।
धर्मं प्रकाशेत्व यदापि निर्वृताः सद्धर्मु तेषां सममेव स्थास्यति

9.17

अथ खलु ते शैक्षाशैक्षाः श्रावका भगवतो ऽन्तिकात् संमुखं स्वानि स्वानि व्याकरणानि श्रुत्वा तुष्टा उदग्रा आत्तमनस्काः प्रमुदिताः प्रीतिसौमनस्यजाता भगवन्तं गाथाभ्यामध्यभाषन्त -
तृप्ताः स्म लोकप्रद्योत श्रुत्वा व्याकरणं इदम् ।
अमृतेन यथा सिक्ताः सुखिताः सम तथागत

9.18

नास्माकं काङ्क्षा विमतिर्न भेष्याम नरोत्तमाः ।
अद्यास्माभिः सुखं प्राप्तं श्रुत्वा व्याकरणं इदम्

मूल पाठ: Saddharmapuṇḍarīkasūtra · Edition: P.L. Vaidya, Darbhanga : The Mithila Institute, 1960 (Buddhist Sanskrit Texts, 6) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc