भाषा

ENहिગુ
ग्रंथ पाठ

सद्धर्मपुण्डरीकसूत्र · अध्याय 8

8.1

इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये पूर्वयोगपरिवर्तो नाम सप्तमः ॥
सद्ध्प्_8: पञ्चभिक्षुशतव्याकरणपरिवर्तः ।
अथ खल्वायुष्मान् पूर्णो मैत्रायणीपुत्रो भगवतो ऽन्तिकादिदमेवंरूपमुपायकौशल्यज्ञानदर्शनं संधाभाषितनिर्देशं श्रुत्वा एषां च महाश्रावकाणां व्याकरणं श्रुत्वा इमां च पूर्वयोगप्रतिसंयुक्तां कथां श्रुत्वा इमां च भगवतो वृषभतां श्रुत्वा आश्चर्यप्राप्तो ऽभूदद्भुतप्राप्तो ऽभून्निरामिषेण च चित्तेन प्रीतिप्रामोद्येन स्फुटो ऽभूत् । महता च प्रीतिप्रामोद्येन महता च धर्मगौरवेण उत्थायासनाद् भगवतश्चरणयोः प्रणिपत्य एवं चित्तमुत्पादितवान् - आश्चर्यं भगवन्, आश्चर्यं सुगत । परमदुष्करं तथागता अर्हन्तः सम्यक्संबुद्धाः कुर्वन्ति, य इमं नानाधातुकं लोकमनुवर्तयन्ते, बहुभिश्चोपायकौशल्यज्ञाननिदर्शनैः सत्त्वानां धर्मं देशयन्ति, तस्मिंस्तस्मिंश्च सत्त्वान् विलग्नानुपायकौशल्येन प्रमोचयन्ति । किमत्र भगवन् अस्माभिः शक्यं कर्तुम्? तथागत एवास्माकं जानीते आशयं पूर्वयोगचर्यां च । स भगवतः पादौ शिरसाभिवन्द्य एकान्ते स्थितो ऽभूद् भगवन्तमेव नमस्कुर्वन् अनिमिषाभ्यां च नेत्राभ्यां संप्रेक्षमाणः ॥
अथ खलु भगवानायुष्मन्तः पूर्णस्य मैत्रायणीपुत्रस्य चित्ताशयमवलोक्य सर्वावन्तं भिक्षुसंघमामन्त्रयते स्म - पश्यथ भिक्षवो यूयमिमं श्रावकं पूर्णं मैत्रायणीपुत्रं यो मयास्य भिक्षुसंघस्य धर्मकथिकानामग्र्यो निर्दिष्टः, बहुभिश्च भूतैर्गुणैरभिष्टुतः, बहुभिश्च प्रकारैरस्मिन् मम शासने सद्धर्मपरिग्रहायाभियुक्तः । चतसृणां पर्षदां संहर्षकः समादापकः समुत्तेजकः संप्रहर्षको ऽक्लान्तो धर्मदेशनया, अलमस्य धर्मस्याख्याता, अलमनुग्रहीता सब्रह्मचारिणाम् । मुक्त्वा भिक्षवस्तथागतं नान्यः शक्तः पूर्णं मैत्रायणीपुत्रमर्थतो वा व्यञ्जनतो वा पर्यादातुम् । तत्किं मन्यध्वे भिक्षवो ममैवायं सद्धर्मपरिग्राहक इति? न खलु पुनर्भिक्षवो युष्माभिरेवं द्रष्टव्यम् । तत्कस्य हेतोः? अभिजानाम्यहं भिक्षवो ऽतीते ऽध्वनि नवनवतीनां बुद्धकोटीनाम्, यत्र अनेनैव तेषां बुद्धानां भगवतां शासने सद्धर्मः परिगृहीतः । तद्यथापि नाम मम एतर्हि सर्वत्र चाग्र्यो धर्मकथिकानामभूत्, सर्वत्र च शून्यतागतिं गतो ऽभूत् । सर्वत्र च प्रतिसंविदां लाभी अभूत्, सर्वत्र च बोधिसत्त्वाभिज्ञासु गतिं गतो ऽभूत् । सुविनिश्चितधर्मदेशको निर्विचिकित्सधर्मदेशकः परिशुद्धधर्मदेशकश्चाभूत् । तेषां च बुद्धानां भगवतां शासने यावदायुष्प्रमाणं ब्रह्मचर्यं चरितवान् । सर्वत्र च श्रावक इति संज्ञायते स्म । स खल्वनेनोपायेन अप्रमेयाणामसंख्येयानां सत्त्वकोटीनयुतशतसहस्राणामर्थमकार्षीत्, अप्रमेयानसंख्येयांश्च सत्त्वान् परिपाचितवाननुत्तरायां सम्यक्संबोधौ । सर्वत्र च बुद्धकृत्येन सत्त्वानां प्रत्युपस्थितो ऽभूत् । सर्वत्र चात्मनो बुद्धक्षेत्रं परिशोधयति स्म । सत्त्वानां च परिपाकायाभियुक्तो ऽभूत् । एषामपि भिक्षवो विपश्यिप्रमुखानां सप्तानां तथागतानां येषामहं सप्तमः, एष एवाग्र्यो धर्मकथिकानामभूत् ॥
यदपि तद्भिक्षवो भविष्यत्यनागते ऽध्वनि अस्मिन् भद्रकल्पे चतुर्भिर्बुद्धैरूनं बुद्धसहस्रम्, तेषामपि शासने एष एव पूर्णो मैत्रायणीपुत्रो ऽग्र्यो धर्मकथिकानां भविष्यति, सद्धर्मपरिग्राहकश्च भविष्यति । एवमनागते ऽध्वनि अप्रमेयाणामसंख्येयानां बुद्धानां भगवतां सद्धर्ममाधारयिष्यति, अप्रमेयाणामसंख्येयानां सत्त्वानामर्थं करिष्यति, अप्रमेयानसंख्येयांश्च सत्त्वान् परिपाचयिष्यत्यनुत्तरायां सम्यक्संबोधौ । सततसमितं चाभियुक्तो भविष्यत्यात्मनो बुद्धक्षेत्रपरिशुद्धये सत्त्वपरिपाचनाय । स इमामेवंरूपां बोधिसत्त्वचर्यां परिपूर्य अप्रमेयैरसंख्येयैः कल्पैरनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । धर्मप्रभासो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके भविष्यति विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । अस्मिन्नेव बुद्धक्षेत्र उत्पत्स्यते ॥
तेन खलु पुनर्भिक्षवः समयेन गङ्गानदीवालुकोपमास्त्रिसाहस्रमहासाहस्रलोकधातव एकं बुद्धक्षेत्रं भविष्यति । समं पाणितलजातं सप्तरत्नमयमपगतपर्वतं सप्तरत्नमयैः कूटागारैः परिपूर्णं भविष्यति । देवविमानानि चाकाशस्थितानि भविष्यन्ति । देवा अपि मनुष्यान् द्रक्ष्यन्ति, मनुष्या अपि देवान् द्रक्ष्यन्ति । तेन खलु पुनर्भिक्षवः समयेन इदं बुद्धक्षेत्रमपगतपापं भविष्यति अपगतमातृग्रामं च । सर्वे च ते सत्त्वा औपपादुका भविष्यन्ति ब्रह्मचारिणो मनोमयैरात्मभावैः स्वयंप्रभा ऋद्धिमन्तो वैहायसंगमा वीर्यवन्तः स्मृतिमन्तः प्रज्ञावन्तः सुवर्णवर्णैः समुच्छ्रयैर्द्वात्रिंशद्भिर्महापुरुषलक्षणैः समलंकृतविग्रहाः । तेन खलु पुनर्भिक्षवः समयेन तस्मिन् बुद्धक्षेत्रे तेषां सत्त्वानां द्वावाहारौ भविष्यतः । कतमौ द्वौ? यदुत धर्मप्रीत्याहारो ध्यानप्रीत्याहारश्च । अप्रमेयाणि चासंख्येयानि बोधिसत्त्वकोटीनयुतशतसहस्राणि भविष्यन्ति सर्वेषां च महाभिज्ञाप्राप्तानां प्रतिसंविद्गतिंगतानां सत्त्वाववादकुशलानाम् । गणनासमतिक्रान्ताश्चास्य श्रावका भविष्यन्ति महर्द्धिका महानुभावा अष्टविमोक्षध्यायिनः । एवमपरिमितगुणसमन्वागतं तद् बुद्धक्षेत्रं भविष्यति । रत्नावभासश्च नाम स कल्पो भविष्यति । सुविशुद्धा च नाम सा लोकधातुर्भविष्यति । अप्रमेयानसंख्येयांश्चास्य कल्पानायुष्प्रमाणं भविष्यति । परिनिर्वृतस्य च तस्य भगवतो धर्मप्रभासस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य सद्धर्मश्चिरस्थायी भविष्यति । रत्नमयैश्च स्तूपैः सा लोकधातुः स्फुटा भविष्यति । एवमचिन्त्यगुणसमन्वागतं भिक्षवस्तस्य भगवतस्तद्बुद्धक्षेत्रं भविष्यति ॥
इदमवोचद्भगवान् । इदं वदित्वा सुगतो ह्यथापरमेतदुवाच शास्ता -
शृणोथ मे भिक्षव एतमर्थं यथा चरी मह्य सुतेन चीर्णा ।
उपायकौशल्यसुशिक्षितेन यथा च चीर्णा इय बोधिचर्या

8.2

हीनाधिमुक्ता इम सत्त्व ज्ञात्वा उदारयाने च समुत्त्रसन्ति ।
ततु श्रावका भोन्तिमि बोधिसत्त्वाः प्रत्येकबोधिं च निदर्शयन्ति

8.3

उपायकौशल्यशतैरनेकैः परिपाचयन्ति बहुबोधिसत्त्वान् ।
एवं च भाषन्ति वयं हि श्रावका दूरे वयं उत्तममग्रबोधिया

8.4

एतां चरिं तेष्वनुशिक्षमाणाः परिपाकु गच्छन्ति हि सत्त्वकोट्यः ।
हीनाधिमुक्ताश्च कुसीदरूपा अनुपूर्व ते सर्वि भवन्ति बुद्धाः

8.5

अज्ञानचर्यां च चरन्ति एते वयं खलु श्रावक अल्पकृत्याः ।
निर्विण्ण सर्वासु च्युतोपपत्तिषु स्वकं च क्षेत्रं परिशोधयन्ति

8.6

सरागतामात्मनि दर्शयन्ति सदोषतां चापि समोहतां च ।
दृष्टीविलग्नांश्च विदित्व सत्त्वांस्तेषां पि दृष्टिं समुपाश्रयन्ति

8.7

एवं चरन्तो बहु मह्य श्रावकाः सत्त्वानुपायेन विमोचयन्ति ।
उन्मादु गच्छेयु नरा अविद्वसू स चैव सर्वं चरितं प्रकाशयेत्

8.8

पूर्णो अयं श्रावक मह्य भिक्षवश्चरितो पुरा बुद्धसहस्रकोटिषु ।
तेषां च सद्धर्म परिग्रहीषीद् बौद्धं इदं ज्ञान गवेषमाणः

8.9

सर्वत्र चैषो अभु अग्रश्रावको बहुश्रुतश्चित्रकथी विशारदः ।
संहर्षकश्चा अकिलासि नित्यं सद बुद्धकृत्येन च प्रत्युपस्थितः

8.10

महाअभिज्ञासु सदा गतिंगतः प्रतिसंविदानां च अभूषि लाभी ।
सत्त्वान चो इन्द्रियगोचरज्ञो धर्मं च देशेति सदा विशुद्धम्

8.11

सद्धर्म श्रेष्ठं च प्रकाशयन्तः परिपाचयी सत्त्वसहस्रकोट्यः ।
अनुत्तरस्मिन्निह अग्रयाने क्षेत्रं स्वकं श्रेष्ठु विशोधयन्तः

8.12

अनागते चापि तथैव अध्वे पूजेष्यती बुद्धसहस्रकोट्यः ।
सद्धर्म श्रेष्ठं च परिग्रहीष्यति स्वकं च क्षेत्रं परिशोधयिष्यति

8.13

देशेष्यती धर्म सदा विशारदो उपायकौशल्यसहस्रकोटिभिः ।
बहूंश्च सत्त्वान् परिपाचयिष्यति सर्वज्ञज्ञानस्मि अनास्रवस्मिन्

8.14

सो पूज कृत्वा नरनायकानां सद्धर्म श्रेष्ठं सद धारयित्वा ।
भविष्यती बुद्ध स्वयंभु लोके धर्मप्रभासो दिशतासु विश्रुतः

8.15

क्षेत्रं च तस्य सुविशुद्ध भेष्यती रत्नान सप्तान सदा विशिष्टम् ।
रत्नवभासश्च स कल्पु भेष्यती सुविशुद्ध सो भेष्यति लोकधातुः

8.16

बहुबोधिसत्त्वान सहस्रकोट्यो महाअभिज्ञासु सुकोविदानाम् ।
येहि स्फुटो भेष्यति लोकधातुः सुविशुद्ध शुद्धेहि महर्द्धिकेहि

8.17

अथ श्रावकाणां पि सहस्रकोट्यः संघस्तदा भेष्यति नायकस्य ।
महर्द्धिकानष्टविमोक्षध्यायिनां प्रतिसंविदासू च गतिंगतानाम्

8.18

सर्वे च सत्त्वास्तहि बुद्धक्षेत्रे शुद्धा भविष्यन्ति च ब्रह्मचारिणः ।
उपपादुकाः सर्वि सुवर्णवर्णा द्वात्रिंशतीलक्षणरूपधारिणः

8.19

आहारसंज्ञा च न तत्र भेष्यति अन्यत्र धर्मे रति ध्यानप्रीतिः ।
न मातृग्रामो ऽपि च तत्र भेष्यति न चाप्यपायान च दुर्गतीभयम्

8.20

एतादृशं क्षेत्रवरं भविष्यति पूर्णस्य संपूर्णगुणान्वितस्य ।
आकीर्ण सत्त्वेहि सुभद्रकेहि यत्किंचिमात्रं पि इदं प्रकाशितम्

8.21

अथ खलु तेषां द्वादशानां वशीभूतशतानामेतदभवत् - आश्चर्यप्राप्त स्म, अद्भुतप्राप्ताः स्म । सचेदस्माकमपि भगवान् यथेमे ऽन्ये महाश्रावका व्याकृताः, एवमस्माकमपि तथागतः पृथक् पृथग् व्याकुर्यात् । अथ खलु भगवांस्तेषां महाश्रावकाणां चेतसैव चेतःपरिवितर्कमाज्ञाय आयुष्मन्तं महाकाश्यपमामन्त्रयते स्म - इमानि काश्यप द्वादश वशीभूतशतानि, येषामहमेतर्हि संमुखीभूतः । सर्वाण्येतान्यहं काश्यप द्वादश वशीभूतशतान्यनन्तरं व्याकरोमि । तत्र काश्यप कौण्डिन्यो भिक्षुर्महाश्रावको द्वाषष्टीनां बुद्धकोटीनयुतशतसहस्राणां परेण परतरं समन्तप्रभासो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके भविष्यति, विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । तत्र काश्यप अनेनैकेन नामधेयेन पञ्च तथागतशतानि भविष्यन्ति । अतः पञ्च महाश्रावकशतानि सर्वाण्यनन्तरमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते । सर्वाण्येव समन्तप्रभासनामधेयानि भविष्यन्ति । तद्यथा गयाकाश्यपो नदीकाश्यपः उरुबिल्वकाश्यपः कालः कालोदायी अनिरुद्धो रेवतः कप्फिणो बक्कुलश्चुन्दः स्वागतः इत्येवंप्रमुखानि पञ्च वशीभूतशतानि ॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
कौण्डिन्यगोत्रो मम श्रावको ऽयं तथागतो भेष्यति लोकनाथः ।
अनागते ऽध्वानि अनन्तकल्पे विनेष्यते प्राणिसहस्रकोट्यः

8.22

समन्तप्रभो नाम जिनो भविष्यति क्षेत्रं च तस्य परिशुद्ध भेष्यति ।
अनन्तकल्पस्मि अनागते ऽध्वनि दृष्ट्वान बुद्धान् बहवो ह्यनन्तान्

8.23

प्रभास्वरो बुद्धबलेनुपेतो विघुष्टशब्दो दशसु द्दिशासु ।
पुरस्कृतः प्राणिसहस्रकोटिभिर्देशेष्यती उत्तममग्रबोधिम्

8.24

ततु बोधिसत्त्वा अभियुक्तरूपा विमानश्रेष्ठान्यभिरुह्य चापि ।
विहरन्त तत्र अनुचिन्तयन्ति विशुद्धशीला सद साधुवृत्तयः

8.25

श्रुत्वान धर्मं द्विपदोत्तमस्य अन्यानि क्षेत्राण्यपि चो सदा ते ।
व्रजन्ति ते बुद्धसहस्रवन्दकाः पूजां च तेषां विपुलां करोन्ति

8.26

क्षेणेन ते चापि तदास्य क्षेत्रं प्रत्यागमिष्यन्ति विनायकस्य ।
प्रभासनामस्य नरोत्तमस्य चर्याबलं तादृशकं भविष्यति

8.27

षष्टिः सहस्रा परिपूर्णकल्पानायुष्प्रमाणं सुगतस्य तस्य ।
ततश्च भूयो द्विगुणेन तायिनः परिनिर्वृतस्येह स धर्म स्थास्यति

8.28

प्रतिरूपकश्चास्य भविष्यते पुनस्त्रिगुणं ततो एत्तकमेव कालम् ।
सद्धर्मभ्रष्टे तद तस्य तायिनो दुखिता भविष्यन्ति नरा मरू च

8.29

जिनान तेषां समनामकानां समन्तप्रभाणां पुरुषोत्तमानाम् ।
परिपूर्ण पञ्चाशत नायकानां एते भविष्यन्ति परंपराय

8.30

सर्वेष एतादृशकाश्च व्यूहा ऋद्धिबलं च तथ बुद्धक्षेत्रम् ।
गणश्च सद्धर्म तथैव ईदृशः सद्धर्मस्थानं च समं भविष्यति

8.31

सर्वेषमेतादृशकं भविष्यति नामं तदा लोकि सदेवकस्मिन् ।
यथा मया पूर्वि प्रकीर्तितासीत् समन्तप्रभासस्य नरोत्तमस्य

8.32

परंपरा एव तथान्यमन्यं ते व्याकरिष्यन्ति हितानुकम्पी ।
अनन्तरायं मम अद्य भेष्यति यथैव शासाम्यहु सर्वलोकम्

8.33

एवं खु एते त्वमिहाद्य काश्यप धारेहि पञ्चाशतनूनकानि ।
वशिभूत ये चापि ममान्यश्रावकाः कथयाहि चान्येष्वपि श्रावकेषु

8.34

अथ खलु तानि पञ्चार्हच्छतानि भगवतः संमुखमात्मनो व्याकरणानि श्रुत्वा तुष्टा उदग्रा आत्तमनस प्रमुदिताः प्रीतिसौमनस्यजाता येन भगवांस्तेनोपसंक्रान्ताः । उपसंक्रम्य भगवतः पादयोः शिरोभिर्निपत्य एवमाहुः - अत्ययं वयं भगवन् देशयामो यैरस्माभिर्भगवन्नेवं सततसमितं चित्तं परिभावितम् - इदमस्माकं परिनिर्वाणम् । परिनिर्वृता वयमिति । यथापीदं भगवन् अव्यक्ता अकुशला अविधिज्ञाः । तत्कस्य हेतोः? यैर्नाम अस्माभिर्भगवंस्तथागतज्ञाने ऽभिसंबोद्धव्ये एवंरूपेण परीत्तेन ज्ञानेन परितोषं गताः स्म । तद्यथापि नाम भगवन् कस्यचिदेव पुरुषस्य कंचिदेव मित्रगृहं प्रविष्टस्य मत्तस्य वा सुप्तस्य वा स मित्रो ऽनर्घमणिरत्नं वस्त्रान्ते बध्नीयात् - अस्येदं मणिरत्नं भवत्विति । अथ खलु भगवन् स पुरुष उत्थायासनात् प्रकामेत् । सो ऽन्यं जनपदप्रदेशं प्रपद्येत । स तत्र कृच्छ्रप्राप्तो भवेत् । आहारचीवरपर्येष्टिहेतोः कृच्छ्रमापद्येत । महता च व्यायामेन कथंचित् कंचिदाहारं प्रतिलभेत । तेन च संतुष्टो भवेदात्तमनस्कः प्रमुदितः । अथ खलु भगवंस्तस्य पुरुषस्य स पुराणमित्रः पुरुषो येन तस्य तदनर्घेयं मणिरत्नं वस्त्रान्ते बद्धम्, स तं पुनरेव पश्येत् । तमेवं वदेत् - किं त्वं भोः पुरुष कृच्छ्रमापद्यसे आहारचीवरपर्येष्टिहेतोः, यदा यावद् भोः पुरुष मया तव सुखविहारार्थं सर्वकामनिवर्तकमनर्घेयं मणिरत्नं वस्त्रान्ते उपनिबद्धम् । निर्यातितं ते भोः पुरुष ममैतन्मणिरत्नम् । तदेवमुपनिबद्धमेव भोः पुरुष वस्त्रान्ते मणिरत्नम् । न च नाम त्वं भोः पुरुष प्रत्यवेक्षसे - किं मम बद्धं येन वा बद्धं को हेतुः किंनिदानं वा ( वैद्य 135 ) बद्धमेतत्? बालजातीयस्त्वं भोः पुरुष यस्त्वं कृच्छ्रेण आहारचीवरं पर्येषमाणस्तुष्टिमापद्यसे । गच्छ त्वं भोः पुरुष एतन्मणिरत्नं ग्रहाय महानगरं गत्वा परिवर्तयस्त्व । तेन च धनेन सर्वाणि धनकरणीयानि कुरुष्वेति ॥
एवमेव भगवन् अस्माकमपि तथागतेन पूर्वमेव बोधिसत्त्वचर्यां चरता सर्वज्ञताचित्तान्युत्पादितान्यभूवन् । तानि च वयं भगवन् न जानीमो न बुध्यामहे । ते वयं भगवन् अर्हद्भूमौ निर्वृताः स्म इति संजानीमः । वयं कृच्छ्रं जीवामः, यद्वयं भगवन् एवं परीत्तेन ज्ञानेन परितोषमापद्यामः । सर्वज्ञज्ञानप्रणिधानेन सदा अविनष्टेन । ते वयं भगवंस्तथागतेन संबोध्यमानाः - मा यूयं भिक्षव एतन्निर्वाणं मन्यध्वम् । संविद्यन्ते भिक्षवो युष्माकं संताने कुशलमूलानि यानि मया पूर्वं परिपाचितानि । एतर्हि च ममैवेदमुपायकौशल्यं धर्मदेशनाभिलापेन यद् यूयमेतर्हि निर्वाणमिति मन्यध्वे । एवं च वयं भगवता संबोधयित्वा अद्यानुत्तरायां सम्यक्संबोधौ व्याकृताः ॥
अथ खलु तानि पञ्च वशीभूतशतान्याज्ञातकौण्डिन्यप्रमुखानि तस्यां वेलायमिमा गाथा अभाषन्त -
हृष्टा प्रहृष्टा स्म श्रुणित्व एतां आश्वासनामीदृशिकामनुत्तराम् ।
यं व्याकृताः स्म परमाग्रबोधये नमो ऽस्तु ते नायक नन्तचक्षुः

8.35

देशेमहे अत्ययु तुभ्यमन्तिके यथैव बाला अविदू अजानकाः ।
यं वै वयं निर्वृतिमात्रकेण परितुष्ट आसीत् सुगतस्य शासने

8.36

यथापि पुरुषो भवि कश्चिदेव प्रविष्ट स स्यादिह मित्रशालम् ।
मित्रं च तस्य धनवन्तमाढ्यं सो तस्य दद्याद् बहू खाद्यभोज्यम्

8.37

संतर्पयित्वान च भोजनेन अनेकमूल्यं रतनं च दद्यात् ।
बद्ध्वान्तरीये वसनान्ति ग्रन्थिं दत्वा च तस्येह भवेत तुष्टः

8.38

सो चापि प्रक्रान्तु भवेत बालो उत्थाय सो ऽन्यं नगरं व्रजेत ।
सो कृच्छ्रप्राप्तः कृपणो गवेषी आहार पर्येषति खिद्यमानः

8.39

पर्येषितः भोजननिर्वृतः स्याद् भक्तं उदारं अविचिन्तयन्तः ।
तं चापि रत्नं हि भवेत विस्मृतं बद्ध्वान्तरीये स्मृतिरस्य नास्ति

8.40

तमेव सो पश्यति पूर्वमित्रो येनास्य दत्तं रतनं गृहे स्वे ।
तमेव सुष्ठू परिभाषयित्वा दर्शेति रत्नं वसनान्तरस्मिन्

8.41

दृष्ट्वा च सो परमसुखैः समर्पितो रत्नस्य तस्यो अनुभाव ईदृशः ।
महाधनी कोशबली च सो भवेत् समर्पितः कामगुणेहि पञ्चहि

8.42

एमेव भगवन् वयमेवरूपम् अजानमाना प्रणिधानपूर्वकम् ।
तथागतेनैव इदं हि दत्तं भवेषु पूर्वेष्विह दीर्घरात्रम्

8.43

वयं च भगवन्निह बालबुद्धयो अजानकाः स्मो सुगतस्य शासने ।
निर्वाणमात्रेण वयं हि तुष्टा न उत्तरी प्रार्थयि नापि चिन्तयी

8.44

वयं च संबोधित लोकबन्धुना न एष एतादृश काचि निर्वृतिः ।
ज्ञानं प्रणीतं पुरुषोत्तमानां या निर्वृतीयं परमं च सौख्यम्

8.45

इदं चुदारं विपुलं बहूविधं अनुत्तरं व्याकरणं च श्रुत्वा ।
प्रीता उदग्रा विपुला स्म जाताः परस्परं व्याकरणाय नाथ

मूल पाठ: Saddharmapuṇḍarīkasūtra · Edition: P.L. Vaidya, Darbhanga : The Mithila Institute, 1960 (Buddhist Sanskrit Texts, 6) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc