भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 5.025

5.025.01

अच्छा वो अग्निम् अवसे देवं गासि स नो वसुः ।
रासत् पुत्र ऋषूणाम् ऋतावा पर्षति द्विषः ॥

5.025.02

स हि सत्यो यम् पूर्वे चिद् देवासश् चिद् यम् ईधिरे ।
होतारम् मन्द्रजिह्वम् इत् सुदीतिभिर् विभावसुम् ॥

5.025.03

स नो धीती वरिष्ठया श्रेष्ठया च सुमत्या ।
अग्ने रायो दिदीहि नः सुवृक्तिभिर् वरेण्य ॥

5.025.04

अग्निर् देवेषु राजत्य् अग्निर् मर्तेष्व् आविशन् ।
अग्निर् नो हव्यवाहनो ऽग्निं धीभिः सपर्यत ॥

5.025.05

अग्निस् तुविश्रवस्तमं तुविब्रह्माणम् उत्तमम् ।
अतूर्तं श्रावयत्पतिम् पुत्रं ददाति दाशुषे ॥

5.025.06

अग्निर् ददाति सत्पतिं सासाह यो युधा नृभिः ।
अग्निर् अत्यं रघुष्यदं जेतारम् अपराजितम् ॥

5.025.07

यद् वाहिष्ठं तद् अग्नये बृहद् अर्च विभावसो ।
महिषीव त्वद् रयिस् त्वद् वाजा उद् ईरते ॥

5.025.08

तव द्युमन्तो अर्चयो ग्रावेवोच्यते बृहत् ।
उतो ते तन्यतुर् यथा स्वानो अर्त त्मना दिवः ॥

5.025.09

एवाँ अग्निं वसूयवः सहसानं ववन्दिम ।
स नो विश्वा अति द्विषः पर्षन् नावेव सुक्रतुः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc