ऋग्वेद · अध्याय 5.023
अग्ने सहन्तम् आ भर द्युम्नस्य प्रासहा रयिम् ।
विश्वा यश् चर्षणीर् अभ्य् आ3सा वाजेषु सासहत् ॥
तम् अग्ने पृतनाषहं रयिं सहस्व आ भर ।
त्वं हि सत्यो अद्भुतो दाता वाजस्य गोमतः ॥
विश्वे हि त्वा सजोषसो जनासो वृक्तबर्हिषः ।
होतारं सद्मसु प्रियं व्यन्ति वार्या पुरु ॥
स हि ष्मा विश्वचर्षणिर् अभिमाति सहो दधे ।
अग्न एषु क्षयेष्व् आ रेवन् नः शुक्र दीदिहि द्युमत् पावक दीदिहि ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0