ऋग्वेद · अध्याय 9.044
प्र ण इन्दो महे तन ऊर्मिं न बिभ्रद् अर्षसि ।
अभि देवाँ अयास्यः ॥
मती जुष्टो धिया हितः सोमो हिन्वे परावति ।
विप्रस्य धारया कविः ॥
अयं देवेषु जागृविः सुत एति पवित्र आ ।
सोमो याति विचर्षणिः ॥
स नः पवस्व वाजयुश् चक्राणश् चारुम् अध्वरम् ।
बर्हिष्माँ आ विवासति ॥
स नो भगाय वायवे विप्रवीरः सदावृधः ।
सोमो देवेष्व् आ यमत् ॥
स नो अद्य वसुत्तये क्रतुविद् गातुवित्तमः ।
वाजं जेषि श्रवो बृहत् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0