भाषा

ENहिગુ
ग्रंथ पाठ

ऋतुसंहार · अध्याय 4

4.1

नवप्रवालोद्गमसस्यरम्यः प्रफुल्ललोध्रः परिपक्वशालिः
विलीनपद्मः प्रपतत्तुषारो हेमन्तकालः समुपागतो ऽयम् ॥

4.2

मनोहरैश् चन्दनरागगौरैस् तुषारकुन्देन्दुनिभैश् च हारैः
विलासिनीनां स्तनशालिनीनां नालंक्रियन्ते स्तनमण्डलानि ॥

4.3

न बाहुयुग्मेषु विलासिनीनां प्रयान्ति सङ्गं वलयाङ्गदानि
नितम्बबिम्बेषु नवं दुकूलं तन्वंशुकं पीनपयोधरेषु ॥

4.4

काञ्चीगुणैः काञ्चनरत्नचित्रैर् नो भूषयन्ति प्रमदा नितम्बान्
न नूपुरैर्हंसरुतं भजद्भिः पादाम्बुजान्य् अम्बुजकान्तिभाञ्जि ॥

4.5

गात्राणि कालीयकचर्चितानि सपत्त्रलेखानि मुखाम्बुजानि
शिरांसि कालागुरुधूपितानि कुर्वन्ति नार्यः सुरतोत्सवाय ॥

4.6

रतिश्रमक्षामविपाण्डुवक्त्राः सम्प्राप्तहर्षाभ्युदयास् तरुण्यः
हसन्ति नोच्चैर् दशनाग्रभिन्नान् प्रपीड्यमानान् अधरान् अवेक्ष्य ॥

4.7

पीनस्तनोरःस्थलभागशोभाम् आसाद्य तत्पीडनजातखेदः
तृणाग्रलग्नैस्तुहिनैः पतद्भिर् आक्रन्दतीवोषसि शीतकालः ॥

4.8

प्रभूतशालिप्रसवैश्चितानि मृगाङ्गनायूथविभूषितानि
मनोहरक्रौञ्चनिनादितानि सीमान्तराण्य् उत्सुकयन्ति चेतः ॥

4.9

प्रफुल्लनीलोत्पलशोभितानि सोन्मादकादम्बविभूषितानि
प्रसन्नतोयानि सुशीतलानि सरांसि चेतांसि हरन्ति पुंसाम् ॥

4.10

मार्गं समीक्ष्यातिनिरस्तनीरं प्रवासखिन्नं पतिमुद्वहन्त्यः
अवेक्ष्यमाणा हरिणेक्षणाक्ष्यः प्रबोधयन्तीव मनोरथानि ॥

4.11

पाकं व्रजन्ती हिमजातशीतैर् आधूयमाना सततं मरुद्भिः
प्रिये प्रियङ्गुः प्रियविप्रयुक्ता विपाण्डुतां याति विलासिनीव ॥

4.12

पुष्पासवामोदसुगन्धिवक्त्रो निःश्वासवातैः सुरभीकृताङ्गः
परस्पराङ्गव्यतिषङ्गशायी शेते जनः कामरसानुविद्धः ॥

4.13

दन्तच्छदैः सव्रणदन्तचिह्नैः स्तनैश्च पाण्यग्रकृताभिलेखैः
संसूच्यते निर्दयमङ्गनानां रतोपभोगो नवयौवनानाम् ॥

4.14

काचिद्विभूषयति दर्पणसक्तहस्ता बालातपेषु वनिता वदनारविन्दम्
दन्तच्छदं प्रियतमेन निपीतसारं दन्ताग्रभिन्नम् अवकृष्य निरीक्षते च ॥

4.15

अन्या प्रकामसुरतश्रमखिन्नदेहा रात्रिप्रजागरविपाटलनेत्रपद्मा
स्रस्तांसदेशललिताकुलकेशपाशा निद्रां प्रयाति मृदुसूर्यकराभितप्ता ॥

4.16

निर्माल्यदाम परिभुक्तमनोज्ञगन्धं मूर्ध्नो ऽपनीय घननीलशिरोरुहान्ताः
पीनोन्नतस्तनभरानतगात्रयष्ट्यः कुर्वन्ति केशरचनामपरास्तरुण्यः ॥

4.17

अन्या प्रियेण परिभुक्तमवेक्ष्य गात्रं हर्षान्विता विरचिताधरचारुशोभा
कूर्पासकं परिदधाति नखक्षताङ्गी व्यालम्बिनीलललितालककुञ्चिताक्षी ॥

4.18

अन्याश्चिरं सुरतकेलिपरिश्रमेण खेदं गताः प्रशिथिलीकृतगात्रयष्ट्यः
संहृष्यमाणपुलकोरुपयोधरान्ता अभ्यञ्जनं विदधति प्रमदाः सुशोभाः ॥

4.19

बहुगुणरमणीयो योषितां चित्तहारी परिणतबहुशालिव्याकुलग्रामसीमा
विनिपतिततुषारः क्रौञ्चनादोपगीतः प्रदिशतु हिमयुक्तः काल एषः सुखं वः ॥

मूल पाठ: Ṛtusaṃhāra · Edition: Kalidasagranthavali, Benares: Chaukhamba Surabharati Prakashan, 1980. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc