ग्रंथ पाठ
ऋग्वेद · अध्याय 9.048
9.048.01
तं त्वा नृम्णानि बिभ्रतं सधस्थेषु महो दिवः ।
चारुं सुकृत्ययेमहे ॥
9.048.02
संवृक्तधृष्णुम् उक्थ्यम् महामहिव्रतम् मदम् ।
शतम् पुरो रुरुक्षणिम् ॥
9.048.03
अतस् त्वा रयिम् अभि राजानं सुक्रतो दिवः ।
सुपर्णो अव्यथिर् भरत् ॥
9.048.04
विश्वस्मा इत् स्वर् दृशे साधारणं रजस्तुरम् ।
गोपाम् ऋतस्य विर् भरत् ॥
9.048.05
अधा हिन्वान इन्द्रियं ज्यायो महित्वम् आनशे ।
अभिष्टिकृद् विचर्षणिः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0