भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 2.041

2.041.01

वायो ये ते सहस्रिणो रथासस् तेभिर् आ गहि ।
नियुत्वान् सोमपीतये ॥

2.041.02

नियुत्वान् वायव् आ गह्य् अयं शुक्रो अयामि ते ।
गन्तासि सुन्वतो गृहम् ॥

2.041.03

शुक्रस्याद्य गवाशिर इन्द्रवायू नियुत्वतः ।
आ यातम् पिबतं नरा ॥

2.041.04

अयं वाम् मित्रावरुणा सुतः सोम ऋतावृधा ।
ममेद् इह श्रुतं हवम् ॥

2.041.05

राजानाव् अनभिद्रुहा ध्रुवे सदस्य् उत्तमे ।
सहस्रस्थूण आसाते ॥

2.041.06

ता सम्राजा घृतासुती आदित्या दानुनस् पती ।
सचेते अनवह्वरम् ॥

2.041.07

गोमद् ऊ षु नासत्याश्वावद् यातम् अश्विना ।
वर्ती रुद्रा नृपाय्यम् ॥

2.041.08

न यत् परो नान्तर आदधर्षद् वृषण्वसू ।
दुःशंसो मर्त्यो रिपुः ॥

2.041.09

ता न आ वोळ्हम् अश्विना रयिम् पिशङ्गसंदृशम् ।
धिष्ण्या वरिवोविदम् ॥

2.041.10

इन्द्रो अङ्ग महद् भयम् अभी षद् अप चुच्यवत् ।
स हि स्थिरो विचर्षणिः ॥

2.041.11

इन्द्रश् च मृळयाति नो न नः पश्चाद् अघं नशत् ।
भद्रम् भवाति नः पुरः ॥

2.041.12

इन्द्र आशाभ्यस् परि सर्वाभ्यो अभयं करत् ।
जेता शत्रून् विचर्षणिः ॥

2.041.13

विश्वे देवास आ गत शृणुता म इमं हवम् ।
एदम् बर्हिर् नि षीदत ॥

2.041.14

तीव्रो वो मधुमाँ अयं शुनहोत्रेषु मत्सरः ।
एतम् पिबत काम्यम् ॥

2.041.15

इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः ।
विश्वे मम श्रुता हवम् ॥

2.041.16

अम्बितमे नदीतमे देवितमे सरस्वति ।
अप्रशस्ता इव स्मसि प्रशस्तिम् अम्ब नस् कृधि ॥

2.041.17

त्वे विश्वा सरस्वति श्रितायूंषि देव्याम् ।
शुनहोत्रेषु मत्स्व प्रजां देवि दिदिड्ढि नः ॥

2.041.18

इमा ब्रह्म सरस्वति जुषस्व वाजिनीवति ।
या ते मन्म गृत्समदा ऋतावरि प्रिया देवेषु जुह्वति ॥

2.041.19

प्रेतां यज्ञस्य शम्भुवा युवाम् इद् आ वृणीमहे ।
अग्निं च हव्यवाहनम् ॥

2.041.20

द्यावा नः पृथिवी इमं सिध्रम् अद्य दिविस्पृशम् ।
यज्ञं देवेषु यच्छताम् ॥

2.041.21

आ वाम् उपस्थम् अद्रुहा देवाः सीदन्तु यज्ञियाः ।
इहाद्य सोमपीतये ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc